०६ स्नातक-धर्म-प्रकरणम्

अथ स्नातकधर्मप्रकरणम्

एवं तावद् उत्तरोत्तरज्यायस्त्वेन वृत्तिसंयमो ऽभिहितो ज्ञानातिशयेनोच्छिन्नरागाणाम् । ये तु रागिणो बहुतरद्रव्यकामाः पूर्वोक्तप्रतिग्रहादिभिर् अनियतं द्रव्यम् आर्जयितुं प्रवृत्ताः, तान् प्रत्य् आह ।

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ १.१२८ ॥

नार्धकृतं स्वाध्यायम् उत्सृज्यार्थार्थम् ईश्वरम् उपेयात् । न च यतस् ततः शूद्राद् अप्रशस्ताद् वार्थम् ईहेत । न च धर्मार्थयोर् युगपत्प्रसङ्गे धर्मविरोधिनम् अर्थं परिगृह्णीयात् । तथा च आपस्तम्बेन ब्रह्महत्याप्रायश्चित्तं विरुद्धप्रसङ्गे ऽभ्यधायि- “धर्मार्थसंनिपाते ऽर्थग्राहिण एतद् एव” इति (आप्ध् १.२४.२३) । सर्वथा संतोष्य् एव सदा भवेद्, न लुब्धः स्याद् इत्य् उपसंहारः कामात्मतानिषेधार्थः ॥ १२८ ॥

निसर्गजननानुसारिणो याजनाद्याः सिलोञ्छान्ताः प्रथमे कल्पे त्व् एते । नैते ऽनुकल्पाः । अयं तु सर्वेषाम् आपत्कल्पः ।

**
राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।

सीदन्न् इति वचनाद् आपत्कल्पत्वम् । राजा क्षत्रियः, शास्त्रवर्ती च राज्यकर्ता । अन्तेवासी शिष्यः । ऋज्व् अन्यत् ॥

किं च ।

डम्भिहैतुकपाषण्डिबकवृत्तींश् च नार्चयेत् ॥ १.१२९ ॥

चशब्दो विकर्मस्थाद्यर्थः । यथाह मनुः- “पाषण्डिनो विकर्मस्थान्” इति (म्ध् ४.३०) । एतांश् च सर्वथा नार्चयेत् । तथा च मनुः- “वाङ्मात्रेणापि नार्चयेत्” इति (म्ध् ४.३०) । डम्भी धर्मव्याजजीवी । हैतुकाः कुतार्किकाः । पाषण्डिनः क्षपणकादयः । बकवृत्तिर् अतिसंधायकः, स्वार्थनिष्ठश् च । यथाह मनुः- “अधोदृष्टिर् नैकृतिकः” इत्यादि (म्ध् ४.१९६) ॥ १२९ ॥

अधुनान्यान् अप्य् अस्यैव विस्तरेण यमनियमान् आह ।

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शने ऽश्नीयान् नैकवासा न संस्थितः ॥ १.१३० ॥

यत् तु “अनियतकेशवेषा” इति, तद् आश्रितशूद्रविषयं द्रष्टव्यम् । न च भार्यादर्शने ऽश्नीयात्, तथा च कुर्याद् यथा भार्यास्य दर्शने न भुञ्जीत । यथाह मनुः-

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् । इति । (म्ध् ४.४३)

आम्नाये ऽप्य् एवम् एव- “तस्माद् इमा मनुष्याः स्त्रियस् तिर इव पुंसो जघत्सन्ति” इति । यत् तु तत्रैव “तस्माज् जायाया अन्ते नाश्नीयात्” इति । अभिगमनातिरेकेणैकशय्याशयनप्रतिषेधार्थं तत्, प्रक्रमानुसारात् । तथा च समाचारः । स्पष्टम् अन्यत् ॥ १३० ॥

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी ॥ १.१३१ ॥

स्तेनपुनर्वचनं नाकस्माद् इत्य् अनेन संबन्धार्थम् । यद् वा वर्जनार्थम् इदम् । पूर्वत्र धर्मसाधनम् इति ॥ १३१ ॥

दाक्षायणी ब्रह्मसूत्री यष्टिमान् सकमण्डलुः ।
कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १.१३२ ॥

दाक्षायणं हिरण्यं तद्वान् स्यात् । तथा च मन्त्रवर्णः-

न तद् रक्षांसि न पिशाचास् तरन्ति ।
देवानाम् ओजः प्रथमजं ह्य् एतद्,
यो बिभर्ति दाक्षायणं हिरण्यम् ॥ इति । (र्व्ख् ४.६।७अ-ब्)

ब्रह्मसूत्रपुनःश्रुतिर् मेखलादिनिवृत्त्यर्था । यष्टिस् तु दण्डकार्ये । ततश् च तत्प्रमाणैव स्यात् । सकमण्डलुर् इति सहत्वमात्रवचनान् न नियोगतः स्वयम् एव धार्यः । मत्वर्थीययोगात् तु स्वयम् एव यष्ट्यादयो धार्याः । न गृहस्थितयान्यगृहीतया वा यष्ट्या यष्टिमान् इत्य् उच्यते, सहयोगस् त्व् अन्यसंस्थे ऽपि दृष्टः । सोदकं चैतद्, दृष्टार्थत्वात् । तथा च मनुः ।

वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ इति । (म्ध् ४.३६)

धारयेद् इति च प्रयोजकत्वेनाप्य् उपपत्तेर् अन्यधारणे ऽपि कमण्डलोर् अविरोधः । देवादीनां प्रदक्षिणं कुर्यात् । देवशब्दश् चार्चनाश्रितायां तत्प्रतिकृतौ द्रष्टव्यः । मृदादीनां चाभिमुखागमने प्रदक्षिणं गच्छेत् । वनस्पतिशब्दश् च प्रज्ञातयज्ञियाश्वत्थादिवनस्पत्यर्थः ॥ १३२ ॥

किं च ।

न मेहेत नदीच्छायावर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३३ ॥

अम्बूपादानेनैव सिद्धत्वान् नदीवचनं तच्छब्दवाच्यक्षेत्राद्यर्थम् । छाया चोपजीव्यच्छाया, “नोपजीव्यच्छायासु” इति वसिष्ठवचनात् (वध् ६.१२) । तथा च मनुः ।

छायायाम् अन्धकारे वा रात्राव् अहनि वा सदा ।
यथासुखमुखः कुर्यात् प्राणाबाधभयेषु च ॥ (म्ध् ४.५१)

इति छायामात्रस्यानिषेधं दर्शयति । संध्याशब्दश् चोदयास्तमयान्वितदिक्प्रतिषेधार्थः, काले हि मेहनानुज्ञानात् । मेहनशब्दश् चोभयत्रापि मूत्रपुरीषोत्सर्गे द्रष्टव्यः । ब्रह्मचारिप्रकरणे च प्रसक्तस्याप्य् अनभिधानं सर्वाश्रमविहितम् अविरुद्धं सर्वाश्रमेषु प्रवर्तत इति ज्ञापनार्थम् । तथा च गौतमः- “उत्तरेषां चैतद् अविरोधि” इति (ग्ध् ३.१०) । चशब्दाद् आश्रमान्तरोक्तं च ब्रह्मचारिण इत्य् एतद् एवाह ।

  • ननु एवं कस्मान् न भवति- ब्रह्मचारिप्रकरणोक्तम् अन्यस्य मा भूद् इति तत्रानारम्भः । तथा च ब्रह्मचारिणो दिङ्नियम उक्ते स्नातकस्यार्काद्यभिमुखप्रतिषेधोपपत्तिः । अन्यथा तूदङ्मुखस्य कथम् आदित्याभिमुख्यं, येन प्रतिषिध्येत ।

  • सत्यम् । उक्तं तु स्मृत्यन्तरैकवाक्यत्वाद् इति । तथा च मनुना स्नातकस्यैव दिङ्नियम उक्तः । कथं तर्हि प्रत्यर्कप्रतिषेधः । दिङ्मोहादिविषयम् एतद् द्रष्टव्यम् । दिगपरिज्ञाने ऽप्य् अनियम एव सामर्थ्यात् प्रसक्तः । तत्रेदम् उच्यते- न प्रत्यग्न्यर्केति ॥ १३३ ॥

इदं चान्यत् ।

नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३४ ॥

नित्यम् एवाकस्माद् अर्कदर्शनप्रतिषेधः । न च संस्पृष्टमैथुनाम् इति । चशब्दो ऽवस्थान्तरार्थः । यथा “क्षुवन्तीं जृम्भमाणां वा” इत्यादि (म्ध् ४.४३) । सामर्थ्याच् चायं परकीयाया निषेधः । न नग्नाम् इति तु स्वकीयाया अपि । अन्यत्राविरुद्धः । अस्माद् एव च स्त्रीणां नग्नोद्वर्तनाद्य् अभ्यनुज्ञातम् । अशुचेश् च राहुनक्षत्रदर्शननिषेधान् नान्यदा दोषः । राहुवचनं चोपस्पृष्टसोमाद्यर्थम् ॥ १३४ ॥

अयं मे वज्र इत्य् एनं सर्वं मन्त्रम् उदीरयेत् ।
वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्छिरा न च ॥ १.१३५ ॥

तथा चाम्नायः- “तस्माद् वर्षत्य् अप्रावृतो न व्रजेत्” । “अयं मे वज्रः पाप्मानम् अहताद्” (पार्ग् २.७।७) इत्य् एतद् एव मन्त्रस्य कार्त्स्न्यम् । यदा वर्षति गच्छेत्, तदैवम् इति व्याख्येयम् ॥ १३५ ॥

इदं चान्यत् ।

ष्ठीवनासृक्छकृन्मूत्रविषाण्य् अप्सु न संक्षिपेत् ।
पादौ प्रतापयेन् नाग्नौ न चैनम् अतिलङ्घयेत् ॥ १.१३६ ॥

प्रशब्दो ऽभिप्रायेण नैतत् कुर्याद् इत्य् एवमर्थः । चशब्दो ऽग्नाव् अपि ष्ठीवनाद्यसंक्षेपार्थः, स्मृत्यन्तरोक्तान्य् अचोदनार्थश् च । असृग् लोहितम् । शकृत् पुरीषम् । स्पष्टम् अन्यत् ॥ १३६ ॥

किं च ।

जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन् न धर्मघ्नैर् व्याधितैर् वा न संवसेत् ॥ १.१३७ ॥

जलग्रहणात् क्षीराद्यप्रतिषेधः । उपलक्षणार्थं जलग्रहणम् इत्य् अन्ये । शयानं चाभिघ्नन् कामकारेण वा न बोधयेत् । तथा चाम्नायः- “तस्माद् उ ह स्वपन्तं धूर् इव न बोधयेत्” इति । धूर् हिंसा, तया न बोधयेत् । अभिघ्नन्न् इवेत्य् अर्थः । सर्वत्र चास्मिन् यमप्रकरणे पूर्वोक्तं नाकस्मात् कुर्याद् इति योजनीयम् । तथा चाम्नायः कारणान्तरात् कर्तव्यताम् दर्शयति- “तम् एतैर् नमभिर् आमन्त्रयां चकर” इत्य् उपक्रम्य “स नोत्तस्थौ” इत्य् उक्त्वोत्थापनविधिम् आह “तं पाणिना पेषं प्रबोधयाम् चकार” इति ॥ १३७ ॥

इदं चान्यत् ।

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १.१३८ ॥

विरुद्धं कर्माभिचारादिकं वर्जयेत् । विधानाशङ्का मा भूद् इति प्रतिषेधः । नदीतरणं बाहुभ्याम्, “न बाहुभ्याम् नदीं तरेत्” इति मनुवचनात् (म्ध् ४.७७) । नदीग्रहणं चोपलक्षणर्थम् । भस्माङ्गारयोर् गोमयकाष्ठजन्यत्वाद् भेदेनोपन्यासो ऽन्यत्रापि भेदावबोधनार्थः । ऋज्व् अन्यत् ॥ १३८ ॥

किं च ।

नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत् क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१३९ ॥

गा परकीयां नाचक्षीत । “गा धयन्तीं परस्मै नाचक्षीत” (ग्ध् ९.२३) इति स्मृत्यन्तरात् । गोश् च कर्तृत्वात् तदनिच्छया स्तनेषु तुद्यमानेष्व् आचक्षीतैव । “ईहेत न यतस् ततः” (य्ध् १.१२८) इति पूर्वनिषिद्धस्यापि राज्ञः पुनर् उपन्यासस् तत्प्रपञ्चार्थः, अतिशयनिन्दाप्रदर्शनोपोद्घातार्थश् च ॥ १३९ ॥

इदानीं तम् एव निन्दातिशयम् आह ।

प्रतिग्रहे सूनिचक्रिधजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथोत्तरम् ॥ १.१४० ॥

सूना प्राणिवधार्थं काष्ठं, तद्वान् सूनी । चक्रं वागुरा । ध्वजः शौण्डिकचिह्नम्,

ध्वजं च कुर्याच् चिह्नार्थं समया ग्रामं च संवसेत् ।
न चैवान्तावसायिभ्यः सुरां दद्याद् अनापदि ॥

इति स्मृत्यन्तरात् । वेशो रूपं मैथुनं वा, तेन जीवन्ती वेश्या । तथा च मनुः- “वेशेनैव च जीवताम्” इति (म्ध् ४.८४) । तात्पर्यं तूक्तम् एव ॥ १४० ॥

एवं तावद् अर्थप्रवृत्त्याश्रितान् यमनियमान् अभिधायाधुनाध्ययनाश्रितान् विवक्षुस् तदुपोद्घातार्थम् आह ।

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन तु ।
हस्ते वौषधिभावे वा पञ्चम्यां श्रावणस्य वा ॥ १.१४१ ॥

एवं छन्दांस्य् उपाकृत्यार्धपञ्चमान् मासान् अर्धषष्ठान् वाधीत्य ततः ।

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् द्विजः ॥ १.१४२ ॥

अष्टका चात्र माघस्य गृह्यते । तथा च पारस्करः- “पौषमासस्य रोहिण्यां मध्यमायां वाष्टकायाम् अध्यायान् उत्सृजेरन्” इति (पार्ग् २.१२.१) । एते चोपाकर्मोत्सर्गकर्मणी आचार्यस्यैव, “यावन्तं शिष्यगणम् इच्छेत्” (च्ड़्। पार्ग् २.१०.१७) इत्य् उपाकर्मणि पारस्कराभिधानात् । द्विजग्रहणं तु शिष्याभिप्रायेणानुवादः । गृह्यशास्त्रापेक्ष एव चायम् उपदेशः, विधिवद् इति वचनात् । विधिवच् चोपाकृत्योत्सृज्य चाधीयानस्याभ्यासार्थं वा वेदाख्यं ब्रह्मार्थतो ग्रन्थतो वा द्विजातिमात्रस्य ॥ १४२ ॥

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखे श्रोत्रिये तथा ॥ १.१४३ ॥

गुरुर् अत्रोपाध्यायो नाचार्यः । यथाह पारस्करः- “गुरौ प्रेते ऽपो ऽभ्यवेयात् । दशरात्रं चोपरमेत् । सतानूनप्त्रिणि सब्रह्मचारिणि त्रिरर्त्रम् । एकरात्रम् असब्रह्मचारिणि” इति (पार्ग् २.११.७–९) । एतद् अपितर्य् आचार्ये द्रष्टव्यम् । अनयैव दिशान्यत्रापि विषयकल्पना, न तु यदृच्छातः । ऋत्विक्समये तु सतानूनप्त्रवचनाद् यजमानवद् ऋत्विगन्तराणाम् अपि स्यात् । अत एव चासोमर्त्विज्य् एकरात्रम् एव । सब्रह्मचारी चैकाचार्योपनीतः । “स्वशाखे श्रोत्रिये तथा” इति । श्रोत्रियो मन्त्रब्राह्मणाध्यायी । यद् वा स्वशाखाध्यायिनि श्रोत्रिये चेति भेदः । स्रोत्रियशब्दश् च वेदपारगाद्यर्थः । अन्यत्र तु एकरात्रम् एव । तथाशब्दश् च स्मृत्यन्तरोक्तानध्यायप्रकारसंग्रहार्थः । यथाह गौतमः- “अन्तरा गमने श्वादीनां त्र्यहम् उपवासो विप्रवासश् च” इत्यादि (ग्ध् १.५८–५९) । स्पष्टम् अन्यत् ॥ १४३ ॥

तथा ।

संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ १.१४४ ॥

द्युनिशम् अहोरात्रम् । तच् च व्यवस्थया । सायं संध्यागर्जिते निशायाम् एव, “प्रतर् दिवैव वर्षासु अन्यदा तु समुच्चयः, संध्यागर्जिते चापर्ताव् अहोरात्रम्” इति स्मृत्यन्तरात् । अत्र चोपरिष्टाद् द्युनिशम् इति प्रकृते ऽप्य् अहोरात्रम् इति वचनात् ॥ १४४ ॥

तथा च ।

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य वा ॥ १.१४५ ॥

द्युनिशम् इति वर्तते । पञ्चदशी च पक्षापेक्षयामावास्यापि गृह्यते । तथा च “वाते ऽमावास्यायां सर्वानध्यायः” इति पारस्करः (पार्ग् २.११.१) । श्राद्धार्थम् आमन्त्रणं श्राद्धिकं, तद् आलभ्याप्य् अनध्यायः । आमश्राद्धार्थो वायम् आरम्भः, “पाण्यास्यो हि द्विजः स्मृतः” (म्ध् ४.१७७) इति वचनात् । तथा च वाशबश् चशब्दार्थे, भुक्ताभुक्त्वा चेति । यत् तु राहुसूतके त्रिरात्रं, तद् ग्रहनार्थे ऽध्ययने न धारणार्थे । अन्ये ऽपि चात्र गुरवः कल्पस्वपरशाखाग्रन्थार्थभेदेन ग्रहणार्थतयैव कल्प्याः । तथा च धारणाभिप्रायेणैवाह मनुः-

द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः ।
स्वाध्यायभूमिं चाशुद्धाम् आत्मानं चासुचिं द्विजः ॥ इति । (म्ध् ४.१२७)

आम्नायश् च “तस्माद् एव विद्वान् विद्योतमाने स्तनयत्य् अवस्फूर्जत्य् अधीयीतैव” (श्ब् ११.५।६.९) इति धारणार्थ एव, ब्रह्मयज्ञे ऽनध्यायासंभवात् ॥ १४५ ॥

पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ।
कृते ऽन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४६ ॥

तुशब्दो ऽवधारणार्थः । अहोरात्रम् एव, न पूर्ववद् व्यवस्था । पशुः छागः, “मेषकस् ते पशुः” इति मन्त्रवर्नात्, स्मृत्यन्तरे च मेषकोपदेशात् । स्पष्टम् अन्यत् । अन्यः पाठः- “महोत्सवे” इति । एवं च महानवम्यादाव् अहोरात्रम् । यत् तूक्तम्- “भोजनाद् ऊर्ध्वम् उत्सवः” इति, उत्सवमात्रविषयं तत् । शक्रोच्छ्रये तु स्मृत्यन्तरात् ॥ १४६ ॥

श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.१४७ ॥

क्रोष्टा सृगालः । बाणो वीणा । अन्त्यो ऽपशदः । शूद्रवचनाद् एव दण्डापूपवद् अन्त्यप्राप्तौ तद्वचनम् आश्रितशूद्रनिवृत्त्यर्थम् । मेध्यदेशस्थस्याप्य् अमेध्यसमीपे श्मशानसमीपे वानध्यायः । अमेध्यवचनात् सिद्धे श्मशानवचनं दूरतरवर्जनार्थम् । तथा च आपस्तम्बः- “श्मशाने सर्वतः शम्याप्रासान् नाधीयीत” इति (आप्ध् १.९।६) ॥ १४७ ॥

तथा ।

देशे शुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥ १.१४८ ॥
पांसुवर्षे दिशां दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ १.१४९ ॥

नीहारो धूमिका ॥ १४८, १४९ ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् विदुः ॥ १.१५० ॥

सङ्ख्यावचनं विद्युत्संप्लवे स्तनितसंप्लवे भुक्त्वैवार्द्रपाणिः खरारोहणे उष्ट्रारोहणे यानारोहणे नावारोहण इत्य् एवमादिविवेकार्थम् । श्वनादाद् आरभ्य इरिणरोहणान्तास् तात्कालिकाः, यावद् आरूढस् तावद् एव भवतीति । इरिणम् ऊषरम् । एतान् विदुर् इति परमतोपन्यासार्थम् । ततश् च स्मृत्यन्तरोक्तान् अप्य् अनध्यायान् अन्विष्य विधिवत् कुर्याद् इत्य् अभिप्रायः ॥ १५० ॥

शिष्टागमने ऽनध्याय उक्तः । तत्र सूद्रादिमध्यपाठाद् अन्यः कश्चिच् छिष्टो ऽप्य् अलौकिको ऽश्राव्य इत्य् आशङ्कानिवृत्त्यर्थम् आह ।

देवर्त्विक्स्नातकाचार्यराज्ञां छयां परस्य च ।
नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥ १.१५१ ॥

छायाशब्दो हि ख्यातिवचनः । यथा- महती छाया देवदत्तस्येति । अतो देवादीनां छायाम् नाक्रामेत् । तत्र यथैवर्त्विगाद्यागमने स्नेहान् मधुपर्काद्याकुलत्वाच् चानध्यायः, एवं परस्मिन्न् अपि प्रकृष्टगुणे ऽनध्याय इत्य् अर्थः । तथा चाम्नायः- “य उ हैवंवित् स्वेषु प्रतिबुभूषति, स हैवालं भार्येभ्यो भवति” इत्यादि (बाउ १.३।१८) । “य उ हैवम्विदा स्पर्धते, सो ऽनुशुष्येहैवान्ततो म्रियते” इति (बाउ १.५।२१) । देववचनम् अतिस्तुत्यर्थम् । रक्तादीनां त्व् अभिभवाभावाद् अधिष्ठानप्रतिषेधः । रक्तं रुधिरम् । विट् पुरीषम् । स्पष्टम् अन्यत् । अनध्यायसंनिधेश् चैतद् व्यतिरेकेणैव देशस्यामेध्यत्वं पदोपघातादिना । ततश् चोपलिप्तादाव् अध्ययनसिद्धिः । अन्ये तु देवादीनाम् अपि शरीरच्छायानधिष्ठानम् एवेच्छन्ति । तत् पुनर् विचार्यम् ॥ १५१ ।

ननु एवं सत्य् अप्रकृष्टे ऽप्य् आगते ऽनाध्यायः पूजा वा प्रसज्येत, “सर्वस्याभ्यागतो गुरुः” इति वचनात् । मैवम्

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आ मृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥ १.१५२ ॥

विप्रक्षत्रियशब्दौ पूर्वश्लोकानुवादाच् छिष्टपार्थिववचनौ । अहिशब्दो दृष्टान्तार्थः । यथैवाहिर् नावज्ञेय उत्कृष्टब्राह्मणराजानौ च, तथैवात्मापि । अतो न यं कंचिद् अपेक्ष्यात्माभ्युत्थानानध्यायादिना न्यक् कर्तव्यः । श्रोत्रियस्यैव तत् कर्तव्यम् इत्य् अर्थः । तथा चाह मनुः ।

विद्वद्भोज्यान्य् अविद्वांसो येषु राष्ट्रेषु भुञ्जते ।
तान्य् अनावृष्टिम् इच्छन्ति महद् वा जायते भयम् ॥ इति । (म्ध् ?)

आत्मलाघवाकरण एव हेतुम् आह “आमृत्योः श्रियम् आकाङ्क्षेत्” इति । इदं त्व् अविशेषेणैव कुर्यात् “न कंचिन् मर्मणि स्पृशेत्” इति । अन्या व्याख्या “विप्रादिमात्रस्यैवावज्ञा न कार्या” इति । तथा च भगवान् वासुदेवः ।

विद्वान् अविद्वान् अशुचिं शुचिं वा
यो ब्राह्मणं न प्रणमेद् यथार्हम् ।
स पापकृद् ब्रह्मदवाग्निदग्धो
दण्ड्यश् च वध्यश् च न चास्मदीयः ॥ इति ।

तत् पुनर् वक्ष्यमाणत्वाद् अकिंचित् ॥ १५२ ॥

इदानीं मानप्रसङ्गाद् गृहदेवतानां मानार्थम् आह ।

दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।

गृहदेवतानां मानार्थम् । गृहाद् इति शेषः ॥

श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ १.१५३ ॥

“प्रदर्शनार्थम् इदं मयोक्तम्” (च्ड़्। य्ध् ३.२१७), अन्यद् अपि श्रुतिस्मृत्यन्तरेभ्यश् चान्वेष्यम् इत्य् अभिप्रायः ॥ १५३ ॥

इदं चान्यन् मानप्रसङ्गाद् एव ।

गोब्राह्मणानलान्नानि नोच्छिष्टो न पद स्पृशेत् ।

अनलो ऽग्निः । अन्नं भुज्यमानं पक्वम् आमं वा ।

किं च ।

न निन्दाताडने कुर्यात्

प्रकृतेभ्यो गवादिभ्यः।

अस्यापवादः ।

                                > **सुतं शिष्यं च ताडयेत् ॥ १.१५४ ॥**

चशब्दान् निन्देच् च । पत्न्याद्यर्थो वा चशब्दः । संनिधानान् निन्द्यत्वावगतेः ॥ १५४ ॥

अयं त्व् अत्रोपदेशसंक्षेपः ।

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।

नार्थकामाव् इति शेषः ।

अस्यापवादः ।

अस्वत्तं लोकविद्विष्टं धर्मम् अप्य् आचरेन् न तु ॥ १.१५५ ॥

अनेकार्थत्वाद् धातूनाम् अदेर् गत्यर्थत्वम् । अस्वत्तम् असुगतम् । असुपरिनिश्चितम् इत्य् अर्थः । अन्यः पाठः- अवन्तम् इति । तस्याप्य् अयम् एवार्थः । अस्वन्तम् अशोभनान्तम् । अन्ते न शोभनम्, अनिश्चितत्वाद् इति । तस्यैव निगमनं- लोकविद्विष्टम् इत्यादि । तुशब्दो ऽवधारणार्थः । अन्ये त्व् अस्वन्तं रूढ्यैव धर्मान्तरविरोधिनम् आचक्षते । यथा स्वाध्यायातिशय इति । तत् त्व् अन्वेष्यम् । लोकविद्विष्टं सर्वजनानभ्युपगतं गोवधादीति केचित् । तत् त्व् अयुक्तं, विधानानर्थक्यात् । अतो लोकं कर्मसाध्यं ये जानन्ति, ते लोकविदो मन्वादयः, तैर् द्विष्टं नाचरेत् । उ(त्प ? पप)न्ने ऽप्य् अयं धर्म इति स्वयम् अभिमानेन मन्वादिभिर् निन्दिते न प्रवर्तेतेत्य् अर्थः । अद्विष्टे त्व् अविरुद्धा प्रवृत्तिः ॥ १५५ ॥

मान्यप्रसङ्गाद् अन्यद् अप्य् आह ।

मातृपित्रतिथिभ्रातृज्ञातिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १.१५६ ॥
ऋत्विक्पुरोहितामात्यभार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ १.१५७ ॥

तस्माद् एतैर् विवादं न कुर्याद् इति शेषः । एषां च प्रत्येकं विवादकरणनिमित्तभेदाद् दण्डापूपवद् गतार्थत्वप्रसङ्गपरिहारः ॥ १५६, १५७ ॥

इदं चान्यत् परिभवाकरणप्रसङ्गाद् उच्यते ।

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु ।
स्नायान् नदीदेवखातह्रदेषु च सरस्सु च ॥ १.१५८ ॥

यदि परखातेष्व् अनुद्धृत्यैव कर्दमं स्नायात्, ततस् तत्कर्ता परिभूतः स्यात् । अतस् तदनुरोधाद् अपि तावत् कर्दमोद्धरणं युक्तम् इत्य् अभिप्रायः । अयं च नद्याद्यभावे स्नानकल्पः । चशब्दः प्रस्रवणाद्यर्थः ॥ १५८ ॥

मान्यप्रसङ्गाद् अन्यद् अप्य् आह ।

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तानि

अदत्तानीति च्छेदः । परशब्दः प्रकृष्टार्थः । तदीयान्य् असाधारणानि शय्यासनक्रीडोद्यानवासगृहादीनि नाधितिष्ठेत् । अदत्तानीति वचनाद् अनुज्ञातो ऽधितिष्ठेद् इति गम्यते ॥

किं च ।

अग्निहीनस्य न चाश्नीयाद् अनापदि ॥ १.१५९ ॥

प्रकृष्टस्याप्य् अनौपासनस्य चान्नं न चाश्नीयात् । चशब्दाद् वक्ष्यमाणदोषयुक्तस्य च । अन्ये त्व् अन्यमात्रवचनं परशब्दं वर्णयन्ति, अदत्तानि न चाश्नीयाद् इत्य् अनेन च योजयन्ति । तत् पुनर् विचार्यम् ॥ १५९ ॥

इदानीम् अन्यान् अपि प्रसङ्गाद् अभोज्यान्नान् आह ।

कदर्यबद्धचोराणां क्लीबरङ्गावतारिणाम् ।
वेनाभिशस्तवार्धुषिगणिकागणदीक्षिणाम् ॥ १.१६० ॥

एषाम् अन्नं नाश्नीयाद् इति शेषः । कदर्यस् तृष्णालुः । बद्धो निगलादियन्त्रितः । चोरः प्रसिद्धः । रङ्गावतारी मल्लः । वेनो नटः । अभिशस्तो महापातकादिव्याजदूषितः ।वार्धुषी समर्घधनम् आदाय महार्घधनविक्रेता । गणिका दासी । गणः परिषत् । दीक्षितः प्राग् अग्नीषोमीयात् । द्विजातयो ऽप्य् एवमादिकर्मदूषिता न भोज्यान्नाः ॥ १६० ॥

तथा ।

चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यडाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६१ ॥

चिकित्सको वैद्यः । आतुरो ऽसमाधेयरोगी । क्रुद्धो नित्यक्रोधनः । पुंश्चली प्रजननेन्द्रियप्रधाना । मत्तो धनमदाद्यभिभूतः । विद्विट् शत्रुः । क्रूरो ऽन्तराशयकठिनः । उग्रः प्रसह्यकारी । पतितो महापातकी, अभिशतवचनात् सिद्धस्याप्य् अभिधानं प्रायश्चित्तगौरवार्थम् । अन्यत्राप्य् एवं द्रष्टव्यम् । व्रात्यः पतितसावित्रीकः । डाम्भिक उक्तः । उच्छिष्टभोजी शूद्रः ॥ १६१ ॥

अवीरस्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतुन्नवायश्ववृत्तिनाम् ॥ १.१६२ ॥

अपुत्रपतिकाविरस्त्री । स्वर्णकारस्त्रीजितौ प्रसिद्धौ । ग्रमयाजको वैश्वदेविक इति मालवानां प्रसिद्धः । कर्मारो भस्त्रेरिमकः (?) । तुन्नवायः सीवनवृत्तिः । श्ववृत्तिः पादप्रक्षालनादिहीन(कया? क्रिया)सेवकः श्वकण्ठको वा ॥ १६२ ॥

नृशंसराजरजककृतघ्नवधजीविनाम् ।
चेलधावसुधाजीवसहोपपतिवेश्मनाम् ॥ १.१६३ ॥

नृशंसो ऽनुदारपाठकः (?) राजविशेषणं वा । राजा पार्थिवः । रजकश् चिम्पकः । कृतघ्नः प्रसिद्धः । वधजीवी मारकश् चाटः । चेलधावो वस्त्रनिर्णेजकः । सुधा देवकुलादीनां संस्कारद्रव्यं, तया जीवति यः स सुधाजीवः । सह उपपतिना वेश्म यस्य स सहोपपतिवेश्मा । उपपतिर् भार्याजारः । वेश्मसंबन्धितया स्नुषाजारो ऽपि गृह्यते ॥ १६३ ॥

य एते उक्ताः कदर्यादयः ।

एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ।
पिशुनानृतिनोश् चैव तथा चाक्रिकवन्दिनाम् ॥ १.१६४ ॥

एषां कदर्यादीनाम् । न केवलं गृहे नाश्नीयात्, तदीयम् अन्नम् अप्य् आहृतं न भुञ्जीत, न च प्रतिगृह्णीयाद् इति, आरम्भसामर्थ्यात् । एषाम् इति वचनाद् अनग्निकस्यान्नं गृहानीतं प्रोक्षणादिभिः संस्कृत्य भोक्तव्यम् । यथा च कदर्यादीनां सोमविक्रय्यादीनाम् अपि तथा । सोमविक्रयी लतासोमस्य विक्रेता यज्ञफलविक्रेता वा । सोमशब्दश् च कर्ममात्रोपलक्षणार्थः । पिशुनः खलो मर्मसूचकः । अनृती परोपद्रवप्रसङ्गे ऽनृतवक्ता । चाक्रिकः पाटहिकः । वन्दी नग्नाचार्यः । तथाशब्दः स्मृत्यन्तरोक्ताभोज्यान्नपरिग्रहार्थः । यद् वा, एषां अन्नं न भोक्तव्यं, न त्व् अप्रिग्राह्या अप्य् एत इति मन्तव्यम् । अन्नप्रतिषेधात् फलमूलादेर् आहृतस्याभ्यनुज्ञा । तथाह वसिष्ठः- “एधोदकयवसमूलफल-मध्वभयाभ्युद्यतयानावसथशफरीप्रियङ्गुस्रग्गन्धमांसन्य् एषाम् अपि प्रतिगृह्णीयात्” इति (वध् १४.१२) । निन्दार्थो वायम् आरम्भः । नैषाम् अन्नं न भोक्तव्यम् एव । किं तर्हि भुक्तम् अपि भोक्तारम् एव भक्षयतीत्य् अर्थः । सर्वव्याख्याविकल्पाश् चान्यत्रापि शास्त्रान्तरापेक्षया विविच्य व्यस्तसमस्तत्वेनालोच्योपादेया हातव्या वा इति । एवं चशब्दादयो ऽपि क्रमभेदानर्थकत्व(त्वादि)शब्दान्तरार्थत्वपादपूरणार्थत्वेन वा यथास्थानं योजनीयाः ॥ १६४ ॥

इति स्नातकधर्मप्रकरणम्

**