११ गणपति-कल्प-प्रकरणम्

अथ विनायकादिकल्पप्रकरणम्

एवं तावच् छ्राद्धम् उपदिष्टम्, निमित्तसंयोगौ च । इदं त्व् अत्र वक्तव्यम् । कस्मात् पुनर् एतान्य् अनन्तरम् एव स्वर्गादीनि फलानि कर्मणो नोत्पद्यन्ते । विशिष्टशरीरोपभोग्यत्वात् स्वर्गस्येति चेत्, पुत्रादीनां तर्ह्य् अनन्तरोत्पादप्रसङ्गः । कस्य चैतद् अनिष्टम् । ननु अदर्शनाद् भवतः । मैवम् । निमित्तान्तरात् तददर्शनं, न तु कर्मणाम् अनुत्पादकत्वात् । किं तन्निमित्तान्तरम् इति । उच्यते ।

**
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ।
गणानाम् आधिपत्याय रुद्रेण ब्रह्मणा पुरा ॥ १.२६७ ॥

विनायकशब्देनात्र व्यामोह उच्यते । स हि भावाभावाभ्यां कर्मविघ्नार्थं सिद्ध्यर्थं च विरुद्धासु क्रियासु पुरुषनयनाद् विनायकशब्दवाच्यः क्रोधादिष्व् आरम्भकत्वेनापकर्षहेतोर् गणस्याधिपत्ये विनियुक्तो रुद्रेण । ब्रह्मणा शरीरस्रष्ट्रेत्य् अर्थः । यद् वा प्राकृताशुभकर्मनिचयो विनायकशब्दवाच्यः । सो ऽपि स्वफलोत्पादप्रवृत्तौ विविधं मनुष्यान् नयन् विनायक एव । स च सांप्रतं कर्मणः फलप्रदानप्रवृत्तस्य विघ्नार्थं रुद्रब्रह्मशब्दवाच्यापूर्वशक्त्या विनियोजितः प्राणिगणानां बलवत्त्वेनाधिपत्यायैव प्रवृत्तः सर्वथा स्वेच्छाप्रवृत्तिं निरुणद्धीत्य् अर्थः । तथा च व्यासः ।

यत् तत् पूर्वकृतं कर्म न स्मरन्तीह मानवाः ।
तद् इदं पाण्डवश्रेष्ठ दैवम् इत्य् अभिधीयते ॥ इति ।

देवैर् इव सृष्टं दैवम् । रुद्रेण ब्रह्मणा चेत्य् अत्रापि योज्यम् । क्रोधो वा रुद्रः । ब्रह्म शास्त्रीयं विधानम् । तत्र क्रोधोपहतेन यद् ब्रह्म नादृतं तेन ब्रह्मणा प्राक्कृताशुभेनैव रूपेणायम् इदानीं क्रोधाख्यो विनायको विनियुक्त इत्यादि योज्यम् । अस्तु वा देवतैव विनायको ऽर्थवादानुसारात् । अधिकारतस् तु नित्यत्वाव्याघातः ॥ २६७ ॥

कथं पुनः प्राक्तनाशुभसंयोगः पुरुषस्यावगम्यत इत्य् आह ।

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत ।
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ १.२६८ ॥
काषायवाससश् चैव क्रव्यादांश् चाधिरोहति ।
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२६९ ॥
व्रजमानस् तथात्मानं मन्यते ऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ १.२७० ॥

जाग्रदवस्थायाम् अप्य् एतानि कौनख्यादिवत् पुराकृताशुभकर्मनिमित्तानि द्रष्टव्यानि ॥ २६८–२७० ॥

इदं त्व् अत्रातिस्पष्टं प्राक्तनाशुभसंयोगनिमित्तम् ।

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी न च भर्तरम् अपत्यम् गर्भम् एव च ॥ १.२७१ ॥

गर्भिण्य् अपत्यम् ऋतुमत्य् अपि न गर्भम् इति च योज्यम् ॥ २७१ ॥

आचार्यत्वं श्रोत्रियः सन् न शिष्यो ऽध्ययनं तथा ।
वणिग् लाभं न चाप्नोति कृषिं चैव कृषीवलः ॥ १.२७२ ॥

श्रोत्रियः श्रुतसंपन्नो ऽप्य् आचार्यत्वं न लभते । शिष्यश् च शुचिः शोभनो ऽप्रमत्तः शिष्यगुणयुक्तो ऽप्य् अध्यापकम् अध्ययनं वा न लभत इति व्याख्येयम् । उदाहरणार्थं चैतत् । सर्वथा यो यद् योग्य इति शास्त्रतो लोकतो वावगतः स तद् अलभमानः प्राक्तनाशुभकर्मोपसृष्ट इत्य् अवसेयम् ॥ २७२ ॥

अयं त्व् अत्र प्रतिसमाधिः ।

स्नपनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साद्येनोच्छादितस्य तु ॥ १.२७३ ॥
सर्वौषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ् छुभान् ॥ १.२७४ ॥

तथा स्नपनं कर्तव्यम् इति संबन्धः । पुण्याहश् चन्द्रबलादियोगः । उच्छादनम् उद्वर्तनम् । तच् च सद्यःपिष्टेन गौरसर्षपकल्केन । तुशब्दात् तेनैव शिरसो विलेपनम् । तथाशब्दाच् च सर्वौषधिगन्धैर् उद्वर्तनम् । अप्रतिषिद्धौषधगन्धापेक्षः सर्वशब्दः । भद्रासनं शोभनम् आसनम् । स्वस्तिवाचनं ब्राह्मणेभ्यो हिरण्यादिदानम् ॥ २७३–२७४ ॥

किं च ।

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ध्रदात् ।
मृत्तिकां रोचनां गन्धान् गुल्गुलुं चाप्सु संक्षिपेत् ॥ १.२७५ ॥
या आहृता एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् ।
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं तथा ॥ १.२७६ ॥

यथायोगं कल्पना ॥ २७५–२७६ ॥

अमी तु स्नपनमन्त्राः ।

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् ।
तेन त्वाम् अभिषिञ्चामि पावमानीः पुनन्तु ते ॥ १.२७७ ॥
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ १.२७८ ॥
यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि ।
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु ते सदा ॥ १.२७९ ॥

त्रिभिर् मन्त्रैः प्रतिमन्त्रं कलशत्रयेण स्नापनम् । चतुर्थेन त्व् अविशेषात् सर्वमन्त्रैर् एव । मन्त्रार्थास् तु व्याख्यातृभ्यो ऽवसेयाः ॥ २७७–२७९ ॥

एवं तावत् कलशचतुष्टयेनापि ।

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८० ॥

चशब्दो दक्षिणजान्वञ्चनादिप्रकारार्थः ॥ २८० ॥

अमी तु होममन्त्राः ।

मितश् च संमितश् चैव तथा सालकटङ्कटः ।
कूश्माण्डराजपुत्रश् च जपेत् स्वाहासमन्वितान् ॥ १.२८१ ॥

चत्वारो विनायकमन्त्राः । एतान्य् एव चतुर्णां नामानि । तत्र स्वाहाकारान्तैर् जपबलिकर्मणी, स्वरूपेणैव वा बलिकर्मेति । अयं च प्रयोगप्रकारः- मिताय स्वाहा, संमिताय स्वाहा, सालकटङ्कटाय स्वाहा, कूश्माण्डराजपुत्राय स्वाहेति । चशब्दद्वयेन मितसंइतयोर् भेदं दर्शयन्न् इतरयोस् तदभावात् समासकरणाच् चाभेदं दर्शयति । अतश् चत्वार एव मन्त्रा इति ॥ २८१ ॥

एवं तावद् गृह एव कर्म । अतः परं तु ।

नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः।
दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः॥ १.२८२ ॥

नामानि मितादीनि । बलिमन्त्रा बलिदानविहिताः नमस्क्रिया इत्येवमादयः । अत्र हि बलिलिङ्गयोगो ऽस्ति नमो ऽस्तु बलिम् एभ्यो हरामीति । उपस्थाने चाम्बिकादर्शनात् स्त्रीमन्त्रत्वाद् एत एव युक्ताः । चतुष्पथे कुशास्तरणं, न शूर्पे । स्पष्टम् अन्यत् ॥ २८२ ॥

किं पुनस् तच् छूर्पे देयम् ।

कृताकृतांस् तण्डुलांश् च पललौदनम् एव च ।
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥ १.२८३ ॥

कृताः फलीकृताः । अकृता अफलीकृताः । चशब्दाद् ओदनम् अपि द्विरूपम् एव । मांसम् अप्य् एतावद् एव पक्वम् आमं चेत्य् अर्थः ॥ २८३ ॥

किं च ।

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि ।
मूलकं पूरिकापूपांस् तथैवओड्डेरकस्रजम् ॥ १.२८४ ॥

एतत् सर्वं नामभिर् बलिमन्त्रैश् च दत्त्वा ॥ २८४ ॥

अनन्तरम् ।

दूर्वाससर्षपकल्केन दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ।

पूर्वमन्त्रैर् एव ।

विनायकस्य जननीम् उपतिष्ठेत् ततो ऽम्बिकाम् ॥ १.२८५ ॥

अम्बिका चात्र बुद्धिर् उच्यते । सा ह्य् अशुभनिमित्तं लोभादिं जनयति । यद् वा, देव्य् एवाम्बिका रुद्रपत्नी, अधिकारनित्यत्वेनेत्य् उभयथाप्य् अदोषः ॥ २८५ ॥

अयं तूपस्थानमन्त्रः ।

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान् देहि श्रियं पुण्यान् सर्वकामांश् च देहि मे ॥ १.२८६ ॥

एवम् उपस्थाय ततः ।

शुक्लाम्बरधरः शुक्लमाल्यगन्धानुलेपनः ।
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥ १.२८७ ॥

गुरुः स्नापकः । स्पष्टम् अन्यत् ॥ २८७ ॥

एवं विनायकं पूज्य ग्रहांश् चैवं विधानतः ।
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥ १.२८८ ॥

अशुभक्षपणार्थत्वाद् अस्य कर्मणः क्षीणाशुभसय कर्मफलावाप्तिर् अनवद्या । यस् तु पुण्यकृद् इवोपलभ्यते, सो ऽप्य् एतत् कृत्वा श्रियम् अनुत्तमां प्राप्नोति । अतस् तेनापि कर्तव्यम् एव, “आ मृत्योः श्रियम् आकाङ्क्षेत्” (य्ध् १.१५२) इति वचनात् । ग्रहपूजाविधानं च वक्ष्यमाणं द्रष्टव्यम् ॥ २८८ ॥

यस् त्व् एवम् अपि कर्मफलं न प्राप्नुयात्, तस्यायम् अपरो ऽभ्युपायः ।

आदित्यस्य सदा पूजां तिलकस्वामिनस् तथा ।
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ १.२८९ ॥

अविशेषेण चेयं स्मृतिः । सर्वपुंसां सिद्ध्यर्थं पूजाविधिर् अवसेयः, सदाशब्दसामर्थ्यात् । स्पष्टम् अन्यत् ॥ २८९ ॥

इति विनायकादिकल्पप्रकरणम्

**