०९ सीमा-विवाद-प्रकरणम्

अथ सीमाविवादप्रकरणम् ।

क्षेत्रादीनां पृथक्त्वेनावस्थितानां संदेहापाकरणम् उक्तम् । क्षेत्रादीनाम् एव तु सीमाविवादे कथं स्याद् इति । उच्यते ।

सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः ।
गोपाः सीम्नः कृषाणो ऽन्ये सर्वे च वनगोचराः ॥ २.१५४ ॥

सीम्नो मर्यादाया विवादे संशये । विवादीभूतक्षेत्रस्य सामन्ताः सर्वतः समीपक्षेत्रिणः स्थविरा गणाश् च समूहानि चातुर्वैद्यादीनि, तेषाम् अपि हि सीमाज्ञातृत्वात् । यथाह बृहस्पतिः- “राजा क्षेत्रं दत्त्वा चातुर्वैद्यवणिग्वारिकसर्वग्रामीणतन्महत्तरस्वामिपुरुषाधिष्ठितं परिच्छिन्द्यात् । शासनं वा कुर्यात्” इति (बृस्म् १९.५) । अतो गणाः सीमाविवादे प्रमाणम् । किं च गोपाः गोपग्रहणं सर्वपशुपालोपलक्षणार्थम् । तथान्ये सीम्नः कृषाणः वृद्धहालिकाः । सर्वे च वनगोचराः व्याधशाकुनिकादयः ॥ १५४ ॥

नृपब्राह्मणाधिष्ठिताश् च ।

नयेयुर् एतैः सीमान्तं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षितम् ॥ २.१५५ ॥

तुषाङ्गारादीनि प्रच्छन्नचिह्नानि । निम्नस्थलद्रुमादीनि प्रकाशानि । एतैः सीमान्तं प्रणयेयुः प्रकर्षेणेदं सीमान्तं चिह्नैः संपादयेयुः । स्पष्टम् अन्यत् ॥ १५५ ॥

सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशाथ वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५६ ॥

समा अपक्षपतिताः । समाश् च ते ग्रामाश् च समग्रामाः । वाशब्दश् चशब्दार्थे । पूर्वोक्ताः क्षेत्रसामन्तादयः समग्रामाः सामन्ताश् च । एषां मध्ये चत्वारो ऽष्टौ, अथ वा दश । अथ वेति स्मृत्यन्तरोक्तकल्पार्थः । त्रयो द्वाव् एको वेति । ते च रक्तस्रग्वसनाः क्षितिधारिणो भूत्वा नयेयुः । रक्तकरवीरादिपुष्पमालिनः रक्तवाससश् च । क्षितिं मृदं मूर्ध्नि कुर्युः । अविशेषाभिधाने ऽपि चैतद् द्विजातीनाम् एव । शूद्राणां तु यथाह बृहस्पतिः- “यदि शूद्रो नेता स्यात् तं क्लैब्येनालंकारेणालंकृत्य शवभस्मना मुखं विलिप्याग्नेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायाम् अन्त्राणि प्रतिमुच्य सव्येन पाणिना सीमालोष्टं मूर्ध्नि धारयेत्” इति (बृस्म् १९.६) । अत्र चाग्नेयः पशुश् छागः । रक्तकर्पटवसनादिः क्लैब्यो ऽलंकारः । स्पष्टम् अन्यत् ॥ १५६ ॥

एते च सीमाप्रणेतारः ।

अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ।
अभावे ज्ञानचिह्नानां राजा सीम्नः प्रवर्तिता ॥ २.१५७ ॥

तुशब्दो निश्चयार्थः । उक्तचिह्नव्यभिचाराच् चिह्नान्तरदर्शनाद् वा स्पष्टीकृते ऽनृतवादित्वे राज्ञा मध्यमसाहसं पञ्चकार्षापणशतान्य् एकैकशो दण्ड्याः । राजवचनं तत्समक्षं सीमानयं यथा स्यात् । यदा प्रच्छन्नप्रकाशानि ज्ञानचिह्ननि न स्युः, तदा राजा प्रवर्तिता यदृच्छया सीमाकारक इत्य् अर्थः ॥ १५७ ॥

यो ऽयं क्षेत्रसीमाविधिर् उक्तः ।

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रहवेषु च ॥ २.१५८ ॥

उक्तमर्यादक्षेत्रादीनां च ।

मर्यादायाः प्रभेदे च क्षेत्रस्य हरणे तथा ।
सीमातिक्रमणे दण्डो ह्य् अधमोत्तममध्यमाः ॥ २.१५९ ॥

साहसदण्डा इति शेषः । मर्यादाभेदे प्रथमसाहसः सार्धद्विशतम् । क्षेत्रहरणे तूत्तमसाहसः साशीतिः पणसाहस्रः । सीमातिक्रमणे मध्यमः ॥ १५९ ॥

सर्वथा च परक्षेत्राद्यनपहरणप्राप्ताव् आह ।

न नीषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरेत् कूपः स्वल्पक्षेत्रो बहूदकः ॥ २.१६० ॥

खात उदकप्रवाहस्य प्रवृत्तस्य मार्गान्तरप्रवर्तनं सेतुः । कुल्येत्य् अर्थः । क्षेत्रमध्येन क्षेत्रान्तरप्रसेचनायानीयमानो यद्य् अल्पोपघातः कृत्स्नस्य निष्पत्तिबाहुल्याच् च कल्याणकारकः । ततः क्षेत्रस्वामिना न निवारणीयः । तथा चैतद् आ गोपालं प्रसिद्धम् एव- “परभूमिं हरेत् कूपः स्वल्पक्षेत्रो बहूदकः” इति । स्वल्पक्षेत्रमद्येन क्षेत्रान्तरप्रसेचनार्थं नीयमानाभिः कुल्याभिः परकीयाम् भूमिं “हरेत् कूपः” इति । अतः प्रवादाद् इदम् अवगच्छामः सेतुर् न प्रतिषेध्य इत् । यद् वास्यान्यो ऽर्थः । यस्य क्षेत्रे स्वल्पदोषो बहूदकः खन्यमानः कूपः स्यात्, तस्यासौ खन्यमानो राजोपकारकत्वेन क्षेत्रस्वामिनो भूमिं हरेद् इति ॥ १६० ॥

एवं च सति क्षेत्रस्वाम्यननुज्ञयापि सेतुप्रवृत्तिप्रसक्ताव् आह ।

स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ २.१६१ ॥

यत् तु स्वामिनार्पितं क्षेत्रं कर्षको हलाङ्कितं कृत्वा क्रोधादिना न कुर्यात्, न कारयेद् वा । तत्र कथम् इत्य् अपेक्षित आह ।

फालाहतम् अपि क्षेत्रं यो न कुर्यान् न कारयेत् ।
तं प्रदाप्याकृष्टशदं क्षेत्रम् अन्येन कारयेत् ॥ २.१६२ ॥
**

इति सीमाविवादप्रकरणम् ।

**