०८ द्रव्य-शुद्धि-प्रकरणम्

अथ द्रव्यशुद्धिप्रकरणम्

ननु एवं मांसभक्षणविधानम् अयुक्तम्, निमित्तदौष्ट्यस्यासमाधेयत्वात् । श्वचण्डालादिभिर् हि मांसम् उत्पाद्यते यतः । सत्यं श्वचण्डालाद्युत्पाद्यं, तथाप्य् अदुष्टम् एवेत्य् एतत् प्रतिपिपादयिषयैव प्रसङ्गात् द्रव्यान्तराणाम् अपि निमित्तान्तरतो ऽमेध्यानां मेध्यत्वविधानायाह । यद् वा सर्वद्रव्याणां शौचम् अस्ति, न तु स्वभावदुष्टानां विड्वराहादीनाम् इति द्रव्यशुद्ध्यारम्भः । विड्वराहाद्यशुचिसंपृक्तं वा द्रव्यं कथं शुध्येद् इत्य् आकाङ्क्षित आह ।

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम्
शकरज्जुमूलफलवासोविदलचर्मणाम् ॥ १.१८१ ॥
पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते ।

शुद्धिर् इष्यत इत्य् एतद् एवास्मिन् प्रकरणे क्रियापदं यथयथं योज्यम् । सौवर्णानां च निर्लेपानाम् अशुचिस्पर्शनमात्रे ऽशुद्धिः । यथाह मनुः ।

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ इति । (म्ध् ५.११२)

राजतं रौप्यम् । अब्जं शङ्खशुक्त्यादि । ऊर्धपात्राणि षोडशिपात्रादीनि । ग्रहा ऐन्द्रवायवादिपात्राणि । ग्रहत्वाद् एवोर्ध्वपात्रे सिद्धे भेदाभिधानं कृत्स्नपात्रार्थम् । ततश् च द्रोणकलशाद्य् अप्य् उक्तं भवति । अश्म दृषदादि । शाकादीनि स्पष्टानि । विदलो वेण्वादि । सर्वत्र चास्मिन् प्रकरणे प्रकृतिविकृत्योर् अन्यतरग्रहणे ऽप्य् उभयलाभः । तथा च वसिष्ठो दारवाणां तक्षणम् उक्त्वा प्रकृत्यातिदिशति- “दारुवद् अस्थ्नाम्” इति (वध् ३.५२) । आचार्यो ऽपि राजतानाम् अश्मनाम् इति पात्रविशेषणत्वेनोपदिशन्न् एतद् एव स्पष्टयति ॥ १८१–२ब् ॥

एवम् एषां सोमेष्टिलौकिकानां पात्राणां स्वल्पोपघाते निर्लेपानां वारिणा शुद्धिर् इष्यते । सलेपानां तु ।

चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा ॥ १.१८२ ॥

पुनर् वारिग्रहणं तस्यैवौष्ण्यगुणत्वज्ञापनार्थम् । ततश् च यस्य यच् छुद्दिसाधनं, तद् एव गुणविकृतं दोषविकृतस्येत्य् एतत् सिद्धम् । तथा च यत् शङ्खेनोक्तम्, “चेलानाम् उत्स्वेदनं तन्मात्र्च्छेदो वा” इत्य् एतद् अपि सिद्धं भवति । पदार्थानिरुक्तं च स्पष्टम् अन्यत् ॥ १८२ ॥

स्पर्शनमात्रोपघाते निर्लेपानाम् एव ।

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां चैव वाससाम् ॥ १.१८३ ॥

स्फ्यादीनि यज्ञसाधनानि यथा कर्मणि प्रोक्षणमात्रान् नैमित्तिकम् उपघातं निघ्नन्ति, एवम् एवंरूपाणि पुरुषार्थान्य् अपि संहतानि शय्यादीनि, असंहतानि च पुरुषवाह्यानि वासांसि । चशब्दो धानाद्यर्थः । तथा चाम्नायः- “यद् यद् एवैषां मन्त्राशुद्धश् तक्षा वामेध्यः कश्चित् पराहन्ति, तद् तद् एवैषाम् एव तद् अद्भिर् मेध्यं करोति” इति निमित्तान्तराद् अमेध्यत्वप्रसक्तौ मेध्यता प्रोक्षणेन दर्शयति ॥ १८३ ॥

अल्पोपघात उक्तम् । महति पुनः ।

तक्षणम् दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८४ ॥

चर्वादीनां दारवादीनां चैवं शौचम् । केचिद् दीर्णवृक्षाणां दारुत्वसामान्यात् सर्जरसादीन्य् अपि दारवाणीच्छन्ति । तत् पुनर् विचार्यम् । संपूर्वाद् भवतेः क्विबन्तात् षष्ठीबहुवचन आम्युवङादेशे च कृते संभुवाम् इति रूपम् । तानि पुनर् अलाबुपात्रादीनि । तेषां गोवालैर् अवघर्षणम् । सलेपानां मार्जनम् । यज्ञपात्राणां कृतशौचानाम् एव । पाणिना यज्ञकर्मणीत्य् अन्यार्थम् एतद्- उदकवद् ब्राह्मणपाणेर् अपि शुद्धिकारणत्वं यथा स्याद् इति । ततश् च कमण्डल्वादेस् तन्मार्जनाच् छुद्धिः । भोजनकाले च मेध्यानाम् अपि पात्राणां परिमार्जनम् । तथा चाम्नायः- “तस्माद् यदा मनुष्याणां परिवेषणम् उपकॢप्तं भवति । अथ पात्राणि निर्णेनिजति” इति । अथशब्देन शुद्धानाम् एवेति द्योतयति ॥ १८४ ॥

उपघातातिरेक एवम् ।

सोषैर् उदकगोमूत्रैः शुध्यत्य् आविकसौत्रिकम् ।
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८५ ॥

आविकं सौत्रिकम् ऊर्णामयं, कार्पासं च । सूत्रशब्दस्य साधारण्यात् कौशेयादिसंग्रहः । यत् तु “आदित्येनोर्णामयानाम्” इति (च्ड़्। ब्ध् १.८।४०), तत् प्रायोगिकोपघातविषयम् । यत् तु भारद्वाजम्- “न शौचं शयनासनकटप्रस्तरयानप्रस्तरगण्डोपधानकशिपुकम्भल-कुगृहधान्यमनिफलकशिलासहस्ररोम्णाम् अनिखातानां च काष्ठानां तृणपलालदाम्नां कुमाराणाम् अन्यत्र प्रोक्षणाद् अन्त्यस्पर्शने स्नानं कुमाराणाम् एके” इति, तत् स्पर्शविषयम्, अन्त्यस्पर्शनवचनात् । मूत्रादिसंसर्गे तु दोषापेक्षया सोषैर् उदकगोमूत्रैर् यथार्हं शौचकल्पना । तैर् एवोदकगोमूत्रैः सबिल्वकल्कैर् अंशुपट्टानाम् । अंशुपट्टो नेत्रपट्टः । कुतपः कम्बविशेषः । स्पष्टम् अन्यत् ॥ १८५ ॥

उदकगोमूत्रैर् एव ।

सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् ।

उदकगोमूत्राधिकारे मार्त्तिकस्योप्देशात् तद् अपि तस्याल्पोपघाते शुद्धिसाधनं द्रष्टव्यम् । पुनःशब्दाच् च पक्वस्यैतत् । आमं तु पाक्यं पाकात्, अपाक्यं तु भूशुद्ध्यैव । दोषातिशये च त्यागः । यथाह वसिष्ठः ।

मद्यमूत्रपुरीषैश् च श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन् मृन्मयम् ॥ इति । (वध् ३.५९)

संशब्दाच् च मद्यादिक्लिन्नं त्याज्यम्, न विप्रुण्मात्रस्पर्शनात् । पुनःपाकेन चाशुद्धिवचनाद् आद्यपाकाच् शुद्यत्य् एव ॥

सर्वदैवोपहतप्रायत्वे ऽपि ।

कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८६ ॥

कारुः कुम्भकारादिः । भैक्षं ब्रह्मचार्यादिगतम् । योषिन्मुखम् असवर्णाया अपि । गुणार्थश् च योषिच्छब्दः । यथाह शङ्खः- “कारुहस्तः शुचिस् तथाकराः । तद्द्रव्याणि प्रोक्षिताभ्युक्षितानि शुचीनि । आकरजानाम् अभ्यवहरणीयानां घृतेनाभिघारितानां पुनःपचनम् । एवं स्नेहानां स्नेहवद् द्रवाणाम्” इति । प्रोक्षणं प्रक्षालनम् । अभ्युक्षणम् उपरिसेचनमात्रम् । पुनः शुचिग्रहणम् आकरजत्वान् नात्र दुष्टत्वम् इति ज्ञापनार्थम् । पुनर् आकरजवचनं यानि प्रायेणाकरजान्य् एव किलाटादीनि, तन्य् एव, न त्व् अपूपव्यञ्जनादीनीत्य् एवम् अर्थम् । अभिघारितानां पक्वानां पुनःपाकः । अभिघारणम् एवेतरेषाम् । स्नेहानां तु पाकमात्रम् । स्नेहवद् द्रवाणां पाकयोग्यानां मध्वादीनाम् इत्यादि योज्यम् ॥ १८६ ॥

यथास्थानं तु दोषविशेषात् ।

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा ।
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥ १.१८७ ॥

तथाशब्दान् मृदन्तरावपनाच् च । “आवपनं च भूमेः” इति गौतमः (ग्ध् १.३२) । मार्जनं शोधनं, बहूद्धरणम् इति यावत् । कालाद् वर्षादिभिः, रजस्वलादिपरिगृहीताव् आ तच्छुधिकालात् । अपरिग्रहे त्व् आह भृगुः ।

उपलिप्तं तु यत् सार्धं परिक्रान्तम् उदक्यया ।
शुद्धं तच् छुध्यते यद् वा सुवर्णसलिलोक्षितम् ॥ इति \

सेकः प्रोक्षणम् । तथा चाह यमः ।

गोकर्णमात्रम् अब्बिन्दुः पुनति पततः क्षितौ ।
समूढम् अस्मूड्ःअं वा यत्र लेपो न दृश्यते ॥ इति ।

गृहं मार्जनलेपनाद् अन्वहम् । कुड्यवचनो वा गृहशब्दः, अन्यत्र भूशुद्ध्यैवोक्तत्वात् ॥ १८७ ॥

अनभ्यवहार्य उक्तम् । अभ्यवहार्ये तु ।

गोघ्राते ऽन्ने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८८ ॥

अन्नाधिकारात् तदुच्छिष्टलेपोपहतानाम् ।

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्मना कांस्यलोहानां शुद्धिः प्लावो द्रवस्य तु ॥ १.१८९ ॥

तुशब्दाद् अन्यत्राप्य् अल्पोपघाते द्रव्यस्यायं शौचविधिः ॥ १८९ ॥

मूत्रपुरीषादिभिस् तु ।

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धापकर्षणम् ।
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ १.१९० ॥

सर्वद्रव्याणाम् अयं शौचकल्पः । गन्धवचनान् निर्गन्धश्लेष्माद्युपघाते ऽद्भिर् एव लेपापकर्षणम् इति केचित् । तत् पुनर् वाच्यम् । यथाह मनुः ।

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ इति । (म्ध् ५.१२६)

यत् पुनः शङ्खेनोक्तम्- “तैजसानां कुणपरेतोमूत्रपुरीषोपहतानाम् आवर्तनम् उल्लेखनं भस्मना वा त्रिःसप्तकृत्वः परिमार्जनम्” इति, तद् गन्धाद्यपकर्षणाशक्तौ द्रष्टव्यम् । भस्मनाप्य् अपकृष्टगन्धानाम् एवाविरोधात्, परिमार्जनं शुष्कामेध्योपघात एव । इयं तु सर्वसाधारणद्रव्यशुद्धिविषयकल्पना- यद् विशिष्टप्रमाणेन दुष्टम् इत्य् अज्ञातं, यच् च हृद्विलेखे सति शोभनम् एवैतद् इति वाक्शस्तम् उदकेन वा प्रक्षालितं प्रोक्षितं वा, तत् सदा निर्विचिकित्सं शुद्धम् एवेत्य् अवसेयम् ॥ १९० ॥

एवम् आपः शुद्धिकारणत्वेनोक्ताः । तासां पुनर् इयं शुद्धिः ।

**
शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १.१९१ ॥

अवगाहनादिक्षमं गोतृप्तिकृत् केचिद् इच्छन्ति । तत् त्व् अयुक्तम्, “प्रदराद् अपि या गोस् तर्पणाः श्युः” इति वसिष्ठवचनात् (वध् ३.३५) । प्रकृतिस्थं गन्धवर्णरसागमाद्यदुष्टम् । सर्वथा भूमिगतत्वे ऽपि मेध्यम् । तथा चाम्नायः- “वाग् वै देवेभ्यो ऽपाक्रामत् । सा आपः प्राविशत् । ते देवा अद्भ्यो वाचम् ऐच्छन् । तान् आपो ऽब्रुवन्- ऽयद् अस्माकं प्रजाभ्यो यद् अन्यजेभ्यो ऽशुभं तत् पावयध्वं, ततो वाचं दास्यामऽ इति । तथेति देवाः प्राहुः” इत्य् उपक्रम्य, “यो ह्य् आदित्यः स ब्रह्मयज्ञः सर्वा देवताः सविता अन्वहं ब्रह्मयज्ञपूताभी रश्मिभिः पावयेत् । तस्माद् एवाहनि शुद्धाः शुद्ध्यै कल्प्यन्ते । तस्माद् यद् यन् मीमांस्यं स्यात्, तत् तद् अद्भिः स्पृशेत्, शुच्य् एव भवति । रात्रौ वरुणं प्राविशत् । तस्मान् न रात्रौ गृह्णीयात् । धाम्नो धाम्न इति वाग्निं वोपरिष्टाद् गृह्णीयात्” इति । न च कर्पूरादिविकारे ऽपि दोषः, “गन्धादिदुष्टाभिः” (च्ड़्। वध् ३.३६) इति दुष्टत्ववचनात् । तथाशब्दान् मांसम् अपि प्रकृतिस्थम् एव मेध्यम् । अतश् च चण्डालाद्युपघाते निपातितस्य दोष एवेत्य् अवसेयम् ॥ १९१ ॥

यथा चोपघाताशङ्कायाम् अप्य् उदकं मेध्यं, तथैतान्य् अपि ।

रश्मिर् अग्नी रजश् छाया गौर् अश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नावने शुचिः ॥ १.१९२ ॥

आदित्यरश्मयो ऽग्निर् वातोद्भूतं रजश् चण्डालादिशरीरच्छाया गावो ऽश्वा भूमिर् वायुस् तदीरिताश् चास्प्ष्टाः सर्वतो विप्रुषो मक्षिकाश् चाशुचिसेविन्यः स्पर्शे मेध्याः । प्रस्नावने च मातुर् वत्समुखं मेध्यम् । वत्सग्रहणं च सर्वप्रस्नावकोपलक्षणार्थं, न्यायसाम्यात् । सर्वथा शास्त्रम् अमीमांस्यं यतः ॥ १९२ ॥

ननु गवाश्वयोर् मेध्यत्ववचान् महिष्यादाव् अशुद्धत्वप्रसङ्गः । मैवम् । गुणार्थम् एतद् न परिसङ्ख्यार्थम् । को गुण इति, उच्यते ।

अजाश्वं मुखतो मेध्यं न गौर् न नखजा मलाः ।
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९३ ॥

चशब्दाद् अन्यद् अप्य् एवंरूपं सोमादिस्पर्शनाच् छुध्यत्य् एव । तथा च मन्त्रवर्णः- “अग्निः पवित्रं स मा पुनातु वायुः सोमः सूर्य इन्द्रः” इति (आप्श्र् १२.२०.६) । अतश् च यस्यैवान्यच् छौचं नोक्तं, तस्यैवैतद् इति शास्त्रसंक्षेपः ॥ १९३ ॥

अमेध्यत्वशङ्कायाम् अपि हि ।

मुखजा विप्रुषो मेध्याः पराचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १.१९४ ॥

विप्रुषां पुनर्वचनं साक्षात्कारेण दौष्ट्यावगताव् अन्यत्रामेध्या एवेति ज्ञापनार्थम् । गौतमीयं च “न चेद् अङ्गे निपतन्ति” (ग्ध् १.४१) इति परकीयविषयम् । इदं चात्मीयार्थम् इति भेदः । स्पष्टोपलब्धौ त्व् आत्मीयेष्व् अपि दोष एव । पराचमबिन्दवश् च मेध्याः । तथाह वसिष्ठ ।

परान् अथाचाययतः पादौ या विप्रुषो गताः ।
भूमिस्थैस् तु समा ज्ञेयाः । इति । (वध् ३.४२)

एतस्माद् एव चान्यावर्जितेनाप्य् आचमनसिद्धिः । तथा च आपस्तम्बः- “यं वा प्रयतस् त्व् आचामयति” इति (आप्ध् १.१५.३) । श्मश्रु चास्यगतं मेध्यम् । चशब्दात् श्मश्रुगतश् च लेपः, “न श्मश्रुगतो लेपः” इति वसिष्ठवचनात् (वध् ३.४०) । श्मश्रुगतत्वश्रुतेश् चापकर्षणाशक्ताव् एव । दन्तश्लिष्टं त्यक्त्वा ततः शुचिः निगिरंश् च । यस्याचमनकाले प्रयत्नतो ऽनुपलम्भः, ततः पश्चान् निगीर्य त्यक्त्वा वा तेनैवाचमनेन शुद्ध इत्य् अवसेयम् । अत्रैव प्रदेशे केचिद् इमं शोकं पठन्ति ।

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः
मारुतेनैव शुध्यन्ति पक्वेष्टकाचितानि च ॥ इति । (= य्ध् १.१९५ इन् च्र्। एद्।)

तत् पुनः पूर्वेणैव गतत्वाद् अकिंचित् ॥ १९४ ॥

पूर्वस्माद् एवाचमनाच् छिद्दिर् उक्ता । न च तद् अन्यत्राचमनम् उपदिष्टम् इत्य् अधुनैवोपदेष्टुम् आह ।

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ १.१९५ ॥

आचान्त इत्य् उपदेशात् स्नानादिनिमित्तेष्व् अन्येषु चोच्छिष्टस्पर्शनादिषु स्मृत्यन्तरानुसाराद् अन्यद् आचमनविधायकं कल्पनीयम् । तद्वशाच् चाचान्तः स्नानादिषु पुनर् आचामेद् इत्य् एष श्लोकविषयः । अतश् चान्यत्र सकृदाचमनम् एव । रथ्याप्रसर्पण इति प्रशब्दाद् अनुपान्त्कस्यैवाचमनं, न सर्वत्र । वाससश् च विपरिवर्त एवाचमनं, न श्लथितसमाधाने । केचित् त्व् आद्यन्तयोर् आचमनम् इच्छन्ति । तत् पुनर् विचार्यम् । स्पष्टम् अन्यत् । अयं त्व् अत्र संप्रदायः- कात्यस्याचमनविधेर् विचित्रप्रकारत्वम्, आचमनस्य शौचाशुभक्षपणाद्यर्थत्वात् । तथा हि ।

मूत्रद्युत्सर्जने शौचं यज्ञादौ कर्मसाधनम् ।
क्षुते नैमित्तिकं शुक्तभाषणे पापनाशनम् ॥
जाह्नव्यादौ च धर्माय प्रस्थानादौ च सिद्धये ।
क्रूरदृष्येक्षणे क्षुण्णलक्षणद्यपनुत्तये ॥
स्मृत्यन्तरात् समाचाराद् आम्नायाच् चैवमादिभिः ।
प्रकारैस् तद् विवेक्तव्यं सदा तत्त्वबुभुत्सुभिः ॥

तत्र शौचार्थाचमनार्हस्पृष्टितत्स्पृष्टिनोर् अप्य् आचमनम् एव शौचम् । परस्य त्व् अदोषः । तथा च स्मरन्ति ।

उच्छिष्टेन तु संस्पृष्ट एक एव स दुष्यति ।
तं स्पृष्ट्वान्यो न दुष्येत सर्वद्रव्येष्व् अयं विधिः ॥ इति ।

अचेतनस्य तु द्रव्यस्य प्रोक्षणम् । यथाह शङ्खः- “द्रव्यहस्त उच्छिष्टो निधायाचामेत् । अद्भिर् अभ्युक्ष्य द्रव्यं शुध्यति” इति । श्रुतिश् चोक्तैव- “यद् यन् मीमांस्यं स्यात् तत् तद् अद्भिः स्पृशेत्” इति । उच्छिष्टाचेतनद्रव्यस्पृष्टिस्पर्शे त्व् अदोषः, “सर्वद्रव्येष्व् अयं विधिः” इति वचनात् । अपुरुषप्राणिनां तु निर्दोषतैव । एतेनैव स्नानवैचित्र्यं प्रपञ्चनीयम् । इयांस् तु विशेषः- शौचार्थत्वे ऽपि द्वैविध्यम्, मैथुन्युदक्यादिभेदात् । उदक्यादिस्पृष्टितत्स्पृष्टिनोर् अपि स्नानं द्रव्यस्य च प्रक्षालनम् । मैथुन्यादौ त्व् आचमनप्रोक्षणे । यच् च द्रव्यं मानुषं वा स्नानक्षालनक्षमं, तस्यैवैतत् । तद्विनाशिनस् त्व् आचमनप्रोक्षणे एवातुरपुस्तकादेः । यथाह बौधायनः ।

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति ॥ (ब्ध् १.८।५३)

अयं चात्र परमार्थः । अस्यैव स्मृत्यन्तरेषु प्रपञ्चनमात्रम् । यथाह मनुः- “शौचं यथार्हं कार्यम्” इति (म्ध् ५.११४) । तैजसविशेषशौचार्थत्वे ऽपि सर्वार्थम् एवैतत् । एवं चण्डालादिसंकरे सर्वद्रव्यप्रक्षालनप्राप्तौ विशेषः- तैजसानां भस्मना त्रिःसप्तकृत्वः परिमार्जनम् । सकृद्भुक्तानाम् उल्लेखनं, चिरभुक्तानाम् आवर्तनम् । एवं मूत्रलशुनशूद्रभोगादिष्व् अपि योज्यम् । मार्त्तिकानां तु चण्डाललशुनादिस्पर्शने पुनःपाकः । मूत्राद्युपघाते चण्डालादिभोगे च त्यागः । काकादिभिर् लयने पर्यग्निकरणम् । तत्पुरीषाद्युपघाते पुनःपाकः । एवं दारवाणां प्रक्षालनप्रोक्षणपरिघर्षणोल्लेखनतक्षणत्यागादि योज्यम् । तान्तवानां तु चण्डालादिसंकरे ऽल्पानां प्रक्षालनं, सकृद्भुक्तानां तुषादिभिर् यथार्हं मृद्भिर् अद्भिश् च । लशुनाद्युपहतानां मूत्रादिव्याप्तानां त्व् अपनयनाशक्तौ तन्मात्रछेदः । पैष्ट्यादिव्याप्तौ चण्डालादिचिरभुक्तानां च त्याग एव । वैवर्ण्ये तूत्स्वेदनम् । सर्वद्रव्याणां तु स्वं स्वं वर्णम् उत्पाद्य मृद्बिर् अद्भिश् च क्षालनम् । अब्जोपलास्थिदन्तमणिमयानां स्कृच्छूद्रादिभुक्तानां लशुनादिस्पर्शे वा परिमार्जितानाम् उदकगोमूत्राभ्यां क्षालनं, चिरभुक्तानां तु त्यागः । महार्हं तु अत्याज्यम् एव, “अमेध्याद् अपि काञ्चनम्” (म्ध् २.२३९) इत्य् उपन्यासात् । उक्तं च “देशं कालम्” (ब्ध् १.८।५३) इति, “मृत्तोयैः शोध्यते शोध्यम्” (म्ध् ५.१०८) इति च मानवम् । सर्वत्रानादिष्टशौचे लेपसदसद्भावापेक्षया यथार्हं कल्पनीयम् । बहूनां तु धान्यवाससां शयनादीनां च चण्डालादिसंकरे प्रोक्षणम् । यस्य च स्नानार्हस्पर्शने प्रोक्षणं, तस्य चोच्छिष्टस्पर्शने न किंचित् । चण्डालाद्याहृतानां तृणकाष्ठशुष्कगोमयमूलफलादीनां प्रोक्षणम् । अप्रोक्षितस्प्र्शने तु स्नानम् एव । आर्द्रगोमयादेस् तु शुष्कस्य सुवर्णोदकप्रोक्षितस्य वा शुद्धिः । मूत्राद्युपघाते तु धान्यानां तत्संस्पृष्टं त्यक्त्वा पर्यग्निकरणादिभिः शेषशुद्धिः । शुष्कपुरीषाद्यनियतसंसर्गे चापस्तम्बोक्तं व्रीहीणां प्रक्षाल्यावशोषणं तण्डुलानाम् तु त्यागः इति । रसानां तु पात्रदोषे पात्रान्तरोपनयनोत्पवने । लशुनादिसंसर्गे तूद्धृत्य प्लावनम् अभक्ष्यानुपपतनीयरससंसर्गाशङ्कायां पाक्यस्य क्वाथनम्, आप्लाव्यान्यस्मिन् सुवर्णादिप्रक्षेपः । तैलसर्प्षी उच्छिष्टसमन्वारब्धे उदके ऽवधायोपयोजयेद् इति । एतच् छ्वकाकाद्युप्घाते ऽपि द्रोषाढकावसेचनसमर्थानां विज्ञेयम् । कूपादीनाम् उद्धृतदोषाणां हिरण्यादिप्रक्षेपः । पुल्कसाद्युत्पादितलवणाणां मधुनश् च भूनिक्षेपणात् । तत्त्यागेनैव शुद्धिः सर्वद्रव्याणां च,

अमेध्यतां गतं द्रव्यं यद् अमेध्यपरिग्रहात् ।
आत्यन्तिकप्रहाणेन तत् तस्माच् छिद्धिम् आप्नुयात् ॥

इति स्मृत्यन्तरात् । सर्वस्य च द्रव्यस्यात्यल्पस्य त्याग् एव । पक्वान्नानां तूच्छिष्टस्पर्शे ऽल्पानाम् अपि प्रोक्षणं, “प्रचरन्न् अभ्यवहार्येषु” इति वसिष्ठवचनात् (वध् ३.४३) । शूद्रोच्छिष्टस्पर्शे ऽपि, उदक्यास्पृष्टस्याभक्ष्यत्वोपदेशात् । लशुनादिस्पर्शे तु स्वल्पम् उद्धृत्यान्यस्य धान्यवत् संस्कारः, अल्पस्य तु त्याग एव । श्वकाकाद्यवलीढे तु प्राग् द्रोणाढकात् त्यागः । तदाक्रमेण तु साक्षात् स्पृष्टम् उद्धृत्य शिष्टस्य धान्यवत् संस्कारः । गृहीतान्नस्य मूत्रादिकरणे पूर्ववत् संस्कारः । शूद्रश् चेद् गृहीतान्न उच्छिष्टः स्यात्, संस्कृत्य कूश्माण्डीभिः प्रोक्षणम् । सर्वान्नदोषेषु च सावित्र्याष्टशतेनाभिमन्त्र्य संस्कृत्योपयोगः । सर्वत्र “देशं कालम्” इत्य् आलोच्यम् । यत्र च हृद्विलेखः स्यात् तत् त्याज्यम् एव, आत्मतुष्टेर् अपि शौचकारणत्वात् । शुष्कवटकादीनां तु तन्मात्रत्यागः । अत्यन्ताशुचिसंपृक्तानां त्यागः । पात्रोपघाते त्व् अन्नस्यापि, रसवत् । चण्डालादिसंकरे तु पक्वान्नस्य त्याग एव । चेलवद् रज्जुविदलचर्मणां तन्मात्रच्छेदादि । कुकुण्ठादिचर्मणां तु रञ्जनं मूत्रादिसंसर्गे । सर्वत्रास्माद् एव चारञ्जितैर् न व्यवहारः । उपानच्छौचं तु मृत्तोयेनैव यथार्हम् । एतद् अपि शङ्खोक्तं द्रष्टव्यं “मृद्भस्मगोमूत्रक्षारोदकैश् चेलानां चेलवद् धान्यानां पक्ष्मचामरचर्मतृणवालवेत्रवल्कलादीनाम्” इत्यादि । आदिग्रहणं कुतपाद्यर्थम् । तृणशब्देन च तालपत्रस्यापि ग्रहणं, तृणराजत्वात् तत्रापि तृणशब्दो यतः । चण्डालाद्यन्वारब्धनिखातकाष्ठस्पर्शे च न किंचित् । यथाह आपस्तम्बः- “मूढप्रस्तरे च संस्पृशण्न् अन्यान् अप्रयतान् प्रयतो मन्येत । तथा तृणकाष्ठेषु निखातेषु” इति (आप्ध् १.१५.१३–१४) । “अनेकोद्धार्ये काष्ठ्शिले भूमिसमे” इति च वृद्धगार्ग्यः । गृहसंलग्नकवाटकटनिःश्रेण्यादीनि च, तथाशब्दात् । केचित् तु निःश्रेण्याः प्रोक्षणम् इच्छन्ति । तच् च वृद्धगार्ग्यवचनाद् अयुक्तम् । मृदिष्टकाकर्दमाणां सर्वयन्त्राणां चादित्यदर्शनाद् इत्य् एषा दिक् । सर्वत्र “यद् एवानूचाना विद्वांसो ब्राह्मणा ब्रूहुः, तच् छौचम् आद्रियेत” इति स्मृत्यन्तराच् छौचं ब्राह्मणवचनम् एवेत्य् अलम् अभिधानेन । सर्वत्र चात्र मूलभूतवाक्यानुपन्यासो ग्रन्थातिरेकभीत्या । प्रदर्शनार्थं तु कतिपयान्य् उपन्यस्यन्ते । यथाह हारीतः- “यथार्थं शौचम् अद्भिः काञ्चनरजतशङ्खशुक्त्यादीनां तद्गुणवर्णयोगात् स्नेहतो वर्णोपहतानां यवगोधूममाषकलायमसूरचूर्णैर् मार्जनम् अद्भिः प्रक्षालनं च । अम्ललवणाभ्यां ताम्राणां, भस्मना कांस्यानां, शैलतैलावघर्षणैः कार्ष्णायसानां, शैलावघर्षणमार्जनैर् मणिमयानां, सिकतावघर्षणैः शैलानां सलेपानां, निर्लेखनम् दारुमयानां, निष्टपनम् एव मार्त्तिकानां, गोवालरज्ज्वा सोदकया फलमयानां, क्षारोष्णोदकाभ्यां कार्पासशणमयानां, पुत्रञ्जीवारिष्टकैः क्षौमदुकूलानां, पुत्रञ्जीवोदश्विद्भ्यां चाजिनानां, श्रीफलश्वेतसर्षपकल्कैः कौशेयानाम्, उदश्विद्वल्मीकमृदा सर्षपैश् चोर्णामयानां, स्नेहसक्तुकुल्माषोन्मर्दनैर् गुरूणाम् ऊर्णामयानाम् अत्यन्तोपहतानां सर्वतैजसानाम् अग्निना शौचम् । मृद्दारुचर्मणां त्यागः । तन्मात्रच्छेदनम् एके वाससाम् । न वा साधारणत्वात् । “साधारणं हि वास” इत्य् आचार्याः । तस्मात् सर्ववाससाम् उपघातापनोदनाद् एव शुद्धिः । चेलवच् चर्मणां शुद्धिः । दृतीनां रञ्जनं, पयसा दान्तानां, क्रीतानां पर्यग्निकरणप्रोक्षणैः पयआदीनां, दध्यादीनाम् प्रोक्षणं, पर्यग्निकरणावहननैर् व्रीहेः, यवगोधूमानां प्रोक्षणं, फलीकृतानां विमर्शनम्, अवघर्षणदलनपेषणैः शमीधान्यानां, विमर्शनप्रक्षालनैः शाकमूलफलानां भूस्थानां, ग्रहणाद् अभूस्थानां, तक्षणप्रक्षालनैर् इक्षुकाण्डानां, स्वविधानाद् यज्ञद्रवहविषाम्, उष्णेन वारिणा स्रुवाणां, चरूणां च श्रपणम् एव । स्नेहानां कृतलवणानां पुल्कसादिस्पृष्टानां भूस्थानां तृणकाष्ठानाम् आदित्यदर्शनात् । एवम् इष्टकानां च शकलीकृतानां स्पर्शनानिष्टगन्धोपघ्राणश्रवणदर्शनोदाहरणेषु च । केशपिपीलिकादिभिर् अन्नोपघाते काञ्चनरजतभस्मताम्रवज्रवैडूर्यगोवालाजिनदर्भाणाम् अन्यतमेनाद्भिः संस्पृष्टेन शुद्धं भवति । मन्त्रप्रोक्षणपर्यग्निकरणादित्यदर्शनैः शौचं बह्वन्नोपघाते, ब्राह्मणानुमताद् वा, तन्मात्रम् अपनीयाजेनोपघ्राप्य शुद्धं भवति । अत्यन्तोपहतानां त्यागः, रसमयानां च । भूस्था आपः पुण्या अशुभागमवर्जम् । तथापि च ब्राह्मणं भवति- “देवानां वाग् अपाक्रामत्” इत्यादि । अथाप्य् अत्रोदाहरन्ति ।

शोधितानां तु पात्राणं यद्य् एकम् उपहन्यते ।
तस्य पात्रस्य तच् छौचं नेतरेषां कथंचन ॥ इति ।
वत्सः प्रस्नावने मेध्यः श्वा मृगग्रहणे शुचिः ।
आकराः शुचयः सर्वे शकुनिः फलशातने ॥ (म्ध् ५.१३०)

तथा ।

गोभिर् आक्रमणाद् दाहात् खननाद् अभिवर्षणात् ।
मार्जनाऌ लेपनात् कालाद् भूमिर् एतैर् विशुध्यति ॥ इति ।

न चण्डालोपहता भूः स्नानार्हाप्रायत्यं जनयति । यस्माद् आह ।

मक्षिका विप्रुषो नार्यो भूमिस् तोयं हुताशनः ।
मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः ।
यथाशुभौघो नदिसंश्रितो (?) वहन्
नदीगुणैस् तद्गुणभावयुक्तः ।
तथान्नपानं विधिपूर्वम् आगतं
द्विजातिपात्रान्तरितं न दुष्यति ॥ इति ।

स्मृत्यन्तराण्य् एवम् उदाहार्याणि विवेक्तव्यानि चेत्य् अलं प्रसङ्गेन ।

मया निरुकात्र पदार्थशुद्धिः
प्रायेण लोकस्य हितैषिणेयम् ।
श्रद्धेयमार्गैव यतस् ततश् च
प्रपञ्चनीया बहुभिः सुधीभिः ॥ १९५ ॥

इति द्रव्यशुद्धिप्रकरणम्

**