०२ असाधारण-व्यवहार-मातृका-प्रकरणम्

ननु च यदा तु ममानेनापराद्धम् इत्य् एवम् उक्तः स्वम् अभियोगम् अनिस्तीर्यैव तम् एव प्रत्यभियुङ्क्ते, तदायं क्रमो नोपपद्यते । सत्यम् । तेनैव च ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
न चाभियुक्तम् अन्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९ ॥

स्वाभियोगम् अनिस्तीर्याभियोक्तारं नाभियुञ्जीत, अनवस्थाप्रसङ्गेन व्यवहारासमाप्तेः । अत एव चान्याभियुक्तो ऽप्य् अनभियोज्यः । न च स्वयम् उक्तार्थापलापः कर्तव्य इति ॥ ९ ॥

अस्यापवादः ।

कुर्यात् प्रत्यभियोगं तु कलहे साहएषु च ।
उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१० ॥

अनिस्तीर्य स्वाभियोगं साहसादौ प्रयभियुञ्जीत । अयम् एव तत्र निर्णयप्रकार इत्य् अर्थः । सर्वविवादेषु च यदा न सद्य एव निर्णयः स्यात्, तत उभयोर् अपि कार्यिणोः प्रतिभूः कार्यनिर्णयक्षमो ग्राह्यः ॥ १० ॥

यदा तु न्यायेनान्यतरः कार्यो पराजितः, तदा ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ २.११ ॥

निह्नवो ऽपलापः तत्र स्पष्टीकृते यावद् धनिना प्रार्थितं, तावद् देयम् । राज्ञे च तत्तुल्यम् अन्यत् । यदा तु मिथ्यैवाभियुङ्क्ते, तदाभियोक्त्रा प्रार्थिताद् द्विगुणं राज्ञ एव धनं देयम् इत्य् अर्थः ॥ ११ ॥

किं पुनः सर्वत्रैव सद्योव्यवहारनिर्णीतिः । सत्यम् । एवं युक्तम् । तथापि तु ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियः ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया भवेत् ॥ २.१२ ॥

निर्वहणम् अनिरूप्यैव स्वबलावष्टम्भेन सहसा प्रसह्य यत् क्रियते, तत् साहसम् । स्तेयं पारुष्यं च वक्ष्यति । गोवधाद्यभिशापो गोऽभिशापः । गोग्रहणम् उदाहरणार्थम् । सर्वपशूनां शृङ्गिणां वाभिशापः । अत्ययः कालप्रतीक्षणासमर्थं कार्यम् । स्त्रियश् च यत्राभियुज्यन्ते, तत्र कालप्रतीक्षणे विरोधात् सद्य एव विवादयेत् । विवादं समापयेद् इत्य् अर्थः । अन्यत्र त्व् ऋणादानादौ कालप्रतीक्षणम् अपि कार्यम् । ध्रुवाधिकरनेच्छया वा भवति । यथाह नारदः ।

गहनत्वाद् विवादानां क्षणिकत्वात् स्मृतेर् अपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ इति (न्स्म् मा १.३८) ॥ १२ ॥

ननु अनेकप्रकाराः पुंशां प्रवृत्तयः । तत्र यदि कश्चिद् व्यवहारानुगुणवाक्प्रवृत्त्यकुशलतया सत्ये ऽप्य् अर्थे मिथ्यावादीव लक्ष्यते । अन्यस् तु कश्चित् कपटव्यवहारचतुरो मिथ्याभूते ऽप्य् अर्थे सत्यवादीव लक्ष्यते । ततश् च व्यवहारनिरूपणप्रयासवैयर्थ्यम् एव । सत्यम् एव, यदि विवेकावधृतिप्रकारो न स्यात् । स्यात् तु खलूपायः ।

देशाद् देशान्तरं याति सृक्वणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ २.१३ ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि ॥ २.१४ ॥
स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये च स दुष्टः परिकीर्तितः ॥ २.१५ ॥

यद्य् अपि व्यवहारमार्गनिपुणतया कुतश्चिद् वा सहायाद्यवष्टम्भात् साधुताभासं प्रत्ययम् उत्पादयति, तथापि यस्यैवमादीनि लिङ्गानि स दुष्टः परिकीर्तितः । परिकीर्तितवचनं दौष्ट्यनिश्चयख्यापनार्थम् । स्फुटावगतचातुर्यश् चैवमादिभिर् लिङ्गैर् अध्यवसेयः । अन्यस्य त्व् अप्रतिभयापि धूर्तजनसंत्रासितस्य वा भवत्य् एव । अतश् चैव विविच्यैतानि लिङ्गानि व्यवस्थापनीयानीत्य् अनवद्यम् । सृक्वणी ओष्ठसंधी । “वाक्चक्षुः पूजयति नो” इति छेदः । वाचश् चक्षुषो वा पूजां न करोतीत्य् अर्थः । वाक्पूजा स्वोक्तिनिश्चयावष्टम्भः । चक्षुषश् च दर्शनावष्टम्भः । ओष्ठनिर्भुजनम् अनेकधौष्ठविकारः । जिह्वया वा परिलेहनम् । स्पष्टम् अन्यत् ॥ १३–१५ ॥

यदा पुनर् द्वयोर् व्यवहारविप्रतिपत्तौ स्वबलावष्टम्भेनैवान्तरेणापि राजावेदनं साधयितुं सामर्थ्यं स्यात्, तदापि किम् अवश्यं राज्ञ एव निवेदनीयम् । सत्यम् । एवं युक्तम् । यतः ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ २.१६ ॥

यथैव यो राज्ञाहूतो निष्पतेत् प्रणश्येत्, यो वा राजान्तिकं गतः संभावितप्रतिभानवान् अपि न किंचिद् वदेत्, स यथा पराजितो दण्डार्हश् च स्याद्, एवं यो ऽपि प्रत्यर्थिसंदिग्धं न्यायेन निश्चयम् अकृत्वैव हठात् स्वतन्त्रः साधयेत्, सो ऽपि पराजितो दण्ड्यश् चेत्य् अभिप्रायः ॥ १६ ॥

एवं तावद् यत्र साक्षिणः स्युः, तत्र तदधीनैव निर्णीतिः, तदभावे विपर्यये वा देशान्तरगमनादिभिर् लिङ्गैः । यत्र तर्हि द्वयोर् अपि साक्षिणो लिङ्गानि वा देशान्तरगमनादीनि, तत्र कथम् । उच्यते ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ २.१७ ॥

क्व पुनर् विषये द्वयोः साक्षिसंभवः । यत्रोत्तरवादी प्रत्यवस्कन्दनेन व्यवहारम् आक्षिपति । यथा केनाप्य् उक्ते ममानेनामुष्मिन् काले देशे चैवं द्रव्यं गृहीतम् इति, अथापरो वदति- सत्यम्, यद्य् एवम् । अहं पुनस् तस्मिन् काले निर्दिष्टदेशाद् देशान्तरस्थम् आत्मानं साक्षिभिः साधयामीति । तत्र द्वयोः साक्ष्यभ्युपगमे पूर्ववादिन एव साक्षिणो भवेयुः, तत्प्राधान्याद् व्यवहारप्रवृत्तेः । यत्र त्व् अप्रमाणीकृतः पूर्वः पक्षः, तत्रोत्तरवादिन एव साक्षिणः स्युः । यथा सत्यं यथैवायम् आह । तत् तु मयास्य प्रतिनिर्यातितम् । एवं च शक्षिभिः साधयामीति ॥ १७ ॥

यदा तु प्रत्यवस्कन्दनम् अनेन मार्गेण पुनः पूर्ववद्य् अधरीकुर्यात्, तदा कथम् । मैवम् । एवम् औत्तराधर्यकरणे सत्य् अव्यवस्थैव स्यात् । का तर्हि गतिः । अभ्यधिकपणोपन्यासेन यदि परं (?) व्यवहारपरावृत्तिः । अन्यथानवस्थैव स्यात् । ततश् च ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ २.१८ ॥

दण्डस्वपणौ राज्ञे देयौ । स्ववतः पणः स्वपणः, यो धनिना व्यवहारं परावर्तयितुं पणः कृत इत्य् अर्थः । धनं तु धनिन एव राजा दापयेत् । चशब्दो धिग्दण्डादिसमुच्चयार्थः । एवं तावत् साक्षिसङ्करे नियम उक्तः । ललाटस्वेदादिलिङ्गसङ्करे कथम् । तत्राप्य् अनुमानमूलत्वाल् लैङ्गकादिस्मृतीनां सम्यगनुमाननिरूपणाधीन एव व्यवहारनिर्णयः ॥ १८ ॥

सर्वथा तु ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।

व्यवहारो हि नामानृतप्रभवो व्याजैकनिबन्धनः । तथा चोक्तं नारदेन ।

धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः ।
तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ॥
नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तितः ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ इति । (न्स्म् मा १.१–२)

अधर्मप्राधान्यं व्यवहारेष्व् इत्य् अर्थः ।

यतश् चैतद् एवम्, अतश् च ।

भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥ २.१९ ॥

व्यवहारमार्गेणान्यथा क्रियते । तथा चोक्तम्-

अचोरश् चोरतां प्राप्तो माण्डव्यो व्यवहारतः । इति । (न्स्म् मा १.३६)

अतश् च प्रयत्नतो निराकृतच्छलादिः सत्यैकप्रवणो राजा व्यवहारेषु कृती स्याद् इत्य् अर्थः ॥ १९ ॥

यदि त्व् अनेकत्रार्थे ऽभियुक्तः सर्वम् आदौ नेत्य् उक्त्वा पुनः किंचित् कथंचित् अभ्युपगच्छेत्, तत्र तन्मात्रम् एव किम् असौ दाप्यः । नेत्य् उच्यते ।

निह्नुते लिखितो ऽनेकम् एकदेशविभावितः ।
दाप्यः सर्वान् नृपेणार्थान् न ग्राह्यस् त्व् अनिवेदितः ॥ २.२० ॥

अनेकार्थापलापकत्वेन लिखितः राज्ञे कथितः यदि निह्नुते, पुनश् चैकदेशे स विभाव्यते, ततो दाप्यः सर्वान् सदण्डकान् अर्थान् । यदि तु न लिखितः, तदैवंभूतो ऽप्य् अदण्ड्यः । यद् वा “न ग्राह्यस् त्व् अनिवेदितः” इत्य् अस्यान्या व्याख्या- धनिने राज्ञा सर्वम् अर्थं दाप्यः । न तु दण्ड्यः । तदनभिप्रेतो ऽपीत्य् अर्थः ॥ २० ॥

ननु असौ तदनभिप्रेतत्वे ऽप्य् अपराधित्वाद् दण्ड्य एव । एवमादीन्य् एव हि नृपस्यार्थोत्पत्तिस्थानानि । अन्यथा तु क्वचिद् एव राज्ञो दण्डः स्यात् । मैवम्

स्मृतिविरोधे न्यायस् तु बलवान् व्यवहारतः ।
अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ २.२१ ॥

यद्य् अर्थशास्त्रानुसारिता स्यात्, ततः स्याद् अप्य् एवम् । यदा तु धर्मशास्त्रम् एव बलवत्, तदा तद्विरुद्ध एवार्थसंचयो ज्यायान् । ननु एवं सति यत्रासत्ये ऽपि वस्तुनि सत्यताप्रतिभानं, तत्रापि राज्ञो दोषप्रसङ्गः । यथा माण्डव्यवधादौ, स्मृत्या हि सम्यग् अपराधिनाम् एव दण्डविधानात् । तत्र च न्यायतो ऽपराधापादने ऽपि परमार्थतस् तदभावाद् अपराधी नैव । न चान्यो व्यवहारनिर्णीतिहेतुः । अतः सङ्कटम् एतत् । नात्र सङ्कटम् । स्मृतेर् विरोधे न्यायस् तु बलवान् । कस्माद् व्यवहारतः । अन्यथा व्यवहारप्रवृत्त्यभावप्रसङ्ग इत्य् अर्थः । अथ वा स्मृतिन्यायविरोधे स्मृतिर् एव ज्यायसी, न तु न्यायः, व्यवहारतो हि न्यायप्रवृत्तेः । विविधम् अवहरणं व्यवहारः व्याजभूयिष्ठ इत्य् अर्थः । न चासौ शास्त्रविरोध्य् अप्य् अङ्गीकर्तव्यः । यस्माद् अर्थशास्त्राद् दर्मशास्त्रस्यैव बलीयस्त्वम् इति स्थितिः । अन्यस् त्व् अपरमार्थ इत्य् अर्थः । इयम् एव च व्याख्या ज्यायसी । यथावस्तु प्रमाणप्रवृत्तिः, न प्रमाणप्रवृत्त्यनुरोधिता वस्तुनः । स्थिते वस्तुनि तदनुसारिणी प्रमाणावगतिर् इत्य् अनवद्यम् । अन्ये त्व् अन्यथेमं श्लोकं वर्णयन्ति- स्मृतिद्व्यविरोधे न्यायो बलवान्, व्यवहारतस् तु प्रवृत्त्यानुगुण्यात् । यत्र त्व् अर्थशास्त्रधर्मशास्त्रयोर् विरोधः तत्र दर्मशास्त्रं बलीयः । यथार्थशास्त्रे व्यवहारप्रकरण उक्तं-

नाततायिवधे दोषो हन्तुर् भवति कश्चन । इति । (म्ध् ८.३५०)

पुनर् धर्मशास्त्रे प्रायश्चित्तप्रकरणे-

कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते । इति । (म्ध् ११.८९)

तत्र धर्मशास्त्रबलीयस्त्वाद् आततायिवधे दोषप्रसङ्ग इति । तत् पुनः प्रकृतानुपयोगान् निष्प्रमाणकत्वाच् च नातीव सम्यक् ॥ २१ ॥

न चावश्यं तत्त्वाभिनिवेशिनाम् अपि परमार्थावगत्युपायाभाव एव । यस्मात् ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ २.२२ ॥

यदा हि दृष्टैर् एव लिखितादिभिस् तत्त्वावगतिः, तदा सर्वं सुथम् एव । अथ तु तानि व्यस्तानि समस्तानि वा न सन्ति, विद्यमानान्य् अपि वा न परितोषक्षमाणि । तदा वक्ष्यमाणदिव्यानाम् अन्यतमेन तत्त्वावगमाद् अविरोधः ॥ २२ ॥

किं च ।

सर्वेष्व् एव विवादेषु बलवत्य् उत्तरा क्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३ ॥

सर्वविवादेष्व् अनिर्णीतेषूत्तरा क्रिया दिव्यलक्षणैव निर्णयाव्यभिचाराद् बलीयसी । आध्यादिषु तु पूर्वा लेख्यादिका । दिव्यक्रियायास् तत्रासंभवात् । यतो देवदत्तेन यज्ञदत्तस्याहितं तत्पुत्रैर् अपि भुज्यते । न च तेषां दिव्यप्रकृत्यवष्टम्भः, स्वानुभवाभावात् । अथ वा लेख्यविष्य एवायं श्लोकः । सर्वेष्व् एव लेख्यविवादेषूत्तरोत्तरसङ्क्रमणाद् उत्तरलेख्यक्रियाबलीयस्त्वं परीक्षाबाहुल्येन व्याजकरणापनोदनात् । आध्यादिषु तु परसंस्थत्वान् मूल(?)लेख्यप्राधान्येन पूर्वक्रियैव ज्यायसीत्य् अर्थः ॥ २३ ॥

भुक्तौ तु ।

पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४ ॥

पश्यन्न् अपि यः परैर् असंबद्धैर् भुज्यमाने न किंचनेयता कालेनापि ब्रूयात्, नूनं तदीयं न भवेद् इत्य् अभिप्रायः । कालनियमस् तु वेदमूलतयैव द्रष्टव्यः । ननु एतद् अयुक्तम् । यद् अनभिधानमात्रेणैवार्थनाशः । एवं तर्ह्य् एतद् अपि वेदाद् एव । उपेक्षयापि द्रव्यनाशो भवतीत्य् अतो द्रष्टव्यं परैर् भुज्यमानं नोपेक्षणीयम् इत्य् अभिप्रायः । अथेतरस्य किं स्वत्वसंबन्धो ऽस्ति । पूर्वस्य तावद् धानिर् इत्य् आचार्याभिप्रायः । इतरस्यापि तु स्वत्वं नैव, परस्वबुद्ध्यैव भोगप्रवृत्तेः । यद्य् एवं न तर्हि राज्ञस् तदा दोषः । तद् अप्य् सत्यम् । अथ किं नृपस्यैव तद् भवतु स्वामिनो हान्युपदेशात्, तथाविधस्य च राजगामित्वात् । अथ वा पूर्वस्वामिन एव तदर्पणीयम्, तत्स्वत्वापाये हेत्वभावात् । स्मृतिस् तु दृष्टमूलतयाप्य् उपपद्यत एव । उपेक्षानिषेधमात्रं चैतत् । हानिवचनं तु निन्दामात्रत्वेनोपेक्षकस्य व्यवहारप्रवृत्त्ययोग्यतामात्रज्ञप्तिफलम् । तद् एव चात्र युक्तम् । अन्यथा श्रुतहानिर् अश्रुतकल्पना च स्याद् इत्य् अलं प्रसङ्गेन ॥ २४ ॥

किम् उपेक्षया सर्वत्रैव व्यवहारप्रवृत्त्ययोग्यता स्यात् । सत्यम्

आधिसीमोपनिक्षेपजडबालधनैर् विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ २.२५ ॥

आध्यादिषु तु भुक्तिर् नैवापहारकारणम् इत्य् अभिप्रायः । आधिस् तावद् भोगायैव क्रियते । सीमा च प्रतिजागर्तृदोषाद् अनेकधा भुज्यते । निक्षेपश् च समर्पितत्वात् । जडबालयोर् असामर्थ्यात् । उपनिधिं वक्ष्यति । राजधनम् अनेकगामित्वात् । स्त्रीधनं चास्वातन्त्र्यात् । श्रोत्रियाणां व्यापारान्तरापेक्षया । तथेति प्रकारार्थः । सर्वथा यत्रैव स्वामित्वाद् ऋते ऽपि भुक्तिः संभाव्यते, तत्रैव तत्कृतोपभोगो नापहारकारणम् इत्य् अर्थः ॥ २५ ॥

यतश् चाध्यादिषु निमित्तान्तराद् भुक्तिः, ततः।

आध्यादीनां हि हर्तारं धनिने दापयेद् धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ २.२६ ॥

धनिने धनं दत्त्वानन्तरं राज्ञे तत्समं देयम्, अपि वा शक्त्यपेक्षम् इत्य् अर्थः ॥ २६ ॥

यस्माच् च भुक्तिमात्रेण नार्थनाशः, तस्मात् ।

आगमो ऽभ्यधिको भुक्तेर् विना पूर्वक्रमागतात् ।

आगमो लेख्यम् । तद् भुक्तेर् बलीयः, निश्चितत्वाद् अन्यथापि भुक्त्युपपत्तेः । पूर्वक्रमे तु सति भुक्तेर् बलीयस्त्वं लेख्यान्तरनिरस्तस्यापि लेख्यस्य प्रमादतः स्थितिसंभवात् । त्रिपुरुषभुक्तिः पूर्वक्रमः । यतश् च नाशादिव्याजेन लेख्यस्योपगतादिबाधितस्यापि स्थितिसंभवः ।

तत्र ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥

न स्याद् यावत्या विना लेख्यप्रतिष्ठा न स्याद् इत्य् अर्थः॥ २७ ॥

यस्माच् च क्रमभुक्तिर् आगमाद् बलीयसी, तस्मात् ।

आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ २.२८ ॥

लेख्यकर्तुः पुत्रो न लेख्यदोषान् अपाकुर्यात्, न ह्य् असौ पितृवल् लेख्यस्वरूपज्ञो यतः । धनं तु न तत्पुत्रस्य । तस्य तु यः पुत्रः, तस्य धनम् अपि स्यात् । यस्माद् भुक्तिस् तत्र गरीयसी लेख्याद् इत्य् उक्तम् एवेत्य् अभिप्रायः ॥ २८ ॥

लेख्यकृत्पुत्रस् तु किम् इति धनभाङ् न भवति । यस्माद् ।

आगमेन विशुद्धेन भोगो याति प्रंआणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ॥ २.२९ ॥

लेख्यस्वरूपाज्ञत्वात्[^९] तद्दोषानपाकरणमात्रम् एव स्यात् । न तु प्रमाणरहितं स्वामित्वम् अपीत्य् अभिप्रायः । प्रामाण्यं च विशुद्धागमस्यैव बोगस्य, न तु भुक्तिमात्रस्येत्य् अर्थः ॥ २९ ॥

किं च ।

यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विनाकृता ॥ २.३० ॥

यदि हि लेख्यदोषापाकरणाभियुक्तः परेतो मृतः स्यात्, तदा तदीयधनग्राह्य् अपाकुर्यात् । एतच् च लेख्यकर्तृविषयम् । इतरस्य द्रव्यापहार एव स्यात् । यस्मान् न तत्र स्वामित्वे भुक्तिर् आगमशून्या कारणं भवति, कृतापि तु व्यभिचारिणीत्य् अर्थः ॥ ३० ॥

यदि तु दुष्टे ऽपि लेख्यादौ तत्कर्ता न दोषान् अपाकुर्यात्, तदा कथं स्यात् । उक्तं तादृशे विषये राजावेदनं “स्मृत्याचारव्यपेतेन मार्गेण” इत्य् अत्र । अत एव च ।

**
नृपो ऽर्थाधिकृताः पूगाः श्रेणयो ऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३१ ॥

नृपो हि बलवान् व्यवहारं कारयितुं समर्थ इति व्यवहारविधौ स एव ज्यायान् । इतरे ऽपि सामर्थापेक्षया दुर्बला बलीयांसश् च भवन्ति । अतश् च कुलादिक्रमेणैव व्यवहाराणां राजगामिता द्रष्टव्या । ब्राह्मणादिसमूहाः पूगाः । स्पष्टम् अन्यत् ॥ ३१ ॥

प्रभुत्वाद् एव च राजा तदर्थाधिकृतो वा प्राड्विवाकादिः ।

बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहीःशत्रुकृतांस् तथा ॥ २.३२ ॥

स्पष्टार्थः श्लोकः ॥ ३२ ॥

किं च ।

मत्तोन्मत्तार्तव्यसनिबालभीतप्रयोजितः ।
असंबन्धकृतश् चैव व्यवहारो न सिद्ध्यति ॥ २.३३ ॥

मत्तो ऽतिहर्षितः, अहंकृतो वा । उन्मत्तो ग्रहगृहीतादिः । स्पष्टम् अन्यत् ॥ ३३ ॥

किं च ।

कुलानि जातयः श्रेण्यो गणान् जनपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ २.३४ ॥

कुलानि कुटुम्बानि । जातयो ब्राह्मणाद्या वर्णाः । श्रेणयः कारुकसमुदायः । गणा ब्राह्मणादिसमूहाः । जनपदो दुर्गाश्रयो ऽत्र जनो ऽभिप्रेतः । सो ऽपि राज्ञा स्वधर्माच् चलितो दण्ड्य इत्य् अभिप्रायः । सर्वश् चेतरजनो वा जनपदः । सर्वथा सर्वः स्वधर्माच् चलितो राज्ञा दण्ड्य इत्य् अभिप्रायः ॥ ३४ ॥

यस्माच् च राजा व्यवहारविधाव् अग्र्यो दण्डधरः, तस्मात् ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ २.३५ ॥

कस्यचित् प्रनष्टं यदि राज्ञान्येन वाधिगतं लब्धं तद् यदि धनिना प्रार्थ्यते, ततः किं तत्, कियत्संख्यं चेत्य् एवं पृष्ट्वाविसंवादकस्यान्विष्यार्पणीयम् । न चेद् एवं विभावयेत् तत्समं दण्ड्यः ॥ ३५ ॥

यत् तूसन्नस्वामिकं निध्यादिकं तत्र का कथा । उच्यते ।

राजा लब्ध्वा निधिं दद्यात् द्विजेभ्यो ऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ २.३६ ॥

स सर्वस्य प्रभुर् इत्य् अनेन प्रतिग्रहाद्यभावे ऽपि स्वत्वसंबन्धो ऽस्तीति ज्ञापयति ॥ ३६ ॥

इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातो दाप्यस् तद् दण्डम् एव च ॥ २.३७ ॥

इतरेण ब्राह्मणेनैवानभिरूपेणेत्य् अर्थः । गौतमीयं त्व् अब्राह्मणविषयम्- “निध्यधिगमो राजधनम्” इति (ग्ध् १०.४३) । यावान् निध्यधिगमः, स सर्वो राजधनम् इत्य् अर्थः । तथा च “न ब्राह्मणस्यानभिरूपस्य” इत्य् उक्त्वाह “अब्राह्मणो ऽप्य् आख्याता षष्ठं लबेतेत्य् एके” इति (ग्ध् १०.४४–४५) । अनाख्याय तु गृह्णन् ब्राह्मणो ऽपि सर्वम् आदाय शक्त्यनुरूपेण दण्ड्यः स्यात् । विद्वांस् तु “स सर्वस्य प्रभुः” इति वचनाद् अनाख्यायापि गृह्णन् न दोषभाग् इत्य् अर्थः ॥ ३७ ॥

यतश् च निध्यादिष्व् अस्वामिकेषु राज्ञः प्रभुत्वं, तत एव च ।

देयं चोरहृतं द्रव्यं राज्ञा जनपदाय तु ।

कस्मात् । यस्मात् ।

अददद् धि समाप्नोति किल्बिषं तस्य यस्य तत् ॥ २.३८ ॥

पालकत्वेन हि राजगामिता निध्यादेः । पालकश् चेत् किम् इति परकीयं चोरादिहृतं न प्रयच्छेद् इत्य् अभिप्रायः । जनपदग्रहणं सर्वार्थम् । न ब्राह्मणायैवेत्य् अर्थः । तथा च बृहस्पतिः- “चोरापहृतं तु सर्वेभ्यो ऽन्विष्यार्पणीयम् अलाभे स्वकोशाद् वा, अददच् चोरकिल्बिषी स्यात्” इत्यादि ॥ ३८ ॥

इति सामान्यन्यायप्रकरणम् ।

**