०७ भक्ष्याभक्ष्य-प्रकरणम्

अथ भक्ष्याभक्ष्यप्रकरणम्

एवं तावद् अनौपासनाद्याश्रयतो ऽन्नस्याभोज्यत्वम् अभिधायाधुना भोज्यपरिगृहीतस्यापि निमित्तान्तराद् अभोज्यत्वम् आह ।

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६५ ॥

वृथामांसं पक्वम् अनगिकगृहागतम् । केश्कीटसमन्वितं तद्बहुलम् । संशब्दाद् अल्पांस् तूद्धृत्य संस्कृत्य च भक्षणम् एव । शुक्तम् अवस्विन्नं तदहर् अपि । स्पष्टम् अन्यत् ॥ १६५ ॥

उदक्यास्पृष्टसंघुष्टं पर्याचान्तं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पादस्पृष्टं च कामतः ॥ १.१६६ ॥

तुशब्दार्थश् चशब्दः । पूर्वोक्तेषु प्रतीकारो ऽपि क्वचिद् अस्ति, एतानि तु वर्जयेद् एवेत्य् अभिप्रायः । उदक्या रजस्वला । संघुष्टं, यथाह वसिष्ठः- “को भोक्ष्यत इति चाभिक्रुष्टम्” इति (वध् १४.९) । उदक्यास्पृष्टम् इत्य् एवं वा संघुष्टम् । पर्याचान्तम् एकपङ्क्त्याम् अभितस् त्व् आचान्तम्, आचान्तस्य वा स्वम् उच्छिष्टम् । स्पष्टम् अन्यत् । कामत् इति वचनाद् अकामाद् ब्राह्मणपादस्पृष्ट्ं भोज्यम् एव ॥ १६६ ॥

किं चान्यत् ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥ १.१६७ ॥

भोज्या इति वक्तव्ये भोज्यान्ना इति वचनात् प्रकरणाच् चान्नम् एवैषां भोज्यम् । शूद्रान्तराणां तु तत्प्रतिषेधो ऽपि । दासादयश् च स्वकीया एव, अन्यथातिप्रसङ्गात् ॥ १६७ ॥

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १.१६८ ॥

अन्नवचनं मांसादिव्यावृत्त्यर्थम् । मांसं हि पर्युषितम् अभोज्यम् एव । अन्नं तु शुक्तम् एव पर्युषितम् अभोज्यम् । अन्यत् तु द्वित्रिरात्रादिपर्युषितम्, चिरसंस्थितं, तद् अपि स्नेहाक्तं भोज्यम् एव, न चेद् रसादिविकृतम् । पूर्वत्रापि पर्युषितम् एतद् अपेक्षयैव व्याख्येयम् । परिशब्दाच् चाहोरात्रोषितं गृह्यते । ततश् चापररात्रे सिद्धं भोज्यम् एव । स्पष्टम् अन्यत् ॥ १६८ ॥

एवं तावन् निमित्तत्वेन दौष्ट्यम् उक्त्वाधुना स्वभावतो वक्तुम् आह ।

संधिन्यनिर्दशावत्सगोपयः परिवर्जयेत् ।
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ १.१६९ ॥

संधिनी परवत्ससंयुक्ता, गर्भसहिता वा । एककालिकेत्य् अन्ये । अनिर्दशा प्रसवाद् आरभ्य आ दशरात्रात् । अन्ये तु “गव्यं पीयूषम्” (म्ध् ५.६) इति प्रतिषेधात्, तत्कालाद् ऊर्ध्वं दशरात्रम् इत्य् आहुः । तद् असद्, विशेषाभावात् । अनिर्दशेति चोपाध्यपेक्षणात्, क्षीरसत्तैवोपाधिर् यतः । तथा च गौतमः- “गोश् च क्षीरम् अनिर्दशायाः सूतके” (ग्ध् १७.२२) इति प्रसव्म् एवावधित्वेनाह । पीयूषनिषेधस् तु प्रायश्चित्तातिरेकार्थः । तथा चाह- “प्रयत्नेन विवर्जयेत्” इति (म्ध् ५.६) । अवत्सा मृतवत्सा प्रनष्टवत्सा वा । वत्सशब्दो हि बालगोवचनः । ततश् च सिद्धे गोवचनं पयोमात्रप्रतिषेधार्थम् । अतो दध्यादेर् अदोषः । परिशब्दात् त्व् औष्ट्रादीनां सविकाराणां प्रतिषेधः । यदि त्व् अनिर्दशाया विकारप्रतिषेधो ऽपि क्वचिद् अस्ति, ततो वर्जने ऽभ्युदयः । अन्यत्राप्य् एवम् एवैतद् द्रष्टव्यम् । स्पष्टम् अन्यत् ॥ १६९ ॥

किं च ।

**
देवतार्थं हविः शिग्रुं लोहिताव्रश्चनानि च ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७० ॥

देवतार्थं हविः पुरोडाशादि । बलिर् इत्य् अन्ये । शिग्रुः सौभाञ्जनकः । लोहिताः लोहितवर्णाः वृक्षनिर्यासाः । आव्रश्चनं स्थाणुः । स चादनीयो यदि स्यात् ततो वर्ज्यः । चशब्दात् तत्प्ररोहश् च । तथा च मनुः-

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा । इति । (म्ध् ५.६)

अनुपाकृतम् अपशुबन्धप्रभवम् । विड्जानि माषादीनि । कवकान्य् अविकसितसर्पच्छत्राणि । चशब्दाद् इतराणि स्मृत्यन्तरोक्ताभक्ष्याणि च । देवतार्थहविर्वचनं च स्वभावदुष्टप्रकरणोपलक्षणाद् अहविषो ऽपि प्रसिद्धदेवतार्थस्वभावस्य प्रतिषेधार्थम् । अनुपाकृतमांसवचनम् अपि मांसस्य स्वभावदौष्ट्यज्ञापनार्थम् ॥ १७० ॥

एवं सति मांसस्य स्वभावाद् अभक्ष्यत्वे प्राप्ते विशेषोपसंहारार्थम् आह ।

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ १.१७१ ॥

क्रव्यादा मांसादाः पक्षिणो गृध्रादयः । पक्षिशब्दो ऽन्यत्राप्य् अमेध्यपक्षिप्रसङ्ग एषां एव प्रतिपत्त्यर्थः, एकशफोपादानवद् वा केवलपक्ष्यर्थः । दात्यूहः संपातकः । प्रतुद्य भक्षकाः प्रतुदाः सूचीमुखादयः । एकशफा एकखुरा अश्वादयः । पक्षिमध्य एषाम् अभिधानं पशवो ऽपि ग्रामवासिनः श्वादयो यथा स्युर् इति । स्पष्टम् अन्यत् ॥ १७१ ॥

कोयष्टिप्लवचक्राह्वबलाकबकविष्किरान् ।
वृथाकृसरसंयावपायसापूपशष्कुलीः ॥ १.१७२ ॥

कोयष्टिको मेढ्रकः । प्लवः शकटिबलः । चक्रवाकादयः प्रसिद्धाः । विष्किराः पादेन विकीर्य भक्षकाः कुक्कुटादयः । ग्रामवासिवचनाद् ग्रामकुक्कुटप्रतिषेधे सिद्ध आरण्यार्थो ऽयम् आरम्भः । तत्रापि “कुक्क्तुटा नखविष्किराणाम्” इत्य् (नोत् इन् आप्ध्) आपस्तम्बवचनाऌ लाबकाद्यप्रतिषेधः । कृसरादयः प्रसिद्धाः । अत्राभिधानं मांसवत् प्रायश्चित्तज्ञापनार्थम् । स्वभावदुष्टत्वं च । ततश् चानग्नेर् अप्य् आत्मार्थत्वे दोषः । तथा च शङ्खः- “वृथाकृसरसंयावपायसापूपमांसाशनम् आहिताग्निः कृत्वा प्राजापत्यं चरेत् । त्रिरात्रम् इतरेषम्” इति ।

तथा ।

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ १.१७३ ॥

कलविङ्को ग्रामचटकः । तस्य वर्षास्व् अरण्यवासाशङ्कया पुनर्वचनम् इति केचित् । तत् पुनर् ग्रामचटकव्यपदेशाद् एवायुक्तम्, अतः स्वभावदौष्ट्यातिरेकार्थम् । ततश् च स्त्रीशूद्रयोर् अप्य् अभक्ष्यत्वसिद्धिः । ग्रामवासिमात्रोपलक्षणं चैतत् । तथा च समाचारः । अस्मिन् प्रकरणे ऽन्यान्य् अपि पुनर्वचनान्य् एवम् एव व्याख्येयानि । काकोलः श्येनः । कुररः शब्दानुकारी करञ्जकः । रज्जुदालो ऽरण्यकपोतः । खञ्जरीटाख्यो दीर्घपुच्छः पूर्वदेशप्रसिद्धः । श्लेष्मातक इत्य् अन्ये । मांसतुल्यदोषार्थं चैतद् वचनम् । जालपादा हंसादयः । पुनर्वचनं तूक्तार्थम् । ननु एवं चक्रवाकादिवचनम् अयुक्तम् । सर्वजालोपलक्षणत्वं कलविङ्कवन् मा भूद् इत्य् एवमर्थम् । अत एव चाट्या(?)दयः स्त्रीशूद्रयोर् अप्रतिषिद्धाः । खञ्जरीटान् इति बहुवचनं स्त्रीशूद्रयोर् अप्य् अभ्यक्षत्वार्थम् । हंशान् इति तु सिद्धे ऽपि दौष्ट्ये ऽन्यत्रापि बहुवचनस्यायम् एवार्थो यथा स्याद् इत्य् उक्तम् । अज्ञातवचनं दृष्टान्तार्थम् । यथैव मांसाशनाभियुक्तैर् भैक्ष्यत्वेनाज्ञाताः पशवः पक्षिणश् च मरणादिभयान् न भक्ष्यन्ते, तथा शास्त्रोक्तस्वभावदुष्टा अपीत्य् अभिप्रायः ॥ १७३ ॥

तथा ।

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् चाकामतो जग्ध्वा सोपवासस् त्र्यहं भवेत् ॥ १.१७४ ॥

बहुवचनं तूक्तार्थम् । सौनं सूनारूढदुष्टम् । वल्लूरं प्रसिद्धम् । शुक्तमांसम् इति केचित् । एतान् मत्स्यांश् च वक्ष्यमाणातिरेकेणाकामतो भक्षयित्वा सहोपवासेन त्र्यहं स्यात् । चतुरहम् एवेत्य् अर्थः । सह वा तेन त्रिरात्रम् ॥ १७४ ॥

तथा कामत एव ।

पलण्डुं विड्वराहं तु छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७५ ॥

गृञ्जनं पलण्डुसदृशम् उदीच्यदेशप्रसिद्धम् । लशुनगृञ्जनपलण्डूनां प्रायश्चित्तविधानात् प्रतिषेधकल्पना । विड्वराहादीनां तु प्रायश्चित्तार्थम् वचनम् । विड्वराहो ग्रामसूकरः । छत्राकं सर्पच्छत्रकम् । चशब्दो विड्वराहतुल्यग्रामवासिपशुप्रतिशेधार्थः । तथा चाम्नायः- “त्रयो हत्वा पशवो ऽमेध्या विड्वराह एलकश् च” इति । पाठसिद्धे त्रय इत्य् अमेध्यत्वप्रकारार्थम्- एवंजातीयका एवामेध्या न त्व् अजादय इति । तुशब्दः सर्वथा सर्ववर्णाणां चेत्य् द्य्तोतनार्थः । अप्रकरणे प्रायश्चित्ताभिधानं सर्वत्रानन्तरानुष्ठानार्थम् । यतिचान्द्रायणम् चैतत् ।

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ इति । (म्ध् ५.२०)

अयं त्व् अत्र संप्रदायः- अनग्निकाद्याश्रयदुष्टभोजने त्रिरात्रम् अकामात्, कामतस् तु प्राजापत्यम् । यथाह मनुः ।

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या (तु) त्र्यहं क्षपेत् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ इति । (म्ध् ४.२२२)

नैमित्तिकाभोज्ये ऽप्य् एतद् एव, प्रकरणाभेदात् । स्वभावदुष्टे त्व् अमत्येहोक्तं चतूरात्रम् । मत्या कृच्छ्र एव जपाद्युपबृंहितः । पलण्ड्वादीनां चामत्या यतिचान्द्रायणम् । मत्या तु पतितवचनाद् भक्षणसामान्याच् च सुरापानप्रायश्चित्तम् । तत्र “सुरायाश् चाज्ञाने” (वध् २०.१९) इत्य् एतद् वसिष्ठोक्तं कृच्छ्रातिकृच्छ्रं पुनः संस्कारश् चेति, न तु कामकृतसुरापानप्रायश्चित्तं, पतितत्वोपचारात् । एवम् आहिताग्नेर् द्विजन्मनः । इतरस्य तु “शेषेषूपवसेद् अहः” (म्ध् ५.२०) इत्य् अकामाद् उपवासः । कामतस् त्रिरात्रं, “त्रिरात्रम् इतरेषाम्” इति शङ्खवचनात् । पलण्ड्वादाव् अमत्या सान्तपनं, मत्या त्व् अतिकृच्छ्र एव, “पलण्ड्वादिभोजनेष्व् अतिकृच्छ्रः” इति वसिष्ठवचनात् (वध् १४.३३) । यद्य् अपि काकाद्यवलीढभोजने ऽतिकृच्छ्र उक्तः, तथाप्य् एवम् एव, स्मृत्यन्तरैकवाक्यत्वात् । प्रायश्चित्तप्रकरणे तु विषयकल्पनान्यायं वक्ष्यामः ॥ १७५ ॥

किं सर्वान्य् अभक्ष्यान्य् एव मांसानि । नेत्य् उच्यते ।

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्यकाः ।
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ १.१७६ ॥

भक्षणार्हा भक्ष्याः । पञ्चनखाः सेधादयः शशान्ताः । चशब्दः खड्गाद्यर्थः । यत् तु वासिष्ठं- “खड्गे तु विवदन्त्य् अग्राम्यसूकरे च” (वध् १४.४७) इति, विविधं श्राद्धादौ प्रशंसार्थं वदन्तीत्य् अस्यार्थः । तथा च “आनन्त्यं खड्गमांसेन” इत्य् आत्रेयः । पञ्चनखग्रहणं हस्त्यादिपरिसंख्यार्थम् । मत्स्येष्व् अपि सिंहतुण्डादयो भक्ष्याः, न सर्पशीर्षादयः । सिंहो दीर्घमुखो दीर्घः । तुण्डः स्थूलः स्थूलमुखः । रोहितो लोहितवर्णः । हिशब्दो हेत्वर्थः । यस्मान् मत्स्यादिमांसैर् मासवृद्ध्या पितृतृप्तिर् अभिधास्यते, तस्मान् मत्स्या भक्ष्या इति । हेत्वभिधानप्रयोजनं तु श्राद्ध एव भक्ष्यत्वज्ञापनार्थम् । तथा च मनुः- “पाठीनरोहिताव् आद्यौ” इति (म्ध् ५.१६) । अपिशब्दस् तु मत्स्यसंबद्धं पञ्चनखेष्व् अपि प्रायश्चित्तं यथा स्यात्- “सोपवासं त्र्यहं भवेत्” (य्ध् १.१७४) इति, श्राद्धे सेधादिप्राप्त्यर्थं च ॥ १७६ ॥

तथा पाठीनराजीवौ सशल्काश् च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७७ ॥

पाठीनादयः प्रसिद्धाः । तथाशब्दात् पाठीनराजीवाव् अपि श्राद्ध एव । सशल्कास् त्व् अविशेषेणैव । तुशब्दार्थश् चशब्दः । द्विजातिवचनाच् चोक्तं वक्ष्यमाणं च द्विजात्यर्थम् एव, द्विजातिभिर् अप्य् एतत् कर्तवं किम् उतान्यैर् इति । यस्माच् च सेधादिमांसं न स्वभावदुष्टं श्राद्धौपयिकम् वा, तस्माच् “छृणुध्वं मांसस्य विधिं भक्षणवर्जने” । भक्षणे वर्जनं भक्षणवर्जनम् । निर्दोषं भक्षणम् इत्य् अर्थः । भक्षणस्य वा प्राप्तस्य वर्जनम् । विधिशब्दः प्रकारार्थः । मांसवर्जने संभोधनं त्व् आदरार्थम् ॥ १७७ ॥

कः पुनर् असौ विधिर् इत्य् अत आह ।

प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया ।
देवान् पितॄंस् तथाभ्यर्च्य खादन् मांसं न दोषभाक् ॥ १.१७८ ॥

यस् त्व् अतो ऽन्यथा ।

वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ १.१७९ ॥

पूर्वश्लोके तथाशब्दद्वयात् प्रकारद्वयम् । प्राणात्यये तथा श्राद्धे प्रोक्षितम् इत्य् एकः प्रकारः । द्विजकाम्यया देवान् पितॄंस् तथाभ्यर्च्येत्य् अपरः । तत्र यथैव प्राणात्यये क्रतौ च मरणप्रत्यवायभीत्या निगोयतो भक्ष्यं, तथा श्राद्धे नियुक्तेनापीत्य् अर्थः । तथा चाह मनुः- “नियुक्तस् तु यथान्यायम्” इति (म्ध् ५.३५) । यथान्यायवचनात् तु प्रीतिव्यावृत्तिः । प्राणात्ययोपादानं च दृष्टान्तार्थत्वे ऽप्य् असिद्धस्यादृष्टान्तत्वाच् छास्त्रतश् चासिद्धत्वाद् विधीयत एव । प्रोक्षितम् अपि व्यामोहापनुत्तये प्राणात्यये चाभक्षयता पशून् आत्माविधिनैव हतः स्यात्, प्रोक्षिताभक्षणे क्रतुवैगुण्यात् । तस्मात् प्राणात्ययादेर् अन्यत्र च लोभादिना यो हन्त्य् अविधिना पशून्, वसेत् स नरके घोर इति योज्यम् । वधश् चाष्टविधः । यथाह मनुः- “अनुमन्ता विशसिता” इत्यादि (म्ध् ५.५१) । ननु अयं प्रोक्षितशब्दः प्रकृष्टसेचनम् आह । तत् कुतो विशिष्टार्थावगतिः । सत्यम् । अयम् एव त्व् असौ प्रकर्षः । यद्विधानलक्षणत्वं क्रताव् एव च तत् । द्वयं चान्यत्र कार्यं- प्रोक्षणं च कुर्यात्, प्रोक्षितं च भक्षयेद् इति । क्रतौ तु तस्य सिद्धत्वात् परार्थोपादानम् अविरुद्धम् । तथा चाम्नायः- “जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयः” इत्य् उपक्रम्य “अथैतेषां नातो ऽन्या मांसाशा विद्यते यस्य चैते भवन्ति” (श्ब् ११.७।१.१–२) इति क्रताव् एव मांसप्राप्तिम् अन्यत्र चाप्राप्तिं दर्शयन् प्रोक्षितशब्दस्य क्रत्वर्थताम् एव द्योतयति । यस् त्व् अपरः प्रकारो द्विजकाम्ययेत्यादिः, तेनाश्नन् न दोषभाक् ॥ १७९ ॥

यदि तु वर्जयेत् तदा ।

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा ।
गृहे ऽपि निवसन् विप्रो मुनिर् मांसस्य वर्जनात् ॥ १.१८० ॥

द्विजैः काम्यमानत्वाद् द्विजकाम्या अतिथिपूजा । तयोपनीतं महोक्षादि भक्षयतो न दोषः । तथा देवपित्रर्चनं श्राद्धकर्म । तत् कृत्वा शिष्टं मांसम् अश्नतः । यदि त्व् एतद् अपि वर्जयेत्, ततः सर्वान् कामान् अवाप्नोति हयमेधफलं तथा इत्यादि योज्यम् । विचित्रां चैव मांसाशनक्रियाम् आलोच्याह मनुः- “न मांसभक्षणे दोषः” इति (म्ध् ५.५६) ॥ १८० ॥

इति भक्षाभक्ष्यप्रकरणम्

**