अथ दानप्रकरणम्
_ननु इयं कतिपयद्रव्याश्रितैव शुद्धिर् उक्ता । अनन्तस् तु तद्विषयः । स कथम् इवानुक्तो विज्ञेयः । उक्तम् एवैतत् परिषच्छ्लोके- यद् वाध्यात्मविद् एको ऽपि ब्राह्मणो ब्रूयात्, स निर्विचिकित्सः सर्वथा धर्म इति _(च्ड़्। य्ध् १.९) । अपि च ।
तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९६ ॥
एवं च वेदगुप्तिर् धर्मसंरक्षणं च भवति, यदि सर्वथा स वेदार्थम् अधिगच्छेत् । सृष्ट्यादिवचनं च कारणानुसारात् कार्यस्य सामर्थ्यातिरेकप्राप्त्यर्थम् ॥ १९६ ॥
ननु एवम् अपि ज्ञातैव ब्राह्मणः स कदाचिन् न ब्रूयद् अपीत्य् अत आह ।
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापरा श्रेष्ठास् तेभ्यो ह्य् अध्यात्मचिन्तकाः ॥ १.१९७ ॥
सर्वस्यैव जगतः स्वामिनो विप्राः । ते च धर्मोपदेशद्वारेणैव स्वामिनो नान्यथा । तथा चाह मनुः ।
सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।
प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ इति । (म्ध् १०.२)
किं जातेर् एवाइतन् (?) माहात्म्यम् । नेत्य् उच्यते, श्रुताध्ययनशीलिन एवेति अन्येषाम् अनुपदेष्टृत्वात् । तेभ्यः क्रियापरा इत्यादि मान्यश्लोके व्याख्यातम् एव ॥ ११७ ॥
कस्माच् चैवम् उत्तरोत्तरश्रैष्ठ्यम् । यस्मात् ।
न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ १.१९८ ॥
तपःशब्देन चात्र सृष्ट्यनुसाराज् जातिर् एवोच्यते, अन्यथा क्षत्रियादेर् अपि मान्यत्वप्रसङ्गात् । अतो यत्र विद्यातपसी वृत्तं चानुष्ठानं, तत् पात्रं दानादिसाधनम् । यस्माच् च तत् सर्वं ब्रह्मविदि, वैराग्यादिगुणातिरेकश् च, तस्मात् तस्यैव सर्वश्रैष्ठ्यम् । यद् वा स्वार्थ एव तपःशब्दः । चशब्दाद् उपक्रमाच् च जात्युपादानम् ॥ १९८ ॥
यस्माच् चैवंरूपो ब्राह्मणः पातृत्वाज् जगतः पात्रं, तस्मात् ।
गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ।
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ १.१९९ ॥
पात्रे पातरि । अर्चितं सर्वम् एव दद्यात् । आह च- “यो ऽर्चितं प्रतिगृह्णीयात्” इति (म्ध् ४.२३५) । अपातरि त्व् आत्मनः श्रेय इच्छन् न किंचित् दद्यात् । आदिग्रहणाद् भोजनाद्य् अपि । भोजनादि चाध्यात्मविदो ऽपि गृह्णन्त्य् एव । अतश् च तेषां च संप्रदानत्वसिद्धिः । ननु च ब्राह्मणो न परीक्षितव्यः, परीक्षायां वेदविक्रयश्रवणात् । अन्यथा च ज्ञानानुपपत्तेः कथं पात्रावगतिः । उच्यते । लौकिक एवात्राभ्युपायः ॥ १९९ ॥
किं च, यद्य् असौ प्रतिगृह्णीयात् तद्दोषायापेक्षापि प्रसज्येत । तस्य त्व् अनधिकार एव । यतः ।
विद्यातपोभ्यां हीनेन न तु ग्राह्याः प्रतिग्रहः ।
यस्मात् ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ १.२०० ॥
तुशब्दो ऽवधारणार्थः । स्पष्टम् अन्यत् ॥ २०० ॥
यस्माच् चैवैं, तस्मात् ।
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥ १.२०१ ॥
प्रत्यहम् एवायाचितम् उपनीय पात्रे दद्यात् । तथा चाम्नायः- “अहर् अहर् दद्याद् ओदपात्रादि” इत्यादि (श्ब् ११.५।६.२) । तथा “हिरण्यम् आदायाग्नीध्रम् अभ्येति” इत्य् उपनीय दानं दर्शयति । तथा “यो वै ज्ञातो ज्ञातकुलीनः स पितृमान् पैतृमत्यः” इत्य् उपक्रम “यो वै ज्ञातायापि कतिपयीर् दक्षिणा ददाति, ताभिर् महर् जयति” इति पात्र एव दानं दर्शयति । निमित्तेषु ग्रहोपरागादिषु । विशेषतो बहुतरम् । देयम् अयाचितेनैव । किं च, याचितेनापि दातव्यं सांतानिकादिभ्यो दशभ्यः श्नातकेभ्यः । न च याचितत्वाद् एवावज्ञा कार्या । किं तर्हि श्रद्धापूतम् एवादरेण देयं, शक्तितश् च, आत्मवित्तानुसारात् तद्गुणानुसाराच् च । तथा चाह मनुः- “दशैतान् स्नातकान् विद्यात्” इति (म्ध् ११.२) ॥ २०१ ॥
गवादीनां देयत्वम् उक्तम् । तत्प्रकारपपञ्चायाह ।
स्वर्णशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यदोहा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०२ ॥
सत्कृता दक्षिणा सदक्षिणा । दक्षिणाशब्दाच् च हिरण्यबाहुल्यं कार्यम् ॥ २०२ ॥
न चायं नित्यदानप्रकार एव । किं तर्हि ।
दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् ।
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥ १.२०३ ॥
अनेनैव विधिना दीयमाना विशेषतः । नित्ये ऽपि चायम् एव प्रकारः, अन्यानुपदेशाद् अपेक्षितत्वाच् च । एवम् अन्यत्रापि योज्यम् । यद् वा निमित्तेषु विशेषतः इति यद् उक्तम्, अयं स विशेषो ऽभिहितः । नित्यं तु यथार्हं सत्कृत्य दद्याद् इत्य् अवसेयम् ॥ २०३ ॥
अकपिला वा ।
सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दाता स्वर्गम् अवाप्नोति पूर्वेण विधिना ददत् ॥ १.२०४ ॥
सह वत्सेन यावन्ति रोमाणि, तावन्ति युगानि वर्षाणि । उभयतोमुखीं सोष्यन्तीं निर्गतवत्समुखीम् । पूर्वेण हेमशृङ्गादिविधिना (य्ध् १.२०२) । ददद् दाता स्वर्गम् आप्नोतीति योज्यम् । तथा च “अदितिर् अस्य् उभयतः शीर्ष्णी” (त्स् १.२।४.२) इति मन्त्रवर्णः ॥ २०४ ॥
एवं तावद् उक्तः प्रकारः । तद् असम्भवे ऽपि ।
**यथाकथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा ।**
**अरोगाम् अपरिक्लिष्टां दाता स्वर्गम् अवाप्नुयात् ॥ १.२०५ ॥**
स्पष्टार्थः श्लोकः ॥ २०५ ॥
यस्य तु गोमात्रम् अपि नास्ति तस्यापि ।
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥ १.२०६ ॥
निगदोक्तः श्लोकः ॥ २०६ ॥
यथासम्भवम् एव च ।
भूमिपश्वन्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयम् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ १.२०७ ॥
नैवेशिकं विवाहार्थं धनं, कन्या वा । धुर्यो ऽनड्वान् । ऋज्व् अन्यत् ॥ २०७ ॥
वित्तानुसाराद् एव च ।
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षजलं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ १.२०८ ॥
यानं गन्त्र्यादि । वृक्षसेकार्हं जलं वृक्षजलम् । स्पष्टम् अन्यत् । सर्वत्र चास्मिन् प्रकरणे दातुर् वित्तानुसारात् फलविशेषकल्पना । यथा चोक्तम्- “नायं यज्ञः सक्तुप्रस्थतुल्यः” इति । आम्नायश् चोक्त एव- “यो वै ज्ञातायापि कतिपयीः” इत्यादिः (च्ड़्। य्ध् १.२०१ चोम्।) । बाह्यवित्तानुसारी चातिरेको ब्राह्मणाद्यर्थे स्वप्राणपणेनाभयप्रदानादेः । आम्न्यायश् च- “तस्माद् यद्य् अपि सर्वज्यानीम जीयेत आत्मना चेच् जीवति प्रविनाशाद् इत्य् आहुः” (?) इत्य् अप्राधान्यं वित्तस्य दर्शयति । एवं सर्वत्र विवेककल्पना ॥ २०८ ॥
एवं तावद् विभववतः सर्वसाधारणो दानधर्म उक्तः । यस् तु खलु विद्वान् ब्राह्मणः, तस्य ।
सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं ततः ।
प्रददत् तत् समाप्नोति ब्रह्मलोकम् अविच्युतः ॥ १.२०९ ॥
स्पष्टार्थः श्लोकः ॥ २०९ ॥
एवं च सति ।
प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥ १.२१० ॥
ब्रह्मप्रदानेनैवेत्य् अर्थः । तस्मान् न दास्यामीति प्रतिगृह्णीयात् । तथा च लौकिकाः ।
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् । इति ।
अतश् च प्रतिग्रहनिवृत्तिर् एव ज्यायसीत्य् अवसेयम् ॥ २१० ॥
निवृत्तेनापि च ।
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धान्यं प्रत्याख्येयं न वारि च ॥ १.२११ ॥
निगदोक्तः श्लोकः ॥ २११ ॥
एवं तावच् छाकाद्यप्रणोद्यम् इति स्थितम् । हिरण्याद्य् अपि ।
अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्डपतितेभ्यस् तथा द्विषः ॥ १.२१२ ॥
कुलान्य् अटतीति कुलटा दुषारिणी । तथाशब्दाद् द्वेष्यश् च, अप्रतिग्राह्यप्रकारार्थो वा । तथान्ये ऽपि षण्डसदृशा अनधिकृताः शूद्रादयः । यत् तु गौतमीयम्- “तेन चोत्तरस् तदर्थो ऽस्य निचयः” (ग्ध् १०.६२–६३) इति, तद् आश्रितशूद्रविषयं द्रष्टव्यम् । दानायैवैषां स्थित्यतिरिक्तवित्तसंग्रहाधिकारो ऽपि । तदर्थो ऽस्य निचय इत्य् अनेनाप्य् एतद् एवोकम् इत्य् अवसेयम् ॥ २१२ ॥
एवं तावद् अयाचिताहृतग्रहणम् उक्तम् । याचित्वापि तु ।
सुरातिथ्यर्चनकृते गुरुभृत्यार्थम् एव च ।
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ १.२१३ ॥
सर्वशब्दः पूर्वश्लोकानुसाराद् एवायम् अकुलटादिषु द्रष्टव्यः । यत् पुनर् वासिष्ठः ।
गुर्वर्थे दारम् उज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ (वध् १४.१३)
इति, तत् कुलटादिषु प्रतिप्रसवार्थम् । तथा च तत्रैव “उदकाद्य् एषाम् अपि प्रतिगृह्णीयात्” इति (वध् १४.१२) । अनेन सर्वनाम्नैत एव परामृश्यन्ते । प्राणसंरक्षणार्थं चैतद्, न पुनर्भोगार्थम् इत्यादिविवेकः प्रपञ्चनीयः ॥ २१३ ॥
इति दानप्रकरणम्
**