अथ उपनिधिप्रकरणम् ।
आध्यनन्तरं विश्वासार्पितत्वसामान्याद् उपनिधिर् उच्यते ।
भाजनस्थम् अनाख्याय हस्ते ऽन्यस्य यद् अर्प्यते ।
द्रव्यं तद् औपनिधिकं
उच्यत इति शेषः ।
प्रतिदेयं तथैव तत् ॥ २.६७ ॥
क्वापि स्थितम् अनिर्दिष्टस्वरूपं कस्यचित् परिग्रहे एवम् उक्त्वा यत् समर्प्यते- “त्वयेदं रक्षणीयम्” इति । हस्तशब्दः परिग्रहार्थः । न्यस्य क्षिप्त्वेत्य् अर्थः । तद् औपनिधिकसंज्ञकं यथा गृहीतं तथैव प्रत्यर्पणीयम् इत्य् अर्थः ॥ ६७ ॥
यत् तु द्रव्यम् उपनिहितम् ।
न दाप्यो ऽपहृतं तत् तु राजदैविकतस्करैः ।
दोषश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६८ ॥
राजाद्यपहृतम् अनपराधी न दाप्यः । दोषश् चेन् मार्गिते प्रयाचिते अदत्ते अनर्पिते तस्करापहारादिलक्षणो दोषश् चेद् दाप्यो ऽपहृतम्, तत्समं च राज्ञे दाप्यो दण्डम् । ऋज्व् अन्यत् ॥ ६८ ॥
स्वाम्यननुज्ञयैवौपनिधिकं द्रव्यम् ।
आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तच् चापि सोदयम् ।
याचितान्वाहितन्यासनिक्षेपेष्व् अप्य् अयं विधिः ॥ २.६९ ॥
याचितं कार्यार्थम् आहृतं परकीयम् उपस्करादि । अन्वाहितम् आध्यसामर्थ्ये यद् अन्यद् अर्पितम् । प्रतिग्रहप्रसङ्गेन वा यद् अलब्धम् एव पात्रादि उपकरणत्वेनाहृतम् । न्यासो निर्दिष्टस्वरूपं द्रव्यं यद् रक्षणार्थं समर्पितम् । निक्षेपो ऽन्यहस्त एव यद् अन्यस्मै देयत्वेन निक्षिप्तम् । एतेष्व् अपि याचितादिष्व् अयम् एवौपनिधिको विधिर् द्रष्टव्यः ॥ ६९ ॥
इति उपनिधिप्रकरणम्
**