०७ दिव्य-प्रकरणम्

अथ दिव्यप्रकरणम् ।

लिखिताद्यभावे वा परितुष्ट्यसामर्थ्ये सति ।

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥ २.९८ ॥

महाभियोगेष्व् इति वदन्न् अमहाभियोगेषु शपथप्राप्तिं दर्शयति । तथा च नारदः ।

सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश् च दत्तानि सुकृतानि च ॥
इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे ।
पातके त्व् अभियोगे वा विधिर् दिव्यः प्रकीर्तितः ॥ इति । (न्स्म् २०.२, ४)

महाभियोगे महापातकाद्यभियोगे । स्पष्टम् अन्यत् ॥ ९८ ॥

किम् अभियोक्त्रावश्यं शिरो वर्तनीयम् । एष तावन् न्यायः ।

रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ।
विनापि शीर्षकात् कुर्याद् राजद्रोहे ऽथ पातके ॥ २.९९ ॥

इच्छयैवाभियोज्याभियोक्त्रोर् अन्यतरो दिव्यं कुर्यात् । अन्यतरः शिरो वर्तयेत् । यद्य् अभियुक्तो ऽर्थो ऽन्यथा स्यात्, ततो ममेदं धनं सर्वस्वं वा यद् वेदम् अङ्गं शिरो वा गच्छेद् इत्य् एवम् अवष्टम्भेन दिव्यक्रियाप्रयोक्ता शिरोवर्तीत्य् उच्यते । राजद्रोहमहापातकाशङ्कायां त्व् अशीर्षकम् अपि स्याद् एव । स्पष्टम् अन्यत् ॥ ९९ ॥

महापातकाद्याशङ्काभावे तु ।

नासहस्रपरं फालं न तुला न विषं तथा ।
नृपार्थेष्व् अभियोगेषु वहेयुः शुचयः सदा ॥ २.१०० ॥

परशब्दो ऽर्थवचनः, यथा ब्राह्मणपरम् अस्य द्रव्यम् । ब्राह्मणार्थम् इत्य् अर्थः । सहस्राद् अर्वाङ् न फालादीनि स्युः सहस्राद् अर्वाग् एषाम् अप्रवृत्तिः । नृपार्थेषु त्व् अल्पाभियोगेष्व् अपि वहेयुः कुर्युर् इत्य् अर्थः । “शुचयः सदा” इति । ये हि नित्यं शुचयो दैवाद् आशङ्किताः त एव कुर्युः । न तु संभाविताशुचित्वा (?) अपीत्य् अर्थः ॥ १०० ॥

एवं च सति ।

सहस्रार्थे तुलादीनि कोशम् अल्पे ऽपि कारयेत् ।
पञ्चाशद् दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ॥ २.१०१ ॥

स्पष्टार्थः श्लोकः ॥ १०१ ॥

किं सद्य एव दिव्यक्रिया । नेत्य् आह । किं तर्हि ।

सचेलस्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.१०२ ॥
**

नृपादिसंनिधिवचनं कार्यगौरवप्रतिपत्त्यर्थम् ॥ १०२ ॥

न चाविशेषेण सर्वेषां सर्वदिव्यानि स्युः । किं तर्हि ।

तुला स्त्रीबालवृद्धार्तपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वाशुद्रस्य यवाः सप्त विषस्य वा ॥ २.१०३ ॥

स्त्र्यादिग्रहणं क्षत्रियाद्यर्थम् । “अग्निर् जलं वाशूद्रस्य” इति । अशूद्रस्याग्निर् जलं वा स्यात् । व्यवस्थितविकल्पश् चायम् । क्षत्रियस्याग्निर्, वैश्यस्य च जलं, शूद्रस्य तु यवाः सप्त विषस्य वा जलं वा अग्निर् वेत्य् अर्थः । यद् वा अग्निर् जलं वाशुद्रस्य क्षत्रियादिजातस्येत्य् अर्थः । ततश् च क्षत्रियादीनाम् अग्न्यादिष्व् इच्छाविकल्पः । स्मृत्यन्तरात् तु देशकालादिव्यवस्थाप्रपञ्चकल्पना ॥ १०३ ॥

अधिकृतश् च पागुक्तनियमवान् कृतस्वस्त्ययनमङ्गलः स्मृत्यन्तरोक्तलक्षणतुलां प्रत्युपस्थितः ।

तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो लेखाः कृत्वावतारितः ॥ २.१०४ ॥

वक्ष्यमाणं कर्म कुर्याद् इति शेषः । अभियुक्तो व्यवःअरे ऽभिशस्तः । स तुलाम् आरूढः प्रतिमानसमत्वेन तुलाधारणविद्वद्भिर् यदा लक्षितः, तदास्यास्मिन् प्रदेशे इदम् अङ्गम् इत्य् एव्ंअ चिह्नार्थं लेखाः कृत्वावतारणीयः । तुलाधारणविद्वांसः स्वर्णकारादयः । प्रतिमानम् अपरभागस्थितशिख्यस्थं पांसुलोष्टपूर्णं पिटकम् । स्पष्टम् अन्यत् ॥ १०४ ॥

अवतीर्य चोदङ्मुखः स्थित्वा ।

त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ २.१०५ ॥
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलां इत्य् अभिमन्त्रयेत् ॥ २.१०६

स यदि तुलित ऊर्ध्वं गच्छेत्, तदा शुद्धिः । अन्यथा तु विपर्ययः । यत् तु नारदीये-

तुलितो यदि वर्धेत विशुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेत् ततः ॥ (न्स्म् २०.१२)

इत्य् अधोगत्या शुद्धिवचनं, तत् तदुक्ताभिमन्त्रणविषयं द्रष्टव्यम् ॥ १०५–६ ॥

तप्तायःपिण्डधारणशास्त्रम् ।

करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ २.१०७ ॥

कृतव्रीहिविमर्दनस्य तप्तलोहहारिणो दाहस्पष्टीकरणार्थं हस्तौ कृतव्रणप्रदेशौ लेखाकरणेन च लक्षयित्वा सप्ताश्वत्थस्य पत्राण्य् अन्तर्धानाय हस्तयोर् आधाय सप्तकृत्वः सूत्रेण वेष्टयित्वा वक्ष्यमाणलोहपिण्डार्पणविपुणं लोहकारं गृहीततप्तलोहपिण्डं मण्डलकस्थितस्य समीपे प्राङ्मुखं कुर्यात् ॥ १०७ ॥

इतरो ऽपि प्रागुक्तनियमवान् उदङ्मुखो ऽयःपिण्डम् ईक्षमाणः कृताञ्जलिर् ब्रूयात् ।

त्वम् एव सरभूतानाम् अन्तश्चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०८ ॥

लोहकारो ऽपि ।

तस्येत्य् उक्तवतो लोहं पञ्चाशत् पलिकं समम् ।
अग्निवर्णं न्यसेत् क्षिप्रं हस्तयोर् उभयोर् अपि ॥ २.१०९ ॥
स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् ।
षोडशाङ्गुइकं ज्ञेयं मण्डलं तावदन्तरम् ॥ २.११० ॥
मुक्ताग्निर् मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ २.१११ ॥

कृतलक्षणौ हस्तौ दर्शयित्वा पुनश् च मृदितव्रीहिर् अप्य् अलक्षितदाहः पराजयव्यञ्ज्कललाटस्वेदादिलक्षणहीनः कुहकादिशङ्काविनिर्मुक्तः शुद्धिम् आप्नुयात् । दाहसंशयान्तरापिण्डपतनयोस् तु पुनस् त्रिरात्रे सप्तरात्रे वा स्मृत्यन्तरानुसारात् करणम् अवसेयम् । स्पष्टम् अन्यत् ॥ १०९–११ ॥

प्रागुक्तनियमवान् एव नृपब्राह्मणाधिष्ठितम् उदकं गत्वा ततः ।

सत्येन माभिरक्षस्व वरुणेत्य् अभिशाप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ २.११२ ॥

“सत्येन माभिरक्षस्य वरुण” इत्य् एवमन्तेनोदकम् अभिमन्त्र्य नाभिप्रमाणोदकस्थस्यातिदृढस्य बलिनः पुरुषस्योरू हस्ताभ्यां गृहीत्वोदकं प्रविशेत् । पुनर् जलग्रहणम् आदरार्थम् ॥ ११२ ॥

मध्यमेन च धानुष्केण धनुषा च मधमेन निमज्जतः ।

_ _

समकालम् इषुं मुक्तम् आनयेद् यो जवी नरः ।
गते ऽन्यस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ २.११३ ॥

अनिमग्नस्यैवेषुत्रये क्षिप्ते मध्यमेषुसमीपे जविष्ठं पुरुषम् आस्थाप्य मज्जनसमकालम् एवोदकसमीपाद् अन्यो जविष्ठस् तम् इषुदेशं प्रधावन् गच्छेत् । गते च तस्मिन् पूर्वोपस्थित इषुम् आदाय तथैव प्रत्यागतो यद्य् उदकस्थितं मग्नाङ्गम् अदेशान्तरस्थं च पश्येत्, ततः शुद्धिम् आप्नुयाद् इति कृतव्याख्यानम् एवैतत् ॥ ११३ ॥

प्रागुक्तनियमवान् एव शूद्रादिर् नृपब्राह्मणसमीपस्थः कालव्यवस्थया स्मृत्यन्तरोक्तपरिमाणं विषम् आदायाभिमन्त्रयेत् ।

त्वं विष ब्रह्मणः पुत्र सत्यधर्मव्यवस्थित ।
त्रायस्वास्मान् माभिशापात् सत्येन भव मे ऽमृतम् ॥ २.११४ ॥
एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य वेगैर् विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् ॥ २.११५ ॥

एवम् इति प्रकारार्थम्, मन्त्रानधिकृतस्यानभिज्ञस्य वायम् एवार्थः पर्यायवचनैर् वाच्यो यथा स्यात् । शार्ङ्गवचनं मन्दवीर्यविषनिवृत्त्यर्थम् । हैमवचनं कालकूटादिव्युदासार्थम् । स्पष्टम् अन्यत् ॥ ११५ ॥

प्रयोजनाल्पत्वे रुच्या वा पूर्वोक्तनियमवान् एव नृपब्राह्मणसंनिधौ गत्वा ।

देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संश्राव्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥ २.११६ ॥

देवान् उग्रान् आदित्यप्रभृतीन् सम्यग् विधानेनाभिमुक्यकरणायार्चयित्वा तदीयं स्नानोदकम् आदायाभियुकं संश्राव्य “मैवं मंस्थाः यथान्योदकपानम् अभिप्रेतवैतृष्ण्यादिनिमित्तम्” इति । एतद् धि मिथ्यावादिनं जन्मान्तरशतैर् अपि दारिद्र्यकुष्ठाद्युपद्रवैः प्रतिकुर्वाणं दुर्निवारं भविष्यति इत्य् एवम् आलोच्य सत्यावष्टम्भम् अन्तरेण “मा कुरु” इत्य् उक्त्वा प्रसृतित्रयं पाययेत् ॥ ११६ ॥

कथम् अत्र व्यक्तिर् इत्य् अत आह ।

आ चतुर्दशमाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ २.११७ ॥

तात्कालिकं ललाटस्वेदादि द्विसप्तरात्रेण वा दैवराजकं यद्य् उग्रं व्यसनं नोत्पद्यते, ततो निःसंशयं शुद्धिर् अवसेया । एतच् च सर्वदिव्यशेषतया श्लोकार्थम् अवसेयम् । तात्कालिकं यदि दाहादि ललाटस्वेदादि वा न स्यात्, यदि चतुर्दशरात्राद् अर्वाग् दैवराजकव्यसनानुत्पादः, ततो निःसंशयं शुद्धिः, अन्यथा तु विपर्यय इत्य् अभिप्रायः । तथा च स्वायंभुवम् ।

यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ इति । (म्ध् ८.११५)

“न चार्तिम् ऋच्छति क्षिप्रम्” इत्य् एतत् पूर्वेणादाहादिना समुच्चीयते । चशब्दसामर्थ्याच् च ललाटस्वेदाद्य् अपि । कुहकादिप्रतिबन्धेनाप्य् अदाहादिसंभवः । अतो “न चार्तिम् ऋच्छति” इति द्वितीयव्यञ्जकोपादानम् अविरुद्धम् ।

  • ननु इयं दिव्यस्मृतिर् अव्यक्तमूलेव लक्ष्यते, यतो न प्रत्यक्षादेर् अयं विषयः, दिव्याभिधानाद् एव । अकार्यत्वाच् च नागमस्य । न ह्य् अनेनेदं भवतीत्यागमस्य विषयः । कथं तर्हि यागात् स्वर्ग इति । स्वर्गकामस्य कर्तव्यतोपदेशाद् असाधनत्वे च तद्व्याघाताद् यागादेः साधनत्वम् अवगम्य यागात् स्वर्ग इत्य् उच्यते । अत्रापि तर्हि प्रायश्चित्तवत् संशोधनार्थो दिव्योपदेशः स्यात् । सत्यम् । यद्य् अनुष्ठानमात्रोपदेशः स्यात् । इह तु तप्तायःपिण्डेनादग्धस्यापरं निर्दोषत्वज्ञापनम् उक्तम् । तद् अपेशलम् इव स्यात् ।

  • उच्यते । द्वे ह्य् एते चोदने । स्तेयादिशङ्कितस्य अभ्युपगच्छतः प्रायश्चित्तराजदण्डादिप्रसङ्गः । अनभ्युपगमे तु धटाद्यनुष्ठानम् इति । अत्र चोर्ध्वगमनादौ सत्य् अदुष्टव्यवहारः कार्य इति । अतश् चार्थाद् इदम् आपद्येत- ऊर्ध्वगमनाद् विना न शुद्धिर् इति । अत एवोपलभ्यव्यञ्जकाभावे ऽपि शपथाद्यनुष्ठानमात्राद् एवादुष्टव्यवहारसिद्धिः । तस्य त्व् आमुष्मिको दोषः स्थित एव । तथा चोक्तम्- " दिव्यानीह विशुद्धये" (य्ध् २.९८) इति । इहैव नामुत्रेत्य् अर्थः । कुहकादिप्रतिबन्धे ऽपि तर्हि शुद्धिप्रसङ्गः । न, प्रतिषेधात् । यथाह बृहस्पतिः ।

त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्ठितम् ।
निरुद्धं चारयेत् तत्र कुहकाशङ्कया नृपः ॥ इति । (बृस्म् ८.३७)

अतः कुहकादिरहित एवोर्ध्वगमनादौ शुद्धव्यवहारः, कुहकादिभावाशङ्कायां वा दैवराजकव्यसनानुत्पत्तौ । पारमार्थि(के? क्यौ) तु शुद्ध्यशुद्धी क्वोपयुज्येते । अतो वेदमूलत्वम् अविरुद्धम् । तथा चाम्न्यायश् छान्दोग्यः-

पुरुषं सोम्योत हस्तगृहीतम् आनयन्त्य् अपहार्षीत् स्तेयम् अकार्षीत् । परशुम् अस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवात्मानम् अनृतं कुरुते । सो ऽनृताभिसंधो ऽनृतेनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स दह्यते । अथ हन्यते । अथ यद्य् अकर्ता भवति तत एव सत्यम् आत्मानं कुरुते । स सत्याभिसंधः सत्येनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यते । अथ मुच्यते । इति । (छु ६.१६.१)

एवमादीन्य् अन्यान्य् अपि तुलादिदिव्यप्रयोगमूलान्य् अन्विष्योदाहरणीयानि । अत्र च शङ्कितस्य परशुग्रहणेनादग्धस्य मोचनम् अदुष्टव्यवहारकरणं च विधीयते । अन्यत् तु दाहादिप्राप्तम् अनूद्यते । अतो ऽप्य् उक्तप्रकारं वेदमूलत्वम् अविरुद्धम् । अस्तु वा श्रवणानुसार्य् एव वैदिकत्वम् । स्वरूपे ऽप्य् एवमादौ प्रामाण्यम् उपनिषद्वाक्यानाम् इवाविरुद्धम् एव । यथा चैतद् एवं तथा वक्ष्यामः । एवं सति व्यासाद्युक्तेतिहासदर्शनानुसरेणाधिष्ठातृत्वेन तुलाद्यन्तर्गतलोकपालादिजगत्साक्षीभूतदेवताकल्पनम् अप्य् अविरुद्धम् । तथा च मान्त्रवर्णिक्यो देवताः,

त्वम् एव सर्वभूतानाम् अन्तस् चरसि पावक । (य्ध् २.१०८)

इत्य् उक्ताः । एवं स्वायंभुवे ऽपि च देवताधिष्ठानम् एव सत्यधर्मानुसारि प्रदर्शितम् । यथाह ।

वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ॥ इति । (म्ध् ८.११६)

स्पशश् चरः, साक्षीत्य् अर्थः । अथ वा अनुमानमूल्त्वम् एवास्तु । निर्दोषस्य दोषतया शङ्कितस्याग्निर् अदाहकः अभ्रकादेर् इव दाहानुपलम्भनात् । अनादिकालिकाव्यभिचारिव्यवहारप्रवृत्त्यवाप्तान्वयव्यतिरेकशुद्धानुमानं वह्न्यभाव इव निर्धूमतानुमानम् अप्रतिहतम् एव । अतो ऽप्य् उपपन्नं दिव्यस्मृतेः समूलत्वम् इत्य् एषा दिक् । ननु एवं सति भाविन्य् अर्थे दिव्यानि न स्युः, दौष्ट्यतदभावयोर् असिद्धत्वात् । को वान्यथाह । कथं तर्हि भाविन्य् अर्थे कोशपानादिव्यवहारः । सत्यसंकल्पप्रकटीकरणमात्रं तद् व्यभिचरतः शिष्टविगर्हणसिद्ध्यर्थम् । संकल्पितान्यथाकरणात् त्व् (?) अनृतदोषः स्थित एवेत्य् अलं प्रसक्त्या ॥ ११७ ॥

इति दिव्यप्रकरणम् ।

**