०५ गृहस्थ-धर्म-प्रकरणम्

अथ गृहस्थधर्मप्रकरणम् ।

**

एवं तावद् गृहस्थधर्मम् उक्त्वा, इदानीं गृहस्थस्यान्वाहिकं विवक्षुस् तन्मूलभूताग्निनियमायाह ।

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९६ ॥

दृष्टान्तार्थं श्रौतवचनम् । यथैव श्रौतम् अग्न्यन्तरे क्रियमाणम् अकर्मैव स्याद्, एवं स्मार्तम् अक्षतहोमान्नपाकादि । वैवाहिकश् चाग्निश् चतुर्थ्युत्तरकालम्, तेनैव पत्न्यर्थावाप्तेः, पत्नीवतश् चाधिकारात् । दायविभागकालाहृते वा । अपिशब्दात् कालान्तराहृते ऽपि । यथा विद्यमानपत्नीकस्य पत्न्यन्तरमरणे । पत्न्यन्तरोत्पादे तु वैवाहिकवचनाद् एव सिद्धिः । तथा च गौतमः- “भार्यादिर् अग्निर् दायादिर् वा” इति (ग्ध् ५.७) । ननु आधानाधिकृतस्यायं कालविधिः । , विद्यमानाग्नेः पत्न्यन्तरोत्पादमात्रेणाधिकारः । तस्या एवाधिकार इति चेत्, न, सहत्वासंभवात् । तदनुरोधात् सहत्वापत्तिर् इति चेत्, न, अग्निमत्त्वात्, तत्त्यागासंभवाच् च । ननु एवम् अपि मध्यकं द्रव्यं कथम् इवैकस् त्यक्तुं क्षमः स्यत् । मैवम् । यथैव रजस्वलायां पत्न्याम् एकाक्य् एव यजमानस् त्यजेद् वचनात् तदनुज्ञामात्रेण, एवम् अत्रापीत्य् अदोषः । तथैव चासौ कारयितव्या, यथात्मीयसंबन्धं न विरोधाय कुर्यात् । यद् वा द्रव्याभाव एवास्याः, कुतः । अस्माद् एवानधिकारात् । मैवम् । न हि क्रत्वर्थं द्रव्यार्जनं, पुरुषार्थम् एव । तच् चानधिकारे ऽप्य् अव्याहतम् एव । “भसदाहवा एताः परगृहाणाम् ऐश्वर्यम् अवरुन्धते” इति श्रुतेः । अधिकारानपेक्षो हि द्रव्यसंबन्धः । सत्यम् । स तु पूर्वतरज्येष्ठाया एव । तदतिक्रमाच् च परिणीताप्य् अस्वामिन्य् एव, वेश्यावत् । ननु अधिवेदननिमित्ते सत्य् ऊढा कथम् इत्वास्वामिनी स्यात् । उच्यते । द्विविधं ह्य् अधिवेदनम्, धर्मप्रजापायरूपत्वात् । तत्र धर्मापाये परैव स्यात्, न पूर्वा । प्रजापाये तु कुतो धर्माधिकारः । अत्रोच्यते । अहो सूक्षमदर्शित्वम् आचार्यवतः । धर्मप्रजापायावधिवेदनं प्रयुञ्जाते । न त्व् अधिविन्नायास् तादर्थ्यम् आपादयतः, प्रमाणाभावाद्, अन्यद् धि तादर्थ्यम् अन्या च प्रयुक्तिर् यतः । तत्र “अन्यतरापाये दारान् कुर्वीत” इति स्मृतेर् अर्थः । दारत्वाच् च तदुद्देशविहितं द्रव्यादि कथम् इव न स्यात् । अतो नास्वामित्वम् । यत् तूक्तं तदनुज्ञयैव करणम् इति । तद् अप्य् असत्, पूर्वाग्निविनाशात् । कुतो विनाश इति चेत्, कारकत्वापायात् । पत्नीयजमानयोर् हि कारकैक्यं वा स्यात्, भेदो वा । द्विधापि च द्रव्यान्तरोपादानाद् विनाशः, अग्नीषोमवत् । ननु अयं दोषः कारकानुप्रवेशे सति स्यात् । वयं त्व् अनुप्रवेशम् एव वारयामः । अपायस् तु सिद्धे कारकत्व इति वैषम्यम् । मैवम् । न शक्यः स्वेच्छामात्रेणानुप्रवेशः फलोत्साहाविशेषात् प्रसज्यमानो वारयितुम् । यदि हि कर्तृत्वपूर्वो ऽधिकारः स्यात्, ततस् तदनुपपत्त्या वार्येतापि । अधिकारपूर्वके तु कर्तृत्वे दुर्निवारो ऽनुप्रवेशः । ततश् च पूर्वकारकविनाशात् तदाहिताग्निविनाशः । ततश् च सिद्धो निमित्तान्तराभावाद् विवाह एव पुनर् अग्न्युत्पादः । तथा च न्यायमूलैव स्मृतिः- “आहृतोढायां पुनर् आदधीत” इत्य् अलम् अत्यभिधानेन । अतश् चापिशब्दः कालान्तरार्थः । यथोक्तम् अस्माभिः ॥ ९६ ॥

अयं चान्यस् तद्धर्मः ।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः ।
प्रातः संध्याम् उपासीत दन्तधावनपूर्विकाम् ॥ १.९७ ॥

दन्तधावनविध्यर्थ एवायं श्लोकः, अन्यस्य ब्रह्मचार्युक्तस्यैवानुवादात्, तत्प्रकरणोक्तस्यानिषिद्धस्य सर्वाश्रमसाधारण्यात् । श्लोकाक्षराण्य् ऋज्वर्थान्य् एव । यत् तु “रजस्वलो जटिलः पङ्कदन्त उष्णीषी शिखी वदति सत्यम् एव” इति (च्ड़्। आप्ध् १.७।११), तद् अमावास्यादिविषयम्, तत्रैव सत्यवचननियमात् । तथा च श्रुतिः- “पङ्कदन्तो यजति” इति । एवं व्यासः ।

दन्तकाष्ठम् अमावास्यां मैथुनं च चतुर्दशीम् ।
हन्ति सप्तकुलं तात तैलग्रहणम् अष्टमीम् ॥ इति ।

द्वितीया चात्र सप्तम्यर्थे द्रष्टव्या ॥ ९७ ॥

किं चान्यत् ।

हुत्वाग्नीन् सूर्यदेवत्याञ् जपेन् मन्त्रान् समाहितः ।
वेदार्थान् अधिगच्छेत शास्त्राणि विविधानि च ॥ १.९८ ॥

जपकर्मणो दीर्घकालत्वाद् धोमस्य कालबाधो मा भूद् इत्य् आरम्भः । वेदार्थान् मन्त्रब्राह्मणव्याख्यानानि । शास्त्राणि व्याकरणादीनि । चशब्दो विद्यान्तरार्थः । अनेन चानिर्वृत्ताखिलधर्मज्ञानस्यापि गार्हस्थ्याधिकार इति ज्ञापितं भवति । यद् वा, ज्ञातवेदशास्त्रस्यैवायं धारणार्थो विधिः । तथा च व्यासः- “ज्ञातवेदार्थतत्वेन” इति ॥ ९८ ॥

इदं चान्यत् ।

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ १.९९ ॥

योगो ऽलब्धलाभः । लब्धपरिपालनं तु क्षेमः । तदर्थम् ईश्वरम् उपेयाद् इति । अनेनैतद् दर्शयति- न पर्याप्तधनस्यैव कर्मप्रवृत्तिः । किं तर्हि प्रवृत्तकर्मणो ऽप्य् अन्वहं द्रव्यार्जनम् इति । अत एव च सर्वादाव् (?) अग्न्याहरणोपदेशः । योगाद्यर्थवचनाच् चाद्रव्यस्यैवायं विधिर् ज्ञेयः । किं च । स्नात्वा देवान् पितॄंश् च तर्पयेद् उदकेन । अर्चयेत् पुष्पाद्युपहारैः । चशब्दाद् ऋषींश् च । स्नात्वैवेति सुखार्थस्याप्य् अयम् एव काल इत्य् एवकारार्थः । तथेति दक्षिणामुखः पितृतीर्थेन भूमाव् असौ तृप्यत्व् इत्य् एवमादिप्रकारार्थः ॥ ९९ ॥

किं चान्यत् ।

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञार्थसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०० ॥

वेदाद्यर्चनानन्तर्यप्रदर्शनार्थं पूर्वम् एवायं जपयज्ञ उक्तः । भेदेनाथर्वग्रहणं छन्दःसमाधानार्थं वेदत्वे ऽपि । किं च विद्यां चाध्यात्मिकीं ब्रह्मविद्याम् उपनिषल्लक्षणाम् जपेत् । तथा च गौतमः- “उपनिषदो वेदान्ता इति पापक्षपणाय” इत्य् आह (च्ड़्। ग्ध् १९.१२) । ऋज्व् अन्यत् ॥ १०० ॥

इदानीं गृहस्थस्यासाधारणान् महायज्ञान् आह ।

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १.१०१ ॥

मखो यज्ञः । बलिकर्मादयो भूतादीनां क्रमेण पञ्च महायज्ञाः । कार्या इति शेषः । तथा चाम्नायः- “पञ्चमहायज्ञास् तन्य् एव महासत्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः” इति (च्ड़्। ब्ध् २.११.१) । “अहर् अहर् भूतेभ्यो बलिं हरेत्” इत्यादिप्रत्यक्षश्रुत्युक्तानाम् अपि स्मार्तत्वप्रसिद्ध्यर्थो ऽस्य विधिः, “कर्म स्मार्तं विवाहाग्नाउ” इति वचनात् (य्ध् १.९६) ॥ १०१ ॥

अग्न्यनपेक्षत्वात् तु ब्रह्मयज्ञः कामं प्रवर्तेत । भूतपितृयज्ञयोर् अप्य् अग्न्यनपेक्षत्वात् प्रवृत्तिप्राप्ताव् आह ।

देवेभ्यश् च हुताद् अन्नाच् छेषाद् भूतबलिं हरेत् ।
अन्नं भूमौ श्वचण्डालवयोभ्यश् चैव निक्षिपेत् ॥ १.१०२ ॥

यस्माद् देवेभ्यो हुतशेषाद् बलिकर्म तदन्तर्गतश् च पितृयज्ञः स्वधाकारोपदेशात् । तस्माद् अग्न्यभावे तयोर् अप्रवृत्तिः । सर्वं चैतद् गृह्याद् विशेषतो ऽवगन्तव्यम् । अन्नं चास्मिन्न् एव काले श्वचण्डालादिभ्यो बहिर् भूमौ निक्षिपेत् । क्रमविधानार्थश् चकारः । एवकारो ऽतिथिदानाद् अपि पूर्वकरणाद् विचिकित्सानिवृत्त्यर्थः । वैश्वदेवार्थपाकसंबन्धाच् चानग्निकस्याप्रवृत्तिः । केचित् तु तस्माद् एव पात्रस्थाद् अन्नाद् देवेभ्यो हुत्वा शेषाच् च बलिकर्म कृत्वा यच्छिष्टम् अन्नं तद् बहिर् निक्षिपन्ति । तत् तु बलिकर्मणि पात्रप्रक्षालनोपदेशाद् अनादृत्यम् । अत्रापि च पुनरन्नवचनम् अन्योपादानार्थम् ॥ १०२ ॥

एवं वायसादिदानान्तं कर्म कृत्वा ततः ।

अन्नं पितृमनुष्येभ्यो देयम् अप्य् अन्वहं जलम् ।
स्वाध्यायं चान्वहं कुर्यान् न पचेद् अन्नम् आत्मनः ॥ १.१०३ ॥

“अन्नं पितृमनुष्येभ्यो देयम्” इत्य् अनेन हन्तकारस्योभयार्थस्य विधानम् । स्वधाकारातिथिसत्कारयोर् महायज्ञत्वेन पूर्वत्रैव विहितत्वाद् धन्तकाराख्यम् अन्नदानान्तरम् एव पितृमनुष्यार्थं विधीयते । तथा च पारस्करः- “उद्धृत्यान्नं ब्राह्मणायावनेज्य दद्यात्” (पार्ग् २.९।११) इत्य् उभयार्थत्वम् एवावनेज्येति लिङ्गाद् दर्शयति । किं च । अप्य् अन्वहं दद्याज् जलं, पितृमनुष्ययज्ञनिर्वृत्त्यर्थम् । न तु हापयेद् इति शेषः । तथा चाम्नायः- “अहर् अहर् दद्याद् ओदपात्रात्” इत्यादि । यद् वा । अपिशब्दः समुच्चयार्थः । जलम् अप्य् अन्वहं दद्यात् । किं च स्वाध्यायं च ब्रह्मयज्ञम् अन्वहं कुर्यात् । चशब्दाद् भूतयज्ञादींश् चेति योज्यम् । ब्रह्मयज्ञादिपुनःश्रुतिश् चान्वहं कुर्याद् इत्य् एवमर्थम् । तेन चाभ्यर्हितत्वात् कर्मान्तराशक्ताव् अप्य् एषाम् अनुष्ठानम् । किं च । न चात्मार्थम् अन्नं पचेद् इत्य् अनेन वैश्वदेवार्थतैव पाकस्येति ज्ञाप्यते । ततश् च स्मार्तत्वाद् औपासन एव भवति । तथा च मनुः- “पक्तिं चान्वाहिकीं गृही” (म्ध् ३.६७) इत्य् अत्रैव पक्तिम् आह । आम्नायश् च- “स यत्र सुरान् यजते तेन मनुष्या भुञ्जते” इति पक्त्यर्थतां दर्शयति । प्रतिषेधमात्रं त्व् अप्रकृतम् एव स्यात् । ततश् चानग्निकस्यात्मार्थम् अपि पचतो न दोष इति स्थितम् ॥ १०३ ॥

एवं पितृमनुष्येभ्यो हन्तकारं निर्वर्त्य, ततः ।

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥ १.१०४ ॥

संशब्दो यथार्हभोजनार्थः । यथाह पारस्करः- “बालज्येष्ठा गृह्या यथार्हम् अश्नीयुः” इति (पार्ग् २.९।१३) । ऊढा दुहितरः स्ववासिन्यः । तद्वचनाद् एव दण्डापूपवद् बालवचनाद् वा कन्यकाप्राप्तौ पुनर्वचनं स्ववासिनीनां तत्रानियमज्ञापनार्थम् । गर्भिणीवचनं पत्न्यर्थम् । आतुरग्रहणं तु स्वयम् अप्य् आतुरः पूर्वम् अश्नीयाद् इत्य् एवमर्थम् । अतिथिवचनं दृष्टार्थम् । चशब्दो ऽभ्यागतार्थः । एवं सर्वान् भोजयित्वा दम्पत्योः पश्चाच् छेषभोजनम् । यद् वा । सर्वोपयोगे पुनःपाकप्रयुक्तिनिवृत्त्यर्थम् । तथा च स्मरणम्- “सर्वोपभोगे न पुनःपाकः” इति । अन्योन्यं तु दम्पत्योः क्रमानियमः । पत्नी वा पश्चात् । तथा च पारस्करः- “पश्चाद् गृहपतिः पत्नी च । पूर्वो वा गृहपतिः” (पार्ग् २.९।१४) इति ॥ १०४ ॥

इदानीं भोजनप्राप्तौ नियमायाह ।

अपोशानेनोपरिष्ठाद् अधस्ताद् अश्नता तथा ।
अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥ १.१०५ ॥

प्राप्तस्यैवापोशानस्य तथाशब्दः प्रकारार्थः भोजनाङ्गम् आचमनान्तरं विदधाति । अत एव चानग्नवचनेन श्रुतिम् अनुकरोति- “तस्यो मे किम् अन्नं किं वासः” इति प्रकृत्य “तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्ति । अशित्वा चाचामन्ति । अमृतम् एव तद् अन्नम् अनग्नं कुर्वन्तो मन्यन्ते । तस्माद् एवंविद् अशिष्यन्न् आचामेद् अशित्वा चाचामेत्” (च्ड़्। बाउ ६.१।१४) इत्य् उभयत्राचमनम् एव दर्शयति । आचमनमात्राङ्गतया च गुणविधानात् साङ्गम् एव तत् स्यात् । लौकिकास् तु नित्यत्वात् प्रधानमात्रक्रियात एव कृतित्वं मन्यमानाः सकृद् अब्भक्षणमात्रं कुर्वन्तीत्य् अवसेयम् ॥ १०५ ॥

अतिथिसत्कार उक्तः । कः पुनर् अतिथित्वे ऽधिक्रियत इत्य् अत आह ।

अतिथित्वे ऽपि वर्णेभ्यो देयं शक्त्यानुपूर्वशः ।
अप्रण्ōद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ १.१०६ ॥

आतिथ्यनिमित्ते यद् दानं, तद् वर्णेभ्य एव नापशदेभ्य इत्य् अर्थः । तत्रापि वर्णतो गुणतश् चानुपूर्व्येणेति व्याख्येयम् । प्रसङ्गात् तु सायंकालीनोपदेशः ॥ १०६ ॥

हन्तकारदानानन्तरम् एव च ।

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ।
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०७ ॥

भिक्षुशब्दो ऽयं भिक्षुकाश्रमिवचनः सुव्रतशब्दस् तु निश्चितव्रतत्वात् परमहंसाभिप्रायः । तस्य चैकभैक्षत्वाद् भेदेनोपन्यासः । चशब्दश् चादरातिशयद्योतनार्थः, अन्यभिक्षुकग्रहणार्थो वा स्यात् । आनृशंस्यार्थं सख्यादींश् च स्वभोजनकालागतान् भोजयेत्, सत्कृत्यैव । चशब्दाद् अकाले ऽपि तदर्थः पाकारम्भः । समानग्रामे च कालागतानाम् एवेति व्यवस्था ॥ १०७ ॥

एवं सख्यादिभ्यो नित्यम् एव सत्कारवद् भोजनं देयम् । श्रोत्रियागमने पुनः ।

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रिया सेवनं स्वादु भोजनं सूनृतं वचः ॥ १.१०८ ॥

कार्यम् इति शेषः । उपकल्पनवचनात् तदनुज्ञापेक्षो महोक्षादिवधः । सत्क्रियाम् अतिथिसपर्याम् । सेवनम् उपासनम् । तच् च कुर्यात् । स्वादु च मृष्टं भोजनं दद्यात् । सूनृतं च प्रियं ब्रूयाद् इति । एतच् चातिथिविशेषापेक्षया व्यस्तसमस्तत्वेन योज्यम् ॥ १०८ ॥

असंबन्धश्रोत्रियागमन उक्तम् । संबन्धे तु ।

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.१०९ ॥

स्नातकाचार्यशब्दौ संबन्धिवचनौ, अन्यथातिप्रसङ्गात् । यो हि यस्योपनेता स तस्याचार्यः । यश् च ततः समावृत्तः स तस्य स्नातकः । पार्थिवो ऽपि स्वदेशभोक्तेति न क्षत्रियः । प्रतिशब्दो वीप्सार्थः । तुशब्दो ऽवधारणार्थः । अर्घ्या एव मधुपर्कादिभिः । “प्रियो विवाह्यश् च” । तथा तत्तुल्यगुण इत्य् अर्थः । ऋत्विजस् तु यज्ञम् एव प्रत्य् अर्घ्याः प्राग् अपि च संवत्सरात् । तथा च गौतमः- “यज्ञविवाहयोर् अर्वाक्” इति (ग्ध् ५.२९) । यज्ञशब्दश् च सोमयागे, “यद्य् असकृत् संवत्सरस्य सोमेन यजेत” इति वचनात् ॥ १०९ ॥

अतिथिश्रोत्रिययोः सत्कार उक्तः । अधुना तल्लक्षणम् आह ।

अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ १.११० ॥

वर्णानुपूर्व्येणातिथित्वं गुणानुसाराद् उक्तम् । तत्रैवायं विशेषो ऽध्वनीन इति । तथा च निगमः ।

अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते । इति । (म्ध् ३.१०२)

श्रोत्रियोपन्यासः सार्थत्वार्थः । ऋज्व् अन्यत् ॥ ११० ॥

एवं च सत्य् अतिथित्वेन मृष्टान्नास्वादनलग्नो ऽध्वनीन एव नित्यं मा भूद् इति विवक्षयाह ।

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते ।
वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ १.१११ ॥

अनिन्द्यैर् आमन्त्र्यमाणो ऽपि चातिभोजनं वर्जयेत् । एकान्ततस् तदनुरोधाद् अप्रहृष्यन् गच्छेद् इत्य् अर्थः । अतश् चाध्वन्य् अपि स्वपाकाशक्ताव् एवातिथित्वेनोपतिष्ठेत् । नैकग्रामे त्व् आपद्य् अप्य् एवं स्याद् इति ॥ १११ ॥

यः पुनः स्वविध्यनुरोधेनातिथित्वं प्रतिपन्नः, तथाविधम् ।

अतिथिं श्रोत्रियं तृप्तम् आ सीमान्ताद् अनुव्रजेत् ।
अहःशेषं समासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११२ ॥

सहेति शेषः । अतिथिं श्रोतिर्यम् इति सामानाधिकरण्यम् । न च शब्दकल्पना । अन्यस्याप्य् अतिथेर् यथार्हं पूजा कल्पनीया । तथा च पारस्करः- “यथार्हं भिक्षुकान् अतिथींश् च संभजेरन्” इति (पार्ग् २.९।१२) । समासीतेति वचनाद् आग्न्युद्धरणकालाद् आसनम् ॥ ११२ ॥

उद्धृताग्निस् तु ।

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ १.११३ ॥

द्वितीयभोजनकालार्थः श्लोकः । पूर्वभोजनविधिकार्त्स्न्ये प्राप्ते भृत्यैः सहैवाश्नीयाद्, न पौर्वापर्येणेत्य् अर्थः । अतश् च नान्तरा भोजनम् । तथाचाम्न्यायः- “तस्माद् आहुः सायंप्रातर् आश्येव स्यात्” इत्य् अन्त्रानिषेधायैवाह ॥ ११३ ॥

ननु एवम् अन्यपरत्वाद् वाक्यस्यातितृप्त्या भोजने न दोषः स्यात् । सत्यम् एवम् । किं तु ।

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् ।
ब्राह्मे मुहूर्त उत्थाय चिन्तयेद् आत्मनो हितम् ॥ १.११४ ॥

सत्यम् । शास्त्रतो नैष निषेधः । किं तु अर्थकामाव् अप्य् अहापनीयाव् एव, न चेद् धर्मविरोधिनौ । तदतिक्रमे ऽपि शास्त्रबाध एव । धर्मो ऽप्य् एकान्ततस् तद्विरुद्धो न धर्मताम् उपेयात् । तथा च मनुः- “परित्यजेद् अर्थकामौ” इति (म्ध् ४.१७६) । यद् वा प्रकरणात् संवेशनाङ्गकामानुज्ञापनार्थम् एवैतत् । किं च । ब्राह्मे मुहूर्ते पश्चिमे याम उत्थायात्मनो हितं परमात्मानं चिन्तयेत्, तस्यैव परमार्थतो हितत्वात्, कालान्तरानुपदेशाच् च, अस्य च कालस्य योग्यत्वात् । उत्थानवचनं चार्थव्यापारनिवृत्त्या मनःसमाधानार्थम् । अत एव च तत्समाख्यया मुहूर्तोपदेशः । मनुवचनात् त्व् अविरोधेनार्थादिचिन्तापि “धर्मार्थाव् अनुचिन्तयेत्” इति (म्ध् ४९२) । कस्मात् पुनः प्राधान्येन परमात्मचिन्ता न धर्मार्थयोः । ननु च ताव् एव चिन्त्यौ प्राधान्येन, अपवर्गस्यापि कारणभूतत्वात् । मैवम् । उक्तं हि परमार्थतो हितत्वात् समाख्यानोपदेशाच् चेति ॥ ११४ ॥

किं च ।

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रो ऽपि वार्धक्ये मानम् अर्हति ॥ १.११५ ॥

विद्येति ब्रह्मविद्यैवोच्यते । अन्यथा हि तद्रहितस्य कर्मानधिकारात् कर्मणो ऽधिकत्वं निर्युक्तिकम् इव स्यात् । तथा च गौतमो विद्यां च वयसो निकृष्टाम् अभिधाय “श्रुतं तु सर्वेभ्यो गरीयस् तन्मूलत्वाद् धर्मस्य” इति भेदम् एवाह (ग्ध् ६.२१–२२) । कथं तर्हि वयसो ऽधिकत्वम् । चतुर्थाश्रमवचनः स वयःशब्दः, न वार्धक्यवचनः । तथा हि, दशमीस्थस्य पथो दानेन मान्यत्वम् उक्त्वा स्नातकम् एव सर्वेभ्यो मान्यत्वेनाह । अत्र तु वयःशब्दो वार्धक्य एव । तस्यापि मान्यत्वं “यो वा शतं वर्षाणि जीवति स इहैवामृतत्वं प्राप्नोति” इत्य् आम्नायात् (श्ब् १०.२।६.८) । यत् पुनर् वसिष्ठेन “विद्यावित्तवयःसंबन्धाः कर्म च मान्यं पूर्वं पूर्वं बलीयः” इति वयसो ऽपि मान्यम् उक्तम् (वध् १३.५६–५७) । तद् ब्राह्मणश्रुतलक्षणवित्ताभिप्रायं,

पृथिवीम् अपि चैवेमां कृत्स्नाम् एको ऽपि सो ऽर्हति । (म्ध् १.१०५)

इति बाह्यवित्तकारणत्वात्, “श्रुतं तु सर्वेभ्यो गरीयः” इति गौतमानुसाराच् च (ग्ध् ६.२१) । तद् अपि ननु कर्मणो नातिरिक्तम् । अतिरिक्तं हि, ब्राह्मणगतस्यैव श्रुतस्य तद्धेतुत्वात्, “प्रब्रूयद् इतरेभ्यश् च” (म्ध् १०.२) इति च सर्वोपकारकत्वात् । कर्म त्व् अब्राह्मणाश्रितम् एव, आम्नायानुसारात् “तस्माद् ब्राह्मणः क्षत्रियम् अधस्ताद् उपास्ते राजसूये” इति (बाउ १.४।११) । संबन्धो ऽपि च ब्राह्म एव वसिष्ठोक्तो न यौनः, स्वामित्वसंबन्धस्यर्त्विजां क्षत्र्यादेर् अपि मान्यत्वात् । आचार्याभिप्रायस् तु लौकिकम् एव वित्तं द्विविधो ऽपि च बन्धुर् इति । एवं मनुः- “वित्तं बन्धुः” इत्यादि (म्ध् २.१३६) । किम् एतानि ब्राह्मणस्थान्य् एव मानकारणानि । नेत्य् उच्यते । “एतैः प्रभूतैः शूद्रो ऽपि वार्धक्ये मानम् अर्हति” इति, यदि भवन्ति । यत्र दैवान् न भवन्ति, तत्र किं कुर्मः । क्षत्रियवैश्ययोस् त्व् अव्याहतं मान्यत्वम् इत्य् अभिप्रायः । तथा च मनुः- “पञ्चानां त्रिषु वर्णेषु” इति (म्ध् २.१३७) । यद् वा एतैः प्रभूतैर् अधिकतरं मान्यत्वम् इति योज्यम् । किं च, शूद्रो ऽपि वार्धक्ये मानम् अर्हतीत्य् एषा दिक् ॥ ११५ ॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ १.११६ ॥

वृद्धादिसमवाये ऽल्पे च पथ्य् अनेवंलक्षणैर् मार्गाद् अपसर्तव्यम् । तेषां त्व् अन्योन्यं स्मृत्यन्तरात् क्रमावगतिः । यथाह वसिष्ठः- “स्थविरबालातुरभारिकस्त्रीचक्रीवतां समागमे परस्मै परस्मै पन्था देयः” इति (वध् १३.५८) । नृपस् तेषां मान्य इति कर्तरि षष्ठी । तैस् तु वृद्धादिभिः सर्वैर् एव राजा मान्यः । नृपेणपि स्नातको ब्राह्मणः । तथा च गौतमः- “राज्ञा तु श्रोत्रियाय” इति (ग्ध् ६.२५) । “सर्वैश् च वध्वा उह्यमानायाः” (वध् १३.६०) इति वसिष्ठवचनाद् वरस् ततो ऽपि मान्यतरः । स्त्रियं तु गर्भिणीम् एवेच्छन्ति । अनुग्राह्यगौतमवचनाद् (च्ड़्। ग्ध् ६.२४), अत्र च रोगिसंनिधानात् तत् पुनर् विचारणीयम् । चक्रि चक्रवद् यानम् । ऋज्व् अन्यत् । यत्र तु श्रोत्रियो ऽपि सर्वैर् मान्यः, तत्र किम् इव ब्रह्मविदो वक्तव्यम् इति प्रकृतयोजना । प्रकरणयोजनं चैतत् । श्लोकस् त्व् अवगतविषय एव, अन्यत्राप्य् एवम् एव द्रष्टव्यम् ॥ ११६ ॥

कस्मात् पुनर् ब्राह्मण एव स्नातकः परिगृह्यते । क्षत्रियवैश्ययोर् यागादयो ऽपि सन्त्य् एव । सत्यम् ।

इज्याध्ययनदानानि वैश्यस्य कत्रियस्य च ।
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ १.११७ ॥

वृत्त्यर्थान्य् अप्य् एतानि मानकारणं भवन्त्य् एव । यद् वा, उक्तं शक्तितो धर्माद्यहापनम् । तत्रेज्यादयः सर्वेषां धर्मसाधनम् । प्रतिग्रहादयश् च यथाधिकारम् अर्थसाधनम् । कामस्य तूक्तम् एवेत्य् एवं योजना ॥ ११७ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ॥ १.११८ ॥

पूर्वत्र तथाशब्दस्यार्थान्तरापेक्षत्वात्, क्षत्रियकर्मणि प्राधान्यवचनात्, “कुसीदकृषिवाणिज्यम्” इति च समासकरणात्, “पाशुपाल्यं विशः स्मृतम्” इति च स्मृत्यन्तरार्थोपक्षेपात्, कुसीदादीनाम् अनुकल्पतया साधारणत्वम् । वैश्यस्य तु स्वयंकर्तृकाण्य् अप्य् एतानि स्वकल्प एव, स्मृत्यन्तरात् ॥ ११८ ॥

एवं तावद् द्विजातीनाम् उक्तम् । एकजातेः पुनः ।

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ १.११९ ॥

शूद्रस्य द्विजशुश्रूषैव धर्मसाधनं, न यागादयः, अध्ययनविध्यभावात् । अर्थसाधनम् अपि सैव । किं तु तया यदा न जीवेत्, तदा वाणिज्यं क्रीतविक्रीतं कुर्यात् । नानाप्रकारैर् वा शिल्पैर् जीवेत् । सर्वथा तु द्विजातिहितम् आचरेत् । तद् एव हि तस्य धर्मसाधनं यतः ॥ ११९ ॥

अयं चान्यः शूद्रस्यैव धर्मः ।

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्च यज्ञान् न हापयेत् ॥ १.१२० ॥

पारदार्याप्रसक्तेः स्वदार एव यथाकामी स्यात् । शुचिः स्नानाद्यनुष्ठाता । भृत्यमात्रभर्ता । श्राद्धकर्म चामन्त्रकं यथाकालं कुर्याद्, अन्वहं पञ्च महायज्ञान् । इयांस् तु विशेषः- नमस्कारमात्रम् एव प्रयुञ्जीत, न देवताभिधानानि । मन्त्रतया च प्रतिषेधाद् देवतोद्देशेन त्यागः कर्तव्य एव । श्राद्धे तु देवतापदान्य् अपि मन्त्रमात्रानिषेधात् प्रवर्तन्ते ॥ १२० ॥

एवं तावद् द्विजातीनां शूद्रस्य च धर्मसाधनम् उक्तम् । इदं पुनः ।

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियसंयमः ।
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ १.१२१ ॥

चतुर्णाम् अपि वर्णानाम् इत्य् अर्थः । तथा चोक्तम्- “अहिंसा सत्यम् अस्तेयम्” इति । यद् वा प्रतिलोमार्थः सर्वशब्दः । पूर्वेषां तु दण्डापूपिकयैव स्यात् । एवं च सति दानवचनम् अप्य् अपुनरुक्तं स्यात् । शूद्रमात्रपरत्वे तु सर्वशब्दानुपपत्तिः । उभयार्थत्वे ऽविरोधः ॥ १२१ ॥

इदं चान्यद् यथायोगं सर्वसाधारणम् उत्तराधिकारार्थम् आह ।

वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ १.१२२ ॥

अजिह्माम् अकुटिलाम् । अशठां परानुपद्रवकारिणीम् ॥ १२२ ॥

तद् एवाधुना सादृश्यं प्रपञ्चयितुम् आह ।

त्रैवार्षिकाधिकान्नो यः स सोमं हि पिबेद् द्विजः ।
प्राक्सौमिकाः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ १.१२३ ॥

काम्यकर्मार्थः श्लोकः, अन्यत्र श्रुतिविरोधात् ॥ १२३ ॥

अकाम्यविषये पुनः ।

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ १.१२४ ॥

काम्यनित्यविवेकार्थः श्लोकः । चादयो निपाताः श्रौतविधानद्योतनार्थाः । तथाशब्दो ऽपि श्रुत्युक्तपरामर्शार्थः । नित्यत्वाच् चैषां यथासंभवं क्रिया ॥ १२४ ॥

यस्य त्व् आत्यन्तिक्येवाशक्तिः, तदा,

एषाम् असंभवे कुर्यद् इष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२५ ॥

काम्यं कर्म हीनोपकरणं न कुर्यात्, यस्मात् सत्य् एव द्रव्ये तत् फलप्रदं, सर्वाङ्गोपसंहारनियमात् । सोमाद्यभावे चेष्टिवचनं नियोगतः कर्तव्यताख्यापनार्थम् ॥ १२५ ॥

एवं च सति नैयमिकत्वात् कुतश्चिद् द्रव्याहरणप्रसक्ताव् आह ।

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षिता ।
यज्ञार्थं लब्धम् अददद् भासः काको ऽपि जायते ॥ १.१२६ ॥

ननु च पुरुषार्थं द्रव्यं न क्रत्वर्थम् । सत्यम् । पुरुष एव यत् क्रतुनिमित्तम् आर्जयति, तत् क्रत्वर्थम् इत्य् अदोषः । वननीयवननार्थो वायम् उपदेशः । पुरुषार्थत्वे ऽपि शूद्रभिक्षणनिन्दा । शूद्रभिषुकस्य क्रतवो ऽपि प्रत्यवायाय, किम् उतान्यत् । तादर्थ्यवचनम् उक्तविषयम् एवेत्य् अदोषः । पर्यवसिते ऽपि क्रतौ सदस्येभ्य एव दद्याद्, न स्वयम् उपयुञ्जीतेत्य् अर्थः ॥ १२६ ॥

इदानीम् अधिकृतानाम् एव स्वार्थवृत्तिनियमायाह ।

कुसूलकुम्भीधान्यो वा त्रैहिको ऽश्वस्तनो ऽपि वा ।
जीवेद् वापि सिलोञ्छेन श्रेयान् एषां परः परः ॥ १.१२७ ॥

आद्यो ऽपिशब्दो ऽयाचितार्थः । द्वितीयस् तु सिलोञ्छयोर् भेदकथनार्थः । कुसूलं कोष्ठको विंशतिद्रोणमानम् । तदर्धं कुम्भी,

दश द्रोणाः स्मृता कुम्भी कुसूलो द्विगुणस् ततः ।

इत्य् अभियुक्तोपदेशात् । त्रैहिको दिनत्रयोपयोगिधान्यः । अश्वस्तनः सद्यःप्रक्षालकः । सिलः सशूकोच्चयनम् । कणोच्चयनम् उञ्छः ।

  • ननु च सोमाद्यनुष्ठानविरोधाच् छ्रुतिविरुद्धेयं स्मृतिः । न च वृत्त्यपेक्षो ऽधिकारः । अद्रव्यत्वस्याधिकाराप्रतिबन्धकत्वात् ।

  • उच्यते । जीवेद् इति वचनाज् जीवनार्थो वृत्तिसंकोचः । ऋत्वर्थं प्रतिग्रहादिभिर् अप्य् अनिषिद्धम् एवार्जनम् इत्य् अविरोधः । यद् वा एतन् नैष्ठिकादिवद् एव द्रष्टव्यम् । न हि रागितयैव प्रवृत्तद्रव्यार्जनान् उत्सृज्य वृत्तिसंकोचस्मृतिबाधेनाग्निहोत्रादिविधयः प्रवर्तन्ते । यतः प्रवृत्तौ वा ऋत्वर्थतैव द्रव्यार्जनस्य स्यात् । तथा च सर्वतन्त्रपरिलोपः । तस्मात् प्रतिग्रहादिवृत्तिविषया एवाग्निहोत्रादिविधय इत्य् अविरोधः । निपुणतस् त्व् एतद् वनस्थाश्रमनिरूपणे वक्ष्यामः । प्रवृत्ताश्रमान्तरस्य चैता वृत्तयः । तथा च शङ्खः- “अत ऊर्ध्वं पुत्रान् उत्पाद्य” इत्य् उपक्रम्य “क्रतुप्रस्थानलिङ्गो वृत्तिविशेषानुक्रमः श्रेयान् यायावराणां वार्ताम् उपास्य वनम् आश्रयेत्” इत्य् आह । अतो ऽप्य् अविरोधः ॥ १२७ ॥

इति गृहस्थधर्मप्रकरणम्

**