०६ लेख्य-प्रकरणम्

अथ लिखितप्रकरणम् ।

साक्ष्यनन्तरं व्यक्तिप्रमाणकत्वाविशेषाल् लिखितम् उच्यते ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं वा साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८६ ॥

यः कश्चिद् ऋणाधिक्रयप्रतिग्रहविक्रयादिर् अर्थो निष्णातः परिशुद्धस्वरूपसंख्यापरिमाणवृद्ध्यवध्यादिकः धनिकर्णिकादीनां स्वरुच्या परस्परम् अवस्थिते तस्मिन्न् अव्यभिचरार्थं लेख्यं वोक्तलक्षणसाक्षियुक्तं भाविसंदेहापनोदनक्षमं कार्यम् । तस्य चायं क्रमः । धनिकपूर्वकं स्याद् ऋणिकापेक्षया च धनिकस्य पूर्वत्वं न कालाद्यपेक्षया ॥ ८६ ॥

ततश् चायं क्रमः ।

समामासतदर्धाहोवासजातिसगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनाम्ना च चिह्नितम् ॥ २.८७ ॥
समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ २.८८ ॥
साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते ऽसमाः ॥ २.८९ ॥

अत्राहम् अमुकः साक्षीत्य् एवं लिखेयुः । असमाः त्रय इत्य् अर्थः । अन्ये तु समा इति छेदभ्रान्त्या द्वाव् इत्य् आहुः । तत् तु बहुचवनविरोधाद् अयुक्तम् । न च चतुरभिप्रायं तद् इति युक्तम् । “लेख्ये तु परमास् त्रयः” इति वचनात् ॥ ८७–८९ ॥

अलिपिज्ञ ऋणी यः स्यात् स्वमतं लेखयेत् तु सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपगः ॥ २.९० ॥

ऋणी साक्षी वा यो ऽलिपिज्ञः, स सर्वसाक्षिसमक्षं लेखकेन साक्षिणा वान्येन स्वमतं साक्ष्यं वा लेखयेत् ॥ ९० ॥

ततः ।

उभयाभ्यर्थितेनेदं मया त्व् अमुकसूनुना ।
लिखितं त्व् अमुकेनेति लेखकस् त्व् अन्ततो लिखेत् ॥ २.९१ ॥

अन्तत इति वचनं प्राप्तत्वाद् अधिकनिवृत्त्यर्थम् ॥ ९१ ॥

किं पुनः स्वहस्तारोपणे प्रयोजनम् । उच्यते ।

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृताद् ऋते ॥ २.९२ ॥

ऋणिकसंप्रतिपत्त्यर्थं हि साक्षिणः । स चेत् स्वहस्तेनापि संप्रतिपद्येत, मन्दं साक्षिप्रयोजनं मन्यते । एतच् चोपगतादिविषयं द्रष्टव्यम् ॥ ९२ ॥

निर्व्याजप्रमाणशुद्धं च ।

ऋणं लेख्यगतं देयं पुरुषैस् त्रिभिर् एव तु ।
आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥ २.९३ ॥

यद् ऋणं लेख्यगतं, लेख्यारूढम् इत्य् अर्थः, तद् देयं पुरुषैस् त्रिभिर् एव कर्तृतत्पुत्रपौरैर् इत्य् अर्थः । तुशब्दो व्यवच्छेदार्थः । तथा च नारदः ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ इति । (न्स्म् १.४)

अस्यापवादः- आधिस् तु भुज्यते, न चतुर्थान् निवर्तते । किम् अनवधिक एव । न हि । तावत्, यावत् तद् देयं न प्रदीयते ॥ ९३ ॥

यदा त्व् ऋणिकदेशाद् देशान्तरे लेख्यं, प्रमाणतो वा भ्रष्टं, तदा यः प्रकारः तम् आह ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
छिन्ने भिन्ने तथा दग्धे लेख्यम् अन्यत् तु कारयेत् ॥ २.९४ ॥

राजा, परस्परं वा धनिकर्णिकाव् इत्य् अभिप्रायः । लेख्यदोषो यत्र प्रमादाल् लिख्यमाने संजातः, तद् दुर्लेख्यम् । उन्मृष्टं भग्नाक्षरम् । छिन्नं मूषिकादिभिः । भिन्नं पाटितम् । तथाशब्दः प्रकारार्थः । स्पष्टम् अन्यत् ॥ ९४ ॥

लेख्यस्वरूपे चेद् व्यभिचराशङ्का, को ऽत्र निर्णयहेतुः । उच्यते ।

संदिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितं तु यत् ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ २.९५ ॥

संदिग्धश् चासाव् अर्थश् चेति संदिग्धर्थः, तद्विशुद्धिर् अर्थः प्रयोजनं यस्य लेख्यस्य तत् तथोक्तम् । संदिग्धार्थनिर्णये तद् एव प्रमाणम् इत्य् अर्थः । तच् च स्वहस्तलिखितं यदि स्यात्, ततः शुद्धम् एव । संशये तु युक्त्यादिभिर् निर्णयः कार्यः । तस्मिन् काले देवदत्तस्य द्रव्यप्रयोजनम् आसीद्, यज्ञदत्तश् च तदा स्वधनं प्रयुक्तवान् इत्यादिका युक्तिः । समानदेशस्थौ तदोभाव् अप्य् अभूताम् इति प्राप्तिः । अप्रतारकश् चासौ लेखकः प्रसिद्धः, तदीया लेख्या इति क्रिया । चिह्नं मुद्रालिपिविशेषदिकम् । संबन्धो बलोपध्याद्यभावः । आगमो लेख्यलक्षणयोगः । कूटसाक्षित्वाद्यसंभवो हेतुः । एवं युक्त्यादिभिर् यत् परीक्षितं लेख्यं, तत् प्रमाणम् इत्य् अवसेयम् ॥ ९५ ॥

एवं च न्यायागमपरिनिष्ठितप्रामाण्यस्य ।

लेख्यस्य पृष्टे ऽभिलिखेत् प्रविष्टम् अधमर्णिकात् ।
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ २.९६ ॥

यन्मूल्यात् कलान्तराद् वा दद्यात्, तत् तस्यैव पत्रस्य पृष्ठे लेखयेत् । धनिको वान्यत् स्वहस्तपरिचिह्नितम् ऋणिकायोपगतं दद्यात् । अन्यथा दत्तम् अप्य् अदत्तं स्यात् ॥ ९६ ॥

निःशेषं तु ।

दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।
साक्षिमच् च भवेद् यत् तु दातव्यं तत् ससाक्षिकम् ॥ २.९७ ॥

ऋणं दत्त्वा लेख्यं पाटयेत् । शुद्ध्यै शुद्ध्यर्थं निरपवादत्वायेति । यद् वा अन्यत् तु कारयेद् अन्यद् एव वा लेख्यं कार्यम् । ऋणिकस्येच्छया विकल्पः । लेख्यव्यतिरेकेणापि तु ससाक्षिकं यद् गृहीतं, तत् ससाक्षिकम् एव दातव्यं परिशोधनीयत्वात् । सर्वथा लेख्यवत्य् अर्थे लेख्यान्तराद् विशुद्धिः, साक्षिमति च साक्ष्यन्तरात् । यथैवार्थो गृहीतः, तथैव प्रतिदेय इत्य् अर्थः ॥ ९७ ॥

इति लिखितप्रकरणम् ।

**