०३ ऋणादान-प्रकरणम्

अथ ऋणादानप्रकरणम् ।

एवं तावत् सामान्येन न्यायस्वरूपम् अभिधायेदानीम् ऋणादानादिव्यवहारस्थानक्रमेण विशेषतः प्रस्तौति । तत्राद्यता मन्वादिभिर् ऋणादानस्योक्ता । अतस् तद् एव तावद् उच्यते ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा ॥ २.३९ ॥

यद्य् अप्य् अविशेषेणाशीतिभागो ऽभिहितः, तथापि ब्राह्मणस्यैवयम् । अन्येषां तु पादवृद्ध्या वृद्धिकल्पनम् । तथा च बृहस्पतिः- “पादोपचयात् क्रमेणेतरेषाम्” इति । अन्यथा तु बन्धकरहिते द्विकत्रिकत्वं वृद्धेर् इत्य् अभिप्रायः । यच् चैतद् वृद्धिपरिमाणम् उक्तम्, अत ऊर्ध्वं न गृह्णीयात् । न त्व् अर्वाग्ग्रहणे विरोधः ॥ ३९ ॥

अनयैव वृद्ध्या ।

सन्ततिस् तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ॥ २.४० ॥

पशुस्त्रीणां वृद्धिः फलभोग्यत्वेनार्पितानां या प्रसूतिः सा धनिकस्य स्यात् । तुशब्दात् सन्ततिर् एव, नापरा वृद्धिर् इत्य् अर्थः । पशुस्त्रीणां इति पुंस्पशुसन्तानव्यवच्छेदार्थम् । अथ वा पशूनां स्त्रीणां च दासीनाम् इति योज्यम् । इक्ष्वादिरसस्याष्टगुणा परा वृद्धिः । वस्त्राणां चतुर्गुणा, धान्यानां त्रिगुणा, हिरण्यादीनां द्विगुणा । तच् चाशीतिभागाद्यनुसारेण यावता कालेन हिरण्यं द्विगुणं, तावतैव धान्यादेः स्वपरिमाणयोगः ॥ ४० ॥

चातुर्वर्ण्यातिरेकेण तु ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.४१ ॥

कान्तारगा अरण्यवासिनः, तद्गामिनो वा । सामुद्राः समुद्रव्यवहारिणः । ते प्रतिमासं दशकं विंशकं च शतं दद्युः । यद् वा कान्तारं वर्णापशदत्वं ये गच्छन्ति, ते कान्तारगाः, वर्णापशदा इत्य् अर्थः । सह मुद्रया नियमेन वर्तत इति समुद्रो वर्णाश्रमविषयः, तम् अतिलङ्घयन्ति ये, ते विपरीतलक्षणया वा सामुद्राः, विकर्मस्था इत्य् अर्थः । दद्युर् वा स्वपरिभाषीतां वृद्धिं सर्वे ब्राह्मणादयो ऽपि सर्वास्व् अपशदजातिष्व् इत्य् अर्थः । आपत्कल्पश् चायं ब्राह्मणादीनाम् इत्य् एतद् वाशब्देन द्योतयति ॥ ४१ ॥

अनया च वृद्ध्या ।

प्रपन्नं साधयानो ऽर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छेत् दाप्यो दण्ड्यश् च तद् धनम् ॥ २.४२ ॥

प्रपन्नं न्यायेन स्पष्टीकृतं यदृच्छया साधनानो ऽर्थं न राज्ञा किंचिद् वक्तव्यः । यदि तु साध्यमानो राजन्य् आवेदयेत्, ततो दण्ड्यो दाप्यश् च राज्ञैव तद् धनं, धनिकायेति शेषः ॥ ४२ ॥

अथ यद्य् एकम् ऋणिनं युगपद् धनिनः प्रार्थयेयुः, तदायं क्रमः ।

गृहीतानुक्रमाद् दद्याद् धनिनाम् अधमर्णिकः ।
दद्यात् तु ब्राह्मणायाग्रे नृपाय तदनन्तरम् ॥ २.४३ ॥

ग्रहणानुक्रमाद् एवाधमर्णिकेनर्णम् एकजातीयेभ्यो देयम् । जातिभेदे ब्राह्मणादिक्रमेणैव । तुशब्दात् तुल्यजातीयत्वे ऽपि गुणाद्यपेक्षं क्रमं द्योतयति ॥ ४३ ॥

विप्रतिपन्नस् त्व् ऋणिको राजन्य् आवेद्य साद्यः । तत्र च ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं तु शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ २.४४ ॥

ऋणिको राज्ञा सर्वं धनिकायार्थं दाप्यः । स्वयं च तस्माद् एवाधमर्णिकाद् दशकं शतं गृह्णीयात् । धनिको ऽपि साधितार्थसंख्यया पारितोषिकं राज्ञे पञ्चकं शतं दद्यात् । उत्तमर्णिको धनिकः । स्पष्टम् अन्यत् ॥ ४४ ॥

एवं तावत् समृद्धं दापयेत् । असमृद्धं तु ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ २.४५ ॥

स्पष्टार्थः श्लोकः ॥ ४५ ॥

यथोत्पत्त्या च ददतः।

दीयमानं न गृह्णीत प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं तत् स्याद् वर्धते न ततः परम् ॥ २.४६ ॥

स्वकं धनम् इति वचनाद् आत्मनेपदयोगाच् च संनिहितधनिकविषयम् एतत् । अन्यथा तु वर्धत एवेत्य् अभिप्रायः ॥ ४६ ॥

ऋणिके सत्य् अयं दानक्रमः । तदभावे तु ।

रिक्थग्राह ऋणं दद्याद् योषिद्ग्राहस् तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ २.४७ ॥

रिक्थानुसारित्वाद् ऋणानां रिक्थग्राहिण एव निर्विचिकित्सं दद्युः । निर्धनस्य तु नियोगाद् विना यो ऽस्य भार्यां संगृह्णीयात्, स दद्यात् । एतच् चाब्राह्मणविषयम्, तद्योषीताम् एवान्यगामित्वसंभवात् । “तथैव च” इति धनग्राहिवद् अविकल्पयन् योषीद्ग्राह्य् अपि दद्याद् इत्य् अर्थः । तद् एव हि द्रव्यं द्रव्यहीनस्येत्य् अभिप्रायः । एतस्माद् एव चातिदेशाद् रिक्थाभाव एव योषिद्ग्राहादयः प्रत्येतव्याः । “पुत्रो ऽनन्याश्रित द्रव्यः” इति । अन्यस्मिन् नाश्रितं द्रव्यं यस्य असाव् अनन्याश्रितद्रव्यः पुत्रो दद्यात् । न चेद् द्रव्यम् अन्येन गृहीतम् इत्य् अर्थः । ननु अद्रव्यस्यैव पुत्रो दद्यात् । ऋणस्य द्रव्यानुसारित्वाद् इत्य् एतत् प्राग् एव ज्ञापितम् । किम् इदं पुनर् अनन्याश्रितद्रव्य इति । मैवम् । प्राग् अप्य् एतत् पदानुसाराद् एवं व्याख्यातम् । अतिदेशाद् अभ्युच्चय एव । अथ वा बहुपुत्रस्य यद्य् एकः पितृधनम् इतरानुमतो गृह्णीयात्, तदा धनग्राहिण इतरेषां च तुल्यम् ऋणभाक्त्वं, यतो ऽन्यैर् अपि स्वेच्छया स्वांशोत्संकलनं कृतम् इतीमाम् आशङ्कां निरस्यति- “पुत्रो ऽनन्याश्रितद्रव्यः” इति । येनैव पुत्रेण द्रव्यम् आश्रितं, स एव दद्यात् । नान्यो ऽनुमन्तापीत्य् अर्थः । अत एव च ज्ञायते भागशः पुत्रा ऋणं दद्युर् इति । ज्येष्ठो वा भूयो दद्याद्, रिक्थविभागे विशेषदर्शनाद् इत्य् एषा दिक् । सर्वथा धनप्राप्तिसंबन्धानुसारेणैव ह्य् ऋणसंगतिः । तथैवापुत्रस्याप्य् अन्ये रिक्थभाज एवर्णभाजः, ऋणभाक्त्वम् अपि प्रतिपद्यन्त इत्य् अभिप्रायः । तथा च कात्यायनः ।

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश् च तदभावे ऽन्यै रिक्थभाग्भिर् यथाक्रमम् ॥ इति । (क्स्म् ५६२)

बृहस्पतिश् च- "

धनस्त्रीहारिपुत्राणां पूर्वाभावे यथोत्तरम् ।
आधमर्ण्यं तदभावे क्रमशो ऽन्येषाम् रिक्थभाजाम् ॥ इति । (बृस्म् १०.१०६–७)

यद् वा, अनन्याश्रितद्रव्य इत्य् अस्यान्यो ऽर्थः- पितरि मृते यस्य पैतृकं रिक्थं केनापि परिनिक्षिप्तादिहेतुनान्यस्मिन्न् आश्रितम् सो ऽन्याश्रितद्रव्यः न तदप्राप्यैव पैतृकम् ऋणं दद्याद् इत्य् अत्रैव हेतुः । “पुत्रहीनस्य रिक्थिनः” । अन्ये ऽपि तु भवन्तीति सेषः । यावद् असौ न्याय्यम् अपि पैतृकं रिक्थं नाप्नुयात्, तावद् ऋणं किम् इति दद्याद् इत्य् अभिप्रायः । सर्वाणि चैतानि स्मृत्यन्तरात् सम्यग् व्याख्यातानीत्य् अवगन्तव्यम् । यथाह कात्यायनः ।

यावन् न पैतृकं द्रव्यं विद्यमानं लभेत् सुतः।
सुसमृद्धो ऽपि दाप्यः स्यात् तावन् नैवाधमर्णिकः ॥ इति (क्स्म् ५६३) ॥ ४७ ॥

एवं तावत् पैतृकम् ऋणं देयम् । भ्रात्रादिकृते तु कथम् । तत्रापि ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४८ ॥

कुटुम्बे भवः कुटुम्बी भ्रात्रादिः । तेन कुटुम्बनिमित्तं यद् ऋणं कृतं, तत् सर्वैर् एव तस्मिन् प्रेते प्रोषिते वा रिक्थभाग्भिर् अविभक्तैर् देयम् । विभक्तानाम् अपि रिक्थभाजां संभवाद् अविभक्तैर् इत्य् उक्तम् ॥ ४८ ॥

अविभक्तत्वे ऽपि तु ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ २.४९ ॥

अस्यापवादः ।

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ २.५० ॥

गोपो गोपालः । शौण्डिकः कल्पालः । शैलूषो नटः । रजको वस्त्रनिर्णेजकः रञ्जकश् च । व्याधो लुब्धकः । एते स्त्रीकृतम् अप्य् ऋणं दद्युः, स्त्रीप्रधानत्वाद् एतेषाम् । तथा च नारदः-

तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् । इति । (न्स्म् १.१६)

हेत्वभिधानं चान्ये ऽप्य् एवंप्रकारा उक्ता यथा स्युर् इति ॥ ५० ॥

पुरुषमात्राविशेषेण तु ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।
स्वयं कृतम् ऋणं वापि नान्यत् स्त्री दातुम् अर्हति ॥ २.५१ ॥

दम्पत्योर् अविभक्तधनत्वे ऽप्य् अभ्युपेतादिव्यतिरेकेण स्त्रिया न देयम् इत्य् अभिप्रायः । कुतः पुनः स्त्रीणां स्वातन्त्र्येणर्णप्रसङ्गः, कुतो वा दानम् इति । स्त्रीणाम् अपि हि स्वातन्त्र्येण धनं वक्ष्यति “भर्त्रा प्रीतेन यद् दत्तम्” (न्स्म् १.२४) इत्य् अत्र । स्वशरीरोपभोगार्थं स्त्रीणाम् ऋणप्रसङ्गो ऽविरुद्धः । अत्रैव स्त्रीणाम् ऋणसंबन्धः ॥ ५१ ॥

अन्यत्रापि तु ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ २.५२ ॥

पितरि मृते प्रोषिते वा विंशतिवर्षाणि प्रतीक्ष्य, व्यसनाभिबूतो वा पुत्रादिभिर् ऋणं देयम् । अपिवेति च प्रकारार्थम् । अन्यस्मिन्न् अप्य् एवंप्रकारे व्याध्यादाव् असमाधेयेन्द्रियवैकल्ये हेताव् उत्पन्न इत्य् अर्थः । तथा निह्नवे यदि च पिता विप्रतिपन्नस् तदा साक्षिभावितं पुत्रादिभिर् एवर्णं देयम् । सो ऽपि हि प्रकृतिविपर्ययाद् असामर्थ्येनायोग्य एव । ऋणवच् चास्व् अवस्थासु पैतृकं रिक्थम् अपि पुत्रादिभिर् ग्राह्यम् इत्य् अवगन्तव्यम् ॥ ५२ ॥

अस्यापवादः।

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ २.५३ ॥

स्वस्थपितृकृतम् अस्वस्थे तस्मिन् रिक्थभाग्भिर् देयम् । न पुनर् अस्वस्थकृतम् अपीत्य् अभिप्रायः । अस्वास्थ्यप्रकारप्रपञ्चार्थश् चायं श्लोकः । दण्डशुल्कावशिष्टकं तु वचनाद् अदेयम् । सुरां पीत्वा यन् मूल्यं न दत्तं, यच् च कामसंयोगेन स्त्रीणां प्रतिज्ञातं, द्यूतहारितं दण्डाद्यवशिष्टं वृथादानं च तथैवेह यस्य फलं नामुत्रेति निश्चितं, तत् पुत्रादिभिर् अदेयम् । शुल्कं पथि राजभाव्यं दानम् । अशास्त्रचोदितं वृथादानम् । स्पष्टम् अन्यत् ॥ ५३ ॥

ऋणस्य प्रतिनिर्यातनप्रकार उक्तः । को नु खलु ऋणग्रहीतेत्य् एतन् निरूपयितुम् आह ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ २.५४ ॥

भ्रात्रादीनाम् अविभक्तानां परस्परम् ऋणसाक्ष्यप्रातिभाव्यानि न विद्यते । तेनैव च विभक्ताविभक्तसंशये साक्ष्यादिभिर् निर्णयः । दम्पतिवचनं चात्र विभागासंभावाद् अन्येषाम् अपि रिक्थभाजाम् अविभक्तानां साक्ष्याद्यभावप्रदर्शनार्थम् ॥ ५४ ॥

क्व पुनर् विषये प्रातिभाव्यम् ।

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ २.५५ ॥

अपसर्पणाशङ्कायां दर्शनार्थम्, अविश्वासे विश्वासार्थम्, सिद्धार्थप्रदानेन च प्रातिभव्यम् । विधीयत इति विचिकित्सानिवृत्त्यर्थम् । अगृहीतं ददतो दापयतो वा विचिकित्सा मा भूत् । तत्र दर्शनप्रत्ययप्रतिभुवौ वितथे विसंवादिते कार्यिणि दाप्यौ स्वयं, न तु तत्पुत्राः । इतरस्य तु दानप्रतिभुवः पुत्रा अपीत्य् अभिप्रायः । अपिशब्दो ऽन्येषाम् अपि रिक्थभाजां प्राप्त्यर्थः । ननु च दर्शनप्रतिभूर् अपि प्रत्ययार्थ एव । नैवम् । प्रत्यायितस्यापि निमित्तान्तराद् भवत्य् एवादर्शनम् । यद् वा मृते कार्यिणि दातृत्वार्थं दर्शनप्रातिभाव्यवचनं द्रष्टव्यम् । तथा च बृहस्पतिः- “उपस्थाप्य विपत्ताव् उपस्थाप्यस्य पुनः प्रतिभूर् दाप्यः” इति (बृस्म् १०.७९) । एतच् चार्थार्पणेनोपविश्वास्य यत्र दर्शनप्रातिभाव्यं क्रियते, तद्विषयम् एव । तथा च नारदः ।

ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वा विवादिते ।
प्रतिभूस् तदृणं दद्याद् अनुपस्थापयंस् तथा ॥ इति । (न्स्म् १.१०५)

यदोपस्थानं संभवतीति शेषः । मृतस्य चोपस्थापनासंभवाज् जीवदधिकार इति नारदाभिप्रायः । विकल्पप्रसङ्गे विषयव्यवस्थोक्तैव ॥ ५५ ॥

पूर्वश्लोकार्थम् एव स्पष्टयति ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥ २.५६ ॥

श्लोकान्तरारम्भसामर्थ्यान् मृतवचनाच् च जीवतः पुत्रैः शक्तितो ऽन्वेषणं कार्यम् इत्य् अभिप्रायः ॥ ५६ ॥

एकस्यैव तु यदा कार्यिणः ।

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायास्थितेष्व् एषु धनिकस्य यथारुचि ॥ २.५७ ॥

बहवः प्रतिभुवो यदि स्युर् अंशतो धनं दद्युः । एकच्छायास्थितेष्व् एषु धनिकस्येच्छया व्यस्तसमस्तत्वेन कृत्स्नं धनं दापयेत् । एकच्छायाकाः समानग्राहकत्वेन प्रतिभुवः न द्रव्योपभोक्तारः । एतद् एव चैष्व् इति सर्वनाम्ना स्पष्टीकृतम् ॥ ५७ ॥

द्रव्यानुपभोक्तृत्वाच् च ।

_ _

प्रतिभूर् दापितो यत्र प्रकाशं धनिने धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् धनम् ॥ २.५८ ॥

प्रकाशवचनाद् यत् प्रतिभुवो हस्तनिर्गतं तद् एव द्विगुणं देयम् । न तु धनिकाय यावद् देयम् इत्य् अभिप्रायः । हिरण्यविषयश् चायं श्लोकः ॥ ५८ ॥

पश्वादौ तु ।

ससन्तिति स्त्रीपशव्यं धान्यं त्रिगुणम् एव तु ।
वस्त्रं चतुर्गुणं देयं रसश् चाष्टगुणस् तथा ॥ २.५९ ॥

तथाशब्दः सत्काराद्यर्थः । यस्य यावती परा वृद्धिर् उक्ता, तस्य तद्वृद्धियुक्तं ससत्कारं प्रतिभुवे देयम् इत्य् अर्थः ॥ ५९ ॥

विस्रम्भहेतू द्वाव् आधिप्रतिभुवौ । तथा चोक्तम्- “विस्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च” इति (न्स्म् १.१०३) । तयोः प्रतिभूर् व्याख्यातः । इदानीं क्रमप्राप्तत्वाद् आधिर् उच्यते ।

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ २.६० ॥

विश्वासार्थं हिरण्यादि यद् आधीयते स आधिः । स द्विविधः गोप्यश् चागोप्यश् च । तत्र गोप्यः कदाचित् कालव्यवस्थया क्रियते “इयता कालेनामोक्षयतो ममायं प्रणङ्क्ष्यति” इति । कदाचित् तु संमुग्धः स प्रणश्येद् द्विगुणे धने यदि न दीयते इतरो ऽपि कालव्यवस्थया कृतस् तत एव प्रणस्यतीत्य् अत आह- “फलभोग्यो न नश्यति” इति । फलं भुज्यते यस्य स फलभोग्यः आधिः । फलं वृद्धिः । स्पष्टम् अन्यत् ॥ ६० ॥

किं च ।

गोप्याधिभोगिनो वृद्धिः सोपकारे ऽथ भाविते ।
नष्टो देयो विनष्टो वा दैवराजकृतद् ऋते ॥ २.६१ ॥

गोप्याधिभोगिनो वृद्धिः प्रणस्येद् इति शेषः । “सोपकारे ऽथ” इत्य् अपिशब्दार्थो ऽथशब्दः । सोपकारे ऽप्य् आधौ वृद्धिर् न स्याद् इत्य् अर्थः । वाहदोहादियुक्तो गवादिः सोपकारः । अविकाराशङ्कया पृथग्वचनम् । भावित इति भोक्त्राभ्युपगते साक्षिभिर् वा भुक्तो ऽनेनायम् इत्य् एवं भाविते । नष्ट आधिर् विनष्टो वा दैविकाद् अग्न्याद्युपद्रवाद् राजकीयाद् वा विना अधमर्णिकाय देयः । स्वरूपहानं विनाशः । अपहारस् तु नाशः । स्पष्टम् अन्यत् ॥ ६१ ॥

ऋणिकार्पितस्य ।

आधेः स्वीकरणात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् ।
यातश् चेद् अन्य आधेयो धनं वा धनिने वहेत् ॥ २.६२ ॥

समर्पितस्यापि स्वीकरणेनोपभोग्यत्वसिद्धिः स्यात् । यत्नेनापि तु रक्ष्यमाणो ऽप्य् असारतां यातश् चेद् यदि पाल्यमानो ऽप्य् असारीभूतः, ततो ऽन्य आधेयः स्यात् । यद् वा अस्मिन्न् अवसरे धनभाग् वा धनी भवेत्[^१०] । धनिने वा धनं सोदयं देयम्, आध्यन्तरं वा कार्यम् इत्य् अभिप्रायः ॥ ६२ ॥

यदा त्व् आधिर् अपुष्यमाण एव, स तु बन्धकमात्रतया क्रियते, तदा ।

**
चरित्रबन्धककृतं सवृद्धं दापयेद् धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ २.६३ ॥

चरित्रबन्धककृतं सोदयम् अर्थं दाप्यः । नाधित्यागमात्रेण मोच्य इत्य् अर्थः । अन्यत्राप्य् एवम् एव विश्वासव्यवहारे सत्यंकाराय च यद् द्रव्यम् अर्पितम्, तद् विसंवदता द्विगुणं प्रत्यर्पणीयम् । सत्यंकारिणस् तु विसंवादतस् तद् धानिर् एव । यथाह कात्यायनः ।

सतयंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस् तु तद्धानिः सत्यंकारप्रयोजनम् ॥ इति (क्स्म् ५४१) ॥ ६३ ॥

यदा त्व् ऋणिकः सोदयं द्रव्यम् आदायोपस्थितः, तदा ।

उपस्थितस्य मोक्तव्य आधिर् दण्ड्यो ऽन्यथा भवेत् ।
प्रयोजके ऽसति धनं कुले न्यस्याधिम् आप्नुयात् ॥ २.६४ ॥

सोदयं द्रव्यम् आदायोपस्थितस्याधिम् अनुत्सृजन् प्रयोक्ता दण्ड्यः स्यात् । यदा त्व् असंनिहितो धनप्रयोक्ता, तदा तस्मिन् प्रयोजके ऽसति तत्कुटुम्बे समर्प्य द्रव्यम् आधिम् आप्नुयात् निःसंशयं गृह्णीयाद् इत्य् अर्थः । एवं धनिककुले द्रव्यं समर्पयित्वाधिर् ग्राह्यः ॥ ६४ ॥

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः ।
विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ २.६५ ॥

तत्काले कृतं मूल्यं यस्य स तत्कालकृतमूल्यः । यदि मूल्याद् ध्रासः स्यात्, तदा तत्कालकृतं यन् मूल्यं, तद् धनिकेन देयम् । इत्य् एतया परिभाषया वृद्धिशून्यो धनिकहस्ते तिष्ठेत् । यदा तु धनं द्विगुणीभूतम्, ऋणिकश् चासंनिहितः, तदा तत्काले श्रावयित्वाधिं निर्विकल्पं गृह्णीयात् । विनैव धारणकात् ससाक्षिकं विक्रीणीतेत्य् अर्थः ॥ ६५ ॥

वृद्ध्यर्थं प्रथमदिवसाद् आरभ्य प्रयोक्ता भुज्यमाने ऽपि ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६६ ॥

धने प्रविष्टे सत्य् आधिर् मोच्यः । न त्व् अर्वाग् एव द्विगुणद्रव्याप्रदानलक्षणो ऽस्य प्रणाशः स्याद् इत्य् अभिप्रायः ॥ ६६ ॥

इति ऋणादानप्रकरणम् ।

**