०१ साधारण-व्यवहार-मातृका-प्रकरणम्

अथ सामान्यन्यायप्रकरणम् ।

श्रियः समुदयं प्राप्तुम् इच्छता विजिगीषुणा समृद्ध्यै राज्ञा प्रयत्नाद् अमित्रराज्यन्य् आच्छिद्य स्वराज्यं विवर्धनीयम् इत्य् उक्तम् । तत्रापि कष्टतमाः खल्व् अरयः कापटिककुयन्त्रव्यवहारिणो दस्यवः । तेभ्यो पि राष्ट्रं रक्षणियम् इत्य् एतद् अप्य् उक्तम् । अथेदानीं तदुद्धरणप्रकारविवेकार्थं व्यवहारनिरूपणं प्रस्तौति ।

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१ ॥

ननु चैतत् प्राग् एवोक्तम् “इति संचिन्त्य नृपतिः” (य्ध् १.३५५) इत्य् अत्र । सत्यम् । गुणार्थस् त्व् अयम् आरम्भः, न कोशसंचिचीषयार्थप्रधानो भवेत् । धर्मशास्त्रानुसारेणैव व्यवहारान् नृपः पश्येद् इत्य् अर्थः । किं च विद्वद्भिर् ब्राह्मणैः सह । प्रवक्तृत्वे ऽपि ब्राह्मणाणां नृपसहायोपयोगितैव । द्रष्टा तु निग्रहानुग्रहसामर्थ्याद् राजैव । अत एवोक्तं क्रोधलोभविवर्जित इति । समर्थेनापि धर्मशास्त्रानुसारिणा भाव्यम् । न क्रोधादिवशेनान्यथा व्यवहर्तव्यम् इत्य् अर्थः । एकत्वे ऽपि व्यवहारस्य स्वकीयविशेषापेक्षया बहुवचनम् । यथाह मनुः- “तेषाम् आद्यम् ऋणादानम्” इत्यादि (म्ध् ८.४) । नारदश् च- “चतुष्पादश् चतुर्व्यापी” इत्यादि (न्स्म् मा १.८) ॥ १ ॥

यतश् च धर्मशास्त्रप्राधान्यं व्यवहारदृष्टौ, अतः ।

श्रुताध्ययनसंपन्नाः कुलीनाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २.२ ॥

निगदोक्तः श्लोकः ॥ २ ॥

दृष्टमूलत्वाच् च राज्ञः स्वयं व्यवहारदर्शनस्मृतेर् अदृष्टार्थत्वे ऽपि च प्रयोजनानुसारात् कार्याणां गुरुलघुत्वे समीक्ष्य ।

अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३ ॥

सो ऽपि राजस्थानीयत्वात् क्रोधादिरहित एव स्यात् ॥ ३ ॥

अत एव च ।

रागाद् द्वेषाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं धनम् ॥ २.४ ॥

स्मृत्युक्तार्थान्यथाकारिणो रागादिभिस् तद्द्विगुणं धनम् एकैकशो दण्ड्याः । आदिग्रहणात् स्मृत्यर्थं चान्यथानिनीषव इत्य् अभिप्रायः । सर्वसभ्यदण्डाद् द्विगुणं च राजा तत्स्थानीयो वा दण्ड्यः, तदधीनत्वान् निर्णयस्य । अत एव च पृथक् पृथग् इति वीप्सा । सभ्याः पृथक् पृथग् विवादद्विगुणं, तद्द्विगुणं च राजा । तथा च वक्ष्यति ॥ ४ ॥

अथ किं राज्ञा स्वपुरुषैर् वान्विष्य कार्यिणो व्यवहारयितव्याः । , प्रतिषेधात् । यथा ह मनुः- “नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः” इति (म्ध् ८.४३) । कथं तर्हि व्यवहारप्रवृत्तिः । उच्यते ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ २.५ ॥

तद् एव हि व्यवहारपदम्, यत् स्मृत्याचारव्यपेतेन बाह्येन मार्गेणासंबद्धैः खलीकृत इत्य् एवं कश्चित् कथयेत् । न तु स्वयं कार्यारम्भक इत्य् अभिप्रायः । तथा च नारदः ।

स्वनिश्चितबलाधानस् त्व् अर्थी स्वार्थप्रचोदितः ।
लेखयेत् पूर्ववादं तु कृतकार्यविनिश्चयः ॥ इति । (न्स्म् मा २.१)

स्मृत्युक्त आचारः स्मृत्याचारः । कुलधर्माद्यभिप्रायं वैतत् । परैर् इति गुरुशिष्यवादनिवृत्त्यर्थम् । तथा च नारदः ।

गुरुशिष्यपितापुत्रदम्पत्योः स्वामिभृत्ययोः ।
एतेषां समवेतानां व्यवहारो न विद्यते ॥
एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यकरैस् तथा ॥

इत्यादि । कात्यायनश् च ।

यश् च राष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥

त्यादि । व्यवहारः पदनीयो निरूपणियतयेत्य् अर्थः ॥ ५ ॥

एवं चार्थिभिर् आवेदिते निर्व्याजं प्रत्यर्थिनं तद् एवाहूय राज्ञार्थिप्रत्यर्थिसभ्यानुमतेन लेखकेन ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथादेवितम् अर्थिना ।
समामासतदर्धाहोनामजात्यादिचिह्नितम् ॥ २.६ ॥

यथावेदितम् इत्य् अनुबन्धप्रयोजनादिविशिष्टापराधज्ञापनार्थम् । समा संवत्सरः । मासः स्पष्टः । तदर्धम् अर्धमासः । आदिग्रहणं स्मृत्यन्तरानुसारेण भाषाप्रपञ्चनिरूपणार्थम् । यथाह कात्यायनः ।

निवेद्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
लेखाप्रदेशं विषयं स्थानजात्याकृतीश् च याः ॥
साध्यार्थमानं द्रव्यं च संख्या नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥
क्रमात् पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गाद्यादिकालं पक्षं संकीर्त्य कल्पयेत् ॥ इति ।

एतानि च न्यायानुसारेणालोच्य व्यस्तानि समस्तानि वा लेखनीयानि । पूर्वं च भूमाव् आलिख्य प्रतिज्ञां शोधयित्वा पश्चात् पत्रारोपणं कार्यम् । यथाह ।

अधिकान् शोधयेद् अर्थान् न्यूनांश् च प्रतिपूरयेत् ।
भूमौ निवेशयेत् तावद् यावत् पक्षः प्रतिष्ठितः ॥
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥

इत्यादि । प्रतिज्ञादोषास् तु । यथाह ।

अप्रदिद्धं सदोषं च निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥
न्यायं मे नेच्छते कर्तुम् अन्यायं वा करोति च ।
न लेखयति यस् त्व् एवं तस्य पक्षो न सिद्ध्यति ॥

इत्यादि । नारदश् च ।

भाषायाम् उत्तरं यावत् प्रत्यर्थी न निवेशयेत् ।
अर्थी विशोधयेत् तावद् यावद् वस्तु विवक्षितम् ॥ इति । (न्स्म् मा २.७)

नात्र छलजात्यादीनाम् अवसर इत्य् अभिप्रायः एवं पूर्ववद् युक्तं पत्रारूढं श्रावयेत् ॥ ६ ॥

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।

श्रुतश् चासाव् अर्थश् च श्रुतार्थः । तस्य यद्य् अनुरूपम् उत्तरं भवति, ततो लेख्यम् । अन्यथा पराजय एवेत्य् अभिप्रायः । संनिधाव् इति सद्योनिर्णयार्थम् । एतच् चात्ययिककार्यविषयं द्रष्टव्यम् ।

यतश् चैवम् ।

ततो ऽर्थी लेखयेत् सद्यः प्रिज्ञातर्थसाधन्म् ॥ २.७ ॥

न कालं हरेद् इत्य् अर्थः ॥ ७ ॥

कस्मात् पुनः प्रतिज्ञातार्थसाधनाभिधानयत्नः, यस्मात् ।

तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ।

उक्तं च ।

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥ इति । (न्स्म् मा १.६)

अत एव च यत् तार्किकैः प्रतिज्ञावचनस्यानङ्गत्वम् उक्तं तद् अपि प्रत्युक्तम् ।

यस्मात्,

चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः ॥ २.८ ॥

न्यायागमाभ्याम् इति शेषः । प्रतिज्ञा उत्तरं साधनं निर्णयश् चेत्य् एवं चतुष्पात् । अन्यथा तु न स्यात् । तस्मात् प्रतिजाक्रमेणैव विवादक्रियेत्य् अभिप्रायः ॥ ८ ॥