११ अस्वामि-विक्रय-प्रकरणम्

अथास्वामिविक्रयप्रकरणम् ।

उक्तो द्रव्याणां स्वत्वसंबन्धः । इदानीम् अस्वामिविक्रयं दर्शयति ।

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये

अन्येनास्वामिना विक्रीतं द्रव्यं दृष्ट्वा स्वामी गृह्णीयात् । क्रेतुश् च दोषः स्यात् अप्रकाशिते क्रये । प्रकाशक्रये तु मूल्यमात्रप्रणाशः, न तु स्तेयदोषः । क्व तर्हि दोषः । हीनाद् दासादिहस्ताद् गृह्णतः । तथा रहः प्रच्छन्नम् । हीनमूल्ये च स्तेयसंबावनया गृहीते ।

वेलाहीने च तस्करः ॥ २.१७२ ॥

वेलाहीने च तस्करः । क्रेता स्याद् इत्य् अर्थः । तथा च नारदः ।

द्रव्यम् अस्वामिविक्रीतं द्रव्यस्वामी समाप्नुयात् ।
प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहः कृते ॥
अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥ इति (न्स्म् ७.२–३) ॥ १७२ ॥

किं च ।

नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयम् अर्पयेत् ॥ २.१७३ ॥

नष्टं वापहृतं वा द्रव्यम् अन्येन गृहीतम् आसाद्योपलभ्य द्रव्यग्राहिणं हर्तायम् इति व्यपदिश्य राजपुरुषैर् व्यवहारनिर्णयाय ग्राययेत् । यदि तु राजकीयासंनिधानं देशकालातिपत्तिश् चाशङ्क्येत, तदा स्वयम् एव गृहीत्वा राज्ञे हर्तारम् अर्पयेत् । ननु एतत् स्वभावसिद्धत्वाद् एवावाच्यम् । सत्यम् । स्वातन्त्र्येण गृह्णतः स्तेनं च ददतो दोषाभावज्ञापनार्थम् एतत् । अन्या व्याख्या- नष्टापहृतम् आसाद्य क्रीत्वा स्वामिना प्रार्थ्यमाने हर्तारं ग्राहयेत् । मूल्यम् अर्पयेद् इत्य् अर्थः । देशकालातिपत्तौ वा प्रकाशक्रयेणापि गृहीत्वा स्वयम् अर्पयेत् । तथाप्य् अदोष इत्य् अभिप्रायः ॥ १७३ ॥

हर्तृतया च राजन्य् आवेदितस्य ।

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तत्र विक्रयी ॥ २.१७४ ॥

विक्रेतारं दर्शयित्वा क्रेतुर् निर्दोषत्वम् । स्वामिनश् च तदा द्रव्यलाभः । विक्रयिणश् च हस्तात् क्रेतुर् मूल्यप्राप्तिः । दण्डप्राप्तिश् च राज्ञ इत्य् अवसेयम् ॥ १७४ ॥

कथं पुनः स्वाम्यवगतिः । उच्यते ।

आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तत्र राज्ञस् तेनाप्य् अभाविते ॥ २.१७५ ॥

आगमेन लेख्यादिना प्रकाशम् अस्खलितचिरभोगेन वा नष्टं द्रव्यम् अन्यहस्तगतं मदीयम् इत्य् एव भाव्यम् । अतः प्रकारद्वयाद् अन्यथा मदीयम् इति वदतो विवादीभूतद्रव्यात् पञ्चबन्धो भागो दमः स्यात् । तच् च द्रव्यम् इतरेणापि पूर्वोक्तप्रकारद्वयेनात्मीयम् इत्य् अभाव्यं राजगाम्य् अवसेयम् ॥ १७५ ॥

यतश् चैतद् एवम्, अतः ।

हृतं प्रनष्टं यो द्रव्यं परहस्तद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७६ ॥

स्पष्टार्थः श्लोकः ॥ १७६ ॥

किं च ।

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी लभेत परतो नृपः ॥ २.१७७ ॥

अर्वाक् संवत्सरात् स्वामी गृह्णीयात् । परतो नृपतिर् गृह्णीयात् ॥ १७७ ॥

पारितोषिकान् राज्ञे ।

पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥ २.१७८ ॥

इत्य् अस्वामिविक्रयप्रकरणम् ।

**