१३ राजधर्म-प्रकरणम्

अथ राजधर्मप्रकरणम्

कः पुनर् अयं नरेन्द्रो नाम, यस्य ग्रहाधीनौ पातोच्छ्रायौ । ननु च प्रसिद्धो राजनि नरेन्द्रशब्दः । किं क्षत्रिये । बाढम् । तथा चोक्तम् ।

_> प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । इति । _(य्ध् १.११८)

उक्तं च स्वयंभुवा ।

> ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।

> सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ इति । (म्ध् ७.२)

अयं तु विशेषः । अभिषेकादिगुणयुक्तस्यैव राज्याधिकारो न क्षत्रियमात्रस्य, “समूर्ध्नो राजानम् असृजत स मूर्धन्य् अभिषिक्तो राजा भवेत्” इत्य् आम्नायात् । न चैवं सति ग्रहाधीनत्वात् पातोच्छ्राययोर् दैवतन्त्र एव राजा स्यात् । किं तर्हि ।

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेविता ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् छुचिः ॥ १.३०४ ॥
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रपरिषत् तथा ।
धार्मिको दृढभक्तिश् च प्राज्ञः शूरो रहस्यवित् ॥ १.३०५ ॥
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस् त्व् अथ वार्तायां त्रय्यं चैव नराधिपः ॥ १.३०६ ॥

स्याद् इति शेषः । महोत्साहो विजिगीषुः । स्थूललक्षः प्रभूतदाता । कृतज्ञ उपकारज्ञः, न स्वार्थैकनिष्ठः । वृद्धसेविता ज्ञानवयोवृद्धसेवी । विनीतो ऽनुद्धतः, विविक्तनयतया वा येन केनचिद् अनेयः । सत्त्वसंपन्नः सर्वथाविषादी । कुलीनो महाकुलप्रसूतः । ननु एतद् अशक्यं, दैवाधीनत्वात् । सत्यम् । कुलीननृपत्यनुकारी स्याद् इत्य् अस्यार्थः । सत्यवाक् सत्यसंधः । शुचिः सर्वोपधाशुद्धः । अदीर्घसूत्रः सर्वथा क्षिप्रकारी । स्मृतिमान् आलोचनको ऽविस्मरणशीलश् च । अक्षुद्रपरिषत्को हंसपरिवारः । तथा च शङ्खः- “न हंसो गृध्रपरिवारः कामं तु गृध्रो हंसपर्वारः स्यात्” इति । तथाशब्दात् प्रकृत्यन्तरग्रहणम् । धार्मिको यथाविहितधर्मानुष्ठाता । दृढभक्तिर् भक्तिग्राह्यः, यत्र वा समाश्रितः तत्राविचलितभक्तिः, देवब्राह्मणगुर्वादौ च । प्राज्ञः सर्वत्र सारासारविवेकज्ञः । शूरः प्रसह्य सकलारातिमण्डलविक्षोभिता तदभुभूतश् चाविषण्णः । रहस्यविद् मित्रार्युदासीनविजिगीषुमध्यमाखिलगुप्तिप्रयुक्तिप्रचारज्ञः, अमात्यादिप्रकृतिपरीक्षाप्रकारज्ञश् च, निगूढाव्यभिचारिचारचक्षुः । अध्यात्मं रहस्यं तज्ज्ञः, प्रसंख्यानवान् इत्य् अर्थः । स्वरन्ध्रगोप्ता अखिलनिजव्यसनगोपनः परच्छिद्रोद्भावकश् च । आन्वीक्षिक्यां दण्डनीत्यां विविधवार्तायां त्रय्यां च विनीतः । आन्वीक्षिकी समस्तासांदृष्टिकनिरूपणक्षमा हेतुविद्या । निजान्यप्रतापोन्नतिहानिहेतुर् निजदण्डोद्योगात्मिका यथार्हं दण्डनीतिः, दण्ड्येषु वा यथार्हं दण्डपातनेन योज्या । अन्ये तु तर्कविशेषं दण्डनीतिम् आहुः । त्रयी ऋग्यजुःसामलक्षणा । एवं महोत्साहादिगुणयुक्तः स्याद्, न दैवनिक्षिप्तभरः, पुण्याभिमानात् । महोत्साहादिगुणवान् अन्यो वारिर् अपि कष्टत्वाच् चिन्त्यः, विपरीतश् चारभ्य इति नयसंक्षेपः । तद् यथा- अराजबीजी लुब्धः क्षुद्रपर्षत्को विरक्तप्रकृतिर् अन्यायवृत्तिर् अयुक्तो व्यसनी निरुत्साहो यत्किंचनकार्यगतिर् अननुबन्धो नित्यापकारी चेत्यादि । सर्वथा च तथा च कुर्याद् यथाकिलकृत्यवर्गो महोत्साहादिगुणसंपद्वैपरीत्याद् आरभ्यः स्यात्, स्वयं च यथाखिलमहीमण्डलस्वीकरणक्षमो विजिगीषुर् अनन्यारभ्यो याता परमण्डलोच्छित्तिसमर्थः स्याद् इति । अन्वयव्यतिरेकमूलत्वाच् च स्मृतेर् अनुक्तम् उक्तं वाखिलं विविच्य यथार्हं व्याख्येयम् । यतश् च नराधिप एवंगुणः स्यात् ततश् च प्रतिष्ठितराज्यस्यापि गुणार्जनम् अविरुद्धम् ॥ ३०४–३०६ ॥

एवंगुणो ऽपि किम् अमात्येनेति नैवम् अतिमानी स्यात्, किं तर्हि । एवंगुण एव यः ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिराञ् छुचीन् ।
तैः सार्धं चिन्तयेत् कार्यं विप्रेणाथ ततः स्वयम् ॥ १.३०७ ॥

तथा च मनुः ।

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किम् उ राज्यं महोदयम् ॥ इति । (म्ध् ७.५५)

मन्त्रिवचनं च सर्वसचिवोपलक्षणार्थम् । तथा चाह ।

निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ इति । (म्ध् ७.६१)

प्रधानमन्त्र्यर्थं चैतद् वचनम् । कार्यतस् त्व् अन्यकरणाविरोधः । दृष्टार्थत्वाच् चान्यमन्त्र्यभाव एव करणम् । यस् तु पैतृकादिकम् अन्यदीयं वा राज्यम् अवाप्नुयात्, स यदि तद्राज्ययोग्यं पूर्वामात्यानाम् आत्मविशिष्टम् अधिकं वान्यं मन्येत ततः प्रकृत्यकोपक्रमेण सर्वान् एवैवंगुणान् अन्यान् मन्त्रिणः कुर्यात् । प्रशब्दश् चोक्तन्यायेन प्रकर्षालोचनार्थः । ते च प्राज्ञा विवेकिनो मौलाश् च । मूलं राज्यं तदर्हाः मौलाः, राज्यविस्तारक्षमा इत्य् अर्थः । मूलतो वा ज्ञाता महाकुलीनाः । मूलक्रमागता वा ते ह्य् अधिकारात् प्रच्याविता अपि सत्य् एव सामर्थ्ये ऽनुरागातिरेकात् कुलाङ्कुशोपग्रहाद् वा विरोधानारम्भकाः । स्थिराः सर्वापत्सहिष्णवो ऽनन्यगामिनः साध्वारम्भकाश् च । शुचयो धर्मार्थकामभयोपधाशुद्धाः । प्रदर्शनार्थं चैतत् । सर्वथा लोकतः शास्त्रतश् चालोच्य यथार्हं स्वाधिकारानुसारेण सचिवसंनिवेशः कार्यः । यथाह बृहस्पतिः-

स्वधर्मविद् अनुरक्तः शुचिर् अनुद्धत उद्युक्तो देशकालविन् नीतिनिगमेतिहासकुशलो ऽव्यसनी मृदुर् अर्थशास्त्रकृतयोग्यो हस्त्यश्वपुरुषाचाराहोरात्रयामनिर्गमविनिश्चितमतिश् च स्वपरबलबलाबलज्ञो बलाधिकृतः सेनापतिः स्यात् । कुलाढ्य उद्युक्तो मृदुर् उदात्तः समरचित्तः शूरो ऽनुरक्तो ऽभेद्यः पत्तिविशेषज्ञ इङ्गिताकारकुशलः प्रतिहारः स्यात् । वनकुलकालजातिसात्म्यगुणवयःशीलायुरादानगमनकल्पनावान् व्यपगतभयो विजयोर्जितमना हस्त्यध्यक्षः स्यात् । क्षेत्रजातिसात्म्यगुणलक्षणवाहनास्त्रज्ञो ऽत्यर्थसमर्थः शुचिर् अनुद्धतो ऽनुरूपो ऽश्वाध्यक्षः स्यात् । संधिभेदसंधानस्थानज्ञो ऽनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालज्ञो दर्शनीयो नीतिगतिज्ञः प्राज्ञो वाग्मी दूतः स्यात् । उभयत उत्तमवंशप्रभवः शुद्धो मनुबृहस्पत्युशनःशास्त्रविद् दण्डनीत्यादिकुशलो ऽशठो ऽजिह्मः संमानासंमानाविकृतो विगतभीः कार्याकर्यविनिश्चितमतिर् अहार्यः सर्वोपधाशुद्धो गूढमन्त्रो मन्त्री स्यात् । अविकार्यो ऽविकलेन्द्रियः प्रतापवान् सुभगः सुमुखो ऽकृपणो ऽप्रमादी दक्षो दाक्षिण्यचारित्ररक्षणार्थम् अधिकरणसंदिग्धविवेककृद् उपरिकः स्यात् । इति ।

एवं च भाण्डागारान्तःपुरमहानसशय्यागृहाद्यधिकृता यथार्हं विविच्य व्याकरणीयाः । एवं बृहस्पत्युशनःशास्त्रमतेन सर्वसचिवान् यथार्थं रजा कृत्वा तैः सार्धं यथार्हं सामान्यं च मन्त्रयित्वा व्यस्तसमस्ताभिप्रायं च विविच्य पश्चात् परमरहस्यगामिना महामन्त्रिसंपद्युक्तेन विदुषा ब्राह्मणेन सह षाड्गुण्ययुक्तं महोदयं चित्रफलं नयबीजं मन्त्रयेत् । ततस् तद्विश्वासात् स्वयं च तद् एव निपुणतो ऽपररात्रोत्थितः सम्यग् विविच्यादीर्घसूत्र्य् एव क्षिप्रम् अनुतिष्ठेत् । एवम् अखिलोन्नतिबीजं समासतो ऽभिहितं विविच्य विस्तरेण व्याख्येयम् । इत्य् अलं प्रसङ्गेन ॥ ३०७ ॥

पूर्वोक्तन्यायेनैव ।

पुरोहितं च कुर्वीत दैवज्ञम् उदितोदितम् ।
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥ १.३०८ ॥

तथाशब्दाद् पूर्वगुणयोगश् च । दैवज्ञो ज्योतिःशास्त्रवित् । प्राक्तनकर्मफलसंबन्धज्ञो वा । इदम् अस्मात् कर्मणो ऽद्य फलम् उपभुज्यते पश्चात् तु प्रतिसमाधिर् इत्य् उदितोदितः । दण्डनीत्यां च प्रवीणः । चशब्दात् त्रय्याम् आन्वीक्षिक्यां विविधवार्तायां च । एतच् च मन्त्रिणाम् अपि समानम् । अयं त्व् अस्य विशेषः- अथर्वाङ्गिरसे शान्तिकपौष्टिकाभिचाराद्यर्थं प्रवीणः स्यात् । एतेनापि सह यथार्थं मन्त्रणीयम् । सर्वामात्याश् चानेनैव धर्मोपधाशुद्धत्वेन परीक्ष्याः । एवम् अन्यैर् अपि यथास्थानम् उपधाविशेषैः सर्वामात्यपरीक्षा कर्तव्येति नीतिसंक्षेपः ॥ ३०९ ॥

अयं च राज्ञो ऽअभ्यधिको वैशेषिको धर्मः ।

श्रौतस्मार्तक्रियाहेतोर् वृणुयद् ऋत्विजस् तथा ।
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥ १.३०९ ॥

तथाशब्दात् पुरोहितो ऽपि श्रौतस्मार्तक्रियाहेतोर् एव । ऋत्विग्वरणं चैतत् कर्मप्रयोगाद् बहिर् आदित एव द्रष्टव्यम् । यज्ञांश् च विधिवत् कुर्यात्, न तु यथा कथंचनेत्य् अर्थः । भूरिदक्षिणा बहुसुवर्णकादयः । प्रसर्पकदानापेक्षया वा भूरिदक्षिणत्वं योज्यम् ॥ ३०९ ॥

यज्ञव्यतिरेकेणापि ।

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च ।

कस्मात् । यस्मात् ।

अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥ १.३१० ॥

भोगा अन्नपानादयः । चशब्दो ऽभयसत्काराद्यर्थः । वसूनि हिरण्यादीन्य् अनेकविधानि । चशब्दः संप्रदानगतवैचित्र्यार्थः । तथा च मनुः- “समम् अब्राह्मणे दानम्” इत्यादि (म्ध् ७.८५) । स्पष्टम् अन्यत् ॥ ३१० ॥

भूयश् च दानविधिप्ररोचनायाह ।

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् ।

यस्मात्, तस्मात् ।

अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्टम् इहोच्यते ॥ १.३११ ॥

किं पूर्वार्जितम् आपदर्थं स्थितं भाण्डागाराद् एव दातव्यम् । नेत्य् उच्यते ।

धर्मेण लब्धुम् ईहेत लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन् नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१२ ॥

स्पष्टार्थः श्लोकः ॥ ३१२ ॥

एवं तावद् धिरण्यादिषु प्रदानान्ततैव । भूमिनिबन्धदानयोस् त्व् अयं विशेषः ।

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।

कस्मात् ।

आगामिक्षुद्रनृपतिपरिज्ञानाय पार्थिवः ॥ १.३१३ ॥

निबन्धो ऽक्षयनिधिः । स्पष्टम् अन्यत् ॥ ३१३ ॥

किं पुनर् वक्ष्यमाणलेख्यलक्षणवत् कार्यम् । नेत्य् उच्यते । किं तर्हि ।

पटे वा ताम्रपट्टे वा स्वमुद्रापरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीमतिः ॥ १.३१४ ॥
प्रतिग्रहपरीमाणं दानाच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥ १.३१५ ॥

पटवचनं भूर्जनिवृत्त्यर्थम् । परिशब्दात् प्रज्ञादूतकस्वहस्तमुद्रास्कन्धावारसमावासनामदेशादिचिह्नितम् । आदाव् एवाभिलेखनीयाः पूर्वपुरुषास् त्रयः । वंश्यत्ववचनाच् च स्त्रियो ऽपि । अनन्तरम् आत्मानम् । ततः प्रतिग्रहपरीमाणम् । अस्मिन् देशे ऽमुकनामेयान् ग्राम इत्यादि । ततो दानाच्छेदम् उपवर्ण्य । एतद् दानफलम्, एतद् आच्छेदनफलं,

षष्टिं वर्षसहस्राणि स्वर्गे निष्ठति भूमिदः ।
आच्छेत्ता चानुमन्ता च तन्य् एव नरके वसेत् ॥

इत्यादि । लेखकनामाङ्कितं स्वहस्तसंयुक्तम् आगामिक्षुद्रनृपत्यशोचनं स्थिरं भूमेश् छिद्रन्यासेनाचन्द्रात् स्थितिसंस्थानं कारयेत् । सर्वथा यथागामिनो ऽप्य् अस्माद् एव शासनान् न विकुर्युः, तथा कार्यम् इति ॥ ३१४–३१५ ॥

ननु च राष्ट्रसंकोचप्रसङ्गात् भूमिदानम् अयुक्तम् । राजवृत्तान्तानभिज्ञ, मैवम् । नित्यम् एव हि त्रिवर्गवृद्धिचतुरो राजा ।

रम्यं पशव्यं स्वाजीव्यं जाङ्गलं देशम् आश्रयेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मवृद्धये ॥ १.३१६ ॥

दुर्गाणीति बहुवचनं दुर्गभेदप्रकारार्थम् । यथाह मनुः ।

धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत् पुरम् ॥
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एतेषां बाहुगुण्येन गिरिदुर्गं प्रशस्यते ॥ (म्ध् ७.७०–७१)

इत्यादि ॥ ३१६ ॥

एवं दुर्गाणि कृत्वा तं देशम् अध्यास्य ततः ।

तत्र तत्र च निष्णातान् अध्यक्षान् कुशलाञ् छुचीन् ।
प्रकुर्याद् आयकर्मान्तव्ययकर्मसु चोद्यतान् ॥ १.३१७ ॥

नात्र तिरोहितम् इवास्ति ॥ ३१७ ॥

एवं तावत् स्वराष्ट्र एवार्जननियम उक्तः । इदानीं परस्वानपहरणप्रसक्ताव् अपवादम् आह ।

नातः परतो धर्मो नृपाणां यद् रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥ १.३१८ ॥

रणार्जिताद् इत्य् अभिप्रायः ॥ ३१८ ॥

_इदानीं “न संशयं प्रपद्येत” _(य्ध् १.१३२) “न हिंस्यात् सर्वभूतानी” इति प्रतिषेधद्वयात् संग्रामाप्राप्तिप्रसक्ताव् आह ।

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः ।
अकूटैर् आयुधैर् यान्ति ते स्वर्गं यागिनो यथा ॥ १.३१९ ॥

आहवः संग्रामः । भूम्यर्थवचनं दण्डकोशादेर् अप्य् उपलक्षणार्थम् । अकूटैर् आयुधैर् युध्यमाना इति योज्यम् । कूटानि विषदिग्धकर्णिकादीनि । आयुधवचनं सर्वायुधोपलक्षणार्थम् । स्पष्टम् अन्यत् ॥ ३१९ ॥

भूयश् च संग्रामविधिप्ररोचनां युद्धाकृतिप्रकारं चाह ।

पदानि क्रतुतुल्यानि भग्नेषु विनिवर्तताम् ।
राजा सुकृतम् आदत्ते हतानां विपलायताम् ॥ १.३२० ॥

युद्धार्थम् एव हि तत्संग्रहाद् युक्तम् एवैतत् ॥ ३२० ॥

एवं च सति सर्वथा संग्रामे हिंसायां प्राप्तायाम् अपवादार्थम् आह ।

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद् विनिवृत्तं च युद्धप्रेक्षकम् एव च ॥ १.३२१ ॥

चशब्द आयुधादिव्यसनापन्नाद्यर्थः । निर्हेतिर् अयुध्यमानः । परसंगतो ऽन्येन युध्यमानः । स्पष्टम् अन्यत् ॥ ३२१ ॥

एवाम् तावत् सामासिको राजनयः । इदानीम् आन्वहिकं राज्ञः कर्म ।

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् ।
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२२ ॥
**

रक्षा दिव्या मानुषी च द्विविधा । देवब्राह्मणपूजादिलक्षणा मङ्गलात्मिका च दिव्या, सुपरीक्षितोद्यतायुधयुद्धपुरुषैः परिवेष्ठनं मानुषी । तथा च बृहस्पतिः- “ब्रह्मशङ्खस्तुतिपुण्याहशब्दैर् विबुध्योत्थाय संध्याम् उपास्य देवपितृब्राह्मणान् मनसा वा नमस्कृत्य धर्मार्थकामभयोपधाशुद्धावञ्चकगृहीतायुधायातयामविश्वासोत्पन्नासन्नपरिवृतः” इत्यादि । गुरुतरात्ययिककार्यानुरोधेन स्वयम् एवायव्ययं पश्येद् व्यवहारांश् च वक्ष्यमाणविधिना । ततः स्नात्वा देवपित्राद्यर्चनं कृत्वान्तःपुरं प्रविश्य कामतः सुपरीक्षितम् अन्नम् अश्नीयात् ॥ ३२२ ॥

एवं स्वपरराष्ट्रव्यवस्थया द्रव्यार्जनविधिर् उक्तः । तत् पुनर् द्रव्यं किम् उत्पन्नम् एव पात्रे समर्पणीयं तदर्थत्वाद् उत्पादनस्य । एवम् इति प्राप्त आह ।

हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत् ततः ।
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥ १.३२३ ॥

सर्वाधिकारव्यापृतैर् आहृतमात्रं भाण्डागार एव न्यसेत्, न दद्यात् । तत एव हेतोर् “वृद्धं पात्रेषु निक्षिपेत्” इति (य्ध् १.३१२) । नित्यं च भुक्त्वा व्यपेतक्लमो विश्वस्तचित्तः पश्येच् चारान् अवस्थितानेकविधचारप्रहितान् प्रहेतव्यांश् च । अयं हि नीतिसंक्षेपः- नित्यं ह्य् अनेकविधाः सर्वाश्रमसर्वपाषण्डिनो लिङ्गिनो ऽनेकविद्याव्याजकपटैः परराष्ट्रस्वराष्ट्रविन्यस्तास् तत्प्रहितान्धमूकजलबधिरोन्मत्तादिप्रकारकपटप्रच्छन्नाः प्रख्यापितकुतूहलप्रधानतया सर्वसत्त्वानुजिघृक्षापरत्वप्रसिद्ध्या वा राज्ञा प्रयत्नतो गूढसङ्केतनिपुणेनान्वहम् अप्रमत्तेन द्रष्टव्याः । यद् वा, एकं कंचिद् वामनकुब्जादिकम् आत्मनो ऽतिशयवाल्लभ्यप्रख्यातं सुपरीक्षितम् आप्तं चारव्यापरे नियोजयेत् । स चाखिलां राज्ञो नित्ययुक्तचारप्रहितां मुहुर् मुहुर् वार्तां संपादयेत् । एवं चारान् दृष्ट्वा तदर्थनिश्चयानुसारेण सर्वार्थेषु यथार्थं दूतान् प्रेषयेत् प्रधानामात्यसंगतः । षाड्गुण्यनयानुसारिणा त्व् एतच् चित्रसंचारम् आभ्युदयिकबीजम् अप्रमत्तेनान्वहं वप्तव्यम् ॥ ३२३ ॥

यतश् च गूढमन्त्रत्वम् आभ्युदयिकबीजम् ।

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२४ ॥

स्वैरविहारिता प्रधानमन्त्रिण्य् अप्य् अप्रकटितमन्त्रता । यद् वा मन्त्रिभिर् उत्पन्नविश्वासैः सहैवैतच् चारादिदर्शनं कुर्याद् इति । अगूढमन्त्रताप्य् अनभ्युदयायैवेत्य् अभिप्रायः । नयाविरोधेन चैतयोर् व्यवस्था । भूयो भूयः सर्वसचिवाः सुपरीक्षिता अपि परीक्ष्याः । परीक्षितैश् च सह यथार्हं कार्यप्रवृत्तिर् इति । किं च, बलानां हस्त्यश्वरथपादातायुधसंनाहादिसरेतरविवेकेन निपुणतो महाबलाधिकृतसेनापतिसमक्षं दर्शनं कृत्वा ततः षाड्गुण्यं निपुणतः पूर्वोक्तक्रमेणैव चिन्तयेत् । दण्डकोशाद्यनुसारेणैव संधिविग्रहादिनियम इत्य् अभिप्रायः ॥ ३२४ ॥

न चैकान्ततो ऽर्थनिष्ठतयैवेतरपुरुषार्थहापनम् । किं तर्हि ।

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् ।
गीतनृत्तैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ १.३२५ ॥

गीतनृत्तैश् च भुञ्जीत, कामम् अप्य् अनुरुन्ध्यात् । पठेच् च स्वाध्यायम् । धर्मान् न हापयेद् इत्य् अर्थः । यद् वा, एतत्परम् एतच्छ्लोकार्धरम्- महत्याम् अप्य् आपद्य् अविषादिनम् आत्मानं दर्शयितुं स्थितकृत्यचिन्ताप्रवण एव स्वव्यसनगोपनाय परप्रस्वापनाय वानाकुलतयैव, गीतनृत्तैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च । चशब्दान् मृगयाम् अप्य् अनुतिष्ठेत् ॥ ३२५ ॥

किं च ।

संविशेत् तूर्यघोषेण सुप्त्वा बुध्येत् तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्वा सर्वकर्तव्यतास् तथा ॥ १.३२६ ॥

अपस्वप्नायतो मन्त्रस्रुतिर् मा भूद् इति यावत्स्वापं यथास्थानं तौर्यत्रिको नृत्तगीतवादित्रलक्षणः प्रयोज्यः । चशब्दो वन्द्यादिघोषणार्थः । कामो ऽपि चैवम् उत्पन्नः संवृतो भवति, अर्थश् च । सुप्त्वा विबुध्य व्यपेतक्लमो निपुणया प्रज्ञया त्रिवर्गचातुर्येण सर्वार्थं विनिश्चिनुयात् ॥ ३२६ ॥

एवं च निपुणतश् चित्रोदयां नीतिं नियम्य ।

प्रेषयेत् ततश् चारान् स्वेष्व् अन्येषु च सादरम् ।
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥ १.३२७ ॥

पश्चिमयाम एव चारान् प्रेषयेत्, स्वेषु स्थितचारमण्डलेषु । ये तु परराष्ट्रसचिवा नीतिचातुर्याद् भेदिताः, तेषु च सबहुमानं चारान् प्रेषयेत् । चशब्दाद् आटविकस्वमण्डलगतेषु च । एवं च विशालाक्षः ।

वन्यान् वनगतैर् नित्यं मण्डलस्थांस् तथाविधैः ।
चारैर् आलोच्य सत्कुर्याज् जिगीषुर् दीर्घदूरदृक् ॥ ३२७ ॥

एवं चारान् प्रेष्याग्नीन् हुत्वर्त्विगाद्याशीर्भिर् अभिनन्दितः सभां प्रविश्य ततः ।

दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां कनकं महीम् ।
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ॥ १.३२८ ॥

ज्योतिर्विदो वैद्यांश् च दृष्ट्वात्मीयशरीरसंस्थां ग्रहगोचरं चालोच्य निमित्तविशेषं च बुद्ध्वा तदनुसारेणैव श्रोत्रियेभ्यो यथार्हं गां कनकम् इत्यादि दद्यात् । गतार्थम् अन्यत् ॥ ३२८ ॥

अयं चान्यो राज्यप्राप्तिस्थितिकरः सारनयसंक्षेपः ।

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु ।
स्याद् राजा भृत्यवर्गेषु प्रजाभ्यश् च यथा पिता ॥ १.३२९ ॥

स्निग्धो निरभिसंधिस्नेहैकनिबन्धनतया मित्रम् । अजिह्मो ऽकुटिलः । स्पष्टम् अन्यत् ॥ ३२९ ॥

कस्मात् पुनर् एतद् एवम् । यस्मात् ।

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् ।

कस्मात् ।

सर्वदानाधिकं यस्मान् न्यायेन परिपालनम् ॥ १.३३० ॥

केन पुनः प्रजाः पीड्यन्ते, येनायं प्रयत्नः । उच्यते ।

चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्ष्याः कायस्थैश् च विशेषतः ॥ १.३३१ ॥

कायस्था रागादयः । लेखका इत्य् अन्ये ॥ ३३१ ॥

_ _

यदि त्व् एवमादिभ्यो राजा रक्षां न कुर्यात् ततः।

अरक्ष्यमाणाः कुर्वन्ति यत् किंचित् किल्बिषं प्रजाः।
तस्मात् तु नृपतेर् अर्थं

स्याद् इति शेषः ।

कस्मात् ।

यस्माद् गृह्णात्य् असौ करान् ॥ १.३३२ ॥**

कथं पुनः पीडाः प्रजाभ्यो विजानीयाद् राजा । ननु उक्तं "तत्र तत्र च निष्णातान् अध्यक्षान्" कुर्याद् इति (य्ध् १.३१७) । एत एव यदा विकुर्युस् तदा कथम् इति चेत् । उच्यते

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ।
साधून् संमानयेन् नित्यं विपरीतांस् तु घातयेत् ॥ १.३३३ ॥

यदा तु दुष्टजनाः सहाध्यक्षैर् एकीभूय लुब्धाः साधुजनं खलीकुर्युः, ततस् तान् अपि ।

उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।

ये तु साधवस् तान् ।

सदानमानसत्कारैः श्रोत्रियान् वासयेत् सदा ॥ १.३३४ ॥

श्रोत्रियवचनं दृष्टान्तार्थम् । यद् वा दानादिभिर् अपि श्रोत्रियान् एव वासयेद्, न करदान् अप्य् अविनीतान् इत्य् अर्थः ॥ ३३४ ॥

यतश् चैतद् एवम्, अतः ।

अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् ।
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥ १.३३५ ॥

कस्मात् पुनर् एतद् एव, यस्मात् ।

प्रजापीडनसंतापसमुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान् नादग्ध्वा विनिवर्तते ॥ १.३३६ ॥

अत्यपराधाद् एकलोष्टवधेनाप्य् एनं हन्युर् इत्य् अभिप्रायः । दण्डकोशाद्युच्छित्तिस् तु तन्मूलत्वान् नियतैव ॥ ३३६ ॥

ननु एवं परराष्ट्रे ऽपि पीडनाद् अयम् एव दोषः । धर्मेतरानभिज्ञ, मैवम्

य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने ।
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥ १.३३७ ॥

इयं तावद् धर्मगतिः । दोषान्तरं त्व् अत्र नासङ्कनीयम् एवेत्य् अभिप्रायः ॥ ३३७ ॥

किं तु ।

यस्मिन् यस्मिन् य आचारो व्यवहारः कुले स्हितिः ।
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥ १.३३८ ॥

धर्माविरोधेनेति शेषः । आत्मीयत्वाद् एव पालने प्राप्ते गुणार्थं वचनम् ॥ ३३८ ॥

कथं पुनः परराष्ट्रसिद्धिः । मन्त्रत इति ब्रूमः । तदधीना हि कोशदण्डादयः । अतश् च ।

मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम् ।
कुर्याद् यथास्य न विदुः कर्मनाम् आ फलोदयात् ॥ १.३३९ ॥

स्वपरराष्ट्रप्राप्तिस्थितिवृद्धिहेतुर् मन्त्र एव सुनिर्णीतः सुगुप्तो यस्मात्, तस्मान् निर्णयगुप्तिभ्यां सुरक्षितः कार्यः, विपर्यये सर्वोच्छेदप्रसङ्गात् । न च फलोदये ऽपि मन्त्रः प्रकाश्यः, पुनर् अपि तथाकरणात् । फलदर्शनात् तु कारणम् अनुमिमाना न विशेषनिर्धारणं कुर्युः कुतूहलेनात्र समुत्पन्नेन । अतः कृत्येतरवर्गयोः सर्वथा मन्त्रप्रच्छादनं नियोगतः कर्तव्यम् । मन्त्रशक्त्यधीने एव ह्य् उत्साहप्रभुशक्ती, तदपाये ऽपि हि मन्त्रशक्त्यैव सिद्धिदर्शनात् अतस् तद्गुप्तौ यत्नः कार्य इति ॥ ३३९ ॥

किं पुनस् तन् मन्त्रणीयम् । उक्तं च दिक्प्रचारदूतसंप्रेषणकापटिकोदास्थितगृहपतिक-वैदेहकतापसव्यञ्जनावस्थितचारप्रपञ्चपरिनिरूपणपरप्रयुक्तकापटिकाद्युच्छेद-दुर्गादिकरणकन्यासंप्रदानकुमारचिन्तान्तःपुरप्रचाराद्यनेकविधं च । इदं चापरम् ।

अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥ १.३४० ॥

विजिगीषोर् अवस्थितस्य भूम्यन्तरः शत्रुः । तस्मात् परो मित्रम् । तत्परस् तूदासीनः । एवम् इदं मण्डलम् अवस्थितं सामोपप्रदानभेददण्डैर् यथार्हं चिन्त्यम् ॥ ३४० ॥

कस्मात् पुनर् यथार्हं सामादियोजना । यस्मात् ।

उपायाः साम दानं च भेदो दण्डस् तथैव च ।

उपायत्वाद् एव च ।

सम्यक् प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ॥ १.३४१ ॥

साम वाचिकं कायिकं च । दानं दीयमानस्याकोपेन ग्रहणं, स्वकीयस्य च दानम् । भेदः संहतयोर् उपजप्यविश्लेषणम् । दण्डो हठात् प्रसाधनम् । ते ऽमी व्यस्ताः समस्ताश् च यथार्हं योज्याः । आद्योपयत्रयक्षये दण्डः । तत्रारिस् त्रिविधः सहजः कृत्रिमो भूम्यनन्तरश् च । अनन्तरो दण्डसाध्य एव । तथा मित्रं सहजकृत्रिमानन्तरपरत्वेन । अनन्तरपरः सामोपप्रदानगोचरः । सामैवोदासीनेषु । अरिपक्ष्याः सर्वदा भेद्या एव । इत्येवमादिप्रकारो बहुधा प्रयोगानुसाराद् द्रव्यशुद्धिवद् “देशं कालं तथात्मानम्” (ब्ध् १.८।५३) इत्य् अवेक्ष्य सामादिप्रयुक्तिनियमः ॥ ३४१ ॥

याश् चैता राज्यप्रकृतयः स्वाम्याद्याः, तासु यथार्हम् आलोच्य सुरक्षितमन्त्रो विजिगीषुः ।

संधिं सविग्रहं यानम् आसनं संश्रयं तथा ।
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥ १.३४२ ॥

हिरण्यादिपणनिबन्धेनोभयानुग्रहार्थः संधिः । स कदाचिद् द्वयोर् अपि तादात्विकफलः । कदाचिद् एकस्य तदात्वे ऽन्यस्यायत्याम् । तथा च मनुः ।

समानयानकर्मा वा विपरीतस् तथैव च ।
तदात्वायतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥ इति । (म्ध् ७.१६३)

एवं विग्रहादिद्वैविध्यम् अप्य् उदाहार्यम् । संधिविपरीतो विग्रहः । अभ्युच्चयातिरेके रिपून् प्रति गमनं यानम् । अनारम्भत्वम् आसनम् । संधिविग्रहद्वयबीजोपादानं द्वैधीभावः । क्षीणस्यान्याश्रयणं संश्रयः । तदात्वे परिक्षीणस्य भाविन्य् अभ्युच्चये संधिकरणम्, विपर्यये विग्रहः । मित्रोपरोधाच् चोभयम् । मित्रानुरोधाद् भाविबलापेक्षया च प्रक्षीणः शनकैः परान् सान्त्वयन् आसनेन वृद्धिम् आतिष्ठेत् । प्रक्षीण एव चावष्टब्धो द्विधा बलं व्युह्य द्वयबीजम् उपादद्यात् । सर्वपरिक्षये तु स्वबलव्यसनेन वा कुलीनं बलवन्तम् अलुब्धं धार्मिकं पूर्वपुरुषाश्रितं मित्रवर्गभूयिष्ठं राजानं क्षिप्रम् आश्रयेत् । सर्वथा च सामोपप्रदानाभ्यां तम् एवाराधयेत् । तथा चाह ।

निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च ।
उप्सेवेत तं नित्यं सर्वयत्नैर् गुरुं तथा ॥ इति । (म्ध् ७.१७५)

यदा तु मन्त्रोत्साहप्रभुशक्तियुक्तः, तदा यातव्यं प्रतिविधायामित्रं प्रति गच्छेत् । तथा चाहुः- “सामन्तयोर् व्यसनसाध्ये न यातव्यं तम् अमित्रम् एव यायात्” इति ॥ ३४२ ॥

मित्रानुरोधेन स्वेच्छया वा गच्छन् सांपरायिकेन विधिना ।

यदासम्यग्गुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४३ ॥

गतार्थः श्लोकः ॥ ३४३ ॥

ननु एवं सकल एवारम्भो ऽनर्थकः, सुसमृद्धानाम् अपि विपर्ययदर्शनात् । तथा च सुयोधनस्य विराटं प्रति घोषयात्रायां च दृष्टम् एव । उक्तं च- “ग्रहाधीना नरेन्द्राणाम् उच्छ्रयाः पतनानि च” इति (य्ध् १.३०३) । अतो दैवतन्त्रत्वात् राज्यस्यापभ्रष्टमूलाम् इवेमां स्मृतिं मन्यामहे । पुरुषकारानभिज्ञ, मैवम्

दैवे पुरुषकारे च द्वये सिद्धिः प्रतिष्ठिता ।

न दैव एवेत्य् अभिप्रायः ।

किं च, दैवस्वरूपम् अप्य् अनिरूपितम् आयुष्मता । यतः।

तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४४ ॥

जन्मान्तरीयपुरुषकार एव दैवम् इत्य् उच्यते, नान्यद् इत्य् अर्थः ॥ ३४४ ॥

ननु एवम् अपि षाड्गुण्यनिरूपणं व्यर्थम् एव । उच्यते । यदि हि सर्वं दैवाधीनम् एव स्यात् तदैवं स्यात् । अपि तु यदा तु ।

केचिद् दैवाद् धठात् केचित् केचित् पुरुषकारतः ।
सिद्ध्यन्त्य् अर्था मनुष्याणां

तदैतद् अचोद्यम् इति शेषः ।

किं च ।

                                            > **तेषां योनिस् तु पौरुषम् ॥ १.३४५ ॥**

तेषां दैवहठपुरुष्काराणां पौरुषम् एव योनिः कारणम् इत्य् अर्थः । हठो ऽपि यो ऽध्यवसायातिशयः वेतालसाधनादिकः सो ऽपि च पुरुषकारातिशय एवेत्य् अर्थः । अतः सूक्तं “तेषां योनिस् तु पौरुषम्” इति ॥ ३४५ ॥

ननु एवम् अप्य् अपरिहृतम् एवास्मच्चोद्यम् । अहो खल्व् अतिशयवान् मातृमतो विवेकः । पश्य ।

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ १.३४६ ॥

सुष्ठ्व् अपि हि दैवसंपन्नाः पदार्थस्थितिं नैवातिवर्तन्ते । न जातुचिद् उपनीतम् अपि भोज्यं व्यापारम् अन्तरेण मुखं प्रविशति । व्यापारो ऽपि हि दैवाद् एवेति चेत्, न । दैवस्यापि तत्पूर्वकत्वाद् इत्य् उक्तं प्राक्तन एव कर्मणि दैवशब्द इति । तद् अपि दैवान्तरेणेति चेत्, अव्यवस्थैवं सति स्यात् । भवतु, अनादित्वान् निर्दोषेति चेत्, न, निर्निमित्तत्वप्रसङ्गात् । तदभिधाने चावस्थितं पुरुषकारस्यानपेक्षत्वम् । दृष्टानुगुण्येन चादृष्टकल्पना युक्ता, न दृष्ट्बाधेन । आम्नायस्य चैवम् अप्रामाण्यप्रसङ्गः । निमित्तान्तरकल्पने चादृष्टकल्पना दुष्परिहार्यैव स्यात् । अतः पुरुषकारप्राधान्याद् युक्तः कृत्स्न एवायम् उपदेश इति स्थितम् ॥ ३४६ ॥

यदि तु मित्रेण सह तुल्यफलायां यात्रायाम् अवष्टब्धो रिपुर् अशक्तो भूम्यादि प्रयच्छेत्, तदा किं मित्रम् अतिसंधाय स्वकार्यं न क्रियते उक्तं हि मनुनापि- “यथैनं नातिसंदध्युर् मित्रोदासीनशत्रवः” इत्यादि (म्ध् ७.१८०), “विदध्याद् धितम् आत्मनः” इति च (म्ध् ७.५७)धर्मेतरविवेकाकुशल, मैवम्

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्तौ सत्यं रक्षेत् समाहितः ॥ १.३४७ ॥

समाहितो लोकद्वयहिताभिज्ञः ॥ ३४७ ॥

किं च ।

**
स्वाम्य् अमात्यो जनो दुर्गं कोशो दण्डस् तथैव च ।
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥ १.३४८ ॥

स्वामी राजा । अमात्यः सचिवः । जनो जनपदः । कोशो द्रव्यनिचयः । दण्डो बलं हस्त्यश्वरथपादातात्मकम् । मित्रदुर्गे उक्ते । एताः प्रकृतयः सप्तैव । एतदपेक्षया हि राज्यं सप्ताङ्गम् उच्यते यस्मात्, तस्माद् यथैवात्मामात्यादिप्रकृतयश् च प्रयत्नतः पालनीयाः, तथैव मित्राण्य् अपीत्य् अर्थः ॥ ३४८ ॥

एवं यद् दैवपुरुषकाराभ्यां कथम् अपि प्राप्तुं शक्यं राज्यं प्राक्तनानेकविधपुण्यसमुदायाद् ऐहिकविचित्रगुणसंपद्योगाच् च, धीमान् कृतविद्यः सत्यसंधश् च ।

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।

कस्मात् । यस्मात् ।

धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३४९ ॥

तद् राज्यं राजा सुदुर्लभं लब्ध्वा निर्व्याजप्रसाधितसमग्रदण्डपातैश् चतुर्वर्गप्राप्तिलम्पटः प्रयत्नाद् दुर्विनीयमानान् आलोच्याविनीतेषु यथार्हं दण्डं पातयेत् । न चातिमृदुहृदयतया हृद्विलेखः कार्यः । धर्म एवायं दण्डाभिधानो ब्रह्माण्डान्तर्वर्त्यखिलप्राणिसङ्घोपकारार्थं ब्रह्मणा वेदेन निर्मितो विहितः । पुरेत्य् अनादित्वेन निर्विचिकित्सानुष्ठानप्ररोचनार्थम् । तथा च गौतमः- “ततः शेषेण विशिष्टदेशजाति” (ग्ध् ११.२९) इत्य् उपक्रम्य “विष्वञ्चो विपरीता नश्यन्ति । तान् आचार्योपदेशो दण्डश् च पालयते । तस्माद् राजाचार्याव् अनिन्द्यौ” (ग्ध् ११.३०–३२) इत्यादि । आम्नायश् च- “सह वा इदम् अभवत् । देवाश् च मनुष्याश् च ते यदोपकारैर् न शेकुर् मनुष्यान् आत्मीकर्तुम् अथ देवास् तिरोबभूवुः, तान् प्रजापतिर् अब्रवीत् । कः प्रजाः पालयिता भुवि सर्वे ऽन्तर्हिताः स्थ । असंरक्ष्यमाणाः प्रजा अधर्मार्दितास् त्यक्ष्यन्तीतः प्रदानम् उपजीवनम् अस्माकम् इति । ते देवाः प्रजापतिम् अब्रुवन् । पुरुषमूर्तिं राजानं करवाम सोमाद् रूपम् आदायादित्यात् तेजो विक्रमम् अथेन्द्राद् विष्णोर् विजयं वैश्रवणात् त्यागं यमात् संयमनम्” इत्याद्य् उपक्रम्य “सो ऽब्रवीद् धर्मम् एव मे सख्याय कुरुध्वं ततो ऽहं प्रजाः पालयामीति । ततस् तस्मै धर्मं द्वितीयम् अकुर्वन् स एष धर्मो निदानेन यद् दण्डः तस्माद् एवंविद् राजा दण्डं पितर्य् अपि पातयेत् । धर्मेणैनं संस्करवाम्य् आधिपत्यायेन्द्रत्वाय ब्रह्मलोकायेति । ईश्वरो ऽहं तथा कर्त्रोः” इत्यादि ॥ ३४९ ॥

यतश् चैवंरूपो दण्डः ।

न स नेतुम् अतः शक्यो लुब्धेनाकृतबुद्धिना ।

केन तर्हि शक्यः ।

सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५० ॥

कस्मात् पुनर् अयं प्रयत्नः । यस्मात् ।

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगद् आनन्दयेत् कृत्स्नम् अन्यथा तु क्रकोपयेत् ॥ १.३५१ ॥

यस्माद् दण्डाधीनौ जगतः कृत्स्नस्यानन्दप्रकोपौ, तस्माद् यत्नो दण्डप्रणीतौ कार्य इत्य् अभिप्रायः ॥ ३५१ ॥

यतश् चैतद् एवम्, अतः ।

अधर्मदण्डनं लोकस्वर्गकीर्त्तिविनाशनम् ।
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्त्तिजयावहम् ॥ १.३५२ ॥

लोकः परराष्ट्रप्राप्तिः स्वराष्ट्रस्थैर्यं च । स्पष्टम् अन्यत् ॥ ३५२ ॥

यस्माच् च सम्यग् दण्डनात् स्वर्गादिप्राप्तिः, तस्मात् ।

अपि भ्रात सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥ १.३५३ ॥

एवं चालोच्य ।

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन सहस्रशतदक्षिणैः ॥ १.३५४ ॥

क्रत्वर्थहिंसावच् चोरादिहिंसापि धर्म्यैवेत्य् अभिप्रायः । सहस्रशतदक्षिणो राजसूयः । क्रतुबहुत्वाद् बहुवचनम् । यद् वा शतदक्षिणा अग्निष्टोमादयः । सहस्रदक्षिणा अभिजिदादयः । स्पष्टम् अन्यत् ॥ ३५४ ॥

दण्ड्यादण्ड्यवध्यावध्यविवेककॢप्त्यर्थम्

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥ १.३५५ ॥

पृथक् विविक्तान् इत्य् अर्थः । यद् वा क्रतुतुल्यफलं पृथग् इति संबन्धः । एकैकदण्डने क्रतुफलप्राप्तिर् इत्य् अर्थः ॥ ३५५ ॥

एवं दण्डपातनविधिर् उक्तः । अधुनार्थदण्डस्योक्तं मध्यमाधमसाहसाद्यपेक्षया प्रमाणं वक्तुम् आह ।

जलं सूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥ १.३५६ ॥

सूर्यमरीच्यन्तर्गतं जलम् इव यद् रजो दृश्यते, तद् भेदबुद्ध्या गृह्यमाणं त्रसरेणुसंज्ञकं भवति । त्रस्त इव परिभ्रमतीति त्रसरेणुः । ते ऽष्टौ रेणव एकीभूता लिक्षा । ताश् च तिस्रो राजसर्षप उच्यते । एवम् उत्तरत्रापि योज्यम् ॥ ३५६ ॥

गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ १.३५७ ॥
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तिताः ।

उभयथा प्रयोगदर्शनात् । कार्यविशेषापेक्षया च व्यवस्था ॥ ३५७ ॥

एवं तावत् सुवर्णस्य पलपर्यन्तं प्रमाणम् उक्तम् । रौप्यस्य तु ।

द्विकृष्णलो रौप्यमाषो धरणं षोडशैव ते ॥ १.३५८ ॥
शतमानं तु दशभिर् धरणैः पलम् एव तत् ।

कृष्णलद्वयेन रौप्यमाषः । षोडश् माषा धरणम् । दश धरणानि शतमानम् । तच् च गण्यमानं चतुःसौवर्णिकं पलम् एव पलसंमितं भवति ॥ ३५८ ॥

एवं रौप्यपरिमाणम् उक्तम् । सुवर्णस्यैव तु ।

निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥ १.३५९ ॥
साशीतिः पणसाहस्री दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ १.३६० ॥

यत् तु चतुःसौवर्णिकं पलम् उक्तं, तस्यैव द्वितीया निष्कसंज्ञा । ताम्रकर्षस् तु पणसंज्ञः । अशीतिकृष्णलः षोडशमाषः कर्षः । तद् दर्शयति- “साशितिः पणसाहस्री दण्ड उत्तमसाहसः” । सैषा पणशब्दवाच्या कृष्णलाशीतिः । ताम्रग्रहणम् उपलक्षणं सुवर्णरूप्ययोर् अपि । कार्षिकपणो दण्डविशेषापेक्षया योज्यः । सहस्रगुणित उत्तमसाहसो दण्डः । यद् वा सहाशीत्या वर्तत इति साशीतिः । अशीत्यधिकसाहस्र इत्य् अर्थः । तदर्धं मध्यमसाहसः । स्मृत इति, शास्त्राद् इयं व्यवस्था न प्रमाणान्तराद् इत्य् अर्थः । संज्ञाकरणं स्वशास्त्रसंव्यवहारार्थम् । उत्तमसाहसादिदण्डवचनेष्व् एत एव यथा स्युः ॥ ३५९–३६० ॥

अथ किं सर्वापराधेषूत्तमसाहसाद्यपेक्षया दण्डः प्रयोज्यः । नेत्य् उच्यते ।

वाग्दण्डस् त्व् अथ धिग्दण्डो धनदण्डो वधस् तथा ।
योज्या व्यस्ताः समस्ता वाप्य् अपराधबलाद् इमे ॥ १.३६१ ॥

वाग्दण्डः स्वरूपाभिधानमत्रम् । धिग्दण्डः कुत्सनम् । धनदण्ड उक्तः । वधदण्डः शारीरः । तथाशब्द उच्चाटनाद्यर्थः । स्पष्टम् अन्यत् ॥ ३६१॥

अयं चात्र व्यवहारनीतिसंक्षेपः ।

ज्ञात्वापराधं देशं च कालं बलम् अथापि च ।
वयः कर्म च वित्तं च ज्ञात्वा दण्डं प्रकल्पयेत् ॥ १.३६२ ॥

अपराधपुनर्वचनं दृष्टान्तार्थम् । यथैवापराधं ज्ञात्वा तदपेक्षया दण्डप्रकल्पनं, तथैव च देशकालाद्यपेक्षयापीत्य् अभिप्रायः । ज्ञात्वेति पुनर्वचनं निर्णीते ऽपि व्यवहारे धर्मानुसारेण पुनर्व्यवहारोद्धरणार्थम् । स्पष्टम् अन्यत् ॥ ३६२ ॥

इति संभृतमण्डलः सुधामा पुरुरुचिरो रमणः प्रतापशीलः ।
रविर् इव नृपतिः समः प्रजानां जगद् अखिलं व्यवहारतो बिभर्ति ॥
ग्रन्थातिरेकभीत्या यन् न निबद्धं मयात्र सद् वस्तु ।
व्याख्यातृभिर् विविक्तं तल् लभ्यं संप्रदायेभ्यः ॥

इति परमभट्टारकयाज्ञवल्क्यप्रणीते धर्मशास्त्रे

विश्वरूपकृतविवरणबालक्रीडायां

प्रथमो ऽध्यायः ॥