१२ ग्रह-शान्ति-प्रकरणम्

अथ ग्रहशान्तिप्रकरणम्

ग्रहानां कर्माविघ्नसिद्ध्यर्थं पूज्यत्वं विधानत उक्तम् । तद्विधानम् अधुना विवक्षुः स्वातन्त्र्येणापि प्रयोगसिद्ध्यर्थं कामसंयोगेनाधिकारान्तरम् आह ।

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥ १.२९० ॥

पुनःशब्दाद् अविघ्नार्थं कृत्वा पुनः कामार्थं करणम् ॥ २९० ॥

के पुनर् अमी ग्रहा नाम ।

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥ १.२९१ ॥

किम् एते गगनस्थाः पूज्यन्ते । नेत्य् उच्यते ।

ताम्रिकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ ।
रजताद् अयसः सीसाद् ग्रहाः कार्याः क्रमाद् इमे ॥ १.२९२ ॥

उभौ बुधबृहस्पती सौवर्णकौ कार्यौ । केतुस् तु संनिधानात् सीसकाद् एव । इम इति वचनात् पुरुषविग्रहेणेति गम्यते । अर्थवादोत्थाद् वेतिहासाद् विग्रहावगतिः ॥ २९२ ॥

शक्त्यपेक्षया तु ताम्राद्यभावे ।

स्वर्णैर् वा पटे लेख्या गन्धमण्डलकेषु वा ।

सर्वकल्पेष्व् एव ।

यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९३ ॥
गन्धाश् च बलयश् चैव धूपो देयः सगुल्गुलुः ।

यथावर्णं ताम्रादिप्रतिकृतिवर्ण एवैषा वर्ण इत्य् अवसेयम् ॥

सर्वेषां चादित्यादीनां ग्रहाणां ।

कर्तव्यास् तन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥ १.२९४ ॥

तन्त्रवन्तः एकतन्त्रा इत्य् अर्थः । चशब्दात् प्रत्येकं पूजाविधिर् अवसेयः ॥ २९४ ॥

अमी तु सर्वार्था प्रधानमन्त्राः ।

आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.२९५ ॥
बृहस्पते अति यद् अर्यस् तथैवान्नात् परिस्रुतः।
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमा अपि ॥ १.२९६ ॥

पाकयज्ञसामान्येन च यज्ञवृक्षमात्रात् समित्प्रसक्ताव् अपवादम् आह ।

अर्कः पलाशखदिराव् अपामार्गो ऽथ पिप्पलः।
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥ १.२९७ ॥

इदानीं संख्याविशेषार्थम् आह ।

एकैकस्यात्राष्टशतम् अष्टाविंशतिर् एव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥ १.२९८ ॥

यद् वा, अयम् अपूर्वः समिद्धोमो ऽङ्गत्वेन विधीयते । ततश् च प्राशनान्ते पूर्वमन्त्रैर् एव कर्तव्यः । वैकल्पिकश् चायं चरुभिः सह सम्द्धोमविधिर् इति संप्रदायः ॥ २९८ ॥

पक्षद्वये ऽपि तु ।

गुलौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविः पूपान् मांसं चित्रान्नम् एव च ॥ १.२९९ ॥
दद्याद् ग्रहक्रमाद् एतद् द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०० ॥

स्पष्टार्थौ श्लोकौ ॥ २९९–३०० ॥

एवं ब्राह्मणान् भोजयित्वा तेभ्य एव ।

धेनुं शङ्खम् अनड्वाहं काञ्चनं वसनं हयम् ।
कृष्णां गाम् आयसाम् छागं प्रदद्याद् दैक्षिणाः क्रमात् ॥ १.३०१ ॥

शक्त्यपेक्षं चैषां परिमाणम् ॥ ३०१ ॥

एवं तावत् समस्तग्रहपूजा विघ्नोपशमनाय कामसंयोगेन चोक्ता । ज्योतिःशास्त्रानुसारेण त्व् एकैकम् अपि ।

यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।

कस्मात् ।

ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०२ ॥

पूजा च प्रत्येकम् अप्य् उक्तविधिलक्षनैव ॥ ३०२ ॥

भूयश् च ग्रहाणां प्रत्येकं संहतानां च पूज्यत्वे हेतुम् आह ।

ग्रहाधीना नरेन्द्राणाम् उच्छ्रयाः पतनानि च ।
बावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥ १.३०३ ॥

स्पष्टार्थः श्लोकः ॥ ३०३ ॥

इति ग्रहशान्तिप्रकरणम्

**