०४ वर्ण-जाति-विवेक-प्रकरणम्

अथ वर्णजातिविवेकप्रकरणम्

*** प्रकरण दिविसिओन् ओन्ल्य् इन् लतेर् एदितिओन्

पुत्रार्थं “स्त्रियः सेव्या भर्तव्याश् च सुरक्षिता” (य्ध् १.७७) इत्य् उक्तम् । सवर्णायाश् चोत्कृष्टत्वं विवाहनियमश् च । अस्यैव दार्ढ्यार्थे जातिनिरूपणायाह ।

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.८९ ॥

यस्मात् सवर्णास्व् एव सवर्णेभ्यः सजातयः पुत्रा जायन्ते, यस्माच् चानिन्द्यब्राह्मादिविवाहोढास्व् एवैते उत्पन्नाः पुत्राः संतानवृद्ध्या पितृभ्य आनृण्यं कुर्वन्ति, यस्माच् चान्यथा जातिनाशाद् विपर्ययः, तस्मात् पूर्वोक्तं सर्वं विवाहादि प्रयत्नतो ऽनुष्ठेयम् इति श्लोकार्थः प्रकरणार्थश् च समासतः ॥ ८९ ॥

एवं तावत् सवर्णाया अव्यभिचारे जातिनियम उक्तः । व्यभिचारे ऽप्य् उत्कृष्टवर्णविषय एव श्रेयान् । यतः ।

विप्रान् मूर्धावसिक्तं स्त्री राज्ञो ऽम्बष्ठं विशो ऽङ्गना ।
शूद्राङ्गना निषादाख्यं सूते पारशवं तथा ॥ १.९० ॥

विप्राच् छूद्रायाम् उत्पन्नस्यैकस्यैव संज्ञाद्वयं निषादः पारशव इति च द्रष्टव्यम् । किमर्थं तर्हि द्विजीया पारशवसंज्ञा । असवर्णाव्यभिचारनिन्दार्थम् । ब्राह्मणबीजोद्भवो ऽपि तत्संस्कारहानात् पारयन्न् एव जीवन्न् एव शव इत्य् अर्थः । तथा चाह मनुः ।

स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः । इति । (म्ध् ९.१७८)

उत्कृष्टव्यभिचारस्तुत्यर्थं तु विपान् मूर्धावसिक्तम् अभिषेकयोग्यं राज्ञः क्षत्रियस्यापि स्त्री जनितवती । एवं सर्वत्र योज्यम् ॥ ९० ॥

किं च ।

माहिष्योग्रौ प्रजायेते विट्छूद्राङ्गनयोर् नृपात् ।
शूद्रायां करणो वैश्याद् विन्नास्व् एष विधिः स्मृतः ॥ १.९१ ॥

वैश्यायां माहिष्यः शूद्रायाम् उग्रः क्षत्रियात् । ननु च शूद्रापरिणयनप्रतिषेधाद् “विन्नस्व् एष विधिः स्मृतः” इति विरुद्धम् । अनभिज्ञः श्लोकार्थस्यायुष्मान् । विन्नासु हीनवर्णासु । विन्नास्व् एष विधिः, यद् उत स्वजातिनाशः, तस्मान् न हीनवर्णाम् उद्वहेद् इत्य् अस्यार्थः । अत एव चाविन्नस्व् अपि संज्ञान्तरालाभः । इतरथा तत्र संज्ञान्तरक्रियाप्रसङ्गः । उत्कृष्टवेदने तद्व्यभिचारे वा वर्णोत्कर्ष इति स्तुतिपरतयैव विधिशब्दयोजना ॥ ९१ ॥

उत्कृष्टवर्णसंबन्धेनोत्कर्षदर्शनात् प्रातिलोम्ये ऽपि तथात्वाशङ्का मा भूद् इत्य् अत आह ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।
शूद्राज् जातश् च चण्डालः सर्वधर्मविगर्हितः ॥ १.९२ ॥
क्षत्रिया मागधं वैश्याज् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ १.९३ ॥

भूतार्थप्रत्यययोगः प्रयोगानादित्वज्ञापनार्थः। अत एव स्मृत्यन्तरेष्व् एकस्यैवार्थस्यानेकसंज्ञादर्शने ऽपि देशभेदेन तथाविधप्रयोगसत्तानुमानम् । न पुनः पारिभाषिकत्वकल्पना, वेदेष्व् अप्य् अनेकविधसंज्ञोपलब्धेः ॥ ९२, ९३ ॥

एवं तावत् प्रातिलोम्येनोत्कृष्टसंबन्धे सति चण्डालत्वादिप्राप्तिः । आनुलोम्येन पुनः ।

माहिष्येण करण्याम् तु रथकारः प्रजायते ।
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमतः ॥ १.९४ ॥

क्षत्रियेण वैश्यायां जातो माहिष्यः वैश्येन शूद्रायां करणी । तस्याम् करण्याम् माहिष्याद् रथकारो जायते । स चाधानाधिकृतो यस्मात् तस्माद् आनुलोम्येन युगान्तरेषूत्कर्षः, प्रदर्शनार्थत्वात् प्रातिलोम्येनापकर्ष इति द्रष्टव्यम् । तथा च स्पष्टीकरोति “असत्सन्तस् तु विज्ञेयाः” इति । यथाक्रमेणासन्तः प्रतिलोमाः सन्तश् चानुलोमाः । तथा च गौतमः- “प्रतिलोमात् तु धर्महीनः” इति (ग्ध् ४.२५) ॥ ९४ ॥

किं च ।

जात्युत्कर्षो युगे ज्ञेयः पञ्चमे सप्तमे ऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥ १.९५ ॥

जात्युत्कर्षो वर्णोत्कर्षः, क्षत्रियस्यापि ब्राह्मण्यप्राप्तिः । को ऽयं कूश्माण्डपातः । मैवम् । उक्तवर्णान्तरविहितधर्मव्यवच्छेदेन ब्राह्मणादिशब्दप्रवृत्तिर् इत्य् अर्थः । पञ्चमे सप्तमे वा परिवर्ते । क्षत्रियस्य पञ्चमे वैश्यस्य सप्तमे ब्राह्मण्यम् । क्षत्रियजत्वे तु तस्यापि पञ्चम एव । पूर्वजातिविहितकर्मव्यवच्छेदाद् जात्यन्तरोक्तकर्मप्राप्तितश् च तच्छब्दलाभाद् अनवद्यम् । कुतः प्राप्तिव्यवच्छेदाव् इति चेद्, अस्माद् एवोत्कर्षवचनाद्, अमीमांस्यत्वाच् च् शास्त्रस्य । तद् एव द्रढयन्न् आह “व्यत्यये कर्मणां साम्यम्” । उक्तोत्कर्षव्यत्यये युगपरिवर्ताभावे प्रकृतिविहितान्य् एव कर्माणि भवन्तीत्य् अर्थः । यदि मूर्धावसिक्तां ब्राह्मणः परिणयेत्, तत्सुतां तत्सुतां च, ततः पञ्चमे परिवर्ते ब्राह्मणकर्माधिकारः । यदि मूर्धावसिक्त एव तां तत्सुतां तत्सुतां च, ततः क्षत्रियकर्मैव भवति । किं च तेषाम् अप्य् अन्तरप्रभवानां पूर्वेणैव न्यायेनानुलोम्यप्रातिलोम्येनौत्तराधर्यं, योज्यम् इति शेषः । ग्रन्थगौरवभयात् तु तत्संज्ञानभिधानम् । सर्वथोत्कृष्टवर्णसंकरे स्त्रीणाम् उत्कर्षः । अन्यथा तु विपर्ययः । पुरुषाणां तु द्विधाप्य् अपकर्ष इति प्रपञ्चनीयं व्याख्यातृभिः । अयं च मार्गः । आनुलोम्यप्रातिलोम्ये मूर्धवसिक्तादीनां वर्णचतुष्टये चतुर्विंशतिर् एव वर्णाभासा जायन्ते । स्वयं च षट् । एवं त्रिंशत् । प्रातिलोम्ये ऽप्य् एवम् एव सूतादीनाम् इत्य् एवं षष्टिर् वर्णाभासाः । तथा च स्मरन्ति ।

प्रातिलोम्यानुलोम्येन वर्णैस् तज्जैश् च वर्णतः ।
षष्ट्येवान्ये प्रजायन्ते तत्प्रसूतेस् त्व् अनन्तता ॥ इति ॥ ९५ ॥

इति वर्णजातिविवेकप्रकरणम् ।

**