०८ दाय-विभाग-प्रकरणम्

अथ दायविभागप्रकरणम् ।

एवं प्रागुक्तानेकप्रकारार्जितस्य द्रव्यस्य ।

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११८ ॥

यदा ह्य् आश्रमान्तरं प्रपित्सुः पुत्राणां वा गुणवतां धर्मप्रवृत्तिसिद्ध्यर्थं कौतूहलाद् वा स्वद्रव्येण पुत्रान् विभजेत् संयोजयेद् इत्य् अर्थः । तदेच्छया यावद् यस्मै रोचते दातुं, तावद् एव तस्मै दद्यात्, न पुत्रेच्छया । न पुत्रैः पिता विभागं विशेषनियमं वा कारयितव्य इत्य् अर्थः । अत एव च ज्येष्ठं वा श्रेष्ठभागेनौचित्याद् योजयेद् ऊनं वाभ्यधिकं वा । अथ वा सर्वान् समांशिनः कुर्यात् । तत्र तथैव स्याद्, यथैव पितुर् इच्छेति पुत्राश्रयो विधिर् अनवद्यः ॥ ११८ ॥

स्नेहगुणाद्यनपेक्षं माध्यस्थेनैव ।

यदि दद्यात् समान् अंशान् कार्याः पत्न्यः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११९ ॥

समांशदानपक्षे प्रमीतभर्तृकाः पुत्रपौत्रपत्न्यः स्वपत्न्यश् च भर्तृभागार्हाः कार्याः, यासां भर्त्रा श्वशुरेण वा स्वयं वा स्त्रीधनं न दत्तम् । यद् वा यासां स्त्रीधनं न दत्तं, ताः स्त्रीधनसमांशिकाः कार्याः । “द्विसहस्रपरो दायः स्त्रियाः” इति स्मृत्यन्तरात् तावन्मात्रं प्रभूतधनत्वे ऽपि देयम् । स्वल्पे ऽपि समांशत्वेनैव । अन्ये त्व् अनपत्यानां नियोगाभिमुखत्वेन समांशताम् आहुः । तत् तु नियोगासंभवाद् अयुक्तम् । संभवन्नियोगानां तु नियोगांशत्वम् एव युक्तम् ॥ ११९ ॥

पितृद्रव्यानपेक्षस्यैव स्वकुटुम्बभरणादौ धर्मकार्ये च ।

शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक्क्रिया ।
ऊनाधिकविभक्तानां धर्मः पितृकृतः स्मृतः ॥ २.१२० ॥

अनीहमानस्यापि कालान्तराविरोधाय यत् किंचित् संमानमात्रं कृत्वा पृथक्करणं कार्यम् । ननु एवम् अपि यद्य् असौ ब्रूयात्- “न मया कृत्स्नो भागः समालब्धः, स मे दीयताम्” इति । अतो ऽस्त्य् एव विरोधः । नास्तीति ब्रूमः । कस्माद् । यस्माद् ऊनाधिकविभक्तानां पित्रा पुत्राणाम् इति शेषः । “धर्मः पितृकृतः स्मृतः” इति । विभागधर्मः पित्रा यः कृतः, स एव स्मृतो विहित इत्य् अर्थः । तस्माद् अविरोधः ॥ १२० ॥

स्वातन्त्र्येण तु ।

विभजेयुः सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ॥ २.१२१ ॥

ऋणम् अपनीयावशिष्टं विभजेयुः पुत्राः पित्रोर् ऊर्ध्वं रिक्थम् । सुतग्रहणम् औरसप्रतिपत्त्यर्थम् । माता च पिता च पितरौ । तयोः पित्रोर् ऊर्ध्वं मृतयोर् इत्य् अर्थः । पितुर् ऊर्ध्वं च पैतृकं मातुर् ऊर्धं च मातृकम् । रिक्थाभावे ऽप्य् ऋणम् अंशांशतो दद्युः । ऋणदाने च साम्यवचनाद् विभागे ऽपि साम्यम् इत्य् अवगम्यते । यत् तु स्मृत्यन्तरे,

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् । (म्ध् ९.११२)

इत्यादिविभागवैषम्यम् अवगम्यते, तद् भ्रातॄणां परस्परानुमत्या विज्ञेयम् । अन्ये तु गुणापेक्षं विभागवैषम्यवाक्यानां विषयं वर्णयन्ति कर्मार्थता च तस्य मन्यमानाः । तत् तु पुरुषार्थत्वाद् द्रव्यस्यायुक्तम् एवेति गम्यते । यानि त्व् अग्निहोत्राद्यकरणे द्रव्यापहरणादिवचनानि तान्य् अन्यायवर्तिपुरुषप्रशासनार्थानि, न तु द्रव्यस्य क्रत्वर्थताप्रतिपादकानि । अतो भ्रातॄणाम् एवेच्छया विभागवैषम्यम् । यत् त्व् अन्यायवर्तिना निरंशत्वं गौतमेनोक्तम्, तद् अप्य् “एकेषाम्” (ग्ध् २८.४०) इति वचनात् परमतत्वेनैवानुशासनमात्रप्रयोजनतया व्याख्येयम् इत्य् एष दिक् । यथा च पितुः पुत्राः समांशतो धनभागिनः, तथैव मातुर् दुहितरः । किं तु शेषम् ऋणाद् विभजेरन् । न त्व् अधनाया अप्य् ऋणं दद्युः । पुत्राणां तु मातृसंबन्धः नात्य् एव । न नास्ति । किं तु ताभ्यो दुहितृभ्य ऋते अभावे । अन्वयः पुत्रा इत्य् अर्थः । अन्ये तु ताभ्यो दुहितृभ्य ऋते तदीय एवान्वय इति वर्णयन्ति । तत् त्व् अयुक्तम् । “न जामये तान् वो रिक्थम् आरैक्” इत्य् मन्त्रवर्णात् । पितृधनाभिप्रायं तद् इति चेत्, न । “यदी मातरो जनयन्त वह्निम्” इति मातृसंबन्धवचनात् । यदि मातरः स्त्रियं पुत्रं च जनयन्ति । वह्निर् वहनयोग्यः पुत्रः । तत्र पुत्र एव दायादो न स्त्र्य् अपीत्य् अर्थः । अस्माद् एव च वह्निवचनाद् उद्वाहासमर्थस्य क्लीबादेर् द्रव्याभावसिद्धिः । दुहितृसद्भावे ऽपि तर्हि पुत्राणाम् एवास्तु । न, “मतुर् दुहितरः” इति स्मृतेः, स्मृत्यन्तरान् मन्त्रवर्णानुसाराच् च दुहितृस्वरूपार्थतैवेत्य् अतस् तदभावे पुत्रगाम्य् एवेति स्थितम् ॥ १२१ ॥

सहस्थितानां चैकेन ।

पितृद्रव्याविनाशेन यद् अन्यत् स्वयम् आर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ २.१२२ ॥

पितृधनानुपघातेन यद् अन्यद् आर्जितं तथा मैत्रम् औद्वाहिकं च, तद् आर्जितुर् एव, न दायादान्तराणाम् अपि स्यात् । मित्राद् अवाप्तं मैत्रम् । विवाहे लब्धम् औद्वाहिकम् । पितृद्रव्योपघातेनापि मैत्राद्य् अविभाज्यम् एव, आरम्भसामर्थ्यात् । अन्ये तु मैत्रादिकम् एव पितृधनानुपघातार्जितम् अविभाज्यम् इच्छन्ति, सामान्यविशेषोपसंहृतिन्यायात् । तत् तु सामान्यद्रव्यसाध्यत्वाद् विवाहस्यायुक्तम् एव ॥ १२२ ॥

मैत्रादिव्यतिरेकेण तु ।

सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः ।
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२३ ॥

सामान्येनार्थेन समुत्थानम् आर्जनं प्राप्तिर् यस्य द्रव्यस्य तत् तथोक्तं तस्मिन् सामान्यार्थसमुत्थाने द्रव्ये । “विभागस् तु” इति । अवधारणार्थस् तुशब्दः । अस्त्य् एव विभाग इत्य् अर्थः । स चैकस्य शरीरादिक्लेशातिशये सत्य् अपि सम एव स्मृतः विहित इत्य् अर्थः । किं सर्वदायादानां सम एव विभागः । न । भ्रातॄणाम् एव समः स्यात् । “अनेकपितृकाणां तु” पितृव्यपुत्रादीनां पितृतः पितृविभागाद् भागकल्पना । अर्थाद् भ्रातॄणां पूर्वं समो विभागः । कृते विभागे ऽन्यतमस्य पुत्रास् तद्भागम् अंशांशतो विभजेयुर् इत्य् अर्थः । पितृद्वारं हि पौत्राणां पैतामहद्रव्यभाक्त्वं न पितृवत् स्वत एवेत्य् अभिप्रायः ॥ १२३ ॥

अथ किं विभागत् स्वत्वम्, उत स्वत्वे सति विभग इति । विभागात् स्वत्वम् इत्य् आहुः । अन्यथा जातपुत्रस्याधानादिश्रुतिर् द्रव्यसाधारण्यात् स्वत्यागासंभवाद् विरुध्यते, इच्छया वा विभागस्मृतिर् न स्यात् । न च तदनुज्ञानाद् अनुष्ठानम् इति युक्तम्, जातमात्रस्यानुज्ञानाशक्तेः । इत्याद्याशङ्काम् अपाकर्तुम् आह ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ २.१२४ ॥

भूर् या पितामहोपात्ता निबन्धो वा अक्षयनिधिः अन्यद् एव वा द्रव्यं, तत्र पितापुत्रयोस् तुल्यं प्रभुत्वं स्यात् प्रत्येतव्यं निर्विचिकित्सम् एवेत्य् अर्थः । उभयोर् इत्य् अविभक्तस्यैव स्वत्वज्ञापनार्थम् । भूम्यादेः पृथगुपादानम् अविभाज्यत्वात् स्थायित्वाद् वा द्रष्टव्यम् । यत् त्व् अनुष्ठानविरोधादि चोद्यम्, तत् स्वयम् आर्जितेनापि तत्सिद्धेर् न किंचित् । तदानीम् एव वा विभज्यानुष्ठानम् अस्तु । या त्व् इच्छया विभागस्मृतिः सा स्वयमुपात्तद्रव्यवतो द्रष्टव्या । अतः स्वत्वे सति विभाग इति सिद्धम् ॥ १२४ ॥

यस्माच् च स्वत्वे सति विभागः, तस्मत् ।

विभक्ते ऽपि सवर्णायाः पुत्रो जातो विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥ २.१२५ ॥

अनिवृत्तरजस्कायां मातरि विभजतां विभागोत्तरकालं यदि पुत्रो जायेत, तस्यापि द्रव्यसंबन्धो ऽस्त्य् एव । तस्मात् स्वत्वे सत्य् एव इत्य् उक्तम् । यदि हि विभागेन स्वत्वसंबन्धो ऽभविष्यत्, ततो विभक्तजस्य द्रव्यसंबन्धो नोपापत्स्यत । अस्मिन् पुनर् अस्त्य् एव तस्यापि द्रव्यसंबन्धः । अतः स्वत्व इति । अतो ऽयं श्लोकस् तद्विवेकायारभ्यते- “विभक्ते ऽपि सवर्णायाः पुत्रो जातो विभागभाक्” । स्याद् इति शेषः । अविशेषे ऽपि पित्र्यविभागभाग् इत्य् अवसेयम् । यथाह गौतमः- “विभक्तजः पित्र्यम्” इति (ग्ध् २८.२९) । विभक्तजो ऽपि च पितुर् निर्धनत्वे भ्रातृद्रव्याद् एव दृश्यमानात् तस्य विभक्तजस्य विभागः स्यात् । अयं तु विशेषः- आयव्ययविवर्जितात् । यत् स्वयम् आर्जितं, स आयः । यत् तस्माद् द्रव्यम् उपक्षीणं, स व्ययः । आयव्ययविशुद्धं विभक्तजेन सह समं विभजनीयम् इत्य् अर्थः ॥ १२५ ॥

एतद् एव स्पष्टयति ।

क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ २.१२६ ॥

पित्रादिक्रमागतं द्रव्यं विभागकाले विच्छिन्नभोगं विभक्तः सन् नितरदायादानुमतः स्वशक्त्या यद् अभ्युद्धरेत् स्वीकुर्यात्, स तद् विभक्तजदायादेभ्यः पुनर् विभागकाले न दद्यात् । विद्यया च यल् लब्धम् । चशब्दान् मैत्रादिकं च । आयव्ययविशोधिताद् इति चोक्तम् एव ॥ १२६ ॥

किं च ।

पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।

जीवतां विभक्तानां विभक्तजविभागे तावद् अयं विधिः ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समाप्नुयात् ॥ २.१२७ ॥

अविद्यमानस्त्रीधना मातापि विभागं पुत्रसमम् आप्नुयात् । मातृशब्दश् चायं पितृसंबन्धाविशेषात् तद्भार्यामात्रवचनो द्रष्टव्यः ॥ १२७ ॥

किं च ।

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥ २.१२८ ॥

संस्करः परिणयनम् । तत् पूर्वसंस्कृतैर् असंस्कृतानां भ्रातॄणां कार्यम् । तादर्थ्येन वा द्रव्यम् अपनीयावसिष्टं विभजनीयम् । अस्माद् एव च ज्ञायते- साधारणद्रव्याद् विवाहनिर्वृत्तिः । सोपक्षयम् औद्वाहिकम् आर्जयितॄणाम् एव द्रव्यम् इति । अतः साधारणाद् एव भ्रातरः संस्कार्या भगिन्यश् च । यदि त्व् अल्पं द्रव्यं वा न स्यात्, ततो निजाद् अंशाच् चतुर्थम् अंशं भगिन्यर्थम् अपनीयान्यत् समं विभजनीयम् ॥ १२८ ॥

एवं सवर्णानां समो विभागः । नानावर्णास् तु ।

चतुस्त्रिद्व्येकभागीना वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास् त्रिद्व्येकभागीना वैश्यजौ द्व्येकभागिनौ ॥ २.१२९ ॥

ब्राह्मणस्य चतसृषु ब्राह्मण्यादिषु यदा पुत्राः स्युः, तदा द्रव्यं दशधा षोढा त्रेधा च विभज्य ब्राह्मणादिक्रमेण चतुस्त्रिद्व्येकभाक्त्वं स्यात् । चत्वारो ब्राह्मणस्यांशाः, क्षत्रियस्य त्रयः, वैश्यस्य द्वौ, एकः शूद्रस्य । एवं क्षत्रियजातानाम् । त्रयः क्षत्रियस्य, वैश्यस्य द्वौ, एकः शूद्रस्य । एवं वैश्यजातस्य । वैश्यस्य द्वौ, एकः शूद्रापुत्रस्येति व्यवस्था । ननु च द्विजातीनां शूद्रापुत्रो नास्त्य् एव, तद्विवाहप्रतिषेधात् । सत्यम् । स्मृत्यर्थभ्रान्त्या तु प्रवृत्ताव् अयं विभागधर्म इत्य् अभिप्रायः ॥ १२९ ॥

असमांशभाक्त्वे ऽपि तु ।

अन्योन्यापाहृतं द्रव्यं विभक्तैर् यत्र दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ २.१३० ॥

स्थितिवचनं निर्विचिकित्सं समविभागप्रतिपत्त्यर्थम् ॥ १३० ॥

औरसानाम् अयं विभागधर्मः । तदभावे तु ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ २.१३१ ॥

ननु च ब्राह्मणस्य नियोगप्रतिषेधाद् अनारम्बो ऽयम् । क्षत्रियाद्यर्थस् तर्हि भविष्यति । न च ब्राह्मणस्य नियोगप्रतिषेधः, किं तर्हि, ब्राह्मण्याः । तेनान्योत्पादितो ब्राह्मणस्य न स्यात् । न तु क्षत्रियादिकायां ब्राह्मणस्यानुत्पादकत्वम् । अतो ऽविरुद्ध एवायम् औरसाभावे कल्पः ॥ १३१ ॥

किंलक्षण औरसः पुत्रः । उच्यते ।

औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ २.१३२ ॥

सवर्णा ब्राह्मादिविवाहसंस्कृता धर्मपत्नी । तस्यां स्वयम् उत्पादितः पुत्र औरसः । तत्समत्ववचनं क्षेत्रजातिभ्यो ऽधिकत्वज्ञापनार्थम् । पुत्रिकास्वरूपं स्मृत्यन्तराद् अवगन्तव्यम् । क्षेत्रजस् तु क्षेत्रे पत्न्यां सगोत्रेणान्येन वा नियोगोत्पादितः ॥ १३२ ॥

नियोगाभावे ऽपि ।

गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतो मतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१३३ ॥

इमौ तु मातृजातीयौ जनकापरिज्ञानाद् विज्ञेयौ ॥ १३३ ॥

एवम् एव च ।

अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ २.१३४ ॥

मृते भर्तर्य् अक्षतयोन्याम् अन्यसंस्कृतायां जातः पौनर्भवः, क्षतयोन्यां वा । यथोक्तम्- “अन्यैश् चरित्वा तस्यैव कुटुम्बम् आविशति” इति (च्ड़्। वध् १७.१९) । पितृभ्यां पित्रा मात्रा वा । तदनुज्ञया दत्तो दत्तकः । तथा च वसिष्ठः- “न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वा, अन्यत्रानुज्ञानाद् भर्तुः” इति (वध् १५.५) । धर्मेण मातापितृभ्यां दत्तो दत्तकः ॥ १३४ ॥

क्रीतस् तु ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ।
दत्तात्मा तु स्वयंदत्तो गर्भे विन्नाः सहोढजः ॥ २.१३५ ॥

क्रीतस् तु ताभ्याम् अधिकृताभ्यां मातापितृभ्यां मूल्येन विक्रीतः क्रेतुः क्रीताख्यः पुत्रः । तुशब्दो दत्तकन्यायानुकर्षणेन मातुर् अस्वातन्त्र्यप्रतिपत्त्यर्थः । स्वयम् एव तु मातापितृविहीनः पुत्रत्वेनाङ्गीकृतः कृत्रिमः । दत्तात्मा त्व् एवंलक्षण एव स्वयंदत्तः । स्वयम् एव दत्त आत्मा येन स तथोक्तः । एते च दत्तकादयः स्मृत्यन्तरानुसारात् सदृशा विज्ञेयाः । सहोढजस् तु गर्भे विन्नः, गर्भस्थे यस्मिन् मतुर् उद्वाहः । स च वोढुः पुत्रो मातृजातीयः प्रत्येतव्यः ॥ १३५ ॥

मातापितृभ्याम् एव कथंचित् ।

उत्सृष्टो गृह्यते यस् तु सो ऽपविद्धो भवेत् सुतः ।

अपविद्धसंज्ञक इत्य् अर्थः ।

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥ २.१३६ ॥

एतेषां क्रमोपदिष्टानाम् औरसादीनां पुत्राणां पूर्वाभावे परः परः पिण्डदो ऽंशहरश् च प्रत्येतव्यः । पूर्वसद्भावे तु परस्यानृशंसार्थं वृत्तिमात्रकल्पनम् । तथा च स्वायम्भुवम् ।

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ इति । (म्ध् ९.१६३)

औरसवचनं सर्वक्षेत्रजाद्युपलक्षणार्थम् । य एवैकः पुत्रत्वाद् रिक्थभाक्, स एव कृत्स्नं पितृधनं गृह्णीयात् । इतरेषाम् आनृशंस्यार्थं प्रजीवनमात्रं कुर्याद् इत्य् अर्थः । यत् तु क्षेत्रजस्य सत्य् औरसे विभागविशेषाम्नानम्-

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ (म्ध् ९.१६४)

इति, पुनश् चोक्तम् ।

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ (म्ध् ९.१६५)

इति, अत्र क्षेत्रजः पुत्रिकापुत्र एवाभिप्रेतः । ननु असाव् औरसतुल्य एव । सत्यम् । तेनैव चोक्तं “पितृरिक्थस्य भागिनौ” इति । कथं तर्हि “षष्ठं पञ्चमम् एव वा” इति । जनकपितृधनाभिप्रयम् एवैतत् । मातामहस्य ह्य् असाव् औरसतुल्यत्वात् कृत्स्नांशार्हः । पितुः पुनः परार्थेनोत्पादितत्वान् नष्टः । तदभिप्रायम् एव च वासिष्ठं- “तृतीयः पुत्रिकापुत्रः” इति (वध् १७.१५) । पित्रा क्षेत्रत्वेनैवापत्योत्पादनायान्यस्मै दीयते, ततस् तस्यासौ क्षेत्रज इति शक्यते वक्तुम् । जनयितुर् अपि परार्थम् उत्पादकत्वात् संस्कृतत्वेन क्षेत्रमात्रतया स्त्रीसंबन्ध इति क्षेत्रजव्यपदेशः । तत्रौरसाविशिष्टं पितृरिक्थभाक्त्वं मातामहाभिप्रायम् । भागवैषम्यं तु जनकाभिप्रायम् इत्य् अविरोधः । पञ्चमषष्ठांशयोस् त्व् औरसस्येच्छया विकल्पः । अन्यत्राप्य् एवम् एव भागवैषम्यकल्पना । अतः स्थितं पूर्वाभावे परस्य द्रव्यसंबन्ध इति । यत् पुनर् इदं स्वायम्भुवम्-

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥ (म्ध् ९.१५९–१६०)

इति, अस्य को ऽर्थः । क्षेत्रजादयः पञ्च सत्य् औरसे ऽप्य् अंशभाजः । कानीनादयस् तु पूर्वाभाव एव । एतेन वासिष्ठं व्याख्यातम् । तथा च शङ्खः- “द्वौ भागौ पितुः द्वाव् एवौरसस्य, त्रयः क्षेत्रजपुत्रिकापुत्रयोः, एकैकम् इतरेषाम्” इति । त्रयः क्षेत्रजपुत्रिकापुत्रयोर् इत्य् एकैकस्याध्यर्धभाक्त्वम् । पितृविभागवचनाच् च जीवत्य् एव पितर्य् एते सत्य् औरसे ऽंशभाजः । ऊर्ध्वं त्व् आचार्यवचनात् पूर्वाभाव एवोत्तराधिकार इति व्यवस्था । यत् तु क्रमान्यत्ववचनं तत् पितुर् एवेच्छाविकल्पतया द्रष्टव्यम् । तदभावे त्व् आचार्योक्त एव क्रम इति । अनया दिशान्यान्य् अप्य् एवंजातीयकानि विभागवाक्यानि व्याख्येयानि ॥ १३६ ॥

सर्वे चैते दत्तकादयः सजातीया इत्य् एतत् प्रदर्शयितुम् आह ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः ।
जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ॥ २.१३७ ॥

अयं मया विधिर् उक्त इत्य् वदन् स्मृत्यन्तरोक्तानां विषयान्तरे ऽर्थवत्तां दर्शयति । तच् च व्याख्यातम् एव पितर्य् उपरत एवेयं द्रव्यसंबन्धपौर्वापर्यकल्पनेति, जीवति तु स्मृत्यन्तरोक्तया विभागव्यवस्थयेति । एतद् एव स्पष्टयति- मृते पितरि विभागव्यवस्थेयम् अस्माभिर् दुर्निरूपत्वान् निरूपिता । जीवति तु जातो ऽपि दास्यां शूद्रेण पितुर् इच्छयांशहरो भवेद् इत्य् अनादरं विशेषनिरूपणस्य दर्शयति ॥ १३७ ॥

इच्छयैव च ।

मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिनम् ।
अभ्रातृको हरेत् सर्वं दुहितॄणाम् सुताद् ऋते ॥ २.१३८ ॥

अर्धवचनं च न्यूनांशप्रतिपत्त्यर्थम् । तथा च बृहस्पतिः- “कामतश् च शूद्रावरोधजस्य भ्रातुर् अंशं संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत्” इति (बृस्म् २६.८३) । अत्रापि च शास्त्रातिलङ्घनेन प्रवृत्तस्यायं विधिः द्विजातीनाम् इव शूद्रापुत्रः, न तु दास्याम् अवरोधविध्यनुमानम् इत्य् अनवद्यम् । अभ्रातृकस् तु दुहितृतत्सुताभावे सर्वभाक् स्याद् राजानुज्ञया बृहस्पतिवचनाद् एव- “अनन्वयिनः सर्वं राजा हरेत् तदनुज्ञया वावरोधज इत्य् एके” इति । अस्माद् एव च दौहित्राभाववचनाद् द्विजातीनाम् अपि पुत्राभावे दौहित्रा धनभाज इति । अत एव च मातामहश्राद्धनियमोपपत्तिः ॥ १३८ ॥

एवं तावद् वैशेषिकः शूद्रस्य विधिर् उक्तः । अविशेषेणैव तु ।

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुता गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ २.१३९ ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ २.१४० ॥

पत्नीत्य् अत्र गृहीतगर्भाभिप्रेता । तथा च वसिष्ठः- “अथ भ्रातॄणां दायविभागः । याश् चानपत्याः स्त्रियः स्युस् तासां चा पुत्रलाभात्” (वध् १७.४०–४१) इति गर्भिण्यो रिक्थार्हा इति दर्शयति । पुत्रशब्दश् चायम् अनपत्या इति वचनाद् गर्भोपलक्षणम् एव । उत्पन्नं वा स्त्र्य् अपि पुत्रिका यथा स्यात् । तथा च गौतमः- “स्त्री चानपत्यस्य” इत्य् उक्त्वाह “बीजं वा लिप्सेत” इति (ग्ध् २८.२१–२२) । अनेन स्त्रीवचनं गर्भिण्यर्थम् इति ज्ञापयति । दुहितरश् च पुत्रिका एव । तथा च स्वायंभुवं पुत्रिकाभिप्रायेणैवाह ।

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥ इति । (म्ध् ९.१३०)

पुत्रजन्माशङ्कायां त्व् अपत्याभावे तदधिकारः । बहुवचनं पुत्रिकाबहुत्वज्ञापनार्थम् । चशब्दः समुच्चयेनापीच्छातो द्रव्यसंबन्धार्थः । एवकारः सर्वत्रावधारणार्थः । माता च पिता च पितरौ । सहाधिकारात् तु द्वन्द्वकरणम् एकैकप्राप्त्यर्थम् । द्वन्द्वनिर्देशे ऽपि मातुर् एव प्राथम्यम् । यथाह ।

अनपत्यस्य पुत्रस्य माता दायाद्यम् आप्नुयात् ।
तस्याम् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ इति । (म्ध् ९.२१७)

सर्वथा चापत्याभावे ऽनप्त्य इत्य् अयम् एवास्य विषयः । ननु एतद् अप्य् अस्ति ।

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा । इति । (म्ध् ९.१८५)

मातर्य् असत्याम् एतद् द्रष्टव्यम् । कथं शङ्खवचनम्- “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी” इति । उक्तलक्षणपत्नीदुहित्रभावे सोदर्यभ्रात्रभिप्रायं तत् । यदि च पितुर् अन्या पत्नी स्यात्, तदभावे तु पितरौ, तत्र पिता हरेद् अपुत्रस्येति वचनात् पितैव वा पूर्वो ऽस्तु । तदनुमते तु तत्पत्नी, अननुमते तु ज्येष्ठा वा पत्नीति । ज्येष्ठाशब्दः सवर्णार्थः । सर्वा वा वाशब्दाद् यदि सवर्णाः स्युः । एतेनैतद् अपि व्याख्यातम्-

भ्रातॄणाम् अप्रजः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य भ्रातरः स्त्रीधनं विना ॥ इति । (न्स्म् १३.२४)

क्षत्रियादिषु पुत्राणां तु पितरि मातुर् अभावे पितुर् माता हरेद् धनम् इत्य् अस्य विषयः । भ्रातरस् तथेति तथाशब्दः प्रकारार्थः सापत्नादिसर्वभ्रातृसङ्ग्राहकः । तत्सुतास् तदनुसारेणैव गोत्रजा अपि सपिण्डसमानोदकैकपुरुषैकर्षिसंबन्धाः क्रमेण द्रष्टव्याः । बन्धुर् मातुलादिः । आचार्यो ऽप्य् अर्थाद् अनुक्तो ऽपि पितृसंस्तवाद् गृह्यते । शिष्य उपनीतः । सब्रह्मचार्य् एकाचार्योपनीतः । एतेषां पूर्वाभावे पराधिकार इति । स्पष्टम् अन्यत् ॥ १३९–४०॥

एवं तावद् वर्णाश्रयो विभागविधिर् उक्तः । अधुनाश्रमाश्रय उच्यते ।

वानप्रथयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ २.१४१ ॥

ब्रह्मचारी नैष्ठिको ऽभिप्रेतः । एकाचार्यसंबद्धो धर्मभ्राता । एकाश्रमसंबद्ध एकतीर्थी । स्पष्टम् अन्यत् । नैष्ठिकवनस्थयतिव्यतिरिक्तानां तु वर्णानां पारिशेष्यात् प्रागुक्तो विभागविधिः ॥ १४१ ॥

संसृष्टिनस् तु संसृष्टी सोदरस्य च सोदरः ।
दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ॥ २.१४२ ॥

विभक्तः सन् निमित्तान्तराद् यः पित्रा भ्रात्रा वा सहार्थं संसृज्य वसति, स संसृष्टी । तत्र यद्य् एवं सहवसतां पितापुत्राणां पितुः पुत्रो जायेत, तस्याप्य् अंशो देयः । मृतस्य च हर्तव्यः । सोदरस्य च सोदर इत्य् एतत् तु मातृतो विभगपक्षे द्रष्टव्यं, निर्धने च पितरि विभक्तजविषयम् । यत् तु गौतमीयम्- “अथ संसृष्टिविभागः । प्रेतानां ज्येष्ठस्य” इति (ग्ध् २८.२७) । अत्र ज्येष्ठः पितैवोच्यते । तस्य सोदर्यभ्रात्रन्तराभावे प्रेतानां पुत्राणां भ्रात्रन्तरासंसृष्टानां च धनभाक्त्वम् । तद् उक्तम्- “पिता हरेद् अपुत्रस्य” (म्ध् ९.१८५) इति । अन्ये तु ज्येष्ठशब्दं भ्रातर्य् आहुः । तत् पुनर् विचार्यम् । स्पष्टम् अन्यत् ॥ १४२ ॥

अत्रापरे पूर्वश्लोकविवरणस्थानीयम् इमं श्लोकं पठन्ति ।

अन्योदर्यस्य् संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् सोदरो नान्यमातृजः ॥ २.१४३ ॥

संसृष्ट्य् अप्य् अन्यमातृजः सोदर्ये सति न धनभाक् । असंसृष्ट्य् अपि सोदर्य एव धनभाग् इत्य् अर्थः ॥ १४३ ॥

य एव तु धनभाक् स्यात्, तेनैव भ्रातरस् तत्सुताश् चैवंरूपाः ।

पतितस् तत्सुतः क्लीबः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगी च भर्तव्यास् तु निरंशकाः ॥ २.१४४ ॥

तत्सुतः पतितोत्पन्न एव । उन्मत्तो ग्रहगृहीतः । जडः सर्वदा प्रज्ञाहीनः । कुष्ठाद्यसमाधेयपापरोगग्रस्तो ऽचिकित्स्यरोगी । चशब्दः स्मृत्यन्तरोक्तबधिरादिप्राप्त्यर्थः । स्पष्टम् अन्यत् । पङ्ग्वादिवचनान्य् अग्निहोत्राद्यनधिकृतानां सर्वेषाम् उपलक्षणार्थानीति केचित् । तद् असत् पुरुषार्थत्वाद् द्रव्यस्य, अवैद्यस्य चानधिकृतस्यैव द्रव्यार्हत्वदर्शनात् । यथाह गौतमः- “स्वयम् आर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात्” इति । “अवैद्या समं विभजेरन्” इति च (ग्ध् २८.३०–३१) । अतः प्रतिषेधाद् एवैषाम् अनंशत्वं, न त्व् अनधिकृतत्वात् । जन्मान्तरीयमहापातकलिङ्गयोगाद् वा निरंशत्वम् । पितामहद्रव्यसंबन्धस् त्व् अपतितानाम् अन्धादीनाम् अस्त्य् एवेति संप्रदायः । सामर्थ्येनैव तु भरणमात्रातिरिक्तद्रव्यविनियोगाशक्तेर् औचित्यानुवादो ऽयम् इत्य् अवसेयम् । तथा च स्वायंभुवम् ।

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ इति । (म्ध् ९.२११)

अनेन प्राप्तस्यांशस्य विनियोगाशक्ताव् औचित्यप्राप्तम् अपहारं दर्शयति । अत एव च “तस्य भागो न लुप्यते” इति । एवं च स्वयम् एवैते निरंशकाः ॥ १४४ ॥

औरसक्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ २.१४५ ॥

औरसक्षेत्रजादयस् तु पुत्राः पङ्ग्वादीनाम् अपि निर्दोषाः सन्तो भागहारिण एव । क्लीबस्यापि क्षेत्रजादयो भवन्त्य् एव । सुताश् चैषां प्रभर्तव्याः दुहितरश् च पुत्रिकाः पङ्ग्वादीनां तद्रिक्थग्राहिभिः प्रकर्षेण ग्रासाच्छादनादिना भर्तव्याः, यावद् उचितभर्तृभिः संयोजिताः, तैश् च गृहाधिपत्येन सत्कृताः ॥ १४५ ॥

किं च ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ २.१४६ ॥

अव्यभिचारिण्यो ऽपि स्त्रीधनाद्यवष्टम्भेन प्रतिकूलाः स्वातन्त्र्यवृत्तयस् तथैव निर्वास्याः । चशब्दात् स्त्रीधनोचिता एवेत्य् अभिप्रायः ॥ १४६ ॥

किं पुनः स्त्रीधनम् । उच्यते ।

पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकं चैव स्त्रीधनं परिकीर्तितम् ॥ २.१४७ ॥

अध्यग्न्युपागतं विवाहकाले लब्धम् । आधिवेदनिकम् अधिविन्नायै पत्न्यै प्रत्तम् । अधिवेदनार्थं वा । चशब्दात् स्मृत्यन्त्रोक्तम् अलङ्कारादि । एतत् स्त्रीधनम् इत्य् अवसेयम् ॥ १४७ ॥

अत्र प्रविभागः ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥ २.१४८ ॥

पित्रादिदत्तं बन्धुदत्तम् । आधिवेदनिकादि शुल्कम् । अन्वाधेयम् अन्वयभोग्यतया दत्तम् । एतच् चानपत्यायां मृतायां बान्धवाः सोदर्यभ्रातरो गृह्णीयुः । तथा च गौतमः- “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः” इति (ग्ध् २८.२५) । अस्माच् चोर्ध्वम् एव मातुर् अयम् आचार्योक्तकल्पः ॥ १४८ ॥

शुल्कादिव्यतिरेकेण तु ।

अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ २.१४९ ॥

ब्राह्मादिविवाहचतुष्टये यत् स्त्रीधनं तद् अप्रसूतायां भर्तुः । प्रसूता चेद् दुहितॄणाम् एव ॥ १४९ ॥

आसुरादिविवाहप्रसङ्गाद् इदम् उच्यते । भर्तृतो धनम् आदाय ततः ।

दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दाप्यश् च सोदयम् ।
मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् ॥ २.१५० ॥

कन्यां दत्त्वा हरन् राज्ञा दण्ड्यः । भर्त्रे च सवृद्धिकं व्ययं दाप्यः । मृतायां तु भर्त्रा यद् दत्तं तत् प्रत्यादद्यात् । आत्मनिमित्तं पितृकृतं चोपक्षयं परिशोध्य ॥ १५० ॥

एवं प्रासङ्गिकम् उक्त्वा प्रकृतम् एवाह ।

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ २.१५१ ॥

भर्तृवचनाद् अन्यो भ्रात्रादिर् दुर्भिक्षादिगृहीतम् अपि दद्याद् इति गम्यते । संप्रत्य् एवादत्त्वा मा यास्यतीत्य् एवं रोधाद्धरणं संप्रतिरोधकम् । नगरोपरोध इत्य् अन्ये । स्पष्टम् अन्यत् ॥ १५१ ॥

किं च ।

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्या दत्ते त्व् अर्धं प्रकीर्तितम् ॥ २.१५२ ॥

यस्या उपरि परिणीतं तस्यै यत् परिणयने द्रव्यं गतं तत्समं देयं, यदि पूर्वं स्त्रीधनं न दत्तम् । अथ तु दत्तं, ततो ऽर्धं देयम् । एतच् चाधिवेदननिमित्तम् अन्तरेणाधिविन्नायां द्रष्टव्यम् ॥ १५२ ॥

एवम् अयं रिक्थविभागो निरूपितः । यदि तु कश्चिद् अविभक्तो ऽहम् इत्य् एवं विभागनिह्नवं कुर्यात्, तत्र कथम् इत्य् अपेक्षित आह ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावनादेयगृहक्षेत्रकयौतकैः ॥ २.१५३ ॥

विभागनिह्नवे ज्ञात्यादिभिर् विभागभावना कार्या । ज्ञातिर् मातुलादिः । बन्धुः पितृव्यपुत्रादिः । एते हि प्रायशो विभागमध्यपातिनः संनिहिताश् च भवन्ति । अन्ये वा साक्षिणः । लेख्यं वा यद् विभागप्रज्ञापकं कृतम् । यथाह बृहस्पतिः ।

कार्यम् उच्छ्रावणालेख्यं विभक्तैर् भ्रातृभिर् मिथः ।
साक्षिणो वाविरोधार्थं विभजद्भिर् अनिन्दिताः ॥ इति ॥ (बृस्म् २६.१४८)

अन्यत्र वा सक्ष्यम् अन्योऽन्यम् उपलभ्यमानं विभागचिह्नम् अभिलिखितं वा प्रतिग्रहव्यवस्थाद्यर्थम् । तथा “आदेयगृहक्षेत्रकयौतकैः” । आदेयं दानग्रहणम् । गृहक्षेत्रकयौतकं पृथक् क्षेत्रगृहादिपरिग्रहेणावस्थितिः । तथा च नारदः ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः कथंचन ॥ इति (न्स्म् १३.३९) ॥ १५३ ॥

इति दायविभागप्रकरणम् ।

**