०५ साक्षि-प्रकरणम्

अथ साक्षिप्रकरणम्

सर्वत्र चर्णादानादौ व्यक्तिहेतवो लिखितं साक्षिणो भुक्तिश् चेति । तत्र भुक्तिः स्थावरादौ । अन्यत्र तु लिखितं साक्षिणश् च । तथा च नारदः- “लिखितं साक्षिणश् चैव प्रमाणे व्यक्तिकारके” (न्स्म् १.१०३) इति सामान्यविवक्षयैवाह । तेनार्थिप्रत्यर्थिभ्यां साक्षिभिर् लिखितेन वा स्वपक्षसिद्धिः कार्येत्य् उक्ते किंलक्षणास् तु साक्षिणो लेख्यं चेत्य् एतद् वक्तव्यम् । तत्र साक्षिणस् तावद् उच्यन्ते ।

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.७० ॥
त्र्यवराः साक्षिणो ज्ञेयाः पञ्चयज्ञक्रियारताः ।
यथाजाति यथावर्णं सर्वे सर्वासु वा पुनः ॥ २.७१ ॥

तपःप्रभृतयो यथोपलब्धवादित्वे हेतवः । कथम् । यो हि निष्कारणः परलोकसाधनैकप्रवणस् तपोदानादिप्रवृत्तो ऽतिशयितेतरपुरुषप्रज्ञः, स कथम् इवात्मनो दृष्टादृष्टविरुद्धं विमार्गाश्रयिणः परस्यार्थे ऽनृतं ब्रूयाद् इत्य् अभिप्रायः । तपोदानादिभिर् ये धर्मप्रधानतया सत्यवादिनः, ये वा कुलीनाः स्वकुलकलङ्कभीत्या, ये वा पुत्रिणो धनिनश् च तद्विनाशभीत्या, प्रकृत्या ऋजवः उपलब्धातिरिक्तवचनाशक्त्यानन्यथावादिनः, ते त्र्यवराः साक्षिणो ज्ञेयाः । त्रयो येषाम् अवरास् ते त्र्यवराः, त्रिप्रभृतय इत्य् अर्थः । साक्षिणो ज्ञेया इति प्रत्यक्षमूलत्वाभिप्रायम् । निपुणतः प्रत्यक्षादिभिर् लक्षणतः साक्षिणो निरूपणीया इत्य् अर्थः । पञ्चयज्ञक्रियारता इति । आन्वाहिकाशक्यपरिहारहिंसानिष्कृत्यर्थं हि पञ्चयज्ञक्रियाविधानम् । तद् ये ह्य् अशक्यपरिहाराम् अपि हिंसाम् अपाकर्तुं प्रवृत्ताः, ते कथम् इव स्वाभिप्रायेणान्यायवर्तिजनवद् असद्वादेषु प्रवर्तेरन्न् इत्य् अभिप्रायः । एवं स्मृत्यन्तराण्य् अपि साक्षिप्रपञ्चविषयाणि व्याख्येयानि । यत् तु नारदेनैकादशविधं साक्ष्यं कृताकृतत्वभेदेनोक्तम् (न्स्म् १.१२९), तत् सौहृदान् मुग्धजनव्युत्पत्त्यर्थम् । तच् च तस्माद् एवावगन्तव्यम्- “यथाजाति” इत्य् । मनुष्यस्त्रीजातिभेदाभिप्रायं वा जातिवचनम् । यथोक्तं नारदेन- “श्रेणीषु श्रेणिपुरुषाः” इत्यादि (न्स्म् १.१३५) । यथावर्णं च ब्राह्मणादीनां च साक्ष्यम् । सर्वे वा सर्वासु जातिषु जातिशब्दाभिधेयत्वाद् वर्णे ऽपि स्त्रीलिङ्गाविरोधः । पुनःशब्दो ऽवसरापेक्षया । साक्ष्यन्तराभावे पुनर् वक्ष्यमाणकार्यापेक्षया वा सर्वे सर्वेषां, यथा “सर्वः सङ्ग्रहणे साक्षी” इति (य्ध् २.७४) ॥ ७०–७१ ॥

उक्तन्यायविरोधे तु ।

स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥ २.७२ ॥
पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसी दृष्टदोषश् च निर्धूतश् चेत्य् असाक्षिणः ॥ २.७३ ॥

येषां तु दृष्टम् अदृष्टं वा यथाभूतार्थदर्शने दृष्टार्थाभिधायित्वे च कारणं न स्याद्, विपर्यये वा स्यात्, ते न साक्षिण इत्य् अर्थः । सर्वे चाभोज्यप्रकरणोक्ता अग्निहीनादयः साक्ष्यानर्हा द्रष्टव्याः । तदुपलक्षणार्थैवात्र स्त्री । यथोक्तम्- “अवीरायाश् च योषितः” इति (म्ध् ४.२१३) । सैव चाप्य् अत्राप्य् अभिप्रेता । सवीरायास् तु तदधिष्ठितायाः साक्ष्यं क्वचिद् अस्त्य् एव । यथोक्तं स्वयम्भुवा- “स्त्रीणां साक्ष्यं स्त्रियः कुर्युः” इति (म्ध् ८.६८) । रङ्गावतारी मल्लः । स्पष्टम् अन्यत् । अभोज्यान्नानां तु साक्ष्यानधिकारं न्यायसिद्धम् एवाभिप्रेत्य नारदेनोक्तम्-

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ (न्स्म् १.१५९)

इत्य् उक्त्वा, ततः-

दासनैकृतिकश्रान्तवृद्धस्त्रीबालधिक्कृताः ॥ इति । (न्स्म् १.१६०)

एवं सर्वे ऽभोज्यान्ना अनुक्रान्ताः । प्रमाणान्तरमूलं चासाक्षित्वं प्रपञ्चितम् । यथा ।

बालो ऽज्ञानाद् अमत्या स्त्री पापाभ्यासाच् च कूटकृत् ।
विब्रूयुर् बान्धवाः स्नेहाद् वैरनिर्यातनाद् अरिः ॥ इति । (न्स्म् १.१७३)

वचनाद् अपि क्वचित् । यथाह ।

श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । इति । (न्स्म् १.१३८)

सर्वथानया दिशा न्यायागमाभ्यां साक्ष्यम् असाक्ष्यं च प्रपञ्चनीयम् ॥ ७२–७३ ॥

देशकालाद्यपेक्षया पुनः ।

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् ।
सर्वः संग्रहणे साक्षी दण्डपारुष्यसाहसे ॥ २.७४ ॥

अर्थिप्रथ्यर्थिभ्याम् अनुमतो ऽतिशयगुणवान् एको ऽपि साक्षी स्यात् । अपिशब्दाद् द्वाव् अपि । साक्षिपुनर्वचनं च समक्षदर्शनाद् एव संग्रहणादौ साक्ष्यं यथा स्यात् । अविशेषाभिधाने ऽपि भूतार्थोपलम्भवचनाशक्तेर् बालादयो न स्युः । तथा च नारदः ।

असाक्षिणो ऽपि ये ऽत्रोक्ता दासनैकृतिकादयः ।
कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥
साहसेषु तु सर्वेषु स्तेयसंग्रहणादिषु ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ (न्स्म् १.१७०–१७१)

इत्य् उक्त्वाह-

एषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिः कुर्युस् ते साक्ष्यम् अन्यथा ॥ इति । (न्स्म् १.१७२)

अतो बालादिवर्जं द्विप्रभृतिसाक्ष्यम् अविरुद्धम् । यद् वा नैक इति नायं संख्यानिषेधः, पुरुषमात्रप्रतिषेध एवायम् । यथैवैका स्त्री निषिद्धा “योषितं चावीराम्” इति, तथैव स्त्रीरहित एकः पुमान् अनर्ह इति व्यख्येयम् । अतश् च त्र्यवराणाम् एव संग्रहणादौ साक्ष्यम् इत्य् अवसेयम् । न्यायमूलत्वाद् एव चात्यर्थम् अनुमानकुशलतयायम् अपि नारदीयः प्रतिषेधो ऽतिक्रामयितव्यः । तथा च स्वायम्भुवम् ।

स्त्रियाप्य् असंभवे कार्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ इति । (म्ध् ८.७०)

अनुमानानुसारिणी च निश्चयावगतिस् तत्रैवोक्ता ।

बालवृद्धातुराणां च साक्ष्येषु वदतानृतम् ।
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥ इति । (म्ध् ८.७१)

एवम् अन्यत्रापि व्यवहारप्रकरणे न्यायागमविवेकः प्रपञ्चनीयः ॥ ७४ ॥

ननु एवम् अपि सङ्कटे साक्ष्यव्यवहारे यदि न कश्चित् साक्ष्यं ब्रूयात् । सत्यम् । तेनैव चाह ।

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः षट्चत्वारिंशत्तमे ऽहनि ॥ २.७५ ॥

यद्य् अप्य् अरोगस् त्रिपक्षेणापि साक्ष्यं न ब्रूयात्, ततो राज्ञा सदशबन्धकम् ऋणं प्रमथ्य दाप्यः । सह दशबन्धकेन सदशबन्धकम् । दशांशाभ्यधिकम् इत्य् अर्थः । ऋणग्रहणं सर्वविवादोपलक्षणार्थम् ॥ ७५ ॥

किं च ।

न ब्रवीति हि यः साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ २.७६ ॥

जानन्न् अपीति पदं नियोगस्याविवक्षां दर्शयति । तथा च स्वयम्भूः ।

यत्रानिबद्धो वीक्षेत शृणुयाद् वापि कश्चन ।
पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ इति । (म्ध् ८.७६)

यतश् चानभिधाने प्रत्यवायः, ततो जानता तत्कालनियुक्तेनापि वक्तव्यम् इत्य् अर्थः ॥ ७६ ॥

कूटसाक्षिणो मिथ्यावादिनः । तेषां यत् पापं, तत् प्रकरणान्तरेण दर्शयति ।

साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा ॥ २.७७ ॥
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
तान् सर्वान् समवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ २.७८ ॥

स्मृत्यन्तरान् न्यायाच् च प्राङ्मुखान् उदङ्मुखान् वा प्रयतान् पूर्वाह्णे प्रणिहितैकाग्रान् अर्थिप्रत्यर्थिसभ्यसमक्षं तथाभूत एव प्राड्विवाको ऽपि हि “ये पातककृतां लोकाः” इति श्रावयेत् । स्पष्टम् अन्यत् ॥ ७७–७८ ॥

एवं श्रावयित्वा तत्स्वरूपापेक्षया यथार्हं पृच्छेत् । धर्मानभिज्ञस् त्व् एवं प्रतिबोधयेत् ।

यत् त्वया सुकृतं किंचिज् जन्मान्तरशतैः कृतम् ।
तत् सर्वं तस्य जानीहि पराजयसि यं मृषा ॥ २.७९ ॥

एवम् उक्ते यथानुभवं वदताम् ।

साक्षिद्वैधे प्रभूतानां समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं गुणवत्तरम् ॥ २.८० ॥

एवं च परीक्षितवचनाः ।

यस्याहुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥ २.८१ ॥

प्रतिज्ञाम् इत्य् अविशेषवचनात् कृत्स्नप्रतिज्ञातार्थसत्यत्व एव जयो विज्ञेयः । अन्यथा तु पराजय एव स्यात् । तथा च नारदः ।

देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि चान्यथा ॥ इति । (न्स्म् १.२१२)

बह्वर्थप्रतिज्ञायां च ।

न्यूनम् अभ्यधिकं चार्थं प्रब्रूयुर् यत्र साक्षिणः ।
तद् अप्य् अनुक्तं विज्ञेयम् एष साक्ष्यविधिः स्मृतः ॥ इति । (न्स्म् १.२१३)

अतः कृत्स्नप्रतिज्ञातार्थसत्यत्व एव ध्रुवो (?) जयः, न्यायमूलत्वाच् च व्यवहारस्मृतेः ॥ ८१ ॥

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८२ ॥

एवं च कौटसाक्ष्ये साक्षिणां व्यवहारकर्त्रोर् वा कूटव्यवहारकर्तृत्वे स्पष्टीकृते निर्विकल्पं राज्ञा ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादद्विगुणं द्रव्यं विवास्यो ब्राह्मणो भवेत् ॥ २.८३ ॥

कूटव्यवहारकर्ता कूटकृद् दण्ड्यः । एकैकशश् च पृथक् पृथक् साक्षी विवादद्विगुणं द्रव्यं दाप्यः । ब्राह्मणस् त्व् अददद् दण्डं समग्रधन एव च राष्ट्राद् विवास्यः । तथा च स्वायम्भुवम् ।

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्रात् त्व् एनं बहिष्कुर्यात् समग्रधनम् अक्षतम् ॥ इति । (म्ध् ८.३८०)

वधप्रसङ्गे (दण्डप्रधानेन ? दण्डाप्रदाने) वा समग्रधन एव राष्ट्राद् बहिष्कार्यः । न तु शारीरो निग्रहो ऽन्यथा वा ब्राह्मणस्य कार्य इत्य् अर्थः ॥ ८३ ॥

उत्तरसाक्षी तु प्रवत्स्यता मुमूर्षुणा वा ।

यः साक्ष्यं श्रावितो ऽन्येन निह्नुते तत् तमोवृतः ।
स दाप्यो ऽष्टगुणं द्रव्यं ब्राह्मणं तु विवासयेत् ॥ २.८४ ॥

अतो ऽवश्यं वक्तव्यं साक्ष्यं सत्यं च ॥ ८४ ॥

अस्यापवादः ।

वर्णिनां तु वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।
तत्पावनाय कर्तव्यश् चरुः सारस्वतो द्विजैः ॥ २.८५ ॥

शूद्रेण तु दानादय इत्य् अभिप्रायः । चतुर्ष्व् अपि भवा ब्राह्मणादयो वर्णिनः । तेषां यत्र साक्षिणि सत्याभिधातरि वधः स्यात्, तत्र साक्ष्य् अनृतं वक्तुम् अर्हति । सदोषम् अपि गुणभूम्नानृतवचनम् अभ्युपगम्यते । तथा च गौतमः- “नानृतवचने दोषो जीवनं चेत् अदधीनम्” इत्य् उक्त्वाह- “न तु पापीयसो जीवनम्” इति (ग्ध् १३.२५–२६) । अदोषवचनं चाल्पदोषाभिप्रायं प्रायश्चित्तविधानसामर्थ्याद् द्रष्टव्यम् । एतच् च न्यायप्राप्तम् एव मन्दबुद्धिप्रतिबोधनाय । प्रायश्चित्तविधानाच् चावश्यकर्तव्यतात्रोच्यते । अन्यत्रापि गुरुलघुत्वे समीक्ष्य पापस्याप्य् अनुष्ठानं प्रायश्चित्तं च तदपनुत्तये कार्यं यथा स्यात् । धर्मान्तरोपयोगित्वाच् चैतत् कामकृतम् अप्य् अकामकृतम् एव द्रष्टव्यम् । स्वायम्भुवे तु ।

वाग्दैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥
कूश्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ इति । (म्ध् १०.१०५–०६)

एवं प्रायश्चित्तचतुष्टयं यद् आम्नातम्, तत् तन्निर्देशानुसाराच् छूद्रादिक्रमेण यथावर्णं क्रमशो द्रष्टव्यम् । शूद्रस्वरूपापेक्षया च चरोः सकृद् वृत्तिर् आवृत्तिर् यथा स्याद् इति चरुभिर् इत्य् उक्तम् । अस्माद् एव च प्रायश्चित्तानृतानुज्ञानाद् राज्ञो नैयोगिकं वध्यानुपेक्षणम् इति गम्यते । साक्षिणस् तु प्रायश्चित्तोपदेशमात्राद् राजकीयविनयानर्हा इत्य् अवसेयम् ॥ ८५ ॥

इति साक्षिप्रकरणम् ।

**