१० श्राद्ध-प्रकरणम्

अथ श्राद्धप्रकरणम्

निमित्तेषु विशेषतो दानम् उक्तम् । कानि पुनस् तानि निमित्तानीत्य् अत आह ।

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।
द्रव्यब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ १.२१४ ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ १.२१५ ॥

अमावास्याष्टकयोः कृष्णपक्षान्तर्गतत्वे ऽपि भेदेनोपादानम् आदरातिरेकार्थम् । एवं सूर्यसंक्रमविषुवायनादीनां वचनानि योज्यानि । द्रव्यं वार्ध्राणसादि श्राद्धार्थम्, उभतोमुख्यादि दानार्थम् । ब्राह्मणसंपद् उक्ता वक्ष्यमाणा च । गजच्छाया त्व् अन्यैव, व्यतीपातसंनिधानात्,

यदि स्याच् चन्द्रमाः पित्र्ये करे चैव दिवाकरः।
वर्षासु च त्रयोदश्यां सा छाया कुञ्जरस्य तु ॥

इति च स्मरणात् । एते श्राद्धकालाः प्रकीर्तिताः । श्राद्धवचनं दानादेर् अपि प्रदर्शनार्थं, प्रक्रमाविशेषात् । तथा चाहुः- “शतम् इन्दुक्षये दानम्” इति । एतानि व्यस्तान्य् अपि निमित्तानि । यद् वा, श्राद्धशब्दः स्वार्थ एव । तस्य चायं कालविधिः । संनिधानाच् च दानस्याप्य् अयम् एवापेक्षितत्वात् स्मृत्यन्तरानुसाराच् चाविरुद्धः काल इत्य् अवसेयम् । कृष्णपक्षे ऽविशेषत एव श्राद्धम् उक्तम् । यथाह जातूकर्णिः- “अथ श्राद्धम् अपरपक्षे सर्वत्राविशेषात् । नभस्य एव वा सामर्थ्योपपत्तिभ्याम्” इति । आम्नायश् च “अथ यत्र दक्षिणा वर्तते सूर्यः, पितृषु तर्हि भवति” इत्यादिनैतम् एवार्थं स्फुटयति । अथ वा प्रशस्ततरत्वं तस्य । अविशेषेणैवात्र निमित्तत्वम्, “मासि मासि चाशनम्” इत्य् आम्नायात् । जातूकर्णम् प्य् एवम् एव नेयम् ॥ २१४, २१५ ॥

एवं तावत् कालसंपदम् उक्त्वा पात्रसंपदम् आह ।

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो वेदविद् युवा ।
वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥ १.२१६ ॥
स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः ।
त्रिनाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ १.२१७ ॥
कर्मनिष्ठतपोनिष्ठपञ्चाग्निब्रह्मचारिणः ।
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२१८ ॥

अग्र्यो ऽग्रगामी, सर्वेषु वेदेष्व् ऋग्वेदादिषु । श्रोत्रियो ज्ञाता वेदपारग इत्य् अर्थः । वेदविद् एकशाखापारगः । युवा तरुणः । वेदार्थविन् मीमांसादिशास्त्रज्ञः । ज्येष्ठसामाख्यं छान्दोग्यं व्रतं, तत् चीर्णं येन स ज्येष्ठसामा । एवम् उत्तरत्रापि योज्यम् । त्रिमधुर् आथर्वणम् । त्रिसुपर्णकं बाह्वृच्यम् । स्वस्रीयो भागिनेयः । ऋत्विगादयः प्रसिद्धाः । त्रिनाचिकेतम् आध्वर्यवं व्रतं, त्रिरग्निचयनं वा । शिष्यो ऽनुशिष्टः स्नातकः । संबन्धी स्थालादिः । बान्धवा मातृश्वसीयादयः । कर्मनिष्ठा यावज्जीवाग्निहोत्रिणः । तपोनिष्ठा नैष्ठिकपरिव्राजकादयः । पञ्चाग्निर् अग्निहोत्री, वनस्थो वा । ब्रह्मचार्य् उपकुर्वाणकः । पितृमातृपरास् तद्भक्ताः । चशब्दः स्मृत्यन्तरोक्तस्मृतिद्रोणपाठकाद्यर्थः । स्वस्रीयादीनां संबन्धनिमित्तत्वात्, क्षत्रियादेश् च श्राद्धाधिकारात्, तज्जातीयप्रसक्ताव् आह- “ब्राह्मणाः श्राद्धसंपदः” इति । श्राद्धं संपादयन्तीति श्राद्धसंपदः । बहुचवनाद् व्यत्यस्ता अपि । अभ्रष्टसंस्काराश् च स्वस्रीयादयो ऽल्पगुणा अपीत्य् अवसेयम् । पुनः श्राद्धवचनं दाने गुणातिरेकात् पात्रतेति ज्ञापनार्थम् ॥ २१६–२१८ ॥

किम् अविशेषेणैवैते ब्राह्मणाः श्राद्धभोजिनः । नेति ब्रूमः यतः ।

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२१९ ॥
भृतकाध्यापकः क्रूरः कन्यादूष्य् अभिशस्तकः ।
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ १.२२० ॥
मातापितृसुतत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टश् च निन्दिताः ॥ १.२२१ ॥

रोगी असमाधेयव्याध्यभिभूतः । अवकीर्णी आदिष्टप्रायश्चित्तः, अन्यस्य कर्मदौष्ट्येनैव निन्दितत्वात् । कुण्डगोलकौ, यथाह मनुः ।

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डस् तु मृते भर्तरि गोलकः ॥ इति । (म्ध् ३.१७४)

परिविन्दको ज्येष्ठभ्रातरि स्थिते दारागिनोत्राहर्ता । मातृत्यागी सर्वथा, पितृसुतत्यागी अकारणात् । कुण्डाशी कुण्डगोलकाद्यन्नभोक्ता । वृषल आत्मजो यस्य स वृषलात्मजः शूद्रापत्यः । परपूर्वा पुनर्भूः, तद्भर्ता परपूर्वापतिः । स्तेनश् चोरः । कर्मदौष्ट्यवचनात् सिद्धे प्रकारार्थं वचनम् । स्पष्टम् अन्यत् ॥ २१९–२२१ ॥

एवम् अनिन्दितान् श्राद्धभोजने ।

निमन्त्रयीत पूर्वेद्युर् ब्राह्मणान् आत्मवाञ् छुचिः ।
निमन्त्रितैश् च तैर् भाव्यं मनोवाक्कायसंयतैः ॥ १.२२२ ॥

ब्राह्मनग्रहणं गुणार्थम् । ततश् च दृष्टार्थतयैव गुणवतः पूर्वेदुर् आमन्त्रणम् । अन्येषां तु तदहर् अप्य् अविरोधः ॥ २२२ ॥

अथ श्राद्धाहनि ।

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् ।
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ १.२२३ ॥

संशब्दात् स्वयम् अभ्युत्थानादिनाभ्यर्च्यैतान् । आगतवचनाच् च निमन्त्रणस्यान्यकर्तृकत्वे ऽप्य् अदोषः । पवित्रं दर्भास्तरणादि । आचान्तवचनाच् च न स्वयं पादप्रक्षालनक्रिया । स्वयम् एव त्व् आसनेषु पङ्क्तिपावनाद्यपेक्षया यथार्हम् उपवेशयेत् । आसनवचनं पूर्वम् आसनोपकॢप्त्यर्थम् । तथा चाह ।

आसनेषूपकॢप्तेषु बर्हिष्मत्सु विधानतः । इति (च्ड़्। म्ध् ३.२०८) ॥ २२३ ॥

कः पुनर् उपवेशनप्रकारः । उच्यते ।

दैवे युग्मान् यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च
परिश्रिते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२४ ॥
**

तथाशब्दः प्राङ्मुखत्वादिप्रकारार्थः । शक्तिश् चावैगुण्यलक्षणा द्रष्टव्या ॥ २२४ ॥

मनोवाक्कायसंयतैः अवैगुण्यशक्त्यपेक्षयैव च ।

द्वौ दैवे प्राग् उदक् पित्र्ये त्रय एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२५ ॥

तथा चाह मनुः ।

द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मात् तं परिवर्जयेत् ॥ इति । (म्ध् ३.१२५–२६)

एवम् उपवेशनान्तं पित्र्ये विधायातिदिशति- मतामहानाम् प्य् एवं सर्वं कालादि संपाद्यम् । ततश् च सर्वथाकरणे प्रसक्ते शक्त्यपेक्षयैवापवादः- तन्त्रं वा वैश्वदेविकं कर्म कुर्याद् इति । वाशब्दः कल्पान्तरार्थो ऽपि, स्मृत्यन्तरात्-

एक एव यदा विप्रो द्वितीयो नोपलभ्यते ।
तं नियुज्य हि पित्रर्थे दैवे त्व् अग्निं नियोजयेत् ॥

द्वितीयम् ।

यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥
देवतायतने स्थाप्य ततः श्राद्धं प्रकल्पयेत् ।
प्रास्येद् अग्नौ तद् अन्नाद्यं दद्याद् वा ब्रह्मचारिणे ॥ इति ।

  • इह चाधुना विचार्यते- किम् इदं श्राद्धं नाम, कस्य वात्राधिकार इति । अत्रायं श्राद्धशब्दो यौगिकत्वे ऽपि न गुणविधिः । “श्रद्धापूतं तु शक्तितः” (य्ध् १.२०२) इति श्रद्दाया अन्यतः प्राप्तत्वात् । प्रयुक्तस्य च योगानुमानान् नातिप्रसङ्गः । तेनाग्निहोत्रादिवन् नामैवैतद् इति स्थितम् । तच् च पिण्डदानस्यैव, न ब्राह्मणभोजनादेः, “यत् पितृभ्यो निपृणाति” (बाउ १.४।१६) इत्य् आम्नायात् । निपरणं च पिण्डदानम् एव, न ब्राह्मणभोजनादि, “सर्वेभ्य एव निपृणीयात्” इत्यादिप्रयोगदर्शनानुसारात् । ननु च श्राद्धभुग् देवदत्त इत्याद्य् अपि प्रयोगो दृष्ट एव । सत्यम् । औपचारिकस् तु सः । कुतो ऽयं विवेक इति चेत्, “शास्त्रस्था वा तन्निमित्तत्वात्” (प्म्स् १.३।९) इति न्यायात्, पिण्डपितृयज्ञे च प्रयोगदर्शनात् । यथाह जैमिनिः- “श्राद्धवद् इति चेत्” (प्म्स् ६.८।१६), अपिण्डके चान्वाहिकपितृब्राह्मणभोजने ऽनुपलम्भात्, “दद्यात् पिण्डं हरेद् धनम्” इति च पिण्डदानस्यैव पितृसंभन्धदर्शनात् । “यद्य् एकं भोजयेच् छ्राद्धे” इत्यादयस् तु प्रयोगास् तादर्थ्यनिमित्तत्वेनैवावसेयाः । व्यासश् च पिण्डदान एव पितृहस्तोत्थानाभिधानात् तत्प्रधानताम् एव द्योतयति । एवम् आम्नायात् स्मृत्यन्तरानुसाराच् च पिण्डदानस्यैव श्राद्धत्वसिद्धिः । चिन्ताप्रयोजनं तु तथोक्तब्राह्मणालाबे पिण्डमात्रप्रवृत्तिर् यथा स्याद् इति । क्व पुनर् एतत् पिण्डदानं यागादिमध्ये ऽन्तर्भाव्यम् । नैकत्रापीति केचित् । अन्य एवायं निपरणाख्यो व्यापार उत्सर्गलक्षण इति । सक्यं चैतद् दानम् इति वक्तुम्, परस्वत्वापत्तिपर्यन्तत्वात् । पितॄणां हि संप्रदानतैवोत्पत्तिवाक्ये । यतः पितृभ्यो दद्यात् पिण्डं दद्याद् इति च । ननु अत्र दानार्थानुपपत्तिः पितृगतस्वत्वसंबन्धानुपपत्तेः, प्रेतपितृकस्य चाधिकारात् । यथाह कात्यायनः- “प्रेतेभ्यो ददाति” इति (कात्श्र् ४.१।२३) । मनुर् अपि ।

पिता यस्य तु वृत्तः स्याज् जीवेद् वापि पितामहः । (म्ध् ३.२२१)

इत्यादिना प्रेतेभ्य एव दानं दर्शयति । सत्यम् एवम् । प्रेतानाम् अपि यथा संप्रदानत्वं तथोपरिष्टाद् वक्ष्यामः । एतान्य् एव तु कथं वचनानि ।

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
विप्रवद् वापि तं श्राद्धे स्वकं पितरम् आशयेत् ॥
पिता यस्य तु वृत्तः स्याज् जीवेद् वापि पितामहः ।
पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ इति । (म्ध् ३.२२०–२२१)

तथेदम् अन्यत्- “पितापुत्रौ चेद् आहिताग्नी स्याताम्, येभ्य एव पिता दद्यात् तेभ्यः पुत्रो ऽपि” इति । विरोधाद् अनादृत्यान्य् एवेति केचित् । एवं ह्य् आम्नायः- “असाव् एतत् ते” इति (श्ब् २.४।२.१९) । एवं “यजमानस्य पित्रे” इत्यादि (श्ब् २.४।२.१९) । कात्यायनश् चैतद् एवालोच्य “पितृप्रभृति तु नित्याः” इत्य् आह । वचनाच् च परानधिकारः । जीवपित्राद्यपेक्षया च “न जीवन्तम् अति ददाति” इत्य् आम्नायोपन्यासः (कात्श्र् ४.१।२७) । जीवपितृकस्य वा समावर्तनार्थश्राद्धविषयान्य् एतानि । तस्यापि

अनिष्ट्वा तु पितॄञ् छ्राद्धे न कुर्यात् कर्म वैदिकम् ।

इत्य् अनग्निकस्यैव सामर्थ्याच् छ्राद्धाधिकारो ऽस्त्य् एव । कुतो ऽयं विशेष इति चेत्, साग्निकस्य जीवपितृकस्य पिण्डपितृयज्ञानधिकारात् श्राद्धानधिकारः,

पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमादिकम् । (म्ध् ३.१२२)

इत्य् अङ्गत्ववचनात् । एवं तर्ह्य् अपरपक्षादिश्राद्धविषयताप्य् अस्तु । , पार्वणविकारत्वात्, तस्य च प्रेतविषयत्वात्, प्रकृतिवच् च विकृत्यनुष्ठानात् । समावर्तने ऽपि तर्ह्य् अयम् एव न्यायः । स्तयम्, आनर्थक्यपरिजिहीर्षया तद्विषयत्वाभिधानम् । तावतैवानर्थक्यपरिहारान् नातिप्रसङ्गः । किं च, अग्न्यभावे ऽपि हि सामर्थ्यात् तस्यैवाग्नौकरणकल्पः,

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् । इति । (म्ध् ३.२१२)

तत्सामान्याद् अन्यो ऽप्य् एवंजातीयकस् तस्यैव युक्तः । एवं तावद् विषयोपकॢप्तिर् उक्ता । पूर्वपक्षतयैव त्व् अयं भगवतो ऽपि लक्ष्यते । कथं हि भगवता प्रत्यक्षाः श्रुतयो न निरूपिताः स्युः । तथा चाह ।

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः ।
कामं वा तदनुज्ञातः स्वयम् एव समाचरेत् ॥ इति । (म्ध् ३.२२२)

अयम् अस्यार्थः- “ध्रियमाणे तु पितरि” (म्ध् ३.२२०) इत्यादीतिकरणान्तम् (च्ड़्। म्ध् ३.२८६) उक्तवान् मनुः, न त्व् अनुष्ठितवान् । कामम् एव तु तेनैव पितामहेन विदुषा शास्त्रार्थम् आलोक्यानुज्ञातो यद् युक्तं तत् स्वयम् एव समाचरेद् इति । तथा चाम्नायो ऽप्य् उक्तम् अप्य् अननुष्ठितम् अकर्तव्यतयैव दर्शयति- “तद् वै सन्तो मीमांसाम् एव चक्रे न तु चकार तत्कृतम् एव” इत्य् अनुष्ठानकृतम् एव प्रामाण्यं नाभिधानमात्रकृतम् इत्य् अभिप्रायः । यत् तु “पितापुत्रौ चेद् आहिताग्नी स्याताम्” इति, तद् आहिताग्निवचनात् क्रतुगतपिण्डदानार्थं द्रष्टव्यम् । तथा च तादर्थ्येनैव “येभ्य एव पिता दद्यात्, तेभ्यः पुत्रो ऽपि” इति याज्ञिकस्मरणम् च्ड़्। (हरदत्त ओन् आप्ग् ८.२१.४) । अतश् च जीवपितृकस्यावसथ्याद्य् अपि श्राद्धरहितम् एवेत्य् अलं प्रसक्त्या । स्नानविवाहयोस् तु जीवपितृकस्यापि पितृवच् छ्राद्धक्रियेति संप्रदायः ।

  • स्थितम् एतत् पिण्डदानं स्राद्धम् इति । अधिकारस् तु वक्तव्यः । ननु उक्तः प्रेतपितृको ऽग्निमाञ् छ्राद्धाधिकृत इति । यद्य् एवम् आत्मत्यागिपितृकस्यापि प्रसज्येत । तच् चायुक्तम् । यथाह मनुः ।

वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥ इति । (म्ध् ५.८९)

एवं सर्वस्मृतिष्व् एवंजातीयकानाम् उदकक्रियानिषेधाद् एकोद्दिष्टनिवृत्तिः । तदनुसारात् सपिण्डीकरणाभावाच् छ्राद्धानधिकारः । अत्रोच्यते । न सपिण्डीकरणं श्राद्धनिमित्तं, किं तर्हि, अमावास्यादीनि । ननु अमावास्याधिकृतस्य कालः । सपिण्डीकृतपितृकस्यैव तु श्राद्धाधिकारः । अन्यथा हि प्राग् अपि सपिण्डीपरणात् प्रसज्येत । प्रसज्यताम् इति चेद्, न, प्रतिषेधात् । यथाह मनुः ।

असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ इति । (म्ध् ३.२४७)

ननु एकोद्दिष्टम् अपि श्राद्धम् एव । सत्यम् । पार्वणानधिकारस् त्व् अस्माभिर् उक्तः । तथा चेतरद् अनाहिताग्नेर् अपि भवति । आभ्युदयिकं वा किं तस्य न भवति । भवति, न त्व् असपिण्डीकृतपितृकस्य । एकोद्दिष्टं तु तस्यापि भवतीति विशेषः । तस्मान् न सपिण्डीकरणाभावे श्राद्धाधिकारः । अन्ये तु कुतश्चिद् आगमय्येमं श्लोकं पठन्ति ।

निषिद्धोदककल्पानां पतितादिद्विजन्मनाम् ।
ऊर्धवं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदेहिकम् ॥ इति ।

अयं त्व् अस्पष्टमूलत्वाद् विचार्यः । अत्र ब्रूमः । प्रेतक्रियैव मन्वादिभिर् निषिद्धाः । न तु श्राद्धाधिकारः । सपिण्डीकरणाभावान् नेति चेद्, न, अतिप्रसङ्गात् । यदा हि दैवान् न सपिण्डीकृतः, तदाप्य् अनधिकारः स्यात् । संवत्सराच् चोर्ध्वं सपिण्डिकरणानुपपत्तिः, अनुपदेशात् । तत्रैतत् स्यात् । अकाले वा तत् कर्तव्यम्, तदभावे वाधिकारो वक्तव्यः । तत्र यद्य् अतिक्रान्तकालस्यापि क्रिया श्राद्धप्रयुक्तत्वात् सर्वैर् अविशेषात् कर्तव्यं, ब्राह्मणामन्त्रणादिवत् । अनधिकारहेतुत्वं तूपपन्नम् एव, तदभावे ऽपि दर्शनात् । न तावन् मातामहान् दौहित्रः सपिण्डीकरोति, करोति तु श्राद्धम् । ननु च मातुर् मातामहेनैव सह सपिण्डीकरणम् इष्यते, तत् कथम् उच्यते दौहित्रः सपिण्डीकरणं न करोतीति । “सपिण्डीकरणविधाने चत्वारि पात्राणि” इत्य् उपक्रम्य “त्रीणि पितॄणाम् एकं प्रेतस्य” इत्य् उक्तम् । प्रेतस्य च पितॄणां त्रीणीति तत्राभिसंबन्धः, नाधिकृतस्य पितॄणाम् इति समञ्जसं स्यात् । मातुश् च मातामहा एव पितरः । तस्मात् तैर् एव सह सपिण्डीकरनं युक्तम् इति ।

  • अत्रोच्यते । स्याद् एतद् यदि प्रेतस्येति पितृविशेषणं स्यात् । पात्रसंबन्धितया तु प्रेतस्येति श्रुतं न पितृविशेषणत्वं प्रतिपत्तुं क्षमम् । अतो ऽधिकृतापेक्षम् एव पितॄणाम् इति योज्यम् । किं च, मातामहैः सह सपिण्डक्रियायाम् आनर्थक्यम् एव स्यात् । न तावन् मातामहसन्तानिनस् तस्याः पिण्डं दद्युः, अनुपदेशात् । न चाधिकृतसंतानिनः, तेषाम् अत्यन्तम् अधिकृतमातामहैः सहासंबन्धात् । अतः सिद्धं दौहित्रो मातामहान् न सपिण्डीकरोतीति । न चान्येन सपिण्डीकृताः सपिण्डीकृता भवन्ति । ननु सपिण्डीकरणं प्रेतसंस्कारत्वाद् येन केनचित् कृतं सर्वेषाम् उपकरोतीति । मैवम् । प्रेतोपकारकं ह्य् एतन् न संस्कारकम्, तत्कल्पने ह्य् अदृष्टकल्पनाप्रसङ्गात् । उपकारकत्वं तु श्राद्धान्तरवत् सिद्धं, संस्कारमध्ये चापरिगणनाद् विस्पष्टश्रुत्यभावाच् च । एवं सति यावन्तः पुत्राः, सर्वेषाम् अधिकारः स्यात्, तस्य तस्याविशेषात् । पुत्रमात्राश्रित उपदेशो न सङ्कोचितः स्यात् । तस्मान् नान्यकृतेनान्यस्याधिकारसिद्धिः । अतस् तदभावे ऽप्य् अधिकार इति ज्यायसी कल्पना । किं च पुत्राभावे सपिण्डादीनां पिण्डदानं श्रूयते । तच् च सपिण्डक्रियापूर्वकत्वे ऽनुपपन्नम् एव । तस्मात् तद् अपि ते न कुर्वन्ति, अपुत्रस्यासंभवात् । यथाह पारस्करः- “पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात् पुत्रवांश् चेत्” इति (पार्ग् ३.१०.५०) । शाराद्धमात्रचोदनैव तेषां न सपिण्डक्रियाचोदनापि । अपि च मात्रे मातामहैः सह पिण्डदानम् । न च तत्र सपिण्डीकरणोपपत्तिः । तस्मान् न तदपाये ऽप्य् अधिकारव्यावृत्तिर् इति सिद्धम् । मन्वादिवचनान्य् अप्य् एकोद्दिष्टप्रतिषेधार्थतयैव चरितार्थत्वान् न श्राद्धप्रतिपक्षताम् उपयान्तीत्य् अवसेयम् । प्रत्यक्षापि च पिण्डपितृयज्ञश्रुतिर् एवम् अनुपरुद्धा स्यात् । अन्यथा तु स्मृत्युपरोधात् सा बाध्येत । तद् अपेशलं स्यात् । तस्माद् अप्य् उक्तसिद्धिः । यदा तु “निषिद्धोदककल्पानाम्” इत्य् अयं श्लोकः प्रमाणम् । ततस् तदनुसाराद् अपि करणम् अस्तु । सर्वथा श्राद्धास्तित्वनियमः । यत् तूक्तम् “असपिण्डक्रियाकर्म” इति (म्ध् ३.२४७), तद् अर्वाक् संवत्सराद् द्रष्टव्यम् । परतस् त्व् असपिण्डीकृतस्यापि श्राद्धप्रवृत्तिः । कुत एतत् । “यदा वा वृद्धिर् आपद्येत” इति प्राग् एव संवत्सराद् अयम् उपदेशो यतः, न श्राद्धाङ्गं सपिण्डीकरणं, प्रमाणाभावात् । कथं पुनः प्राग् एवायं विधिः न परतो ऽपीत्य् अवगमः, स्मृत्यन्तरानुसारात् । यथाह पारस्करः- “संवत्सरं पृथग् एक” इति (पार्ग् ३.१०.५२) । यत्र च संवत्सरप्राप्तिर् अपि संदिग्धा, कुतस् तत्रातिप्रसङ्गः । कात्यायनो ऽपि च “संवत्सरे पूर्णे” इति पूर्णवचनात् परतो नेत्य् एतद् एव ज्ञापयति । अन्यथा संवत्सर इत्य् एव सिद्धे तद् अनर्थकं स्यात् । तस्मात् संवत्सराद् ऊर्ध्वं सपिण्डीकरणानुपपत्तेः प्राग् एव संवत्सराच् छ्राद्धनिषेधार्थम् “असपिण्डक्रियाकर्म” (म्ध् ३.२४७) इत्य् एतद् इत्य् अनवद्यम् ।

  • इदं तु चिन्त्यम् । किम् अनग्निको ऽपि सपिण्डक्रियां कुर्याद्, उत साग्निक एवेति । साग्निक इति युक्तम्, इतरस्य सर्वाङ्गोपसंहारानुपपत्तेः । न ह्य् अग्नौकरणम् तस्यास्ति,

न पैतृयाज्ञिको होमो लौकिके ऽग्नौ विधीयते । (म्ध् ३.२८२)

इति वचनात् । अत एव च ज्ञयते अग्नौकरणरहितत्वाद् एकोद्दिष्टम् अनग्निको ऽपि कुर्याद् इति । एवं प्राप्ते भ्रूमः । अविशेषेणैवाधिकारः । अन्यथा हि संवत्सरोपदेशो ऽनर्थक एव स्यात् । यस् तावद् अग्निमान्, प्राग् एवासौ करोति । अनग्निकस् तु यद्य् अग्निम् आधाय कुर्यात्, तदा पूर्वतरं श्राद्धानधिकारात् सपिण्डीकरणम् एव कर्तव्यम् । अथ वैगुण्याशङ्कया तदकृतिः, ततः प्राग् वर्षाद् असपिण्डीकृतपितृकस्य श्राद्धानधिकारात् तत्पूर्वकत्वाच् चावसथ्यस्याधिकरतो विधिः । तस्मद् अनग्निकस्यापि सपिण्डक्रियाधिकारः । ननु एवं ब्रह्मचार्य् अपि कस्मान् न सपिण्डीकरोति । अनुपदेशात् । एकोद्दिष्टम् एव हि तस्योपदिष्टं न तु सपिण्डक्रियाद्य् अपि, शवकर्मण एवानुज्ञानात् । अतो ऽविरोधः । कस्मात् पुनः पितरि प्रेते एकादशे ऽह्न्य् आवसथ्यं कुर्वतः सपिण्डक्रियापूर्वकतैव न भवति । वचनान्तरेणापवादात् । यथाह यमः ।

मृताह्नि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ इति ।

एतद् एवाद्यवचनस्य प्रयोजनम् । अतश् च जीवपितृकवच् छ्राद्धरहितम् एव तस्याप्य् आवसथ्याधानम् इति स्थितम् । इदम् अधुना चिन्त्यम्- किम् इदं मातामहश्राद्धं यदा कुर्यात् तदैवम्, अथैतद् अप्य् एवं नित्यम् एव कुर्याद् इति । उभयथातिदेशोपपत्तेः संशये, यदा कुर्यात् तदैवम् इति प्राप्त उच्यते । चोदनान्तराभावाद् अस्याश् चाविशेषान् नित्यम् इति । ननु एवं पुत्रप्रशंसानुपपन्नैव स्याद्, यदि हि पुत्रवद् दौहित्रो ऽपि श्राद्दं कुर्यात् । नैवम् । दुहितरम् अपेक्ष्य प्रशंसा, न दौहित्रम् अपि, तस्याः स्वयं पितृश्राद्धानधिकृतत्वात् । भर्त्रा च सह श्वशुरश्राद्धकरणात् । दौहित्रपौत्रयोस् त्व् अविशेषः । ननु एवं रिक्थग्राह्य् असौ कस्मान् न भवति । रिक्थविभागे विशेषं वक्ष्यामः । दत्तकादिभिस् तु पुत्रैर् मुख्यत्वाज् जनयितुर् एव सपिण्डीकरणादि कर्तव्यम्, एकोद्दिष्टमात्रम् इतरस्यापि । अथ किम् एकम् एवैतच् छ्राद्धं द्विदेवत्यम् उत द्वे इत्य् अनियमे प्राप्ते द्वे इति ब्रूमः । पृथक् पितॄणां मातामहश्राद्धं, मातामहानां चैवम् इतीयम् एव हि तच्चोदना यतः । तत्र मातामहानाम् अपि श्राद्धं कुर्याद् इत्य् अयम् एवार्थो भवति, न पुनः श्राद्धाभेद इति । अपि च “तन्त्रं वा वैश्वदेविकम्” (य्ध् १.२२७) इति भेदप्रसक्ताव् उपपद्येत । अन्यथा तु स्वाभाविक्य् एव तन्त्रता स्यात् । तत्रोपदेशानर्थक्यम् । ननु चैकश्राद्धतापि दृश्यते-

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः । इति । (य्ध् १.२४०)

सत्यं दृश्यते । अर्थप्राप्ता तु सा, देशकालाद्यभेदात् । न चार्थतः प्राप्तौ शब्दव्यापारकल्पनं युक्तम् । तस्माच् छ्राद्दाभेदः प्रयोगतन्त्रता चेति सिद्धम् । प्रयोजनं तु जीवपितृकस्याजिवमातृकस्य चाधिकाराव्याघातः ।

  • अथ किम् एतन् मातामहश्राद्धं मातृमातामहप्रमाताहहेभ्य एव । बाढं, मातामहशब्दस्य बहुवचनान्तस्यैवम् एवोपपत्तेः, माता च मातामहौ च मातामहा इति । ननु च मातामहश् च प्रमातामहौ चेत्य् एवम् अप्य् उपपद्यत एव । किं च,

एकत्वं सा गता भर्तुः पिण्डे गोत्रे ऽथ सूतके ।

इत्य् अन्यगोत्रत्वान् मातुर् मातामहेन सहायुक्तम् एव दानम् । स्त्रीभिश् च सह तस्याः सपिण्डीकरणम् आम्नातम् ।

भर्तृगोत्रेण नाम्ना च मातुः कुर्यात् सपिण्डताम् ।
तूष्णीं दंपतिपिण्डाभ्यां कुशेनान्तरथेत् (?) पितॄन् ॥ इति ।

अतो ऽपि मातामहेन स दानायोगः । अन्यच् च ।

मातुः प्रथमतः पिण्डं निवपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥

इत्य् एवं पिण्डदानोपदेशो ऽर्थवान् स्यात् । अन्यथा त्व् एवम् एव प्राप्तेर् आनर्थक्यम् । स्त्रीपुंसयोश् चैकत्र दानम् अयुक्तम् । वैरूप्यं च पितरं दुहितरं च लक्षयतो मातामहशब्दस्य स्यात् । तस्मान् मातामहाद्य् एव युक्तम् इति ।

  • अत्रोच्यते । मातृद्वारेणैव हि मातामहे प्रत्ययः, न तदनपेक्षः, मातृप्रातिपदिकाद् एव प्रत्ययविधानात् । तत्र मातामहशब्द उच्चार्यमाणः पूर्वं मातरम् एव प्रत्याययति । प्रतीतस्य च बाधहेतुर् वक्तव्यः । न च दुहित्राद्यनुसारात् प्रतीतबाधो युक्तः, शब्दप्रमाणकत्वात् । यथा च,

मासवृद्ध्या हि तुष्यन्ति दत्तैर् हि पितामहाः । (य्ध् १.२५५)

इति पितामहशब्दः पितृप्रपितामहयोर् अपि ग्राहकः, तथा मातामहशब्दो ऽपि तदनुसाराद् अवसेयः । यत् तु स्त्रीभिः सह सपिण्डीकरणम् आम्नातम् इति, आन्वष्टक्यदानप्रयोजनार्थं तद् अन् श्राद्धार्थं, त्वयानभ्युपगतत्वात् । यश् चोभयोः समो दोषो नासाव् एकं प्रति चोद्यः । किं च मातापित्रोः समान एव पुत्रत्वे मातुः श्राद्दं न कुर्याद् इत्य् अनुचितम् एव स्यात् । तत्संबन्धप्रतीतस्य च मातामहादेस् तदतिलङ्घनेनायुक्तम् एवोपादानं, प्रथमातिलङ्घने हेत्वभावात् । यत् तु,

मातुः प्रथमतः पिण्डं निवपेत् पुत्रिकासुतः । (म्ध् ९.१४०)

इति, तत् पुत्रिकापुत्रस्य पौत्रत्वज्ञापनार्थं द्रष्टव्यम् । तथा चोक्तम् ।

पौत्री मातमहस् तेन दद्यात् पिण्डं हरेद् धनम् । इति । (म्ध् ९.१३६)

रिक्थविभागे निपुणतरं वक्ष्यामः । तस्मान् मातृप्रभृत्य् एव मातामहश्राद्धम् इति सिद्धम् ॥ २२५ ॥

एवं श्राद्धद्वये ऽपि तन्त्रेणावृत्त्या वा ब्राह्मणान् उपवेश्य ।

पाणिप्रक्षालनं दत्त्वा विष्टरार्थान् कुशान् अपि ।
आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥ १.२२६ ॥

विष्टरार्थान् आसनार्थान् इत्य् अर्थः । “विश्वान् देवान् आवाहयिष्ये” इति पङ्क्तिमूर्धन्यं सर्वान् वा पृष्ट्वा तदनुज्ञातो “विश्वे देवास आगता” (र्व् १.३।७) इतीमाम् ऋचं जपेत् । एतद् एवावाहनं नान्यत् ॥ २२६ ॥

ततः

यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवान् क्षिपेत् ॥ १.२२७ ॥
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ।

यवैर् अन्ववकिरणं प्रदक्षिणेन विकिरणम् । अथशब्दसामर्थ्यात् स्मृत्यन्तरोक्तं द्रष्टव्यम् । “विश्वे देवाः शृणुतेमम्” इति मन्त्रं जप्त्वा यथालाभोपपन्ने भाजने स्मृत्यन्त्रानुसाराद् यज्ञीयवृक्षपात्रादौ पवित्रे निधाय “शं नो देवीः” (र्व् १०.९।४) इत्य् अनयर्चोदकं प्रक्षिप्य “यवो ऽसि यवय” (त्स् १.३।१.१) इत्य् अनेन यवान् ओप्य ब्राह्मणहस्ते पवित्रे निधाय “या दिव्या” (त्ब् २.७।१५.४) इत्य् अनेनार्घ्यं निनयेत् । हस्तग्रहणं स्मृत्यन्तरे पात्रान्तरितश्रवणात् तन्निवृत्त्यर्थम् । अर्घ्यवचनात् पुष्पाण्य् अपि प्रक्षेप्तव्यानि । हस्तेष्व् इति बहुवचनं ब्राह्मणापेक्षम् । अर्घ्यस् त्व् एक एव ॥ २२८ ॥

एवम् अर्घ्यं प्रदाय

दत्त्वोदकं गन्धधूपमाल्यदानम् सदीपकम् ॥ १.२२८ ॥
अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ।
द्विगुणांस् तु कुशान् दत्त्वा उशन्तस् त्व् इत्य् ऋचा पितॄन् ॥ १.२२९ ॥
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ।
यवार्थांस् तु तिलैः कुर्याच् छेषं त्व् अर्घ्यादि पूर्ववत् ॥ १.२३० ॥

धूपमाल्ययोः (?) क्रमभेदश् छन्दोऽनुरोधार्थः । अपसव्याप्रदक्षिणवचनाच् च वैश्वदेवे विपर्यय इति ज्ञायते । ततःशब्दो हेत्वर्थः । ततो हेतोः श्रुत्युपन्यासलक्षणात्, “प्राचीनावीतं पितॄणाम् । पितॄणां वा एषा दिक् या दक्षिणा । पराञ्चः पितरः” इत्यादेः पित्रर्थे ऽपसव्यादिप्रयोग इत्य् अर्थः । ततश् चादित एव सर्वम् एतत् पितृकार्ये सिद्धं भवति । पितॄणाम् इति च तदर्थब्राह्मणार्था षष्ठीत्य् अवसेयम् । यद्य् अपि च काण्डानुसमयो लाघवार्थम् आचार्येण दर्भासनादिप्रदीपान्त उक्तः, तथापि प्रधानासत्त्यनुरोधात् पदार्थानुसमय एव युक्तः । तेन वैश्वदेवे दर्भासनं, ततः पित्र्ये । एवम् अर्घ्याद्य् अपि योज्यम् । देवतादिसङ्ख्यया त्व् अर्घ्यादिकल्पनं, न ब्राह्मणसङ्ख्यया । “त्रीण्य् अर्घ्यपात्राणि पितृभ्यः कुर्यात्” इति स्मृत्यन्तरात् । तेनैकस्यापि ब्राह्मणस्यार्घ्यत्रयं कार्यम् । ब्राह्मणबहुत्वे चैक एवार्घ्यः सर्वेभ्यो देयः, सर्वब्राह्मणानां पितृत्रयार्थत्वात् । स्पष्टम् अन्यत् ॥ २२७–२३० ॥

पितृभ्य एव तु ।

दत्त्वार्घ्यं संस्रवान् एषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् आसीति न्युब्जं पात्रं करोत्य् अधः ॥ १.२३१ ॥

एषाम् अर्घ्याणां शेषान् एकस्मिन् पात्रे ऽवधाय तत् पात्रं “पितृभ्यः स्थानम् असि” इत्य् अनेन मन्त्रेणाधोमुखं भूमौ कुर्यात् । “स्थानम् आसि” इति दीर्घपाठश् छन्दोऽनुरोगार्थः ॥ २३१ ॥

ततः

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृताप्लुतम् ।
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३२ ॥
हुतशेषं प्रदद्याच् च भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥ १.२३३ ॥

घृताप्लुतम् अन्नम् आदाय “अग्नौ करिष्ये” इति पृष्ट्वा पितृयज्ञवन् मेक्षणेन “अग्नये कव्यवाहनाय” इत्य् आहुतिद्वयं जुहुयात् । अग्निवचनम् आहिताग्नेर् अप्य् औपासने यथा स्याद्, न तु अन्वाहार्यपचन इत्य् एवमर्थम् । हुतशेषं चान्नं ब्राह्मणभाजनेष्व् आचारतः प्रक्षालितेषु निवपेद् रौप्येषु, अलाभे तदन्वितेषु, अलाभे ऽन्येष्व् अपि । अन्ये तु कतिपयरौप्यसंभवे पङ्क्तिपावनेभ्यस् तानीति वर्णयन्ति, विशेषत इति वचनात् । तथाप्य् अदोषः । पित्रर्थेभ्यश् चाग्नौकरणशेषदानं न वैश्वदेविकेभ्यः, अग्नौकरणस्य पित्रर्थसंबन्धात् । तुशब्दो ऽवधारणार्थः । ततश् च नियोगतः शेषनीयं, न शेषस्य सतो दानम् इत्य् अवसेयम् । हुतशेषवचनात् तु होमाभावे निवृत्तिः ॥ २३२–२३३ ॥

दैवपूर्वकम् एव त्व् अन्यत् ।

दत्त्वान्नं पृथिवी पात्रम् इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठान् निवेशयेत् ॥ १.२३४ ॥

पुनर् अन्नवचनम् अग्नौकरणशेष एवाङ्गुष्ठनिवेशनार्थम् । तत्संयोगाच् च पात्रालम्भो ऽपि तत्रैववसेयः । दानपदार्थस्य चाभेदात् सर्वेभ्यो ऽन्नं दत्त्वा ततः पात्रालम्बनम् । “पृथिवी ते पात्रम्” इति वक्तव्ये “पृथिवी पात्रम्” इत्य् उक्तं छन्दोऽनुरोधात् ॥ २३४ ॥

एवम् अन्नं परिवेष्यापोशनं च परिकल्प्य ततः ।

सव्याहृतिकां सावित्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्य भुञ्जीरंस् ते ऽपि वाग्यताः ॥ १.२३५ ॥

अपिशब्दात् स्वयं च वाग्यतः स्यात् । यथासुखं तु भोजनविषयम् । यद् रोचते येन च क्रमेण, ते तथैव भुञ्जीरन्न् इत्य् अर्थः ॥ १३५ ॥

अथ किम् अन्नम् अनियतम् एव भोक्तव्यम् । नेत्य् उच्यते ।

अन्नम् इष्टं हविष्यं च दद्याद् अक्रोधनो ऽत्वरः ।
आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२३६ ॥

तुशब्दाज् जप एव स्वयं कार्यः । परिवेषणं त्व् अन्यकर्तृकम् एव । एवं च पत्नीव्यापारो ऽपि श्राद्धे संपादितः स्यात् । अन्नवचनं पक्वान्नार्थम् । चशब्दो मूलफलाद्यर्थः । इष्टं ब्राह्मणाभिप्रेतं शास्त्रचोदितं वा कालशाकादि । हविष्यवचनं विदलादिनिवृत्त्यर्थम् । तथा च व्यासः ।

अजानानस् तु यः श्राद्धं विदलैः परिवेषयेत् ।
रक्षांसि तद् विलुम्पन्ति श्रुतिर् एषा पुरातनी ॥ इति ।

“माषाढकीमुद्गवर्जं विदलानि न दद्यात्” इति भारद्वाजः । तथाशब्दः स्मृत्यन्तरोक्तपरिवेषणभोजनजपप्रकारार्थः । तथा च शङ्खः- “दर्भैर् दक्षिणाग्रैर् अग्निं परिस्तीर्य जुहुयात्” इत्य् उपक्रम्य, “जानू निषद्य भूमौ पितॄन् ध्यायन् मनसा ततस् तिलैर् मांसैः शाकैर् यूषैः कृसरपायसापूपैर् लाजैर् मधुना घृतेन दध्ना पयसा च प्रभूतम् इष्टतो ऽन्नं दद्याद् अनसूयुः । ब्राह्मनाश् चाश्नन्तः न गुणदोषान् अभिदध्युः, नान्योन्यं संस्पृशेयुः, नान्योन्यं प्रशंसेयुः । अन्नपानाम् प्रभूतम् इति न ब्रूहुः। न विकृतं ब्रूयुः, अन्यत्र हस्तसंज्ञानात् । यावत् सोष्मान्नं तावद् अश्नन्ति पितरः, अन्यत्र मूलफलपानेभ्यः । पवित्रपाणिर् दर्भेष्व् आसीनो मध्वातीयं जपेत् । पवित्रं धर्मशास्त्रम्” इत्यादि । तथा च व्यासः ।

याद्वद् ऊष्मान्नम् अश्नन्ति यावद् अश्नन्ति वाग्यताः ।
तावद् अश्नन्ति पितरो यावन् नोक्ता हविर्गुणाः॥ इति ।

तथान्यत्र “राक्षोघ्णीः पावमान्यः पुरुषसूक्तम्” इत्य् एवमादि । एतत् सर्वं तथाशब्दाक्षिप्तप्रकारपरिपूरणार्थं द्रष्टव्यम् ॥ २३६ ॥

एवं तृप्ताञ् ज्ञात्वा ततः पूर्वजपं सव्याहृतिकसावित्र्यादिलक्षणं जप्त्वा स्वयम् एव ।

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य ह ।
तद् अन्नं प्रकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ १.२३७ ॥

अन्नं गृहीत्वा “तृप्ताः स्थ” इति ब्राह्मणान् पृष्ट्वा तैश् च “तृप्ताः स्म” इत्य् उक्ते शेषम् अन्नं तेभ्य एव निवेद्य तैर् यथेष्टं विनियुज्यताम् इत्य् एवम् अनुमान्य, अनुज्ञाप्येत्य् अर्थः । हशब्दो ऽवधारणार्थः, स्मृत्यन्तरे “यथा ब्रूयुस् तता कुर्यात्” (म्ध् ३.२५३) इति श्रवणात् । एवं शेषम् अनुज्ञाप्य यद् गृहीतं तद् अन्नं प्रकिरेद् भूमौ, न दर्भेषु । ततश् चापो ब्राह्मणेभ्यः सकृत् सकृद् दद्याद्, न पूर्वं तृप्तिप्रश्नाद् इत्य् अर्थः ॥ २३७ ॥

एवम् एवोदकं दत्त्वा यत् प्रकृतं तत् ।

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥ १.२३८ ॥

उपशब्दो ऽवयवोपादानार्थः, सर्वस्माद् अन्नाद् अवयवश आदायेत्य् अर्थः । पिण्डपितृयज्ञवद् इति सकृदाच्छिन्नावनेजनादिप्राप्त्यर्थम् । अयं तु विशेषः- सतिलम् उच्छिष्ठसंनिधौ चेति । पिण्डवचनं सूत्रदानादिनिवृत्त्यर्थम् । प्रशब्दो मध्यमपिण्डभक्षणप्रतिषेधार्थः ॥ २३८ ॥

यथा चैतत् पितृभ्यः पिण्डदानम् ।

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः।
स्वस्ति वाच्य ततो दद्याद् अक्षय्योदकम् एव च ॥ १.२३९ ॥

पूर्वस्माद् एवातिदेशे सिद्धे पुनर्वचनं यथार्थम् ऊहसिद्ध्यर्थम् । क्रमसिद्धिस् तु पाठाद् एव । आचमनां च सर्वेभ्यो दत्त्वा ततः स्वस्तिवाचनं कुर्यात्- स्वस्तीति ब्रूहीत्य् एवं प्रत्येकं वाचयेत् । विधानाच् च क्षत्रियादयो ऽपि वाचनं कुर्युर् इत्य् एवशब्दः । किं च, अक्षय्योदकं दद्यात् तिलव्यामिश्रितम् । अक्षय्यम् अस्त्व् इति च वाचयेत् ॥ २३९ ॥

किं स्वस्तिवाच्यानन्तरम् एवाक्षय्योदकम् । नेत्य् उच्यते । पूर्वम् अक्षय्योदओकम् प्रदाय, ततः ।

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् ।
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४० ॥

स्वधाकारोदाहरणं “स्वधां वाचयिष्ये” इति । तैश् च “वाच्यताम्” इत्य् अनुज्ञातः प्रकृतेभ्यः पितृभ्यो मातामहेभ्यश् च स्वधोच्यताम् इति ब्रूयात् ॥ २४० ॥

ततस् ते ऽपि ।

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् ।
प्रीयन्ताम् इति चाहैवं विश्वेदेवा जलं ददत् ॥ १.२४१ ॥

भूमिवचनात् कुशव्यावृत्तिः । ततःशब्दस् तु पिण्डपितृयज्ञाद् आलोच्येत्य् एवमर्थः । ततश् च “ऊर्जं वहन्ती” (व्स् २.३४) इत्य् अनेनेति लभ्यते । वैश्वदेविकेभ्यश् च ब्राह्मणेभ्यो जलं ददत् स्वयम् एवाह- “विश्वेदेवाः प्रीयन्ताम्” इति । न वाचयेद्, आहेति वचनात् ॥ २४१ ॥

इदं चान्यत् ।

दातारो नो विवर्धन्तां वेदसंततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥ १.२४२ ॥

> उक्त्वोक्त्वा च प्रिया वाचः प्रणिपत्य विसर्जयेत् ।

वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४३ ॥

विसर्जनम् एव पितृपूर्वम्, अन्यत् सर्वं देवपूर्वम् इत्य् अभिप्रायः ॥ २४२–२४३ ॥

इदं च कुर्यात् ।

यस्मिंस् ते संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४४ ॥

पितृपात्रवचनं मातामहपात्रनिवृत्त्यर्थम् ॥ २४४ ॥

एवं ब्राह्मणान् उत्थाप्य ।

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी निशां तां तु नियतात्मा सह द्विजैः ॥ १.२४५ ॥

स्याद् इति शेषः । पित्रर्थत्वाद् अप्रदक्षिणनिवृत्त्यर्थं प्रदक्षिणवचनम् । भुञ्जीत पितृसेवितम् इत्य् अन्यत्राभोजनार्थं, पुनः पाकनिवृत्त्यर्थं वा । ततश् च पूर्वम् एव हन्तकाराद्यान्वहिकं कर्म कृत्वा ततः श्राद्द्धनित्यावसेयम् । नियतात्मा तां रात्रिं ब्राह्मणैः सह ब्रह्मचारी स्यात् । ताम् इति च प्रयत्नातिरेकः ऋताव् अपि ब्रह्मचर्यार्थम् । तुशब्दो विचिकित्सापनोदार्थः । नियतात्मवचनं च ब्राह्मणब्रह्मचर्याकरणे ऽप्य् अवैगुण्यज्ञापनार्थम्, अनध्यायार्थं वा । यत् तु पुरस्ताद् “आत्मवाञ् छुचिः” इत्य् उक्तं, तन् निश्चितपरलोकस्यैवाधिकारज्ञापनार्थम् । सर्वार्थं वाविशेषात् तद् द्रष्टव्यम् । शुचिवचन्ं च तत्र तत्र बाह्यशौचार्थम् । समाहितवचनं चैकाग्र्यार्थम् । “अक्रोधनो ऽत्वरः” इत्य् अनश्नतः क्षुत्पीडितस्य स्वभावप्राप्तक्रोधादिप्रतिषेधार्थम् । एवम् अन्यान्य् अपि यथार्थं विवेक्तव्यानि । स्मृत्यन्तराणि च सर्वत्र व्याख्यानाक्षिप्तानि ज्ञपकत्वेनोदाहर्तव्यानि,

श्राद्धं कृत्वा परश्राद्धे यस्तु भुञ्जीत विह्वलः ।

इत्येवमादीनि । ग्रन्थातिरेकभीतेस् त्व् अनुपन्यासः ॥ २४५ ॥

सर्वप्रकृतिभूतं श्राद्धम् उपन्यस्य विकारोपदेशम् इदानीम् आह ।

एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।
यजन्ति दधिकर्कन्धूमिश्राः पिण्डा यवैः क्रियाः ॥ १.२४६ ॥

यथा च श्राद्धम् उक्तम् अमावास्यादौ, एवम् एव वृद्धाव् अपि । अयं तु विशेषः- आदित एव प्रदक्षिणं कृत्वा सर्वं श्राद्धं कुर्यात् । प्रदक्षिणवचनं चापसव्यादिनिवृत्त्यर्थम् अपि । कुत एतत् । यत आह यजन्तीति । अस्यायम् अर्थः । देवतात्वेनात्र पितरो न संप्रदानत्वेन । ततश् च पितॄणाम् अपि देवतात्वात् तद्धर्मा एव यज्ञोपवीतादयः प्रवर्तन्ते, न पितृधर्माः प्राचीनावितादयः । तथा च व्यासः ।

पितॄणां रूपम् आस्थाय देवा अन्नम् अदन्ति हि । इति ।

अयं विशेषः- पितॄन् आवाहयिष्य इत्य् एवमादिषु नान्दीमुखशब्दः प्रयोक्तव्यः । पिण्डदानं तु नामगोत्रेणैव । दधिकर्कन्धूमिश्राश् च पिण्डाः कार्याः । कर्कन्धूर् बदरम् । मिश्रवचनाच् चान्नेनैव पिण्डाः, यवैस् तिलार्थाः कार्याः । देवत्वाद् एव यवप्राप्तौ तद्वचनाद् वैश्वदेवे ऽपि तिलप्राप्तिर् अस्तीति ज्ञापयति । ततश् च प्रकृतौ वैश्वदेविके वैकल्पिकास् तिला इत्य् अवसेयम् । देवत्वाद् एव च स्वधावचननिवृत्तिः । प्रयोगस् तु प्रपञ्चनीयः । ननु च पूर्वं श्राद्धम् अपि वृद्धाव् उपदिष्टम्- “अमावास्याष्टका वृद्धिः” इति (य्ध् १.२१४) । सत्यम् । वृद्धौ तु निमित्ते पूर्वं तु यच् छ्राद्धम् आभ्युदयिकाख्यं, तस्यायं विधिः यथा समावर्तनाद्यारम्भे । यत् तूत्पन्नायां वृद्धौ पुत्रजन्मादिलक्षणायां, तत् पूर्ववद् एवेति व्यवस्था । यद् वा निमित्तमात्रतयैव तत्र तत्र वृद्ध्युपादानम् । इह तु प्रकारोपदेश इति व्याख्येयम् ॥ २४६ ॥

अथान्यद् अपि विकारभूतं श्राद्धम् आह ।

एकोद्दिष्टं दैवहीनम् एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥ १.२४७ ॥

एकं प्रेतम् उद्दिश्य यत् क्रियते तद् एकोद्दिष्टम् । तच् च पूर्ववद् एव । अयं तु विशेषः- वैश्वदेविककर्महीनम् एकश् चार्घ्यः । तत्राप्य् एकं पवित्रम् । अस्माद् एव च ज्ञायते ऽन्यत्र पवित्रद्वयम् इति । एकदेवतात्वाद् एवार्घ्यैकत्वसिद्धौ तद्वचनं पवित्रसंख्याविधानार्थम् । अस्माद् एव चैतद् अपि ज्ञायते- देवतासंख्ययैवार्घ्यकरणं न ब्राह्मणसंख्यया, नानियमो वेत्य् आशङ्कनीयम् । अयं चान्यो विशेषः- आवाहनाग्नौकरणरहितं स्यात् । कुतः प्राप्तिर् इति चेत् । यतो ऽपसव्यवद् एतद् भवति । अपसव्यसाधनत्वाद् अपसव्यं पार्वणं, तद्वद् एतत् स्यात् । न संनिहिताभ्युदयिकवद् इत्य् अर्थः ॥ २४७ ॥

अयं चान्यो विशेषः ।

उपतिष्ठताम् इत्य् अक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ १.२४८ ॥

उपतिष्ठताम् इत्य् अक्षय्यम् अस्त्व् इत्य् अस्य स्थाने ब्रूयात् । विप्रविसर्जने च वाजे वाज इत्य् अस्मिन् वक्तव्ये ऽभिरम्यताम् इत्य् एतत् । अयं चात्र विशेषः- अभिरताः स्मेति ब्राह्मणा ब्रूयुः । हशब्दो ऽवधारणार्थः । एतद् एव स्यान् न वाजे वाज इत्य् अर्थः । अन्यत्र प्रत्याम्नानाद् बाध इति ज्ञापितं भवति ॥ २४८ ॥

इदं चान्यद् वैकृतं श्राद्धं प्रेतस्य मृताहाद् वा संवत्सरे पूर्णे प्राग् अपि वा कारणान्तरात् ।

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२४९ ॥

गन्धोदकतिलैर् युक्तं पात्रचतुष्टयं कुर्यात् । त्रीणि पितॄणाम् एकं प्रेतस्य । किम् अर्थम् । अर्घ्यार्थम् । ततश् च प्रत्याम्नानात् प्राकृतार्घ्यनिवृत्तिः । तच् च प्रेतपात्रं पितृपात्रेषु त्रिधा विभज्यावसेचयेत् । प्रेतशब्देन च केचिद् वृद्धप्रपितामहं व्याचक्षते, प्रकर्षेणेतः प्रेत इति व्युत्पादयन्ति, तदीयं च पात्रं पित्रादिप्रात्रेष्व् आसेचयन्ति । तत् पुनर् न युक्तं, स्मृत्यन्तरविरोधात् । “पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात् पुत्रवांश् चेत्” इति पारस्करः (पार्ग् ३.१०.५०) । न च वृद्धस्यापुत्रत्वाशङ्कोपपत्तिः । न चार्वाचीन आसेको युक्तः, सकृद् ऊह्य इव “पराञ्चः पितरः” इत्य् आम्नायविरोधात् । रूढ्या च प्रेतशब्दः प्रथम एव वर्तते, सर्वत्र प्रयोगदर्शनात् । योगो ऽपि च तद्गत एवानुगन्तव्यः, न तु तत्संभवमात्राद् रूढ्यतिक्रमो युक्त इत्य् अनया दिशा भ्रान्त्यपनोदः कार्यः ॥ २४९ ॥

किं तूष्णीम् एव सेचयेत् । नेत्य् उच्यते ।

ये समाना इति द्वाभ्यां शेषं त्व् अर्घ्यादि पूर्ववत् ।
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ १.२५० ॥

“ये समानाः” (व्स् १९.४५) इति द्वाभ्याम् ऋग्भ्यां पितृपात्रेष्व् आसेकः । शेषं पूर्ववत् पार्वणवत् । आचरेद् इत्य् अर्थः । कुत एतत् । पात्रत्रयलिङ्गात् । प्रदर्शनार्थं चार्घ्यवचनम् । ततश् च पिण्डदानम् अप्य् एवम् एव । तथा च कात्यायनः- “एतेनैव पिण्डो व्याख्यातः” इति । एतच् चैकोद्दिष्टपार्वणयोर् विलक्षणं सपिण्डीकरणाख्यं श्राद्धं प्रत्येतव्यम् । संज्ञाकरणम् अतः परं सहैव पिण्डदाननियमार्थम् । “एकोद्दिष्टं स्त्रिया अपि” मातुर् अपि भवति । सपिण्डीकरणं तु पितुर् एवेत्य् अर्थः । अयं च मातामहैः सह सपिण्डीकरणप्रतिषेधः, तैः सह पिण्डदानात् । स्त्रीभिस् तु सह सपिण्डीकरणम् अस्त्य् एव, स्मृत्यन्तरात् । यद् वा एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि इत्य् अस्यायम् अर्थः- एक आचार्या उप्दिशन्तीत्य् एकोद्दिष्टं, स्त्रिया अप्य् एतत् सपिण्डीकरणम् अस्तीति । सर्वथा स्त्रीभिः सह सपिण्डीकरनानिषेधः ॥ २५० ॥

स्मृत्यन्तरोक्तं सपिण्डीकरणस्य कालद्वयम् अभिप्रेत्याह ।

अर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् ।
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ १.२५१ ॥

सपिण्डीकरणात् पृथग्दाननिषेधे प्राप्ते ऽपवादार्थः श्लोकः । द्विजग्रहणं दानसंबन्धाद् ब्राह्मणार्थम् एव । चतुर्थ्यर्थे सप्तमी छन्दोऽनुरोधात् ॥ २५१ ॥

किं पुनः सपिण्डीकृतस्य पृथग्पिण्डता नास्त्य् एव । समाख्यानाद् एवं खलु प्राप्तम् । अस्यापवादः ।

मृताहनि च कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैव श्राद्धं वै मासिकार्थवत् ॥ १.२५२ ॥

मृतो यस्मिन्न् अहनि, तस्मिन्न् एव श्राद्दं कुर्वीत । अहःशब्दस् तिथ्यर्थः । ततश् च प्रतिपदादौ यस्याम् एव मृतः, तस्याम् एव कुर्यात् । चशब्दात् संस्काराहनि च । “ततः संवत्सरे प्रेतायान्नं दद्याद्, यस्मिन्न् अहनि प्रेतः स्यात्” इति संस्काराहनि च स्रद्धं दर्शयति, प्रेतशब्दस्य संस्कार्यवचनत्वात् । कुत एतत् । मृतायेति वक्तव्ये प्रेतायेति वचनात् । स्मृतित आम्नायाच् च । तथा च पारस्करः- “प्रेतस्पृशो ग्रामं न प्रविशेयुर् आ नक्षत्रदर्शनात्” इति (पार्ग् ३.१०.३५) प्रेतशब्दं संस्कार्यवचन दर्शयति । मनुर् अपि ।

अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः ।
प्रेतस्पृशो विशुध्यन्ति । इति । (म्ध् ५.६४)

तथा शवस्पर्शने स्नानम् एवोक्तम् ।

शवं तत्स्पृषिनं चैव स्पृष्ट्वा स्नानेन शुध्यति । इति । (म्ध् ५.८५)

आम्नायश् च- “एतद् वै परमं तपो यत् प्रेतम् अरण्यं नयन्ति, यत् प्रेतम् अग्नाव् अभ्यादधति” इति संस्कारप्रवृत्ताव् एव प्रेतशब्दं दर्शयति । ननु एतद् विपरीतं, प्रेतस्य सतो ऽरण्यनयनोपदेशात् । मैवम्, अन्यत्राभिधानाद् “यो वै कश्चिन् म्रियते स शवः” इति । अतो मृतमात्रवचनः शवशब्दः, संस्कार्यवचनश् च प्रेतशब्दः । अतश् च यस्मिन्न् अहनि प्रेतः स्यात् संस्कृतः स्याद् इत्य् अयम् एवास्यार्थः । तत्रासंस्कृतस्य श्राद्धलोपो मा भूद् इत्य् आचार्यस्य मृताहर्ग्रहणम् । इयं चात्र व्यवस्था- यो न संस्कृतः, तस्य मृताहनि । अन्यस्य संस्काराहन्य् एव । यस्य तूभयम् अपि न ज्ञातं, तस्य यदाधिकृतानां तत्त्वतो मरणावगतिः, तद् अहर् एव सामर्थ्यात् कुर्यात् । अन्यथा ह्य् अविशेषेणैव विहितैकोद्दिष्टलोपः स्यात् । किम् एतद् अन्तर्दशाह एव स्राद्धं कुर्यात् । नेति ब्रूमः । प्रतिमासम् एव नान्तर्दशाह इत्य् अवधारणार्थस् तुशब्दः । कियन्तं कालम् । यावद् वत्सरम् । परतस् तु प्रतिसंवत्सरम् एव । चशब्दः शस्त्रहतादेः कृष्णचतुर्दश्यर्थः, त्रिपक्षाद्यर्थश् च । सपिण्डीकृतस्य पृथक्पिण्डाबावप्रसक्ताव् आह- “श्राद्दं वै मासिकार्थवत्” कुर्यात् । वैशब्दः समाख्याबाधनार्थः । अर्थशब्दो विधानार्थः । यथा विहितं मासिकं, तथेत्य् अर्थः । ततश् च मासिकविधानवत् सपिण्डीकृतस्याप्य् एकोद्दिष्टम् अस्त्य् एवेति श्लोकार्थः । ननु च मासिकं पार्वणम् एवोच्यते,

पिण्डानां मासिकं श्राद्दम् अन्वाहार्यं विदुर् बुधाः । (म्ध् ३.१२२)

इति मासिकवचनात् । नैतद् एवम् । एवं सति सपिण्डीकरणात् प्राग् अपि पार्वणवत् स्यात् । तत्रैतद् विरुध्येत,

असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । (म्ध् ३.२४७)

इति, संवत्सरे वा सपिण्डीकरणविधिर् अनर्थकः स्यात् । समाख्ययैव सिद्धे श्लोकानर्थक्यम् एव स्यात् । तस्मात् स्मृत्यन्तरोक्तम् एकोद्दिष्टम् एव मासिकशब्देन प्रत्येतव्यम् । तथा च यमः-

सपिण्डीकरणाद् ऊर्ध्वम् ऋते कृष्णचतुर्दशीम् ।
प्रतिसंवत्सराद् अन्यद् एकोद्दिष्टं न कारयेत् ॥

तथा ।

वर्षे वर्षे तु कर्तव्या मातापित्रोस् तु संनतिः ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ इति ।

यत् पुनर् मनोः “असपिण्डक्रियाकर्म” इत्य् उपक्रम्य,

सह पिण्डक्रियायां तु कृतायाम् अस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ इति । (म्ध् ३.२४८)

अनयैवेति संनिहितपार्वणावृदुपदेशः, तद् अन्यत्र प्रतिसंवत्सराद् अवसेयम् । तथेदम् अपि,

प्रदानं यत्र यत्रैषां सपिण्डीकरणात् परम् ।
तत् स्यात् पार्वणवत् सर्वम् अन्यत्राभ्युदयात् पितॄन् ॥

इति, तद् अपि प्रतिसंवत्सराद् अन्यत्रैव । अथ वा, मानवम् अप्य् एकोद्दिष्टविधानायैव । अनयैवेति संनिहिततरत्वाद् एदोद्दिष्टावृद् एव गृह्यते । न पार्वणावृद्, व्यवहितत्वात्, एकोद्दिष्टे ऽपि त्व् आवृत्संभवात् । किम् अर्थं तर्हि वचनं, सपिण्डीकरणम् इति समाक्यानात् सहपिण्डदानाशङ्का मा भूद् इति । इतरता पूर्वश्लोकात् समाख्यानाच् च तत्सिद्धेर् आरम्भो व्यर्थ एव स्यात् । तस्मात् सहपिण्डक्रियायां त्व् इत्यपिशब्दार्थस् तुशब्दः, संशयव्यावृत्त्यर्थो वा, न समाख्यानमात्राद् व्यामोहः कार्य इति सपिण्डीकृतस्याप्य् अनयैवैकोद्दिष्टावृता कार्यम् इत्य् अर्थः । एवं च सति सर्वदैवैकोद्दिष्टप्रसङ्गे पार्वणश्राद्धविधानसामर्थ्याद् आचार्यवचनाच् च मृताहनीत्यादेः प्रतिसंवत्सरादाव् एवैकोद्दिष्टम्, अन्यत्र पार्वणवद् एवेति व्यवस्था । यत् तु “प्रदानं यत्र यत्रैषाम्” इति, तत् प्राचीनावीताद्यर्थं न पिण्डत्रित्वार्थम्, “अन्यत्राभ्युदयात्” इत्य् अपवादात् । किं च, एषाम् इति बहुवचनाद् यत्र यत्र बहूनां दानं पितॄन् उद्दिश्य प्राप्तं तत्र तत्रैवम् इति गम्यते, न तु यत्र प्रदानं तत्र बहव इति । पितृवचनं च प्रेतव्यावृत्त्यर्थम् एव । तथा च भृगुः ।

वर्षे वर्षे तु कर्तव्या मातापित्रोस् तु संनतिः ।
अदैवं भोजयेच् छ्राद्दं पिण्डम् एकं च निर्वपेत् ॥ इति ।

ततः संवत्सरे संवत्सरे प्रेतायान्नं दद्याद् इति चोदितम् एव । अन्ये तु कुतश्चिद् आगमय्येमं श्लोकं पठन्ति-

यः सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ इति ।

अयं त्व् अस्पष्टमूलत्वाद् अकिंचित्करः । किं च, अस्याप्य् उक्तविषयतैव, उक्तत्वान् न्यायस्य । अथ वा अयम् अप्य् एकोद्दिष्टद्योतनार्थ एव । अयम् अस्यार्थः- यः सपिण्डीकृतम् इति व्यामोहात् प्रेतधर्मैकपिण्डार्हं प्रेतं प्रतिसंवत्सरादौ नैव पृथक् पिण्डे योजयेत्, स तेन व्यामोहेनैकोद्दिष्टविधिघ्नो भवतीत्यादि । यद् वा पृथग्भावः पिण्डानां यस्मिंस् तत् पृथक्पिण्डं पार्वणम् एव, तत्रैव च योजनं संभवति, नैकोड्डिष्टे, द्वितीयापेक्षत्वाद् योगस्य इति । किं च सहपिण्डदान्प्रसक्तौ युक्त आरम्भः, अन्यथा तु निर्निमित्त एव स्यात्, प्राप्त्यभावद् इत्य् अलं प्रसङ्गेन ॥ २५२ ॥

सर्वश्राद्धेषु प्रातिस्विको भेद उक्तः पिण्डदानान्तः । साधारणं त्व् इदानीम् आह ।

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा ।
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५३ ॥

विप्रादिभ्यः पिण्डं दद्यत्, अग्नाव् उदके वा प्रक्षिपेद् न स्वेच्छया विनियुञ्जीत । ब्राह्मणेषु चानुत्थितेषु पित्रर्थब्राह्मणोच्छिष्टं न मार्जयेत् । द्वितीयं द्विजग्रहणं पित्रर्थब्राह्मणार्थम् । अयं चान्त्यः कल्पः । शक्तिविषये तु वासिष्ठम् ।

उच्छिष्टं न प्रमृज्यात् तु यावन् नास्तम् इतो रविः । इति । (वध् ११.२२)

ननु एतद् वैकृतश्राद्धाभिधानात् प्राग् एव वक्तव्यम् । सत्यम् । प्रतिपत्तीनां त्व् अप्रवृत्त्यर्थो ऽयम् आरम्भः । ततः संस्रवाधानादेर् अप्रवृत्तिसिद्धिः । वक्ष्यमाणस्य चैवं साधारण्यात् पायसादिद्रव्यम् अपि सर्वार्थं स्यात् । अन्यथा पितृतुष्ट्यर्थोपदेशाद् आभ्युदयिकादाव् अभावशङ्कापि स्यात् । कामसंयोगाच् चैवं तिथ्याद्याश्रयाः सर्वार्थाः भवन्ति, अन्यथा प्रकृताव् एव स्युः, फलस्यानतिदेशाद् इत्यादिक्रमभेदप्रयोजनम् अवसेयम् ॥ २५३ ॥

कानि पुनः पितृतुष्ट्यर्थान्य् अन्नानि । इमानीत्य् उच्यते ।

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणऔरभ्रशाकुनच्छागपार्षतैः ॥ १.२५४ ॥
ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमम् ।
मासवृद्ध्या हि तुष्यन्ति दत्तैर् इह पितामःआः ॥ १.२५५ ॥

हविष्यान्नेन व्रीह्यादिना मासिकी तृप्तिः, मत्स्यादिभिः शशान्तैर् द्वित्रिमासाद्येकादशमासान्ता । पायसेन तु गव्येन संवत्सरम् । तथा च मनुः ।

संवत्सरं तु गव्येन पयसा पायसेन वा । इति । (म्ध् ३.२७१)

पितामहग्रहणं च मातामहाद्युपलक्षणम् अपि प्रकरणाविशेषाद् द्रष्टव्यम् । मत्स्यहारिणौ प्रसिद्धौ । औरभ्रम् आविकम् । शाकुनं शकुनिहतभक्ष्यप्राणिषु भवम् । पार्षतं पृषन्मांसम् । एणः शिशुः कृष्णमृग एव । जात्यन्तरम् इत्य् अन्ये । रुरुर् बृहच्छृङ्गो मृग एव । वराहः सूकरः । शशः प्रसिद्धः । तुष्टिवचनानुसाराच् च यथार्थवादं दानविधिकल्पना, न तु पायसदानात् संवत्सं तृप्ता एव पितर इति श्राद्धाकरणम् ॥ २५४–२५५ ॥

इमानि त्व् अतितुष्ट्यर्थानि ।

खड्गामिषं महाशल्कं मधु मुन्यन्नम् एव च ।
लोहामिषं कालशाकं मांसं वार्ध्राणसस्य च ॥ १.२५६ ॥
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।
तथा वर्षे त्रयोदश्यां मघासु च न संशयः ॥ १.२५७ ॥

खड्गामिषं गन्धकमांसम् । महाशल्कः शरभ इति केचित् । तत् त्व् अमेध्यश्रुतेर् अयुक्तम् । अतो मत्स्यविशेष एव कश्चिन् महाशल्कः प्रत्येतव्यः । मुन्यन्नं श्यामाकादि । लोहो लोहितच्छागः । आमिषवचनं पश्वालम्भाशङ्कानिवृत्त्यर्थम् । वार्ध्राणसो वृद्धच्छागः । कङ्कणाहिर् इत्य् अन्ये । पुनर् मांसवचनं स्तुत्यर्थम् । तथा चाम्नायः- “एतद् वै परमम् अन्नाद्यं यन् मांसम्” इति । गयास्थश् चेति चशब्दो मघादिकालसमुच्चयार्थः । उत्तरत्र तु समस्तालाभे प्रत्येकम् अपि दद्याद् इति विकल्पार्थः । सर्वशब्दाद् अन्यद् अपि यद् वात्र ददाति, तद् एवाक्षयं पितॄन् प्राप्नोतीत्य् अर्थः । असंशयवचनाद् अर्थवादाद् एव फलकल्पना न स्तुतिमात्रावसायित्वम् इति मन्तव्यम् ॥ २५६–२५७ ॥

एवं तावद् देशकालाश्रयं नैयोगिकं श्राद्धम् उक्त्वेदानीं कामसंयोगेनाह ।

कन्यां कन्यावेदिनश् च पशून् मुख्यान् सुतान् अपि ।
द्यूतं कृषिवणिज्यं च द्विशफैकशफं तथा ॥ १.२५८ ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ १.२५९ ॥
प्रतिपत्प्रभृति ह्य् एता वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥ १.२६० ॥

श्लोकत्रयस्याप्य् अयम् अर्थः- सार्वकालम् एव प्रतिपत्प्रभृत्यमावास्यान्तासु तिथिषु चतुर्दशीव्यतिरेकेण प्रत्येकं यथाक्रमेण कन्यालाभादीनि चतुर्दष फलान्य् अवसेयानि । प्रतिपदि श्राद्धकरणात् कन्यां दुहितृकामाः कन्यावेदिनश् च परिणयनकामास् तां प्राप्नुवन्तीति । एवम् उत्तरत्रापि योज्यम् । पशवश् छागादयः । मुख्याः सुता ब्राह्मीपुत्रादयः । द्यूतकृषिवाणिज्येषु लाभातिरेकः । द्विश्फं गवादि । एकशपम् अश्वादि । ब्रह्मवर्चस्विनः श्रुताध्ययनसंपन्नाः । स्वर्णरूप्ये प्रसिद्धे । कुप्यं ताम्रोपस्करादि । सर्वकामाः प्रकृता एव । स्पष्टम् अन्यत् ॥ २५८–२६० ॥

तथेदम् अपि कामसंयोगेनैव ।

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा ।
पुत्रान् श्रैष्ठ्यं ससौभाग्यम् अपत्यं मुख्यतां सुतान् ॥ १.२६१ ॥
प्रवृत्तचक्रतां पुत्राञ् ज्ञतिभ्यः प्रभुतां तथा ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ १.२६२ ॥
धनं विद्यां भिषक्सिद्धिं कुप्यं गावो ह्य् अजाविकम् ।
अश्वान् आयुश् च विधिवद् यः श्राद्धं परिवेषयेत् ॥ १.२६३ ॥
कृत्तिकादिभर्ण्यन्तं स कामान् आप्नुयाद् इमान् ।
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥ १.२६४ ॥

इदम् अपि श्लोकचतुष्टयं पूर्ववद् व्याख्येयम् । कृत्तिकादिभरण्यन्तानि सप्तविंशतिर् एव नक्षत्राणि । तावन्त्य् एव स्वर्गादीन्य् अपि फलानि प्रत्येकं यथाक्रमं योज्यानि । कृत्तिकासु सर्वकालं श्राद्धकरणात् स्वर्गप्राप्तिः । एवं रोहिण्यादाव् अपत्यादिप्राप्तियोजना । हिशब्दादयश् च पादपूरणार्थाः । एवं पूर्वत्रापि व्याख्येयम् । न चात्र फलतयोपन्यासाद् द्यूतादिकर्तव्यताप्रतिषेधातिक्रमेण तु प्रवृत्तानाम् अभ्युपाय इति मन्तव्यम् । स्पष्टम् अन्यत् ॥ २६१–२६४ ॥

अथ किम् एतच् छ्राद्धं कर्तुर् एव फलप्रदम् उत पितॄणाम् अप्य् उपकारकम् इति । उभयार्थम् इति ब्रूमः, तथैवावगमात् । उक्ता हि पितृतृप्तिः कर्तुश् च कामावाप्तिः । सत्यम् उक्ता । अनुपपन्ना (?) तु सा । कथं हि स्वकर्मानुसाराद् अनेकविधयोनिगतपितृतुष्ट्युपपत्तिः । शास्त्रप्रमाणकत्वाद् अस्यार्थस्याचोद्यम् एतत् । किं च ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄञ् छ्राद्धेन तर्पिताः ॥ १.२६५ ॥

अग्न्यादयो नक्षत्रान्ता वसवः । प्राणाद्यात्मैकादश् रुद्राः । द्वादश मासा आदित्याः । एते नित्या एवार्थाः पितरः । एत एव श्राद्धदेवताः प्रत्येतव्याः । तस्माद् अविरोधः । एवं सति मनुष्यपितॄणां किम् आयातम् । उच्यते । एते देवा वस्वादयः प्रीताः प्रीणयन्ति यत्रतत्रस्थान् मनुष्याणां पितॄन् श्राद्धात्तरसानुप्रदानेनेत्य् (?) अर्थः । सर्वप्राणिगतत्वाच् चैषां सर्वावस्थितपितृतर्पणसामर्थ्यम् अविरुद्धम् । अग्न्यादीनां च सर्वेषाम् अन्तर्वर्तिन्यो देवता इष्यन्त एवेत्य् अविरोधः । पूर्वम् अप्य् अनेनैवाभिप्रायेण पितॄणां संप्रदानत्वम् उक्तम् । पितृभ्यो दद्याद् इति चोदितत्वात् तदुपपत्त्यपेक्षाम् उपपादयन्तो ऽर्थवादा अपि हि प्रमाणम् एवेत्य् अवधार्य नातीव कुतार्किकोक्तकुसृत्यालीकचोद्याभिनिवेशः कार्यः । ननु चाचोदिता एव वस्वादयो देवताः । इयम् एव हि तच्चोदनेत्य् उच्यमाने पूर्वचोदितपितृदेवतात्वहानिः । अत्रोच्यते । वस्वादीनां च देवतात्वाभिधानात् पितॄणां च संप्रदानत्वाद् अविरोधः । देवा इति वक्तव्ये देवता इति पादपूरणार्थः । अनर्थक एव वा तल्प्रयोगः । देवो दानाद् इति च व्युत्पादनाद् दातारो वस्वादय इति गम्यते । ततश् चायम् अर्थो भवति- यत् कर्त्रा पितृभ्यो दातुम् इष्टं तद् वस्वादयो यत्रतत्रस्थेभ्यः सर्वगतत्वेन समर्था दातुम् इति । अतो ऽनवद्यम् । वस्वादिभ्यो ऽपि च प्रदातृवचनात् तृप्तिर् अस्त्य् एवेत्य् अवसेयम् । यद् वा पितॄणां रूपद्वयम् । संसारिरूपता वस्वादिरूपता च । तत्र ये वस्वादिरूपता प्राप्तास् ते ऽन्येभ्यः संसरिभ्यो विभुत्वात् तृप्तिं कुर्वन्तीत्य् अर्थः । यत्र चाभ्युदयादौ देवतात्वेनैव पितॄणां संबन्धः, तत्र वस्वादिरूपतयैव देवतात्वम् । चोदनानुसारात् तु नामगोत्रेणैव । एवं च जानतो ऽधिकार इत्य् अवसेयम् । अथ वा अन्यार्थ एवायं श्लोकः । वस्वादयो ऽपि श्राद्धदेवता एव । तत्रेयं विषयकॢप्तिः । यः पितृनामानभिज्ञः स वस्वादिभ्यस् त्रिभ्यो दद्यात् । जीवपितृको वाभ्युदये, अन्यस् तु पितृभ्यस् त्रिभ्य एवेति । तथा चाश्वलायनः- “नामान्य् अविद्वांस् ततपितामहप्रपितामहेति” (आश्श्र् २.६।२४) नामानभिज्ञस्याधिकारं दर्शयति । स्मृतिद्वयाच् च विकल्पः, वस्वादिपदैर् वादेशस् ततादिपदैर् वेति । एवं च सत्य् अर्थवादप्राप्तसंप्रदानानुसाराद् दद्याद् इत्य् उत्पत्तिचोदनोपपत्तिः । एवं च विद्वद्भिः पुत्रैः श्राद्धेनाप्याय्यमानाः पितरः स्वयम् अपुण्यकृतो ऽपि वस्वादिपदं लभन्ते इत्य् अवसेयम् ॥ २६५ ॥

तच् च प्राप्य ततः ।

आयुः प्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ १.२६६ ॥

अपष्टार्थः श्लोकः ॥ २६६ ॥

  • एवम् एतच् छ्राद्धम् आचार्यमतेनामावास्यादिषु तिथिषु पितृद्वेषिभिर् अपि चोदनानुसाराच् छक्तिविषये नियोगतः कर्तव्यम् । अशक्तौ तु माववं प्रत्येतव्यम् ।

अनेन विधिना श्राद्धं त्रिरब्दस्येह विर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ इति । (म्ध् ३.२८१)

पाञ्चयज्ञिकवचनं दृष्टान्तार्थम् । यथैव प्रत्यक्षश्रुत्यनुसाराद् अशक्ताव् अपि “अहर् अहर् दद्याद् ओदपात्रादि” (श्ब् ११.५।६.२) इत्य् अन्वहं पाञ्चयज्ञिककरणं, तथानेनापि स्मार्तविधिनोक्तं- निर्विचिकित्सम् इह गृहाशमे वसता त्रिर्वर्षस्यात्यन्तम् अशक्तेनापि कार्यम् इति । अग्निहोत्रिणश् चायं कल्पः । सुष्ठ्व् अप्य् अशक्तौ,

न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः । इति । (म्ध् ३.२८२)

“न श्राद्धेन विना दर्शे” इति विभक्तिव्यत्ययः । अन्यथा ह्य् असामञ्जस्यं स्यात् । यस्य त्व् औपासनम् अपि नास्ति, तस्य श्राद्धानधिकर एव । यतः,

न पैतृयज्ञिको होमो लौकिके ऽग्नौ विधीयते । इति । (म्ध् ३.२८२)

तदभावे च श्राद्धवैगुण्यम् । सर्वस्यैव त्व् अत्यन्ताशक्ताव् अयं कल्पः ।

यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा समाहितः ।
तेनैव सर्वम् आप्नोति पितृयज्ञक्रियाफलम् ॥ (म्ध् ३.२८३)

इत्य् एव तावन् मनुः । “शाकेनापि नापरपक्षम् अतिक्रामेद् मासि मासि चाशनम् इति श्रुतिः” (पार्ग् श्राद्धसूत्र १) इति च कात्यायनः । तच् चापरपक्षिकार्थम् इति संप्रदायः । सर्वथा शक्त्यनुसाराद् अशाठ्येन श्राद्धकरणम् इति परमार्थः ।

  • कस्मात् पुनर् मानवो ऽपि श्राद्धकल्प आचार्येण नोपनिबद्धः । समानार्थत्वात्, अनेनैव च प्रयोजनावाप्तेः । न च सर्वं सर्वस्मर्तृभिर् वक्तव्यं, स्मृतिबहुत्वस्यानर्थक्यप्रसङ्गात् । मैवम् । एककालीनं यत् पुंसो नैयोगिकं कर्यं, तत् सर्वैः स्मर्तव्यम्, अन्यथा सापेक्षत्वप्रसङ्गात् । ननु च यद् येनोपलब्धं, स तद् एव स्मर्तुं क्षमः । स्मर्तृस्वरूपानिभिज्ञ! मैवम् । येन ह्य् अशेषतो वेदार्थो नावगतः, स कथम् इवोपदिशेत् । उपदिशन् वा कथं विद्वद्भिर् ग्राह्यवचनः स्यात् । आदृताश् च मन्वादयः, तस्माद् अखिलवेदार्थाभिज्ञाः, तदुपदेशाच् चान्यस्यावगतेर् अनुष्ठानाविरोधः । ननु एवं सति सर्वं सर्वस्मर्तृभिर् उपदेष्टव्यम् । बाढम्कथं तर्ह्य् अनुपदेशः । कारणान्तरात् । यथैव श्रद्धं समानार्थत्वान् मानवम् आचार्येण नोक्तं, तथा मनुनापि मातामहश्राद्धं, वैकल्पिकत्वात् । कुतो वैकल्पिकत्वम् इति चेद्, अस्माद् एव मन्वनभिधानात् । यत् तु नित्यत्वम् उक्तं, तद् आचार्याभिप्रायेण । एवंरूपाश् च विकल्पाः द्रष्टव्याः । तेनैव चशब्दादिहिः स्मृत्यन्तरोक्तार्थान्तर्भावः । यत्र त्व् अन्तर्भावासंभवः, तत्र प्रयोगार्थायां स्मृताव् अनुच्यमानं वैकल्पिकत्वेन द्रष्टव्यम् । गुणार्थायां त्व् अन्यपरत्वात् स्वरूपाभिधानम् अतन्त्रम् इत्य् उक्तम् एवैतद् “वक्तारो धर्मशास्त्राणाम्” इत्य् अत्र । सर्वथा स्मृतिरचनाविशेषान् निर्विचिकित्सां प्रमाणताम् आलोच्य सर्वम् एवमादि यथायोगं विविच्य व्याख्येयम् । अत एव स्मृतिबहुत्वानर्थक्यचोद्यम् अप्य् अचोद्यम् एवेति स्थितम् ।

इति विरचित एष श्राद्धकल्पः पुराणः
स्फुटविकटविविक्तन्यायसन्दर्भगर्भः ।
इमम् इति च विवस्वान् याज्ञवल्क्याय साक्षात्
पितृसमयविधिज्ञः प्रोक्तवाञ् छ्राद्धदेवः ॥

इति श्राद्धप्रकरणम्

**