१० स्वामि-पाल-विवाद-प्रकरणम्

अथ स्वामिपालविवादप्रकरणम् ।

यदि तु पशुपालापराधात् स्वाम्यपराधाद् वा पशवः सस्योपघातं कुर्युः, तत्र कथम् । तत्रापि हि ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ १६३ ॥

कार्षापणविंशतिभागो माषः । स्पष्टम् अन्यत् ॥ १६३ ॥

उपहत्य प्रपलायताम् एवम् । यदि तु तत्रैवोपविशेयुः, ततः ।

भक्षयित्वोपविष्टानां द्विगुणो ऽवसतां दमः ।
समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६४ ॥

भक्षयित्वोपविष्टानाम् अवसतां पूर्वोक्तद्विगुणो दण्डः कार्यः । वसतां तु चतुर्गुणः स्मृतियन्तरात् । यच् चैतत् क्षेत्रोपघाते निरूपितं, तद् एषां महिष्यादीनां विवीते ऽपि समम्, तथैवेत्य् अर्थः । विवीते च गोप्रचारक्षेत्रे खरोष्ट्रं महिषीसमम् । एवं पीडानुसाराद् धस्त्यादिष्व् अपि दण्डकल्पना ॥ १६४ ॥

राजदण्डवच् च ।

**
यावत् सस्यं विनश्येत् तावत् क्षेत्री फलम् लभेत् ।
पालस् ताड्येत गोमी तु पूर्ववद् दण्डम् अर्हति ॥ २.१६५ ॥

अत्रापवादः ।

पथिग्रामविवीतान्तक्षेत्रे दोषो न विद्यते ।
अकामतः

इति छेदः । ग्रामान्ते विवीतान्ते वा यत् क्षेत्रम्, तत्र प्रमादाद् अवतीर्णेषु महिष्यादिषु नापराधः ॥

अभिप्रायावतरणे त्व् आह ।

कामकारे चोरवद् दण्डम् अर्हति ॥ २.१६६ ॥

पालः स्वामी वा । यद् वोभाव् अपि ॥ १६६ ॥

उक्तग्रामसमीपादिव्यतिरेकेणापि ।

**
महोक्षोत्सृष्टपशवः सूतिकागन्तुकी च गौः ।
पालो येषां च ते मोच्या दैवराजपरिप्लुतः ॥ २.१६७ ॥

पालो येषां दैवराजपरिप्लुतः, ते मोच्या इति व्यवहितकल्पना । स्पष्टम् अन्यत् ॥ १६७ ॥

अयं च स्वामिपालयोर् अन्योन्यनियमः ।

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ २.१६८ ॥

परिच्छिन्नवेतनो दत्तवेतनो वा गोपः प्रातर् यथार्पितान् सायं प्रत्यर्पयेत् । अर्पणवचनाच् चासमर्पितप्रणाशे नापराधः गोपवचनं च पशून् इत्य् उपक्रमात् सर्वपशुपालोपलक्षणार्थम् । प्रमादेनोपेक्षया मृताः प्रनष्टा वा ये पशवः, ते च पालेनैव देयाः ॥ १६८ ॥

राजन्य् अनिवेदितस्य पूर्वोक्तम् । आवेदने पुनः ।

पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने धनम् एव च ॥ २.१६९ ॥

पालदोषाद् अत्र विनाशः संवृत्त इत्य् एवं राजन्य् आवेदिते ऽर्धत्रयोदशपणो दण्डः पालस्य । स्वल्पाशङ्कायां च विधीयते इत्य् उक्तम् ॥ १६९ ॥

किं च ।

ग्रामेच्छया गोप्रचारभूमी राजवशेन वा ।
द्विजस् तृणैधपुष्पाणि सर्वतः स्ववद् आहरेत् ॥ २.१७० ॥

स्पष्टार्थः श्लोकः ॥ १७० ॥

किं च ।

धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते कर्पटस्य स्यान् नगरस्य चतुःशतम् ॥ २.१७१ ॥

ग्रामनगरोभयधर्मयुक्तं कर्पटम् । स्पष्टम् अन्यत् ॥ १७१ ॥

इति स्वामिपालविवादप्रकरणम् ।

**