०३ विवाह-प्रकरणम्

अथ विवाहप्रकरणम्

उक्तो ब्रह्मचारी, अनन्तरं गृहस्थो वक्तव्यः । तदभिधानायाह ।

गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वाप्य् उभयम् एव वा ॥ १.५१ ॥

अपीत्य् अस्यापकृष्य योजना, स्मृत्यन्तरैकवाक्यत्वाद् अर्थवत्त्वाच् च । वेदम् अधीत्य नैष्ठिकाद्याश्रमे वसेत् । अपि वा गार्हस्थ्यं कर्तुं स्नायीत । स्नानम् इति च संस्कारकर्मणो नामधेयम् । तच् च गृह्याद् अवगन्तव्यम् । गृहस्थतां च प्रतिपद्यमानस्यैव स्नानसंस्कारो नाश्रमान्तरम् अपि, तत्परत्वविधानात् । यथाह गौतमः- “स विधिपूर्वं स्नात्वा” इति (ग्ध् ९.१) । “स” इत्य् अनेन गृहस्थो ऽभिधीयते । तथा वासिष्ठो ऽपि “गृहस्थो ऽविनीतक्रोधहर्षः” इति प्रकृत्य स्नानविधानं “गुरुणानुज्ञातः स्नात्वा” इति (वध् ८.१) । यदा स्नायात् तदा गुरवे वरं दत्त्वा । वरदानं च गवादेः श्रेष्ठद्रव्यस्य दानम् । यथाह पारस्करः- “गौर् ब्राह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्य” इति पार्ग् १.८।१५–१७) । अनुज्ञातश् च गुरुणा न वरदानमात्रेण कृती स्यात् । यद् वा, वरं वा दत्त्वा स्नायीत । तदनुज्ञया वा वरम् अदत्त्वा स्नायीत । तथा च गौतमः- “कृत्वानुज्ञातस्य वा स्नानम्” इति (ग्ध् २.४९) । तुशब्दो ऽवधारणार्थः । गुरव् एव वरं दद्याद्, नान्यस्मै । अनुज्ञानं चान्यतो ऽपीति केचित् । एवं त्व् अदृष्टार्थत्वम् असामञ्जस्यं च स्यात् । तस्मात् पितुर् वरदानाभावाशङ्कानिवृत्त्यर्थस् तुशब्दः । “वेदं व्रतानि वा पारं नीत्वा” । वेदस्य पारनयनम् अर्थतो ग्रन्थतश् च स्वीकरणं, न ग्रन्थत एव । तथा च वक्तारो भवन्ति- वेदाध्याय्य् अयं न वेदपारग इति । व्रतानां पारनयनं द्वादश वर्षाणि प्रयत्नतो ऽनुष्ठानम् । उभयम् एव वा पारं नीत्वा, वेदं व्रतानि च । अयं प्रथमः कल्पः, उभयानुग्रहाद्, एवकाराच् च । वेदम् इति चानुकल्पः । प्राधान्ये ऽपि वेदस्य व्रतानुपसंहारात् । व्रतान्य् एवेत्य् आपत्कल्पः, वेदार्थत्वाद् ब्रह्म्चर्यस्य, तस्य चानिर्वृत्तेर् इत्यादि प्रपञ्चनीयम् । वेदम् इति चैकवचनं शाखान्तराध्ययनव्यावृत्त्यर्थम्, ब्रह्मत्वे त्रिवेदसंयोगवचनात् । तथा चाह मनुः ।

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् । इति । (म्ध् ३.२)

पाठान्तरे ऽप्य् अयम् एवार्थः- “वेदव्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा” इति । वेदं व्रतानि च वेदव्रतानीत्य् एवं विग्रहः । हिशब्दश् च हेत्वर्थः । यदेति चाध्याहार्यम् । यदा स्नायात्, तदैवम् इति । समानम् अन्यत् ॥ ५१ ॥

ब्रह्मचारिणो ब्रह्मचर्यविधानात् समावृत्तस्य निवृत्तिः प्राप्नोतीत्य् अत आह ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ १.५२ ॥

समावृत्तो ऽपि सन्न् अविप्लुतब्रह्मचर्य एवोद्वाहं कुर्यात् । ब्रह्मचर्यवचनाच् च मध्वशनादौ विप्लवः । कथम् पुनः प्राग् विवाहाद् विप्लवाशङ्का । परदाराभिगमनं हि निषिद्धम् एव । सत्यम् एवम् । वक्ष्यति तु- “यत्नात् परीक्षितः पुंस्त्वे” इति (य्ध् १.५५) । परीक्षणोपायत्वेन विप्लवाशङ्कास्त्य् एव । अन्ये तु नियोगपक्षेण विप्लवम् आहुः । लक्षण्यां लक्षणोपेताम् । यथाह मनुः- “सवर्णां लक्षणान्विताम्” इति (म्ध् ३.४) । तथा च ।

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । इति । (म्ध् ३.१०)

स्त्रीग्रहणम् अनुवादः, गुणार्थं वा । अपत्रपणशीलाम् इत्य् अर्थः । एवम् अप्य् अनन्यपूर्विकाम् इति । अन्येनानुपभुक्ताम् इत्य् अर्थः । कान्तां च कमनीयाम् । असपिण्डां च मातृतः पितृतश् च । यवीयसीम् आत्मनो हीनवयसम् । ताम् एवंविधोक्तलक्षणाम् उद्वहेद् इति संबन्धः ॥ ५२ ॥

किं चान्यत् ।

अरोगिणीं ब्रातृमतीम् असमानर्षिगोत्रजाम् ।
पञ्चमीं सप्तमीं चैव मातृतः पितृतस् तथा ॥ १.५३ ॥

अरोगिणीं कुष्ठादिरोगरहिताम् । दृष्टमूलत्वाच् च स्मृतेः समाधेयरोगित्वम् अदोषः । भ्रातृमतीं च, पुत्रिकाशङ्कानिवृत्त्यर्थम् । “नाभ्रात्रीम् उपयच्छेत् तत् तोकं ह्य् अस्य भवति” इति भाल्लविनां श्रुतेः । यदा पुनर् अयं हेतुवन् निगदः, तदा “नाभ्रात्रीम् उपयच्छेत्” इत्य् एवं मन्यन्ते । असमानर्षिगोत्रजाम् असमानार्षेयगोत्रप्रभवाम् । असमानप्रवराम् इत्य् अर्थः । तथा च गौतमः- “असमानप्रवरैर् विवाहः” इति (ग्ध् ४.२) । यद् अपि “असगोत्राम्” (म्ध् ३.५) इति मानवं, तद् अप्य् एवम् एव व्याख्येयम् । ततश् च समानगोत्राणाम् अप्य् असमानप्रवराणाम् अनिषिद्धो विवाहः । यथा पञ्चार्षेयाणां त्र्यार्षेयाणां भरद्वाजानाम् । तथेदम् अपरं- पञ्चमीं मातृतः, सप्तमीं पितृतः । मातृपितृशब्दौ च ज्ञातिलक्षणार्थौ, “मातृबन्धुभ्यः पितृबन्धुभ्यश् च” इति स्मृत्यन्तरात् । असपिण्डाम् इत्य् अनेनैव सिद्धे विवेकार्थः पुनर् आरम्भः । मा भूत्

सपिण्डता पुरुषे सप्तमे विनिवर्तते । (म्ध् ५.६०)

इत्य् अविशेषवचनान् मातृतो ऽपि सप्तपुरुषी सपिण्डता । तथा चाह गौतमः- “पिण्डनिवृत्तिः सप्तमे पञ्चमे वा” इति (ग्ध् १४.१३) । अयं च तस्यार्थः- सप्तमे पितृतः पञ्चमे मातृत इति, मातृबन्धुभ्यः पञ्चमाद् इत्य् आरम्भात् । तथेति बीजिग्रहणार्थम् । तथा चाह गौतमः- “ऊर्धं सप्तमात् पितृबन्दुभ्यो बीजिनश् च मातृबन्धुभ्यः पञ्चमाद्” इति (ग्ध् ४.३–५) । चशब्दैवशब्दौ छन्दःसमाधानार्थौ । यद् वा विकल्पार्थश् चशब्दः । पञ्चमीं सप्तमीं वा मातृतः पितृतश् च्ōद्वहेत्, सपिण्डतायास् तदवधिकत्वात् । तथा च गौतमीयं सूत्रं अविशेषाभिधानात् समर्थितं भवति । एवं चोभयत्र पञ्चमे विवाहः स्यात् । यत् तु “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो मातृबन्धुभ्यः पञ्चमात्” (ग्ध् ४.३–५) इति, तन् मातृतः पञ्चमाद् एवेत्य् अवधारणार्थम् । पितृतस् तु सप्तमात् पञ्चमाद् वेति विकल्पः । पञ्चमाद् इत्य् अनुकल्पो ऽयम्, अन्यानर्थक्यात् । प्रथमकल्पे च न्यूनत्वदर्शनाद् अनुकल्पः । मातृतश् चतुर्थे ऽपीति केचित् । तत् पुनः सामान्यतोदृष्टम् । तेनोभयत्र समत्वम् एवानुकल्पः । तथा च शङ्खः- “पञ्चमीं वोभतः” इति । यत् त्व् आम्नायवचनं- “तस्मद् उ समानाद् एव पुरुषाद् अत्ता चाद्यं च जायते । इदं हि चतुर्थे तृतीये वा पुरुषे संगच्छावहे इति हिस् विदेवं दीव्यमानया जान्या सहासत” इति । तन् मन्त्रविकारस्तुतिमात्रार्थत्वाद् अनादृत्यम् इति केचित् । अथापि जान्या इत्यादिपदार्थोपपत्त्यर्थं कर्तव्यतोच्येत । तथापि देशोपसंहृतस्येत्य् आहुः । तत् पुनर् न्यायस्मृतिविरुद्धम् । यथाह बौधायनः- “पञ्चधा विप्रतिपत्तिर् दक्षिणतस् तथोत्तरतः” इत्य् उपक्रम्य, “इतरद् इतरस्मिन् कुर्वन् दुष्यतीतरद् इतरस्मिन्” इति चोक्त्वा, “उभयं त्व् एव नाद्रियेत” इत्यादि (ब्ध् १.२।१–८) । न्यायविदश् च याज्ञिकाः- “अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद् विधानस्य” इति (प्म्स् १.३।१६) । अतः कार्यत्वे सति सर्वधर्मत्वम् । अयं चात्र वाक्यार्थः- समानाद् एकस्मात् पुरुषाद् अत्ता च भोक्ता, आद्यं च भोग्यं, द्वाव् अप्य् उत्पद्येते । तत्रोत्पन्नमात्रः परिणेता क्रीडन् संकल्पयति- इदं भोग्यम् चतुर्थे पुरुषे तृतीये वा भोक्ष्यामीति । तत्रोत्पत्तिपुरुषात् पञ्चमः संभवति, तृतीयपक्षे चतुर्थः । ते चामी श्रुतिस्मृत्यनुसाराच् चत्वारः कल्पाः- ऊर्ध्वं सप्तमात् पञ्चमाद् वेत्य् एकः, पञ्चमे मातृतः सप्तमे पितृत इति द्वितीयः, उभयतः पञ्चम इति तृतीयः, चतुर्थे ऽपीति चतुर्थः । पूर्वः पूर्वः श्रेयान् । स्त्रीविषयश् चान्त्यः कल्पः, इदम् इति सर्वनाम्नो भोग्यपरत्वात् । एवं च वरचतुर्थे न विवाहः । मन्त्रवर्णो ऽप्य् एवम् एव व्याख्येयः, “कॢप्तां मातुलस्येव योषाम्” इति, व्यवधाने ऽपि षष्ठ्युपपत्तेः वाजपेयस्य यूप इतिवत्, “पैतृष्वसेयी वपाम् इव” (र्व्ख् ७.५५.८) इति च, अपत्यापत्ये ऽपि तद्धिताविरोधात् । श्रुतिस्मृत्यनुसाराच् चैवं कल्पनेत्य् एषा दिक् । भूतपूर्वगत्या च मातृतः सपिण्डत्वम् इति सूतकाद्यप्रसङ्गः । ननु एवं सति स्त्रीतस् तृतीये ऽपि प्राप्नोति, “अप्रत्तानाम् तु स्त्रीणां त्रिपुरुषी सपिण्डता विज्ञायते” इति वसिष्ठवचनात् (वध् ४.१८) । नैवम् तस्याशौचमात्रविषयत्वात् । अप्रत्तानां तु पारिभाषिकं तद् उक्तम् । तथा च विवाहे पञ्चमीत्य् उपपन्नं भवति । अन्यथा तद् असमञ्जसं स्यात् । क्षत्रियादीनां तु ब्राह्मणादिप्रभवानाम् उभयतश् चतुर्थे ऽप्य् अविरुद्धो विवाहः । क्षत्रियादिप्रभवानां तु विशेषाभावात् पूर्वोक एव कल्पः । तथा च शङ्खः ।

यद्य् एकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः।
एकपिण्डाः पृथक्च्छौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥ इति ।

एवम् अन्यान्य् अप्य् अनयैव दिशा वाक्यानि योजनीयानि ॥ ५३ ॥

किं चान्यत् ।

दश्पूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् ।
स्फीताद् अपि न संचारिरोगदोषसमन्वितात् ॥ १.५४ ॥

श्रोत्रियत्वेनैव ख्यातिर् गरीयसी, न राजसत्कारादिभिः । तथा चाह मनुः ।

मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि ।
कुलसंख्यां च गच्छन्ति प्राप्नुवन्ति महद् यशः ॥ इति ॥ (म्ध् ३.६६)

तेनाल्पधनाद् अपि श्रोत्रियकुलात् कन्याम् उद्वहेत्, न तु धनादिसमृद्धाद् अपि संचारिरोगसंयुक्ताद् दोषसंयुक्ताद् वा । मौख्यादयो ऽपि हि मातुलादिसंपर्कात् संचारिण एव, रोगाश् च श्वित्रकुष्ठादयः । न तु संचारिणो ऽपि शिरःशूलादयः, दृष्टमूलत्वात् स्मृतेः । तथा चाह मनुः ।

महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥
हीनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ इति । (म्ध् ३.६–७)

कुलग्रहणाच् च सिद्धे यद् अरोगिणीम् इत्य् उक्तं, तद् आदरार्थम् । एवम् अन्ये ऽपि गुणदोषाः स्मृत्यन्तराल् लोकतश् चान्वेष्याः, प्रमाणान्तरमूलत्वात् स्मरणस्य ॥ ५४ ॥

उक्ताः कन्यागुनाः । वरस्येदानीम् उच्यन्ते ।

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमाञ् जनप्रियः ॥ १.५५ ॥

एतैर् एव गुणैर् युक्तो वरो ऽपि स्यात् । अयं तु विशेषः, यः सवर्णः श्रोत्रियश् च । सवर्णग्रहणं च हीनवर्णव्यावृत्त्यर्थम् । यद् वा, उत्कृष्टवेदनस्यानुकल्पत्वज्ञापनार्थम् । अनुकल्पत्वं चाधिकारविप्रकर्षाल् लोकपक्त्यनुसाराच् च पुंसां तु “श्रोत्रियाणां महाकुलाद्” इति वचनात् तिस्र इत्य् एव प्रथमः कल्पः । स्मृत्यन्तराद् वा स्वर्णेतरोद्वहनम् अनुकल्पः । तथा चाह मनुः ।

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो वराः ॥ इति । (म्ध् ३.१२)

एवंगुणत्वे ऽपि ब्रह्मचर्याविप्लवेन यत्नात् परीक्षितः पुंस्त्वे, वीतबीजादिव्युदासद्वारेण । एवं स्त्रियो ऽपि स्त्रीत्वे परीक्षणीयाः, पुंस्त्व इत्य् उपलक्षणार्थत्वात् । स्त्रियम् उद्वहेद् इति वा स्त्रीग्रहणस्यैतद् एव प्रयोजनम् इति व्याख्येयम् । आदरार्थं वा । पुंसः परीक्षणाभिधानम् अपरित्यागज्ञापनार्थम् । अनन्यपूर्वत्वं स्त्रीविषयम् एव । पुंविषयत्वे ऽपि प्रथमः कल्पः । एवंभूतो यः, स वरः स्यात् । स वरयितव्यः । तादृशो वा कन्यां वरयेद् इति व्याख्येयम् । ऋज्व् अन्यत् ॥ ५५ ॥

“श्रोत्रियाणां महाकुलाद्” इति वचनाच् छूद्राविवाहो न प्राप्नोति । इष्यते च कैश् चित् तत्राचार्यः स्वमतम् उपन्यस्यति स्म ।

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः ।
न तन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ १.५६ ॥

“कृष्णवर्णीया रामा रमणायैवोपेयत” इति ब्राह्मनवादः । न च विदुषां कामार्थे प्रवृत्तिर् युक्ता । अतः शूद्राविवाहो न कर्तव्य इत्य् एतद् एव स्पष्टीकरोति हेतुना- “यस्मात् तत्रायं जायते स्वयम्” इति । तथा बह्वृचाः पठन्ति ।

पतिर् जाया प्रविशति गर्भो भूत्वा स मातरम् ।
तस्या पुनर् नवो भूत्वा दशमे मासि जायते ॥ इति । (ऐत्ब् ७.१३)

अतो नैतन् ममाभिप्रेतम् ॥ ५६ ॥

इदं पुनर् अस्माभिर् अप्य् अभिप्रेतम् ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्त्रियविषां भार्या स्वा शूद्रजन्मनः ॥ १.५७ ॥

शूद्रस्येति वक्तव्ये शूद्रजन्मन इत्य् उक्तं, सापि हि ब्राह्मणादिजाता शूद्रजन्मना न विवाह्येति ज्ञापनार्थम् । एवं क्षत्त्रियादीनाम् अन्तरप्रभवानां चानुलोमप्रतिलोमानां यथायथं योज्यम् । सर्वथा मनाग् अप्य् उत्कृष्टजा निकृष्टजन्मना न विवाह्या । निकृष्टापि यथासंनिकर्षं क्रमाद् विवाह्येति श्लोकार्थः । ऋज्व् अन्यत् ॥ ५७ ॥

ननु अयं विवाहाख्यः संस्कारः न नित्यम् उपसंहर्तुं शक्यः, पराधानत्वात् कन्यालाभस्य । उच्यते । स्याद् अयं दोषो दात्रभावाद् यद्य् अप्रार्थिता कन्या न प्रदीयते, ददतो वा प्रत्यवायः स्यात् । अद्य तु खलु दातुर् अभ्युदयः । यथाह ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ १.५८ ॥

ब्राह्मण एवैनम् अर्हतीति ब्राह्मः । तत्र चयं विधिः । यथाशक्त्य् अलंकृत्य उक्तलक्षणं वरम् आहूय गृह्योक्तेन विधिना कन्याप्रदां (यदा), तदा नोक्तदोषप्रसङ्गः । न चैवं ब्राह्मे लोकानुसारिभिर् भवितव्यम्, कथम् अप्रार्थिता कन्या दीयत इति । अयम् एव सतां धर्म यतः । तस्यां तथोढायां जातः पुत्रः उभतः पितृतो मातृतश् चैकविंशतिं कुलानि पुनाति शोधयतीत्य् अर्थः । यद् वा दशातीतानि दशोत्पत्स्यमानानि आत्मानं चेत्य् एवं योजना । तथा चाह गौतमः- “दश पूर्वान् दशावरान् आत्मानं च ब्राह्मीपुत्रः” इति (ग्ध् ४.३३) । स्तुतिमात्रम् एतद्, भूतानां भाविनां पावनानुपपत्तेः । उपपत्तौ वा कृतनाशाकृतागमप्रसङ्गात् । यद् वास्तु फलविधिः, विवाहविशेषस्य फलविशेषापेक्षत्वात् । न चागमानुसारिण्यर्थे ऽनुपपत्तिर् इति शक्यं वक्तुम् । तथा च नैयायिका “न हि वचनस्यातिभारो ऽस्ति” (शब् ओन् प्म्स् ५.३।१०) इत्य् आहुः । अयं च ब्राह्मणस्य प्राथमकल्पिको विवाहः ॥ ५८ ॥

इमे त्व् अनुकल्पाः ।

यज्ञस्थ ऋत्विजे दैव आदायार्षस् तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ १.५९ ॥

यज्ञस्थवचनं पूर्वजुष्टादिव्यावृत्त्यर्थम् । देवा ऋत्विजस् त एनम् अर्हन्तीति दैवः । अतश् च ब्राह्मण्स्यैवायम्, इतरयोर् आर्त्विज्यानधिकारात् । महर्त्विग्भ्यश् च । यथाह व्यासः ।

स्तेयं कुर्यां यद्य् अहं वो बिसानां महर्त्विजां वितते यज्ञतन्त्रे ।
अध्वर्यवे दुहितरं संप्रदद्याम् उद्गात्रे वा ब्रह्मणे वाथ होत्रे ॥ इति ।

उद्गातृवचनाच् च सोमर्त्विक्प्रत्ययः । दक्षिणातिरिक्तं चैतद् दानं, फलश्रवणात् । आर्षस् तु वराद् गोद्वयम् आदाय । तच् च मिथुनं, स्मृत्यन्तरात् । (मन्त्र)द्रष्टारो ब्राह्मणा ऋषयः, त एनम् अर्हन्तीत्य् आर्षः । तुशब्दः परिक्रयाशङ्कानिवृत्त्यर्थः । तथा चाह मनुः ।

एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः । इति । (म्ध् ३.२९)

कस्मात् पुनर् इमाव् अनुकल्पौ, पूर्वस्माद् ऊनफलत्वात् । तथा चाह- प्रथमजश् चतुर्दश पुनाति । प्रथमो दैवः, तत्र जातः प्रथमजः । तथोत्तरजः षट् । उत्तर आर्षः, तत्र जात उत्तरजः । प्रविभज्य पौर्वापर्येण योजना । तथा चाह मनुः ।

दैवोढायाः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढायाः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥ इति । (म्ध् ३.३८)

। न्यूनफलत्वाच् चास्य दैवान् निकृष्टत्वम् । दैवसहपाठाच् चायम् अपि ब्राह्मणस्यैव । प्राजापत्यान् न्यूनफलत्वे ऽपि चास्यात एव पूर्वपाठ इति मन्तव्यम् ॥ ५९ ॥

अयं तु सार्ववर्णिकः ।

सह धर्मश् चर्यताम् इत्य् उक्त्वा या दीयते ऽर्थिने ।
स कायः पावयत्य् आद्यः षट् षड् वंश्यान् सहात्मना ॥ १.६० ॥

“धर्मश् चर्यताम्” इत्य् एतावद् एवोक्त्वार्थिने यत् कन्यादानं, स प्राजापत्यः । उक्त्वेति वचनान् नाभ्युपगमाद् एव । यथाह गौतमः- “संयोगमन्त्रः प्राजापत्ये” इत्यादि (ग्ध् ४.७) । प्रजोत्पादनेच्छासामान्यात् प्रजापतिः स्नातकः । स एनम् अर्हतीति प्राजापत्यः । एवं चार्थिन इत्य् अनुवादो मन्त्रविधानार्थः । सार्ववर्णिकत्वे ऽपि शूद्रनिवृत्तिः मन्त्रप्रयोगात् । सो ऽयं प्राजापत्यः आद्यः आर्षात् पूर्व इत्य् अर्थः । कुत एतत्, फलभूयस्त्वात् । अत्र हि जातः षट् षड् वंश्यान् पुनाति, आत्मानं च । आर्षजस् तु त्रींस् त्रीन् । सहात्मनेत्य् एतत् पूर्वत्रापि योज्यम् ॥ ६० ॥

ननु एवं सत्य् आहूय यदि कश्चिद् आर्त्विज्यादिभिर् वा न कन्यां दद्यात्, तथापि गृहस्थाश्रमो दुःश्लिष्ट एव । सत्यम् । यद्य् एत एव विवाहा स्युः । अन्ये ऽपि तु विवाहाः पठ्यन्ते । अतो नेयम् असत्कल्पना । के पुनस् त इत्य् अत आह ।

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥ १.६१ ॥

समयः सङ्केतः । मिथः सहेत्य् अर्थः । आसुरः, आत्मार्थं कन्यार्थं च धनादानम् । यथाह मनुः ।

ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायाश् चैव शक्तितः।
कन्यादानं तु स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥
इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स विधिर् ज्ञेयो मैथुन्यः कामसंभवः ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽष्टमः ॥ इति । (म्ध् ३.३१–३४)

उपगमनशब्द आलिङ्गनादिष्व् इति केचित् । तत् त्व् अशब्दार्थत्वाद् अनादृत्यम् । पापिष्ठता चैवम् उपपन्नतरा भवति, उपपातकयोगाच् च । अन्यथा तद् असमञ्जसं स्यात् । तथा च “केवलं मन्त्रसंस्कृता " इत्य् उक्त्वा “सा चेद् अक्षतयोनिः स्यात्” (वध् १७.७४) इति वसिष्ठो ऽप्य् एतद् एव ज्ञापयति । अतः श्रौतार्थग्रहणं युक्तम् इति । असुरा धनवन्तः । स्त्रीसक्ता गन्धर्वाः । तेनानयोः सार्ववर्णिकत्वम् । दारुणत्वसामान्याद् रक्षः क्षत्रियाः । त एनम् अर्हन्तीति राक्षसः । क्षात्र इत्य् अर्थः । तथा च वसिष्ठः- “भित्त्वा छित्त्वा” इत्य् उपक्रय “स क्षात्रः” (वध् १.३३) इत्य् आह । छलवृत्तयः पिशाचाः, तदर्हः पैशाचः । सर्ववर्णानां चायम् एवापत्कल्पः । आसुरादीनां तु यथाभिधानं क्षत्रियादिविशेषापेक्षया च स्तुतिनिन्दाकल्पनम् ॥ ६१ ॥

किम् एकरूप एव सवर्णासवर्णयोर् विवाहः । नेत्य् उच्यते ।

पाणिर् ग्राह्यः सवर्णासु गृह्णीत क्षत्रिया शरम् ।
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः॥ १.६२ ॥

ब्राह्मणपाणिगृहीतं धनुःशरम् क्षत्रिया गृह्णीयात् । प्रतोदं च वैश्या । प्रतोदो व्राजनिकः । स्त्रियाश् च ग्रहणे कर्तृत्वान् मन्त्रनिवृत्तिः । ऊहने वा प्रयोग इत्य् अन्ये । क्षत्रियवेदने ऽपि वैश्या प्रतोदम् एव गृह्णीयाद् इति केचित्, “उत्कृष्टवेदने” इति मनुवचनात् (म्ध् ३.४४) । तत् पुनः सामान्यस्य विशेषोपसंहृतेर् अयुक्तम् ॥ ६२ ॥

कस्य पुनर् अयं कन्याप्रदानोपदेशः । यदि तावत् पितुः तदभावे दुःश्लिषतैव । अथ तदभावे ऽप्य् अन्यस्य । स किम् इति परकीयां दद्यात् । तेन कः कन्यां दद्याद् इति । उच्यते ।

पिता मातामहो भ्राता स्वकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३ ॥

स्वकुल्य इति भ्रातृविशेषणं पितृव्यपुत्रादिव्यावृत्त्यर्थम् । पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः । प्रकृतिस्थश् च स्वभावस्थः । उन्मादाद्यनभिभूत इत्य् अर्थः । कन्याप्रद इति वचनाद् अक्षताया एव नैयमिकं दानम् । पिता त्व् अकन्याम् अपि दद्याद् इति केचित् । छन्दोनुरोधाच् च मातामहस्य पूर्वपाठः । अर्थतस् तु भ्रातैव पूर्वः । सर्वेषां च स्वत्वसंबन्धाच् चोदनातो वा प्रवृत्तेर् अविरोधः । पाठान्तरं वा- “पिता पितामहो भ्राता सकुल्यो जननी तथा” इति । तत्र पाठक्रमेणैव नियमः । सकुल्य इति च मातुलादिपरिग्रहार्थः । तथान्ये ऽपि योनिसंबद्धा इत्य् अध्याहारः । समानम् अन्यत् ॥ ६३ ॥

यत् तु परकीयां किम् इति दद्याद् इति, तत्राह । यस्माद्,

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।

निन्दार्थवादो ऽयं प्रवृत्त्यर्थः । प्रत्यवायविधिर् वा ॥ ६३अब् ॥

ननु एतद् अप्य् उक्तम् । दात्रभवे गृहस्थाश्रमो दुःश्लिष्ट एव । तत्र पुमांस आश्रमान्तराश्रयणेनापि कृतिनः स्युः । स्त्रीणां तु का गतिर् इति । उच्यते । स्याद् अयं दोषः, यदि पराधीनतैव स्त्रीणाम् आत्यन्तिकी स्यात् । दातृसद्भाव एव तु तासां पराधीनता । तदभावे तु किम् । उच्यते ।

गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयं वरम् ॥ १.६४ ॥

गम्यं गमनार्हम् उक्तलक्षणम् । स्वयम् एवर्तुमती वर्षत्रयाद् ऊर्ध्वं वरं कुर्याद् दात्रभावे । विद्यमानो ऽपि च दाता यदि न दद्यात्, ततो ऽत्याम् (ऽस्याम् ?) अवस्थायां तदीयम् अलंकारम् उत्सृज्य स्वयम् एव वरं वरयेत्, स्मृत्यन्तरात् । यदाप्य् उक्तलक्षणस् तां नेच्छेत्, तदापि सवर्णमात्राश्रयणम् अविरुद्धम् । यथाह बौधायनः ।

त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अलभमाने सदृशे गुणहीनं समाश्रयेत् ॥ इति । (ब्ध् ४.१।१४)

गुणवचनाच् च जातिनियमः । सर्वथा भार्याया भर्तृप्राप्तिः, भर्तुश् च भार्याप्राप्तिः, इत्य् अनवद्यो गृहस्थाश्रमः । तथा चाम्नायः- “उत वै याचन् दातारं लभत एव । अतो भर्ता भार्याम्” इत्यादि ॥ ६४ ॥

कस्मात् पुनर् अद्भिर् वाचा कन्यां दत्त्वा पूर्वदातरि प्रेते परः स्वातन्त्र्याद् अन्यस्मै न दद्यात् । यस्मात्,

सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् ।

तस्माद् अन्यस्मै न दद्यात् । तेनैव विवाहं कारयेत् ॥ ६४अब् ॥

किम् एष एवोत्सर्गः । नेत्य् आह ।

दत्ताम् अपि हरत् पूर्वं श्रेयांश् चेद् वर आव्रजेत् ॥ १.६५ ॥

पूर्ववचनाद् अद्भिर् वाचा च दत्ताम् अपि हरेत् । न तु श्रेयांसम् अपि वरं प्राप्य मन्त्रोपनीताम् इत्य् अभिप्रायः ॥ ६५ ॥

यः पुनर् दुष्टां कन्याम् अदुष्टेयम् इति प्रयच्छेत्, तस्य का कथेति । उच्यते । स तादृशः,

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् ।

यद् वैवं योजना- पूर्ववरे स्पष्टं दोषम् अनाख्याय न्यायतो ऽनुभाव्यान्यस्मै श्रेयान् इति मत्वा यः प्रयच्छति, स दण्ड्यः ॥

न केवलं दाता, वरोऽपि च,

अदुष्टां यस् त्यजेत् कन्यां दूषयंस् तु मृषा शतम् ॥ १.६६ ॥

यस् तु दोषरहितां त्यजेत् कन्यां, सो ऽप्य् एवं दण्ड्यः । मृषैव तु दूषयन् कार्षापणशतं दण्ड्यः, मृषेत्य् अभिधनात् । अदुष्टवचनाच् च दुष्टां त्यजतो न दोषः ॥ ६६ ॥

कस्मात् पुनर् मृते भर्तरि न पाणिमात्रदूषितान्यस्मै पुनर् दीयते । यस्मात्,

अक्षता वा क्षता वापि पुनर्भूः संस्कृता पुनः ।

यथैव क्षतयोनिः पुनर् भर्तृसंयोगात् पुनर्भूर् भवति, एवम् अक्षतयोनिर् अपि, अविशेषात् । कस्मात् पुनर् दानम् । स्मृत्यन्तरात् । यथाह मनुः ।

सा चेद् अक्षतयोनिः स्यात् । । । । । पुनः संस्कारम् अर्हति ॥ इति । (म्ध् ९.१७६)

तत् कामतः प्रवृत्तौ विशेषविधानम्, न कर्तव्यतयोपदेशः । तथा चाह मनुः ।

न विवाहविधाव् उक्तं विधवावेदनं क्वचित् ॥ इति । (म्ध् ९.६५)
न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ॥ इति च । (म्ध् ५.१६२)

तस्मान् न पुनःसंस्कार इत्य् आचार्याभिप्रायः ॥

यदा पुनः स्वयम् एवान्यं सवर्णम् उत्कृष्टं व समाश्रयेत्, तदा को दोष इति, उच्यते ।

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७ ॥

पुनर्भूः स्वैरिणीति च संज्ञा दौष्ट्यज्ञापनार्था । जीवन्तं मृतं वा या भर्तारं त्यक्त्वा स्वातन्त्र्यात् सवर्णम् उत्कृष्टवर्णं वा समाश्रयेत्, सापि स्वैरिणी । अतः स्वयम् अपि नान्य आश्रयितव्यः । यत् पुनः शङ्खेनोक्तम्, “तिस्रः पुनर्भ्वश् चतस्रः स्वैरिण्यः” इति, तद् अनयोर् दौष्ट्यप्रपञ्चनार्थं प्रायश्चित्तविवेकार्थं वेत्य् एतन् नातीवोपु(प?)युज्यते । एवं वासिष्ठम् अपि पुनर्भूलक्षणं द्रष्टव्यम् (वध् १७.१९–२०) । सर्वथा भोग्ये अप्य् एते निर्णीतत्वाद् उपेक्षणीये इति श्लोकार्थः । तथा च वक्ष्यति- “मृते जीवति वा पत्यौ” इति (य्ध् १.७५) ॥ ६७ ॥

ननु एवं सत्य् अपुत्रस्य मरणात् संतत्युच्छेदप्रसङ्गः । अस्तु । का नः पीडा । अथ वा-

अपुत्रां गुर्वनुज्ञानाद् देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ १.६८ ॥

घृताभ्यञ्जनवचनं कामप्रवृत्तिनिरोधार्थम् । ततश् चालिङ्गनादि वैकारिकत्वाद् दूरापेतम् । ऋतुग्रहणं त्व् अन्यदा दर्शनाद्य् अपि कथं न स्याद् इत्य् एवम् अर्थम् ॥ ६८ ॥

किं सकृद् एव गमनम् । , अदृष्टार्थत्वप्रसङ्गात् । अपत्यार्थं ह्य् एतद् गमनम् । अतस् तु,

आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् ।

प्राग् गर्भसंभूतेः परित्यागात् । तुशब्दश् चैवकारार्थः ॥

यद् वैवं योजना । ननु अयं नियोगपक्षो दुःश्लिष्टः, पातकप्रसङ्गात् ।

अनेन विधिना जातः क्षेत्रिणः स भवेत् सुतः ॥ १.६९ ॥

अनेन नियोगविधिना जातः क्षेत्रिणो भ्रात्रादेर् औरसवत् पुत्रो भवतीत्य् अयम् विधिः । नात्र विचिकित्सा कार्येत्य् अर्थः । न चैवंवृत्तः पतितो भवति । कथं तर्हि “पतितस् त्व् अन्यथा भवेत्” इति । तदनियुक्तेर् विकाराद् वा गच्छन्न् इत्य् अभिप्रायः । अयं पुनः परोपकाराय प्रवृत्तेर् अभ्युदयभाग् इत्य् अनवद्यो नियोगः । अत्र चोदयन्ति । नायं नियोगपक्षः श्रेयान्, स्मृत्याचारविरोधात् । तथा चाह मनुः ।

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ इति । (म्ध् ९.६४)

पुराकल्पं चोपन्यस्योपसंहृतम् ।

तदाप्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थे तं विगर्हन्ति साधवः ॥ इति । (म्ध् ९.६८)

अतो नास्ति नियोगः । तथा च शिष्टसमाचारः । ननु इयम् अपि स्मृतिर् एव “अपुत्रां गुर्वनुज्ञानात्” (य्ध् १.६८) इत्यादि । मानवे ऽपि ।

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया । (म्ध् ९.५९)

इत्यादि । न चेयं लोभादिमूलेति शक्यं वक्तुम्, सर्वथा विकारप्रतिषेधात् । तद् उक्तं “घृताभ्यक्तः” इति (य्ध् १.६८) । मनुनापि च-

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि । इति । (म्ध् ९.६०)

अतो नेयम् अपस्मृतिः । अथ श्वशुरधनादीच्छया लोभ आशङ्क्येत, तद् अपि

प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये । (म्ध् ९.५९)

इत्य् अनेनैव निरस्तम् । तथा चोक्तम् ।

पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि । इति । (म्ध् ९.५८)

वसिष्ठेनापि- “धनलोभान् नास्ति नियोगः” इति (वध् १७.६५) । अतो निर्दोषः । शास्त्राविशेषात् तु प्रतिषेधो विकल्पाय भवति । अतो न विरोधः । अन्ये तु प्राग् विवाहाद् उपरते भर्तरि नियोगाधिकारं वर्णयन्ति, सामान्यविशेषोपसंहृतिन्यायात् । यथाह मनुः ।

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥ इति । (म्ध् ९.६९)

तत् तु विधवायां नियुक्तस् त्व् इत्य् अनेनैव निरस्तम् । ननु च सापि विधवेति शक्यं वक्तुम् । स्मृत्यन्तरविरोधात् । यथाह वसिष्ठः- “प्रेतपत्नी षण्मासं व्रतचारिणी” इत्य् उपक्रम्य, “पित्रा भ्रात्रा वा नियोगं कारयेत्” इत्यादि (वध् १७.५५–५६) । ननु अनूढापि प्रेते पत्यौ प्रेतपत्न्य् एव । मैवम् । न हि प्राग् विवाहात् पत्नीशब्दप्रवृत्तिर् इति । एवं हि भगवतः पाणिनेः स्मरणम्- “पतुर् नो यज्ञसंयोगे” इति (पाण् ४.१।३३) । अतो ऽसत्कल्पनम्, उपक्रमोपसंहारात् । कथं तर्हि “यस्या म्रियेत” (म्ध् ९.६९) इत्य् अयं श्लोकः । आसुरविवाहविषयतया व्याख्येयः । यस्याः कन्यायाः शुल्कं दत्त्वा शुल्कदो म्रियेत, सा यदीच्छेत्, ततो देवराय पूर्ववत् प्रदातव्या । न चेद्, नियोगं देवरेणैव कारयेत् । यद् वा “निजो विन्देत” (म्ध् ६.६९) इति निजग्रहणात् सोदर्यो देवरः अनेन विधिना नैयोगिकेन वैवाहिकेन वा विन्देतैव । सापत्नस् तु कन्यानुमतः । तथा चाह ।

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ इति । (म्ध् ९.९७)

यदा त्व् अदत्तशुल्क एव म्रियेत, तदा तस्मिन् प्रेते कुमार्य् एव सतीच्छयान्यस्मै पित्रा विधिवद् देया । यथाह वसिष्ठः ।

अद्भिर् वाचा च दत्ता या म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥ इति । (वध् १७.७२)

आदाव् इति वचनाद् विवाहसंनिधौ वाग्दत्ताप्य् अकन्यकेति ज्ञयते । “बलाच् चेत् प्रहृता कन्या” (वध् १७.७३) इत्य् अस्य पुनर् अयम् अर्थः । प्रहृता दूषिता, प्रशब्दसामर्थ्यात् । क्षात्राच् च विधेर् अन्यत्रैव द्रष्टव्यम्, तत्र दूषणासंभवात् । यदि मन्त्रैर् न संस्कृता ततो ऽन्यस्मै विधिवत् प्रायश्चित्तं कारयित्वा देया । कृतप्रायश्चित्ता च “यथा कन्या तथैव सा” (वध् १७.७३) इति मन्तव्यम् । इदं तु कल्पान्तरम् ।

पाणिग्राहे मृते कन्या केवलं मन्त्रसंस्कृता । इति । (वध् १७.७४)

अस्यार्थः- ग्रामधर्मेण पूर्वम् अपि विवाहात् पाणिग्रहणम् । तस्मिन् पाणिग्राहे । मृते कन्याहुतेर् वा प्राक् पणिग्रहणाद् यद्य् अक्षतयोनिः । तथाप्य् अन्येन भर्त्रा पुनर् विवाहसंस्कारम् अर्हतीति । सर्वथा परिणीतायाः पुनः परिणयनाभावः । तद् उक्तम्-

न विवाहविधाव् उक्तं विधवावेदनं क्वचित् । इति । (म्ध् ९.६५)

तथा च बौधायनः ।

निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः । इति । (ब्ध् ४.१।१६)

अपि निसृष्टायाम्, अपि हुते, न परिणीतायाम् इत्य् अर्थः । “सा चेद् अक्षतयोनिः स्यात्” (ब्ध् ४.१।१६) इत्य् एतद् एव स्पष्टीकरोति, यद् उपवर्णितम् अस्माभिः । अतो न कन्याविषया नियोगस्मृतिः । कस् तर्हि विषयः । प्रेते पत्यौ सन्तानपरिक्षये च । प्रतिषेधसामर्थ्याच् च विकल्पः । तथा चाम्नायः- “तस्माद् एकस्य बह्व्यो जाया भवन्ति, नैकस्यै बहवः सहपतयः” इति (ऐत्ब् ३.२३) । सहप्रतिषेधाच् च क्रमेण भवन्तीति ज्ञायते । तथा “यस्मै मां पिता दद्याद् नैवाहं तं जीवन्तं हास्यामि” इति (श्ब् ४.१।५.९) जीवन्नहानवचनाच् च मृते भर्तरि नियोगो ऽस्तीति ज्ञायते ।

को वां शयुत्रा विधवेव देवरं
मर्यं न योषा कृणुते सधस्थ आ । (र्व् १०.४०.२)

इत्य् अस्मात् पुनर् मन्त्रवर्णात् स्पष्टतरो नियोगः । एवं हीन्द्रेण चिराद् दृष्टाव् अश्विनाव् उक्तौ दुर्दर्शौ युवां क्व पुनर् विधवेव योषा देवरं मर्यं मनुष्यभावं शयने हर्षस्थाने आपादयन्ती कच्चिद् आ कुरुते वाम् उपचरतीत्य् अर्थः । अनेन नियोगं स्पष्टीकरोति । तथा च वसिष्ठः- " प्राजापत्ये मुहूर्ते पाणिग्राहवद् उपचरेत्” इति (वध् १७.६१) । अतो ऽनवद्यो नियोगः ।

  • अत्रोच्यते । नैवं नियोगस्मृतिर् व्याख्येया, समाचारविरोधात्, विकल्पस्य चान्याय्यत्वात् । कथं तर्हि । शूद्राविषया नियोगस्मृतिः । कुत एतद्, मनुवचनात् ।

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । (म्ध् ९.६४)

इति द्विजातिसंबद्धः प्रतिषेधः । सामान्यतः शूद्रसंबन्धितया विधिः । तस्माद् अविकल्पः । तथा चोक्तम् ।

अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥ इति । (म्ध् ९.६६)

मनुष्याणाम् अपि शूद्राणाम् अपीत्य् अर्थः । तथा च समाचारः । यत् पुनर् व्यासेन विचित्रवीर्यभार्यास्व् अपत्योत्पादनम्, तद् द्रौपदीविवाहवद् अनादृत्यम् । अथ वा क्षत्रियाणाम् अप्य् अन्वयक्षये राज्यपरिपालनाय नियोगो ऽभ्यनुज्ञायते । स च राज्ञाम् एव । कार्यानुरोधाद् व्यासवचनाच् च । राज्ञां ब्राह्मणेनैव कारयितव्यम् । एवं च सत्य् आम्नाया अपि क्षत्रियविषया एव “नैवाहं तं जीवन्तं हास्यामि” (श्ब् ४.१।५.९) इत्यादि । जीवन् समर्थो न हातव्य इत्य् आम्नायार्थः । “नैकस्यै बहवः सहपतयः” (ऐत्ब् ३.२३) इति तु पुनःसंस्कारविषयम् । तत्र मुख्यः पतिशब्दः । मन्त्रवर्णस् तु शूद्रविषय एव व्याख्येयः । एवं देवरादिवाक्यान्य् अन्यान्य् अपि व्याख्येयानि । तथा च वृद्धमनुः ।

शूद्राणाम् एव धर्मो ऽयं पत्यौ प्रेते ऽन्यसंश्रयः ।
लोभान् मूढैर् अविद्वद्भिः क्षत्रियैर् अपि चर्यते ॥

इत्य् उक्त्वाह ।

वायुप्रोक्तां तथा गाथां पठन्त्य् अत्र मनीषिणः ।
विप्राणां न नियोगो ऽस्ति प्रेते पत्यौ न वेदनम् ॥

इयं सा गाथा ।

अकार्यम् एतद् विप्राणां विधवा यन् नियुज्यते ।
उह्यते वा मृते पत्यौ देवरेण विशेषतः ॥ इति ।

कथम् इदानीम् एतद् वसिष्ठवचनम् ।

भ्रातर्य् अव्यपदेशेन नाध्येतव्यं कदाचन । इति । (नोत् इन् वध्)

अनेन ह्य् अध्यापनसंबन्धाद् ब्राह्मणानाम् अपि नियोगाधिकारो ऽस्तीति गम्यते । उच्यते । नैतद् युक्तम्, उक्तत्वान् न्यायस्य । भूयसाम् अनन्यपराणां चानर्थक्याद् वरम् एकस्यान्यपरस्य च बाधकल्पना । क्षत्रियविषयं चैतद् वाक्यम् । तेषां ह्य् आपदि नियोगाधिकारात् । स च ब्राह्मणेनैवेत्य् उक्तम् । तेनैवं योजना- भ्रातर्य् अध्यापयत्य् अपि नाध्येतव्यम् । केन । अव्यपदेशेन । न व्यपदिश्यते ऽनेनेत्य् अव्यपदेशः । अन्यजातीय इत्य् अर्थः । किमर्थम् । बोद्धव्यम् “गुरुतल्पस्य निमित्तम्”, भ्रातुः शिष्यभार्यागमनात्, “भर्ता ह्य् आपत्सु देवरः” ।[^८] भर्तेति भरणयोगाच् छ्रैष्ठ्याच् च ब्राह्मणः स यस्माद् आपत्सु देवरो भवति, नियोज्यत इत्य् अर्थः । तस्मात् ततो नाध्येतव्यम् । आपत्स्व् इति चैकस्याम् एवापदि । बहुवचनं गौरवार्थम् । सन्तानपरिक्षयलक्षणैवापद् यथा स्यात् । नाध्यापयितव्य इति च वक्तव्ये नाध्येतव्यम् इत्य् उक्तं क्षेत्रिणः पुत्र इति ज्ञापनार्थम् । कथं वास्य ब्राह्मणविषयत्वोपपत्तिः । न हि सोदर्ययोर् नि(र्?)योगसंभवः । कथं कृत्वा । यदि तावन् नियोज्यो ऽप्य् अपुत्रः, तदात्मन एवोत्पादयेत् । अथ तस्य पुत्रो ऽस्ति, तदा

भ्रातॄणाम् एकजातानां यद्य् एकः पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ (म्ध् ९.१८२)

इति वचनाद् अक्षीणत्वात् सन्तानस्य कुतो नियोगः । क्षत्रियविषयत्वे तु नैष विरोधः । अथ सापत्नविषयतोच्येत । तत् क्षत्रिये ऽपि समानम् । यदा त्व् एकजातानाम् इत्य् अस्यैकवर्णजातानाम् इत्य् अर्थः, तदा स्पष्टैव क्षत्रियविषयता । यत् तु ब्राह्मण्याः प्रोषिते भर्तरि कालप्रतीक्षणवचनं, तद् भर्तुर् अन्तिकगमनार्थं न नियोगार्थम् इति विविच्य वचनीयम् । तस्मात् सूक्ता नियोगवाक्यानां विषयकल्पना । एवं तावच् छूद्राणां नियोगाधिकार उक्तः ॥ ६९ ॥

यदा पुनर् ब्राह्मण्य् अप्य् एवं कुर्यात् तदा तां तद्रक्षणाधिकृतः ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ १.७० ॥

एवं तावत् संतानपरिक्षये ऽपि नियोगानधिकारात् प्रवर्तमाना व्यभिचारिण्य् एव । ताम् एवम् अपनीतगृहाधिपत्यां कुचेलां वरोपनीतसंस्काररहितां ग्रासमात्रभक्तां सर्वथा परिभूतां स्थण्डिलशायिनीं वासयेत् । एतद् एव प्रायश्चित्तं न वक्ष्यामाणं, शास्त्रव्यामोहात् प्रवृत्तेर् अल्पदोषता यतः । स्मृत्यन्तराच् चैतत् संवत्सरप्रायश्चित्तम् ॥ ७० ॥

अथ वा, यदि स्त्रियः स्वातन्त्र्याद् अन्यम् आश्रयेयुस् ततो दोषभागिन्यः स्युः । यदा पुनर् धनलोभाद् व्यामोहाद् वा बन्धुभिर् नियुज्यन्ते, तदा तेषाम् एव दोषः प्रायश्चित्तं च, न तु स्त्रीणाम् । अतः स्त्रियो निर्दोषाः । किं तु ।

सोमः शौचं ददौ स्त्रीणां गन्धर्वश् च शुभां गिरम् ।
पावकः सर्वभक्षत्वं मेध्या वै योषितो मताः ॥ १.७१ ॥

वैशब्दो ऽवधारणार्थः । यस्मात् सोमादिभिर् आसां शौचं मनोवाक्कायलक्षणं दत्तम्, तस्मान् निर्द्ōषा एवैताः । पुंसाम् एव नियोगकर्तॄणाम् दोष इत्य् अभिप्रायः । अनेन नियोगकर्तॄणाम् अपि प्रायश्चित्तम् अस्तीत्य् उक्तम्, न तु स्त्रीणां निषिद्धम्, पूर्वश्लोकानर्थक्यप्रसङ्गात् । स्वातन्त्र्याद् व्यभिचारे वा तद् द्रष्टव्यम् । नियोगे तु पारतन्त्र्यात् स्त्रियो निर्दोषाः ॥ ७१ ॥

क्व पुनः स्त्रीणां दोषः । क्व वा त्यागः । उच्यते ।

व्यभिचार ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधे चासां तथा महति पातके ॥ १.७२ ॥

स्त्रीणां दोषो व्यभिचाराद् भर्तुः । तत्र चोक्तं प्रायश्चित्तं हृताधिकाराम् इत्यादि । एवम् ऋताव् अपि व्यभिचारे न चेद् गर्भसंभवः शुद्धिर् अस्त्य् एवेत्य् अभिप्रायः । गर्भोत्पत्तौ त्याग एव । विधीयत इति विचिकित्सानिवृत्त्यर्थम् । तथा गर्भवधे भर्तृवधे महापातकसंबद्धे च ब्रह्महत्यादौ । त्याग इत्य् अनुषङ्गः । गर्भवधश् च सौभाग्यदर्पादिना ऋतुस्कन्दनम् । तथा च बौधायनः ।

भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेद् गृहात् ॥ इति । (ब्ध् ४.१।२०)

भर्तृवधश् च वाचनिकः, अन्यत्र महापातकवचनाद् एव सिद्धत्वात् । तथा चाह गार्ग्यः- “पतिताः स्त्रियस् त्याज्याः भर्तृवधप्रतिज्ञायां च” इति । क्षत्रियादिविषयो वायं गर्भभर्तृवधो योज्यः । अतो ऽन्यत्र महत्य् अपि दोषे न त्याज्याः ॥ ७२ ॥

किं तर्हि ।

सुरापी व्याधिता धूर्ती वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥

एवमादिभिर् दोषैर् अधिवेत्तव्या । न त्याज्येत्य् अर्थः । सुराशब्देन चात्र गौलीमाध्व्योर् ग्रहणं, महापातके त्यागोपदेशात् । क्षत्रियादिभिर् अपि निषिद्धां पिबन्त्यस् त्याज्याः । व्याधिता असमाधेयकुष्ठादिरोगग्रस्ता । धूर्ती वञ्चनशीला । वन्ध्या प्रसिद्धा । अर्थशब्दस् तु धर्मकामयोर् अपि ग्राहकः । पुरुषार्थघ्नीत्य् अर्थः । अप्रियंवदा प्रसिद्धैव । स्त्रीप्रसूः केवलस्त्रीप्रजननी । पुरुषद्वेषिणी रतिपराङ्मुखी । अधिवेदनम् उपरिपरिणयनम् । तद् आसाम् अनुभाष्य दोषं कर्तव्यं, स्मृत्यन्तरात्- “दुष्टां भार्यां जायां परिभाष्याधिवेदयेत्” इति ॥ ७३ ॥

ननु अधिवेदनम् अपि त्याग एव, अन्योपादाने तया कार्याभावात् । मैवम्

अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् ।
यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ॥ १.७४ ॥

तुशब्दो ऽपिशब्दार्थः । अधिविन्नापीत्य् अर्थः । यद् वोत्क्ष्यावधारणार्थः । भर्तव्यैव नोपगन्तव्येत्य् अर्थः । दोषापरित्यागे च तत् । अन्यथा महद् एनः स्यात् । महापातकम् इत्य् अर्थः । कस्मात् पुनर् एवम् अधिवेदनाद्युपदेशः । यस्मात्, यत्रानुकूल्यम् ऐकमत्यं जायापत्योः, त्रिवर्गो धर्मार्थकामलक्षणस् तत्र वृद्धिम् उपैति । अन्यथा तु विपर्ययः स्यात् । तस्मात् सूक्तम् अधिवेदनाद्यनुष्ठानम् ॥ ७४ ॥

कस्मात् पुनर् अधिविन्ना भर्तारं परित्यज्यान्यं न समाश्रयेत् । यस्मात्,

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति ।
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ १.७५ ॥

सहेत्य् उपमार्थे । अनुपगमे च स्तुतिदर्शनाद् उपगमे दोषानुमानम् । ऐहिकफलं च कीर्तिः, आमुष्मिकं स्वर्गावाप्तिः । अन्यथा तु द्वयविपर्ययः । तस्माद् अधिविन्नयापि न भर्ता त्याज्यः ॥ ७५ ॥

भर्ता तु दोषवान् मध्ये त्याज्यः, तादृषस्यैव चाज्ञानन्यपराभिर् अनुष्ठेया, यस्मात्,

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ।
आ शुद्धेः संप्रतीक्ष्यो ऽपि महापातकदूषितः ॥ १.७६ ॥

दोषवतो ऽपि भर्तुः स्त्रीभिर् वचनम् अविकल्पमानाभिः कार्यम् । एष स्त्रीणां परो धर्मः । अवधारणार्थो वा परशब्दः । एष एव धर्मः । नान्यो धर्म इत्य् अर्थः । तथा च मनुः ।

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ इति । (म्ध् ५.१५४)

यदा पुनर् महापातकदोषाद् व्यवहारायोग्यो भर्ता स्यात्, तदा किम् । तदाप्य् आ शुद्धेः संप्रतीक्ष्यः । अभिविधाव् आङ् द्रष्टव्यः । अपेश् चोत्कृष्य योजना । महापातकदूषितो ऽपीत्य् अर्थः । ततश् च तत्समादौ प्राग् अपि शुद्धेर् न त्याज्यः । संशब्दाच् च ब्रह्मचारिण्या तत्परया च प्रतीक्षितव्यः । सर्वथा स्त्रीभिर् भर्ता जीवन् मृतो वा न त्याज्य इति प्रकरणार्थः । तथा च व्यासः- “भर्त्रेकदेवता नार्यः” इति ॥ ७६ ॥

याश् चैवं भर्तारम् अनन्यपरतयैवोपचरन्ति, ताः प्रयत्नतो भर्तृभिर् अपि ।

लोकानन्त्यदिवप्राप्तिः पुत्रपौत्रप्रपौत्रिका ।

स्त्रीतः ।

यस्मात् तस्मात् स्त्रियः सेव्याः

किं च,

                                            > **भर्तव्याश् च सुरक्षिताः ॥ १.७७ ॥**

लोकप्राप्तिर् आनन्त्यप्राप्तिर् दिवप्राप्तिश् च क्रमेण पुत्रपौत्रप्रपौत्रिका यस्मात्, तस्मात् स्त्रियः सेव्याः । तथा चाहुः ।

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । (म्ध् ९.१३७)

लोकः पृथिवी । आनन्त्यम् अन्तरिक्षम् । दिवः स्वर्गः । पाठान्तरम्- लोकानन्त्यं दिवप्राप्तिर् इति । तस्यार्थः- दिवप्राप्तिस् त्व् अग्निहोत्राद्यनुष्ठानात् । लोकानन्त्यं च तदभ्यासात् । तथा च चरकाः- “न स तस्माल् लोकात् प्रच्यवते, यस् त्रिर् ईजानः” इति । किं च पुत्रपौत्रप्रपौत्रिका च संततिर् अत एव । यस्माच् चैवं तस्मात् स्त्रियः सेव्या इत्यादि समानम् ॥ ७७ ॥

स्त्रियः सेव्या इत्य् उक्तम् । तत्रानियमप्राप्ताव् आह ।

षोडशर्तुर् निशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।
ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रश् च वर्जयेत् ॥ १.७८ ॥

रजोदर्शनादिः षोडश रात्रय ऋतुसज्ञकः कालः । तत्र नार्यो गर्भग्रहणसमर्था भवन्तीति तासु युग्मासु रात्रिषूपगच्छेत् । किम् एवं स्यात्, ब्रह्मचार्य् एव, एवं गच्छन् नित्येनोपरितनश्लोकेनास्य संबन्धः । ब्रह्मचर्यशब्दश् चायं विरोधात् तत्फले वर्तते । ब्रह्मचर्यफलं ब्रह्मलोकप्राप्तिर् अस्येत्य् अर्थः । तथा च वसिष्ठः ।

ऋतौ च गच्छन् विधिवच् च जुह्वन्
न ब्राह्मणश् च्यवते ब्रह्मलोकात् ॥ इति । (वध् ८.१७)

यद् वा कारणान्तराद् ब्रह्मचर्ये स्थितो ऽपि गच्छेत् । यतो गच्छन्न् अपि ब्रह्मचार्य् एव, व्रतान् न हीयत इत्य् अर्थः । एवं चातिप्रसक्ताव् आह- पर्वाण्य् अमावास्यादीनि । आद्याश् चर्तौ चतस्रो रात्रीर् वर्जयेद् इति ॥ ७८ ॥

किं चान्यत् ।

एवं गच्छन् स्त्रियं क्षामां मघामूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ १.७९ ॥

क्षामा दुर्बला रोगिणी वा । वन्ध्येत्य् अन्ये, यथाह भृगुः ।

अधिविन्नां तु यो भार्याम् उपेयाद् अप्य् ऋतौ द्विजः।
रक्षणार्थम् अकामश् चेत् प्राजापत्येन शुध्यति ॥ इति

तत् पुनः पुत्रार्थत्वाद् अधिगमनस्यात्राप्रसक्तम् एव । मघापौष्णं चेत्य् अन्ते पठन्ति । तथा च गणितज्ञाः ।

प्रसवस् तु निषेकर्क्षात् दशमे योषितामुडौ ।
यस्मात् तं वर्जयेत् तस्माद् रेवतीषु मघासु च ॥ इति ।

तत् पुनश् चशब्दाद् एव रेवत्यवाप्तेर् अकिंचित् । मूलम् अप्य् अश्विन्यादेर् गण्डान्तत्वाद् वर्जनीयम् एव । उपलक्षणार्थत्वाच् च मूलश्रुतेर् अन्यद् अपीदृक् परिहरणीयम्, प्रमाणान्तरमूलत्वाच् चास्य पुनर् वर्जनवचनस्य । किं च, “सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान्” । सकृद् इत्य् अस्य पूर्वश्लोकगतेन संबन्धः संविशेद् इत्य् अनेन । तथा चाह मनुः ।

निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयेत् ।
ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ इति ॥ (म्ध् ३.५०)

षड् निन्द्याः आद्याश् चतस्रः एकादशी त्रयोदशी च । अष्टाव् अन्या अनिन्द्याः । एवं चतुर्दश् वर्ज्याः । शिष्टं रात्रिद्वयम् । तत्रैका स्त्र्यर्थेति मन्वभिप्रायः । आचार्यस् तु पुत्रोत्पादनम् एव नैयोगिकं मन्यमानः सकृद् इत्य् आह । अत एव चतस्रश् चेत्य् अयम् अपि चकारो न रात्र्यन्तरार्थः । चतस्र इति प्रतिषेधो ऽन्यदावर्जनार्थः । अस्तु वैवं रात्र्यन्तरग्रहणार्थश् चकारो ऽपि, अर्थातिरेकात् । एवं गच्छन् लक्षण्यं जनयेत् पुमान् स्त्रीतो ऽतिरिक्तशुक्लः । तथा चाह मनुः- “पुमान् पुंसो ऽधिके शुक्लः” इति (म्ध् ३.४९) । सर्वथा शास्त्राबाधेन भिषग्दैवज्ञाद्युपदेशानुसारात् तथाभिगमनक्रिया, यथा च लक्षण्यपुत्रोत्पादः स्याद् इति श्लोकद्वयस्यार्थः । पुत्रम् इति चोद्देश्यत्वाद् अतन्त्रं संख्या । तथा च शङ्खः ।

पुत्रपौत्रप्रतिष्ठस्य बह्वपत्यस्य जीवतः । इति ।

मन्त्रवर्णश् च “अशून्योपस्था जीवतम् अस्तु माता” (आप्म्प् १.४।८) इति बहुपुत्रतां दर्शयति, “दशास्यां पुत्राण् आ धेहि पतिम् एकादशं कृधि” (आप्म्प् १.४।६) इति च । युग्मरात्र्यादिवचनं तु लिङ्गविवक्षयेत्य् अदोषः । पूर्वश्लोकड् एव च पुत्रार्थं स्त्रियः सेव्या इत्य् ऋताव् एव गमनप्राप्तेः सकृद्गमननियमपरतयैतच् छ्लोकद्वयम् ऋतुगतरात्र्यन्तरनिवृत्तिफलं द्रष्टव्यम् । मानवं तु “ऋतुकालाभिगामी स्यात्” (म्ध् ३.४५) इति व्रते ऽर्थे स्मर्यमाणणिनिप्रत्ययान्तत्वान् नियमपरतयैव व्याख्येयम् । श्लोकान्तरानुसारात् तु पुत्रार्थिनः सकृद्गमननियम इत् व्याख्यातम् । एतेनैव वासिष्ठं व्याख्यातम् (वध् ८.१७) । “ऋतुकालाभिगामी स्यात्” इति फलश्रुतेश् च “ऋतौ गच्छन्न्” (वध् ८.१७) इति स्मृत्यन्तरानुसाराच् च युग्मायां रात्रौ सकृद् इति व्याख्येयम् । गौतमीयं त्व् अनृतुपरिसंख्यार्थम् “ऋताव् उपेयद्” इति केचित् (ग्ध् ५.१) । ऋताव् अनृतौ वार्थाद् एव गमन्प्राप्तेः, सूत्रान्तरारम्भाच् च “सर्वत्र वा प्रतिषिद्धवर्जम्” इति (ग्ध् ५.२) । तथा सूत्रद्वयम् अप्य् अनर्थकं स्याद्, अर्थाद् एव विकल्पप्राप्तेः । तस्मात् तद् अपि नियमार्थम् एव व्याख्येयम् । उत्तरसूत्रं त्व् अर्थप्राप्तम् एवानृतौ गमनविकल्पम् अनूद्य प्रतिषिद्धवर्जम् इत्य् एवम् अर्थम् । अयं त्व् अत्र संप्रदायः- ऋताव् अजातपुत्रः सकृद् अगच्छन् प्रत्यवैति, जातपुत्रस्य त्व् अगमने ऽप्य् अदोषः । तथा चाहुः ।

ज्येष्ठ एव तु पुत्रः स्यात् कामजान् इतरान् विदुः । इति । (च्ड़्। म्ध् ९.१०७)

यावद्भार्यं चैकैकपुत्रानुत्पादने प्रत्यवायः, तदपेक्षयैव पुत्रोत्पादनविधानात् । असवर्णासु तु जातपुत्रस्य याथाकाम्यम्, स्मृत्यन्तरात् ।

कृतदारो ऽवरान् दारान् भिक्षित्वा यो ऽधिगच्छति ।
रतिमात्रं फलं तस्य द्रव्यदातुस् तु संततिः ॥ इति । (म्ध् ११.५)

अवरशब्दो ऽयम् असवर्णाभिप्रायः, सवर्णयैव कृतदारत्वात् । यथा चैतद् एवं तथोकं प्राक् । जातूकर्णश् चाह- “सवर्णया कृतदारो नान्याम् इच्छेत् संतानस्यान्यगामित्वाद्” इति । नार्युत्पादने तु विकल्पः, रात्रिद्वयस्य मनुनोक्तत्वात्, अत्र च सकृच्छ्रुतेः । अनृतौ तु स्त्रीकामाद् एव गमनं, “सर्वत्र वा” (ग्ध् ५.२) इति सूत्रारम्भात् । ऋताव् अप्य् उक्तकालातिरेकेणानृतुतुल्यत्वात् स्त्र्यनुरोधेनैव गमनम् इति स्थितिः । ननु ऋताव् अपि स्त्रीकामाद् एव गमनं युक्तं, कामात्मतानिषेधात्, मन्त्रवर्णाच् च- “उतो त्व् अस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः” इति (र्व् १०.७१.४) । अप्य् एकस्मै वाग्विस्रब्धम् आत्मनम् अर्पयति जायेव पत्ये उशती कामयमाना सुवासाः ऋतुकालेष्व् इति स्त्रीकामाद् एव गमनप्रवृत्तिं दर्शयति । नैवम् । उभयनियमद्योतनार्थो ऽयं मन्त्रवर्ण इति । विशेषेण पुत्रोत्पादनचोदना स्त्रीपुंसयोर् यतः, तथा च द्वयोर् अप्य् अगमने प्रत्यवायाम्नानम् । तथा चाह बौधायनः ।

ऋतुमतीं तु यो भार्यां संनिधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस् तस्य शेरते ॥ इति । (ब्ध् ४.१।१८)

स्त्रियो ऽपि ।

भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं निर्धमेद् गृहात् ॥ इति । (ब्ध् ४.१।२०)

तस्माद् ऋतौ न स्त्रीकामाद् एव गमनं युक्तम् इत्य् एषा दिक् ॥ ७९ ॥

एवं तावद् ऋतौ गमनविधिम् उक्त्वाथेदानीम् अर्थप्राप्तत्वाद् गमनस्यानियमे प्राप्त आह ।

याथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८० ॥

अपिशब्दस्य क्रमभेदेन योजना- याथाकाम्य् अपि भवेत् । स्त्रीवत् कामो यस्य स याथाकामी, वचनाभावे ऽपि यदृच्छया गमनस्य प्राप्तत्वात् । यद् वा याथाकाम्य् अपि वा याथाकाम्य् एव स्याद् इत्य् अवधारणार्थो वाशब्दः । कस्मात् । स्त्रीणां वरम् अनुस्मरन् । “अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयीरन्” (वध् १२.२४; ५.८) इत्यादिवाक्यं सूचयति । स्त्रीकामाद् अनृताव् अपि गच्छेद् इति श्लोकार्थः । किं च स्वदारनिरतश् चैव स्यात् । कुतः । स्त्रियो रक्ष्या यतः स्मृताः । उक्तम् एतत्- “भर्तव्याश् च सुरक्षिताः” (य्ध् १.७७) इति । रक्षा च स्त्रीणां स्वदारनिरतत्वम् एव परमार्थत्वेन । न तु ताडनादिका । तया तासाम् अनर्थो ऽपि संभाव्येत । तथा च लौकिकाः “पाञ्चालस्त्रीषु मार्दवम्” इति पठन्ति । चकार एवकारश् च पादपूरणार्थौ । यद् वोत्कृष्य स्त्रियो रक्ष्या एव यतः स्मृता इति योज्यम् । रक्षणविधिनैव स्वदारनिरतत्वनियमान् न विध्यन्तरापेक्षेत्य् अभिप्रायः । तथा च वसिष्ठः ।

या स्याद् अनतिचारेण रतिः सा धर्मसंश्रिता । इति । (वध् १२.२३)

मनुर् अप्य् आह ।

स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ इति । (म्ध् ९.७)

“प्रसूतिरक्षणम् असंकरो धर्मः” (ग्ध् ८.३) इति च गौतमः । तेन रक्षणार्थं वरश्रुतेर् अनृताव् अपि स्त्रीकामाद् अगच्छतो दोष इत्य् अनवद्यम् ॥ ८० ॥

यस्माच् च लोकानन्त्यदिवप्राप्तिः पुत्रपौत्रप्रपौत्रकाः स्त्रीतः, स्त्रियः सेव्या इति च स्थितम् । तस्माद् एव कारणात्,

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ १.८१ ॥

सर्वोपकारकत्वात् संतानस्य स्त्रीणां च तत्कारणत्वात् सर्वैः पूज्या इति । न मूलान्तरापेक्षा । ज्ञातिशब्दो मातुलाद्यर्थः । चशब्दः सख्याद्यर्थः ॥ ८१ ॥

एवं सर्वैः परिपूज्यमाना न गर्विता व्ययशीला च स्यात् । किं तर्हि ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ १.८२ ॥

च स्याद् इति शेषः ॥ ८२ ॥

इदं चान्यत् ।

क्रीडाशरीरसंस्कारसमाजोत्सवदर्शनम् ।
हासं परगृहं यानं त्यजेत् प्रोषितभर्तृका ॥ १.८३ ॥

तथा चाह मनुः ।

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहवासश् च नारीसंदूषणानि षट् ॥ इति (म्ध् ९.१३) ॥ ८३ ॥

यदा पुनर् एतान्य् अनियमात् स्त्रीस्वाभाव्यात् सर्वज्ञातिपूज्यत्वाद् वा स्वयं नानुतिष्ठेत् तदा क एनाम् अनुष्ठापयेत् । यदा वा प्रोषितो भर्ता विपन्नो ऽनुत्पन्नो वा तदा कास्याः पालक इत्य् अत आह ।

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रस् तु वार्धके ।
अभावे ज्ञत्यस् त्व् एषां स्वातन्त्र्यं न क्वचित् स्त्रियाः ॥ १.८४ ॥

काले कर्मणि वा । तथा चाह मनुः ।

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषितम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ (म्ध् ५.१५५)

इति कर्मण्य् अपि पारतन्त्र्यं दर्शयति ॥ ८४ ॥

ननु एवं सति स्त्रीणाम् अदोषः, पित्रादीनां रक्षणोपदेशात् । यद् वान्यरक्षकासंनिधाने यद्य् उत्पन्नरक्षकविपात्तिः, तदा कामचारितापि स्त्रीणां प्रसज्येत । मन्द, मैवं

पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८५ ॥

भर्तृशब्दो ऽयं रक्षकमात्रे वर्तते । मात्रादिवचनाद् अन्याम् अपि स्त्रियं वृद्धां कांचिद् उपासीत । न तु स्वतन्त्रा स्यात् । यत्र वा कश्चित् पालयिता, तत्र यायात् । गर्हणीयान्यथा भवेत् । अस्मिन् लोके । प्रेत्य च नरकपातः, अस्माद् एव गर्हानुमानात् ॥ ८५ ॥

ननु एवं सति भर्तृतन्त्रत्वात् स्त्रीणां तस्य च स्वतन्त्रत्वात् यावत्यो जायास् ताः सर्वास् तुल्यवत् कर्मणि विनियुञ्जीत । नैवम्

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतराम् ॥ १.८६ ॥

सत्यां सवर्णायाम् अन्यां धर्मकार्यं न कारयेद् इति संबन्धः । सवर्णास्व् अपि ज्येष्ठया विना नेतरां कनिष्ठाम् । तासाम् अपि यथाज्यैष्ठ्यम् । विधौ अग्निहोत्रादिकर्मणि । धर्म्ये आज्यावेक्षणादौ, क्रत्वर्थ इति यावत् । कनीयसीम् अपि तु सवर्णाम् एवं कारयेत् । असवर्णास्व् अप्य् एकान्तरत्वज्यैष्ठ्यादिक्रमेण व्याख्येयम् ॥ ८६ ॥

ननु एवं सति ज्येष्ठायां ध्रियमानायां यदि कनिष्ठा प्रमीयेत, तस्या अग्निहोत्राद्यर्थेनाग्निना दाहो न प्राप्नोति । उच्यते

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बितः ॥ १.८७ ॥

क्रत्वर्थेषु हि ज्येष्ठाया नियमो न पुरुषार्थेषु । पुरुषार्थश् च दाहः, शरीरसंस्कारत्वात् । अतश् च वृत्तवती चेत् संस्कर्तव्यैव । वृत्तवत्य् अधिकारिणीति यावत् । ननु पुरुषार्थेष्व् अपि वरकर्तृकेषु ज्येष्ठैवाग्रे संस्कर्तव्या । तथा नामास्तु । को दोषः । द्वयोर् युगपन्मरणे कनिष्ठायाः संस्कारलोपः स्यात्, पात्राणाम् अग्नीनां च ज्येष्ठायाम् उपक्षीणत्वात् । प्रतिपाद्यत्वाच् च न पात्रान्तरोत्पत्तिः । अग्नीनां त्व् अशक्यतैव । एकचितिकरणे ऽपि यथोक्ताया दाहाघृतो (?) ऽनुपपत्तिर् एव । उच्यते । अयाज्ञिकचोद्यम् एतत् । संतापजत्वाद् अग्नीनाम् अनेकस्मिन्न् अप्य् आहवनीयसंतापजे तच्छब्दलाभात् । ननु एकस्मिन् संतापेन रूढे शिष्टो ऽग्निर् अनाहवनीय एव, लौकिकत्वात् । केनाख्यातम् आयुष्मतः । अपवृक्तकर्मा हि लौकिको भवति । दाहार्थं चोद्धृतो दाह्यानुसारेणैवापवृज्येतेति विशेषाग्रहणाच् चोद्धरणस्य सर्वदाह्यार्थत्वम् अविरुद्धम् । पात्रचयस् तु ज्येष्ठाया एव, मुख्यत्वात् । शरीरसंस्कारत्वे ऽपि च पात्राणाम् अप्रयोज्यत्वं स्विष्टकृत्य् उत्तरार्धस्येव । तेनैव च कनीयसी निन्द्यते । यद् वा, अग्नीनाम् एव संस्कारत्वम् । पात्रचयस् तु तत्प्रतिपत्तिः । तथा च पात्रेषु द्वितीययैव दृश्यते- “जुहूं घृतेन पूर्णां दक्षिणे पाणौ सादयति” इति । “अग्निभिर् आदीपयन्ति” इत्य् अग्निषु तृतीयाप्रतिपाद्यत्वं तु कर्मान्तरानुसारात् । “यात्व् अग्निभिर् दहन्ती यज्ञपात्रैश् च” इति तृतीया अर्थप्राप्तत्वाद् अनुवादः । यज्ञायुधिवाक्यं त्व् अर्थवादत्वाद् अकिंचित् । तस्माद् यावत्यः पत्न्यः सर्वा एवाग्निहोत्राद्यर्थेनाग्निना दग्धव्या इति स्थितम् । केचित् त्व् अदाहम् एव पत्न्या इच्छन्ति । यत् पुनः “आहिताग्निम् अग्निभिर् दहन्ति” (शब् प्म्स् ४.१।९) इति लिङ्गस्याविवक्षितत्वात् प्रातिपदिकार्थसंभवाच् च श्रुतिविरुद्धम् । तथा च काठके श्रुतौ “शवाग्नयो वा एते भवन्ति, ये पत्न्यां प्रमीतायां धार्यन्ते” इत्य् उपक्रम्य, “तस्मात् पत्नीम् अग्निभिर् दहेत्” इति विस्पष्टो विशेषविधिः । सूत्रकारादिवचनानि श्रुतिविरुद्धत्वाद् अनादृत्यानि । एवम् अर्थवादाद्युन्नेया विधयः प्रत्याख्येया इत्य् अलं प्रसङ्गेन । ननु असवर्णाग्निहोत्रेण न दग्धव्या । यथाह मनुः ।

एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ इति । (म्ध् ५.१६७)

मैवम्, आहिताग्नित्वाविशेषात् । मानवं तु सवर्णाग्रहणम् अधिकारोपलक्षणार्थम् । यज्ञप्राप्त्या हि सर्वस्य ब्राह्मणत्वात् सावर्ण्यं यतः । तथा चाम्नायः- “ब्राह्मणो हि जायते यो यज्ञाञ् जायते” इति । अपि च दाहयेद् अग्निहोत्रेण सवर्णां चेति वाक्यभेदः स्यात् । तस्माद् अविशेषेणैव दाहः । “आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बितः” । शीग्रम् । यद् वाविलम्बितशब्दः स्वहेताव् अपराभङ्गे विज्ञेयः । न चेत् पराभङ्गो गार्हस्थ्याद् दारान् आहरेत् । भङ्गश् चेद् आश्रमान्तरं प्रतिपद्येत । अविद्यमानदारस्य च दारक्रिया दृष्टार्थत्वात् । विधिवद् इत्य् अस्याप्य् अयम् एवार्थः । न चेद् योग्या पत्न्य् अस्ति, अन्याम् उद्यच्छेद् इति । आहरणाधिकारश् चेद् आहरेत्, धर्मप्रजासंपन्ने ऽन्यानधिकारात् । यत् तु “अन्यतरापाये दारान् कुर्वीत” इति, तस्याप्य् अयम् एवावसरः समर्थः, कृताधानस्योद्वाहासंभवात् । तथा च स्मरन्ति- “यद्य् उद्वहेत् प्राग् अग्न्याधेयात्” इति । न्यायविधश् च याज्ञिकाः “सवीर्यत्वात् पुत्रार्थे न प्रयोजयेत्” इत्य् आहुः । यत् पुनः “आहृतोढायां भार्यायां पुनर् आदधीत” इति, तद् आवसथ्यविषयम् इत्य् अलं प्रसङ्गेन विस्तरेण ॥ ८७ ॥

वृत्तवत्या अग्निहोत्रेण दाह इत्य् उक्तम् । किं पुनस् तल्लक्षणम् इत्य् अत आह ।

पतिप्रियहिते युक्ता स्वाचारा संयतेन्द्रिया ।
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८८ ॥

एतद् वृत्तवत्या लक्षणम् । प्रियहिते युक्ता न रामणीयकप्रधाना । साध्वाचारा कामाद्यनभिभूता च या, सैवेहास्मद्दर्शने कीर्तिं यज्ञाधिकारं प्राप्नोति प्राकाश्यात् कीर्तनाद् वा । प्रकरणानुग्रहाच् च कीर्तिर् अधिकारः, यज्ञो वा । प्रेत्य चानुत्तमां गतिम् इति । नास्या उत्तमा अन्या गतिर् अस्तीत्य् अनुत्तमा ज्ञानकर्मसमुच्चयगम्या भर्तृसायुज्यलक्षणा, तां प्राप्नोतीति व्याख्येयम् ॥ ८८ ॥

इति विवाहप्रकरणम्

**