०२ ब्रह्म-चारि-प्रकरणम्

अथ ब्रह्मचारिप्रकरणम् ।

उक्तं धर्मादीनां स्वरूपं प्रमाणं च । इदानीं तत्साधनानि वाच्यानि । तत्र च क्रियामात्रसाधारण्यात् कर्तुः पूर्वम् अभिधानं युक्तम् इत्य् अत आह ।

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥

ब्राह्मणक्षत्रियवैश्यशूद्राश् चत्वारो वर्णा इति व्यवहारार्था परिभाषेयम् । तु शब्दो ऽपकृष्यावधारणार्थो व्याख्येयः । आद्यास् त्रयो द्विजा इतीयम् अपि संज्ञा पूर्ववत् । ननु चाद्या द्विजा इत्य् एतावद् वाच्यं, बहुवचनात् त्रित्वावगतेः । सत्यम् एवं । रथकारव्यावृत्त्यर्थस् त्रिशब्दः । यत् तु स्मृत्यन्तरे रथकारस्योपनयनस्मरनं, तद् आधानाधिकृतत्वाद् भ्रान्तेर् इत्य् अवसेयम् । विकल्पो वास्तु । नेत्य् आचार्यः । तेषां द्विजातीनां निषेकाद् आरभ्यास्थिसंचयनाद् मन्त्रतः क्रिया भवन्ति । शास्त्रतः इत्य् अर्थः । तृतीयार्थे पञ्चमी द्रष्टव्या । वैशब्दो हेत्वर्थः । यस्मान् मन्त्रार्हं तेषाम् उपनयनाख्यं जन्म, तस्मान् मन्त्रवत्यः क्रिया भवन्तीति ॥ १० ॥

काः पुनस् ताः क्रियाः, कस्मिन् काले कर्तव्या इत्य् अत आह ।

गर्भादानम् ऋतौ पुंसस् सवनं स्पन्द्नात् पुरा ।
षष्ठे ऽष्टमे वा सीमन्तो मासे ऽतो जातकर्म च ॥ १.११ ॥

गर्भाधानाख्यः प्रथमः संस्कारो निषेकलक्षणः । स चर्तौ कार्यः । सामर्थ्याद् ऋतुर् वक्ष्यमाणो न वसन्तादिकः । पुंसवनाख्यो द्वितीयः संस्कारः । स च प्राग् गर्भस्पन्दनात् । तथा च पारस्करः- “अथ पुंसवनं पुरा स्पन्दनात्” इति (पार्गृ १.१४.१) प्रथमकल्पम् आह । षष्ठे गर्भमासे ऽष्टमे वा सीमन्तोन्नयनाख्यस् तृतीयः । अतः परं नाम्नैवागतकालं जातकर्म भवति । चशब्दात् सोष्यन्तीकर्म च । तथा चाह- “सोष्यन्तीम् अद्भिरभ्युक्षति,” “जातस्य कुमारस्य च” इति (पार्गृ १.१६.१, ३) । एते च संस्काराः कार्त्स्न्येन गृह्याद् अवगन्तव्याः । प्रतिगर्भं चापसीमन्तोन्नयनाः प्रवर्तन्ते,[^४] तस्य स्त्रीसंस्कारत्वात् । तत्संस्कारत्वं च “सीमन्तम् ऊर्ध्वं विनयन्ति” इति (पार्गृ १.१५.४) वचनात् । मन्त्रवर्णाच् च “आजीवं फलिनी भव” इति (पार्गृ १.१५.६), सीमन्तिनीति समाख्यानाच् च । अन्या च स्मृतिः- “सीमन्तोन्नयनं पुंसवनवत् प्रथमे गर्भे मासे षष्ठे ऽष्टमे वा” इति (पार्गृ १.१५.१–२) । न च तद् एवं नेयं प्रथमे गर्भे मासनियमार्थम् इति, श्रुतिबाधप्रसङ्गात् । न च स्त्रीसंस्कारत्वे ऽपि गर्भनिमित्तत्वाद् आवृत्तिर् इति शयं वक्तुम्, प्रथमगर्भस्यैव निमित्तभावात् । कार्यशून्यत्वाच् चानावृत्तिः । गर्भाधानं त्व् अर्थाद् एवावर्तते । लिङ्गाच् च पुंसवनम् । सोष्यन्तीकर्म तु सुखप्रसवार्थत्वात् । अतो ऽवैषम्यम् । अतः सूक्तम् अपसीमन्तोन्नयना प्रवर्तन्त इति । एवं च समाचरानुग्रहः ॥ ११ ॥

किं चान्यत् ।

अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासे चूडा कार्या यथाकुलम् ॥ १.१२ ॥

एकादशे ऽहनि नाम कर्तव्यम् । एवं निष्क्रमणद्य् अपि । तथा चाह- “चतुर्थे मासि निष्क्रमं करोति” इति (पार्गृ १.१७.५) । यत् तु “दशम्याम् उत्थाप्य ब्राह्मणान् भोजयित्वा पिता नाम करोति” इति (पार्गृ १.१७.१), दशम्यां व्युष्टायाम् इति तत्रार्थः । तथा चाह मनुः ।

नामधेयं दशम्यां तु द्वादश्यां चास्य कारयेत् । इति । (म्ध् २.३०)

आनन्तर्यार्थश् चकारः । दशम्यां व्युष्टायां द्वादश्यां वेति द्रष्टव्यम् । अंशजातत्वेनैकादश्याम् इति नोक्तम् । तुशब्दाच् चायम् एवाद्यः कल्प इति द्योतितम् । अथ तु दशम्याम् एवेति तस्यार्थः, तदा यस्य प्राग् दशरात्राच् छुद्धिस् तद्विषयत्वेन द्रष्टव्यं, सूतकवाक्योपरोधात् । एकादशे त्व् अविशेषेण प्राथमकल्पिकः । यथाकुलम् इति चूडाभिप्रायम् । यथा, “पञ्चचूडा भरद्वाजाः” इति । कालस् त्व् अङ्गम् । गुरुलाघवं गृह्याद् अवगन्तव्यम् । अथ वा कालाभिप्रायम् एवैतज् जातकर्मादिविषयत्वेनापि योज्यम् । यथा, जन्मान्तरं दशरात्रे वा जातकर्म । एकादशे द्वादशे वाह्नि, शतरात्रे पुण्ये नक्षत्रे वा नामकरणम् । दशरात्रे चतुर्थे मासे वा निष्क्रमणम् । षष्टे मासे संवत्सरे वान्नप्राशनम् । संवत्सरे सार्धे तृतीये व चूडाकरणम् । तत् सर्वं यथाकुलं वा कार्यम्, उक्तकालं वा । द्विर्मासग्रहणं तु छन्दःसमाधानार्थम् । ऋज्व् अन्यत् ॥ १२ ॥

कस्मात् पुनर् एषां संस्कारकर्मणां प्रयत्नेनैव नियोगतो ऽनुष्ठानम् । उच्यते । यस्मात्,

एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।

मातापित्रोर् जन्यस्य वा नियतनिमित्तत्वाद् एनसश् च निराकार्यत्वात् प्रयत्नेनैवं नियोगतः करणम् । गर्भार्थत्वे ऽपि चाकरणे मातापित्रोर् एव प्रथ्यवायः । तथा चाह मनुः ।

बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते । इति । (म्ध् २.२७)

किं पुनर् एताः क्रियाः पुंविषया एव । नेत्य् आह ।

तूष्णीम् एताः क्रियाः स्त्रीणां

अपि कार्या इति शेषः, संस्कार्यत्वाविशेषात् । एता इति सर्वनाम्नो ऽतश्शब्दावच्छिन्नजातकर्मादिविषयत्वं द्रष्टव्यम् । गर्भाधानादौ त्व् अविशेषः । सुखप्रसवार्थत्वात् तु सोष्यन्तीकर्मणश् चशब्दावगतस्यापि ग्रहणम् । ननु एवं सति स्त्रीणां मन्त्रहानात् तद्युक्तकर्माधिकारो दुःश्लिष्टः स्यात् । वचनगम्यत्वाद् अधिकारस्यैतद् अचोद्यम् ।

न च स्त्रीणाम् आत्यन्तिको मन्त्राभावः । यदि नाम जातकर्मादि तूष्णीम् ।

                    > **विवाहस् तु समन्त्रकः ॥ १.१३ ॥**

समन्त्रक एव । तस्माद् अविरोधः । कार्याभावात् तु नपुंसके संस्कारनिवृत्तिः । अर्थलक्षणास् तु नामकरणादयः शूद्रस्यापि प्रवर्तन्ते । तथा च मनुः- “शूद्रस्य प्रेष्यसंयुतम्” इति (म्ध् २.३२), अविहिताप्रतिषिद्धत्वात् । “मन्त्रवर्जं शूद्रस्य” इति शङ्खः । निःशेषतो वा स्त्रीसमत्ववचनाद् इति केचित् । तत् तु सामान्यतोदृष्टत्वाच् छब्दलक्षणे व्यवहारे नादरणीयम् । एते च संस्काराः स्त्रीणाम् अपि ब्राह्मणादीनाम् एतेष्व् एव कालेषु भवन्ति ॥ १३ ॥

अतः परं तु ।

गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञाम् एदादशे सैके विशाम् एके यथाकुलम् ॥ १.१४ ॥

ननु एतत् पारिशेष्याद् ब्राह्मणस्यैवोपनयनम् उक्तम् “आद्यास् त्रयो द्विजाः” इति । अयुक्तं ब्राह्मणग्रहणम् । अथ ब्राह्मणस्य सत उपनयनम्, नोपनयनाद् ब्राह्मण्यम् इति ज्ञापनार्थम् इत्य् उच्येत, तद् अपि वर्णपरिभाषयैव सिद्धेर् असारम् । उच्यते । हेत्वर्थम् इदम् । गर्भाधानाज् जन्मनो वाष्टमे वर्षे ब्राह्मणम् उपनयेत् । कस्मात् । ब्राह्मणत्वाद् एव । एवं ह्य् आम्नायः- “गायत्रो वै ब्राह्मणः, अष्टाक्षरा वै गायत्री, तस्माद् अष्टवर्षं ब्राह्मणम् उपनयीत” इत्यादि । एवं क्षत्रियवैश्यशब्दाव् अपि योज्यौ । हेत्वभिधानं तु श्लोके वसन्तादिकालप्राप्त्यर्थम् । तथा चाम्नायः- “ब्रह्म हि वसन्तः, क्षत्रं ग्रीष्मो, विड् वर्षाः” इति (श्ब् २.१।३.५) । वसन्तादिसंबन्धं च ब्राह्मनादीनाम् अन्यतः सिद्धं हि शब्देनानुवदन् वसन्ते ब्राह्मणोपनयनं कार्यम् इति दर्शयति । यद्य् अप्य् एतान्य् आधानादौ वाक्यानि, तथापि हेत्वर्थोपपत्त्यर्थम् उपनयनापेक्षितकालसमर्पणम् अविरुद्धम् । मन्त्रवर्णश् च- “गायत्री वासन्तीति गायत्रीछन्दो वसन्ताद् ऋतोर् निरमिमीत” इति । अयम् एव तस्याप्य् अर्थः । चरकास् तु स्पष्टतराण्य् उपनयन एव पठन्ति । तथा च आपस्तम्बस् तान्य् एवानुकरोति- “वसन्ते ब्राह्मणम् उपनयीत” इत्यादि (आप्ध् १.१।१९) । शङ्खश् च- “वसन्तो ग्रीष्मः शरद् इति कालाः” इत्य् आह । वैश्यस्य तु विकल्पः । वेदाध्ययनायाचार्यसमीपे नयनम् उपनयनम् । तद् एवोपनायनम् इत्य् उक्तं छन्दोऽनुरोधात् । तदर्थं वा कर्म । राज्ञाम् इति क्षत्रियराजशब्दयोर् एकार्थत्वज्ञापनार्थम् । एकादशे ऽब्द उपनयनं कार्यम् इति शेषः । सैके विशाम् इति । द्वादश इत्य् अर्थः । एके यथाकुलम् इति पुनर्वचनात् परमतोपन्यासः । एके यथाकुलम् इच्छन्ति, न वसन्तादौ । वयं त्व् अष्टवर्षं वसन्ते ब्राह्मणम् उपनयीतेति । अनुलोमानन्तरजानाम् अप्य् एत एव कालाः मातृजातीयव्यपदेशात् “पुत्रा ये ऽनन्तरस्त्रीजाः” इति (म्ध् १०.१४) मनुवचनाद् द्रष्टव्यः । लिङ्गस्य च विवक्षितत्वात् स्त्रीष्व् अप्रसङ्गः । प्रतिलोमास् त्व् अनधिकृता एव । तथा च गौतमः- “प्रतिलोमात् तु धर्महीनः” इति (ग्ध् ४.२५) ॥ १४ ॥

अथ किम् उपनीयानन्तरं वेद एवाध्यापयितव्यः, तादर्थ्याद् उपनयनस्य । एवं खलु प्राप्नोतीत्य् अत आह ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदम् अध्यापयेत् पश्चाच् छौचाचारांश् च शिक्षयेत् ॥ १.१५ ॥

तुशब्दार्थश् चशब्दः । उपनयनानन्तरम् एव न वेदम् अध्यापयेत् । किं तर्हि, पश्चात् । शौचाचारांश् चानन्तरम् एव शिक्षयेद् इत्य् अभिप्रायः । तथा च मनुः ।

उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।
आचारम् अग्निकार्यं च संध्योपासनम् एव च ॥ इति । (म्ध् २.६९)

यदा त्व् अध्यापयेत्, तदा महाव्याहृतिपूर्वकम् । महाव्याहृतिशब्देन त्व् ॐकारो व्याहृतयः सावित्री चेति प्रत्येतव्यं, स्मृत्यन्तरात् । यथाह मनुः ।

ॐकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥ इति । (म्ध् २.८१)

गौतमीयं तु सामवेदविषयम् “ॐपूर्वा व्याहृतयः पञ्च सत्यान्ताः” इति (ग्ध् १.५१) द्रष्टव्यं, तत्र हि “पुरुषः सत्यम्” इति पञ्चानां पाठात् । अथ वा महाव्याहृतय एव पूर्वं यस्य वेदस्य स महाव्याहृतिपूर्वकः । सापेक्षत्वे समासानुपपत्तेः सावित्र्यभावः । ॐकारस् त्व् आद्यन्तयोर् अविरोधात् कर्तव्य एव । “स्रवत्य् आन्ॐकृतं पूर्वम्” (म्ध् २.७४) इति वचनात् । मानवं तु विकल्पेन व्याख्येयम् । ॐकारपूर्वा व्याहृतयो ब्रह्मणो मुखं तत्पूर्वा वा सावित्रीति । तथा च समाचारः । गुरुग्रहणं तु मुख्यं पितुर् उपनेतृत्वम् इति । तथा च श्रुतिः- “तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः” इति (बाउ १.५।१७) । शिष्यग्रहणं तु पुत्रत्वे ऽप्य् अखिलशुश्रूषानियमार्थम् । क्षत्रियवैश्ययोर् अप्य् आपत्काले पुत्रोपनेतृत्वाद् गुरुत्वम् अविरुद्धम् । आचार्योपनयनं तु ब्राहमणस्यानुकल्पः । शौचम् आचाराश् च शौचाचाराः । शौचं मनोवाक्कायलक्षणं त्रिविधम् । अप्रतिरूपासङ्कल्पनं मनसः शुद्धिः, पाप्मनेतरस्य विरुद्धत्वात् । साधुशब्दप्रयोगः सत्यवचनं च वाचः । तथा च भारद्वाजः- “न म्लेच्छभाषां शिक्षेत । म्लेच्छो ह वा एष यद् अपशब्द इति हि विज्ञायते । तस्माच् छिष्यम् उपनीय साधुशब्दाञ् छिक्षयेत् संध्योपासनाग्नीन्धनानि” इत्यादि (च्ड़्। वध् ६.४१) । कायिकं तु मृद्वारिलक्षणं प्रसिद्धम् । अन्ये तु पञ्च शौचान्य् आचक्षते । तथा हि ।

सत्यं शौचं मनःशौचं शौचम् इन्द्रियनिग्रहः ।
सर्वभूतदया शौचं जलशौचं तु पञ्चमम् ॥ इति ।

आचाराश् चाग्नीन्धनाद्या आश्रमसंबन्धिनः । वर्णसंबन्धिनो ऽस्तेयाद्याः । शिक्षयेद् इति चोपदेशात् प्राग् उपनयनाद् अप्रवृत्तिः । तथा च गौतमः- “प्राग् उपनयात् कामचारवादभक्षः” इति (ग्ध् २.१) । यद्य् अपि कश्चित् प्राज्ञः स्वयं जानीयात्, तस्याप्य् अनुपनीतस्यानधिकारो गौतमवचनाद् एव । काललक्षणार्थं चोपनयग्रहणम्, न संस्कारार्थम्, कालस्यापेक्षितत्वात् । वर्णधर्मा हि जन्मानन्तरम् अशक्त्या बाध्यमानास् तस्याश् च प्रतिपुरुषम् अनियतत्वाद् अवध्यर्थनियतकालापेक्षिणस् तत्परत्वेनोपनयनश्रुतिं परिगृह्णन्ति । तथा चाथर्वणानां वितानकल्पः “अनेनसः पुरो ऽष्टमाद् वसन्तात् कुमारकाः कामं चरन्ति सम्राड्धर्मणः पञ्चत्वयाजिनः” इति कालपरता दर्शयति । स्त्रीणाम् अप्य् आ विवाहात् कामचारित्वम्, तस्यैव वैदिकत्ववचनात् । यथाह मनुः ।

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । इति । (म्ध् २.६७)

यदा च निश्चितं वैदिकत्वेनोपनयनं विवाहो वा प्रवर्तते, तत्सामान्यात् तदैवान्ये ऽपि वर्णधर्मा इत्य् अवसेयम् । तथा न्यायविधो याज्ञिकाः पठन्ति- “अपि वा वेदतुल्यत्वाद् उपनयनेन प्रवर्तेरन्” इति (प्म्स् ६.२।२२) । शूद्रस्य त्व् अवध्यर्थकालानुपदेशात् सामर्थ्यं नियामकं, षोडशाब्दं वा प्राग् बालत्वस्मृतेह् “बालो वाप्य् ऊनषोडशः” इति (विध् ५४.३३) । ब्राह्मणानाम् अपि परमोपनयनकालात् प्राग् अनुपनीतानां कामचारित्वं केचित् स्त्रीणां चर्तुत्रयात्, स हि परमो विवाहकाल इति । तत् तु प्रमाणशून्यत्वान् नातीवानुमन्यते, प्राथमकल्पिककाललक्षणायैवोपनयनं यतः । तथा चानेनसः पुरोऽष्टमाद् इत्य् उक्तम् एवेत्य् अलं प्रसङ्गेन ॥ १५ ॥

इदानीं शौचाभिधित्सया तन्निमित्तत्वान् मूत्रपुरीषोत्सर्गे विधिम् आह ।

दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान् मूत्रपुरीषे तु रात्रौ चेद् दक्षिणामुखः ॥ १.१६ ॥

दिवा संध्ययोश् च कर्णारोपितयज्ञोपवीत उदङ्मुखो मूत्रपुरीषे कुर्यात् । रात्राव् अप्य् एवम् । दक्षिणामुखत्वं तु विशेषः । चेच्छब्दाद् यदा कुर्यात् तदैवम् इति गम्यते । तुशब्दो ऽवधारणार्थः । मूत्रपुरीषे एवैवं कुर्यात्, नान्यद् अपि रेत-उत्सर्गादि । यद् वा चशब्दार्थे स्मृत्यन्तरोपसङ्ग्रहणाय । यथाह शङ्खः- “वग्यतो ऽवगुण्ठितशिरा भूमिम् अनतर्धाय मेहेत्” इति । उपविष्टश् च, उत्थानवचनात् ॥ १६ ॥

किं पुनस् तस्मिन्न् एव देशे शौचं कर्तव्यम् । नेत्य् आह ।

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ १.१७ ॥

चशब्दात् पूर्वम् अपि गृहीतशिश्नः कुर्यात् । उत्थाय तस्माद् देशात् । मृद्भिर् अभ्युद्धृतैर् जलैः शौचं कुर्यात् । मृद्भिर् इति बहुवचनं स्मृत्यन्तरोक्तपरिमाणप्राप्त्यर्थम् । यथाह मनुः ।

एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश । इति । (म्ध् ५१३६)

यत् तु स्मृत्यन्तरोक्तं “पञ्चापाने” (द्क्स्म् ५.५) इति, तद् अग्निहोत्रिविषयं द्रष्टव्यं, पुलस्त्यवचनात्-

स्नातकस्य त्रयो ऽपाने पञ्चापाने ऽग्निहोत्रिणः ।
सर्वान् एव गृहस्थेषु शौचकल्पान् नियोजयेत् ॥ इति ।

एतद् एव द्विगुणं नैष्ठिकस्य त्रिगुणम् अपत्नीकवनस्थस्य चतुर्गुणं ज्ञानभिक्षोः । मानवात् तु द्विगुणाद्युपकुर्वाणादीनाम् (म्ध् ५.१३७) । यथाह व्यासः ।

शुक्लं धौतं यथा वस्त्रं मलिनं तद् भवेत् पुनः ।
निर्मलं तु भवेत् क्लेशात् स्त्रीपुंवर्गाश्रमास् तथा ॥
प्रायश्चित्तं च दण्डं च शौचं चातो यथाक्रमम् ।
कल्प्यम् उत्कृष्टम् उत्कृष्टे मधं मध्ये ऽधमे ऽधमम् ॥ इति ।

यत् तु मृद्विशेषपरिमानं दक्षोक्तम्,

अर्धप्रसृतिमात्रा तु प्रथमा मृद् उदाहृता । (द्क्स्म् ५.७)

इति, तत् त्रित्वे सति गन्धलेपापकर्षणे च विरोधात् पूर्वा पूर्वा भूयसी परा परा मृद् अल्पेत्य् एवम् उपलक्षणार्थं विज्ञेयम् । यत् तु तत्रैव मूत्रशौचम्,

एका लिङ्गे तु दातव्या तथैकत्र करे त्रयः ।

इति, तत् केवलमूत्रविषयम्, अन्यत्र करशौचस्य तान्त्रिकत्वात् । सर्वाश्रमाणां चैतद् एव मूत्रशौचं, विशेषानभिधानात् । गृहस्थस्य चैतद् इति न द्विगुणकल्पना । तथा मृल्लक्षणम् अप्य् अन्वेष्यम्,

वल्मीकाखूत्करो (त्के?) वा जलात् पथि कृता च या ।
कृतशौचावशिष्टा च षड्भिः शौचं न विद्यते ॥

इत्यादि । अभ्युद्धृतैर् जलैः, जलाशयात् पाण्यादिना । गन्धलेपक्ष्यकरम् इति । तथा मृद् ग्रहीतव्या, यथा तिसृभिर् एव गन्धलेपक्षयो भविष्यतीत्य् अर्थः । श्लेष्मादिविष्यं वैतद् द्रष्टव्यम्, अन्यत्र गन्धापकर्षणाद् एव लेपापकर्षण्सिद्धेः । अतन्द्रितः अनलसः । यथाविधिं शौचं कुर्याद् इति विधिः, न यदेत्यर्थः (?) । यद् वा मृद्भिर् अधिश् च यथाविहितं शौचं कुर्युः । विहितपरिमाणाभिर् यथाश्रमं शौचं कुर्यात् । यस्य तु विशेषपरिमाणं नाम्नातं स मृज्जलैर् गन्धलेपक्षयकरं शौचं कुर्याच् छूद्रादिः । तथा च पितामहः ।

त्रिषु ये नोपनीयन्ते शूद्राः सौधन्वना स्त्रियः ।
गन्धलेपापक(र्षणं?) तेषां शौचं मृदम्भसा ॥ इति । ॥ १७ ॥

एवं तावन् मृद्वारिलक्षणम् शौचं निर्वर्त्य तस्माद् देशाद् अपक्रम्य पादौ प्रक्षाल्य ततः,

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ १.१८ ॥

प्राग् वा प्रङ्मुखो वेत्य् अर्थः । स्मृत्यन्तराच् च बद्धशिखो बद्धकक्ष्य आ मणिबन्धनात् पाणी प्रक्षाल्य ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् । तथा च गौतमः- “प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत । शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्य् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतः” इत्यादि (ग्ध् १.३६) । द्विजग्रहणं स्त्र्यादिव्यावृत्त्यर्थम् । नित्यशब्दात् सर्वाश्रमेष्व् अयम् एवाचमनकल्पः । सूतकादाव् प्य् अनिवृत्तिर् इत्य् अन्ये ॥ १८ ॥

ब्राह्मेण तीर्थेनेत्य् उक्तम् । तस्य चालौकिकत्वाल् लक्षणम् आह ।

कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च ।
प्रजापतिपितृब्रह्मदैवतीर्थान्य् अनुक्रमात् ॥ १.१९ ॥

ब्राह्मप्रसङ्गाद् अन्यन्य् अपि तीर्थानि कार्यौपयिकत्वाद् उच्यन्ते । तीर्थम् इति च दक्षिणहस्ते ऽवतारप्रदेशनामधेयम् । लोके ऽप्य् उदकाद्यवतारे तीर्थशब्दः प्रसिद्धः । तानि च विशेषकार्यौपयिकत्वात् स्तुत्यर्थं देवताभिर् आख्यायन्ते । अर्थतश् चतुर्णाम् अवगतानां[^५][५] व्यवहारर्थं विशेषसंज्ञाः कथ्यन्ते । कनिष्ठामूले प्राजापत्यम् । देशिनीमूले पित्र्यम् । देशिन्य् अङ्गुष्ठानन्तराङ्गुलिः । तस्याङ्गुष्ठस्य चान्तराल इत्यर्थः । ब्राह्मं त्व् अङ्गुष्ठमूले । कराग्रे दैवम् । तत्र ब्राह्मेणोपस्पृशेद् इति प्रकृतसंबन्धः । तथा च शाट्यायनकः कल्पः- “दक्षिणे ब्राह्मणहस्ते पञ्च तीर्थानि भवन्ति । प्राङ्मुखश् चेत् पुरस्ताद् दैवं, दकिणतः पित्र्यं, पश्चाद् ब्राह्मम्, उत्तरतः प्राजापत्यं, मध्ये पारमेष्ठ्यम्” इत्यादि । वृद्धवासिष्ठे ऽप्य् एवम् एव । मध्ये सौम्यम् इति तु विशेषः । आचार्यस्य पञ्चतीर्थानभिधानं तस्य कमण्डलूपस्पर्शनादिविनियोगेनाल्पप्रयोजनत्वात् । ब्राह्मणग्रहणं चोदाहरणोपलक्षणार्थम् अन्यपरत्वात् । सव्ये पाणौ विरोधात् तीर्थाभाव एव । अतश् च ब्राह्मोपदेशाद् एव दक्षिणेनाचमनम् इति ज्ञायते । तथा चोक्तं “दक्षिणेनाचमनम्” इति ।

उपस्पृशेद् इत्य् उक्तम् । साधारणश् चालम्भनस्नानेषूपस्पर्शनशब्दः । तस्य गुणविधानतो वाक्यशेषान् निर्णयः । कानि पुन्स् तानि गुणविधानानीत्य् अत आह ।

त्रिः प्राश्यापो द्विर् उन्मृज्यात् खानि चोर्ध्वम् उपस्पृशेत् ।

त्रिर् अपः पीत्वा द्विर् उन्मृजेत् । उच्छब्दः परेर् अर्थे, दृष्टार्थत्वात् । अत एव परिमार्जनं मुखस्य, खानि चोर्ध्वम् उपस्पृशेद् इति वचनात् । ऊर्ध्वम् इति खानि शीर्षण्यानि चक्षुरादीन्य् उच्यन्ते । चशब्दाद् अधश् च, “पादाव् उक्षेन् मूर्धनि च दद्यान् नाभिं चोपस्पृशेत्” इति स्मृत्यन्तरानुसारात् । पूर्वं च पादाभ्युक्षणं तत इन्द्रियालम्भः । उपशब्दप्रयोगाच् च बहिः स्पर्शणं, नाक्ष्णोः । अत्र प्रकृतत्वाद् अद्भिः । दक्षाद्युक्तश् चाङ्गुलीनियमो ऽनुरोद्धव्यः । अविशेषाच् चशब्दसामर्थाच् चाचमनप्रयोगभेदो ऽपि । यथ- “संहताभिस् तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत्” इत्यादि ।

किंलक्षणाः पुनर् आप आचमनयोग्याः । तद् आह ।

अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ १.२० ॥

अद्भिर् इति पुनः श्रुतिर् गुणार्था । तुशब्दो विवेकार्थः । अद्भिर् एव नान्यसंसृष्टाभिः । तथा च शङ्खः- “उद्धृत्य परिपूताभिः” इति । प्रकृतिस्थाः स्वभावतः स्थिताः अक्षारा अशृताश् चेत्य् अर्थः । तथा च आपस्तम्बः- “न तप्ताभिश् चाकारणात्” (आप्ध् १.१५.६) इति । आतपादितप्ताश् तु जलाशये न दुष्यन्ति । मानवं च “अनुष्णाभिः” (म्ध् २.१६) इति । शङ्खवचनाद् अशृताभिर् इति व्याख्येयम् । तथा चातुरापवादः ।

अनापदि द्विजातीनाम् अशृतेन यथाम्भसा ।
तद्वद् एव भवेच् छुद्धिः शृतेन शृतपायिनाम् ॥ इति ।

“न तप्ताभिश् चाकारणाद्” इत्य् अस्याप्य् अयम् एवार्थः । ऋज्व् अन्यत् ॥ २० ॥

किं पुनस् तासां परिमाणम् । उच्यते ।

हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ १.२१ ॥

तुशब्दात् प्राग्घृदयप्राप्तेर् अशुद्धिः, न परतो गमने । “स्त्री च शूद्रश् च सकृत् स्पृष्ठाभिर् अन्ततः” । पूर्वश् चकार उत्कृष्यैवकारार्थो व्याख्येयः । स्पृष्टाभिर् एवेत्य् अर्थः । ततश् चान्यपरिसंख्यानाद् इन्द्रियालम्भनादिनिवृत्तिः । परिमार्जनं तु दृष्टार्थत्वात् प्रवर्तते । तथा च बौधायनः- “न बुद्बुदाभिर् न फेनाभिर् न कलुषाभिर् न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतो न मुक्तशिखो नाबद्धकक्ष्यो न बहिर्जानुः शब्दम् अकुर्वन् त्रिर् अपो हृदयङ्गमाः पिबेद् द्विः परिमृज्यात् । त्रिर् इत्य् एके । सकृद् उभयं शूद्रस्य स्त्रियाश् च” (ब्ध् १.८।१७–२२) इति सकृत् परिमार्जनं दर्शयति । अन्ततो जिह्व्येत्य् अर्थः । तृतीयार्थे पञ्चमी ॥ २१ ॥

एवं तावद् आचमनविधिम् उक्त्वानन्तरं स्नानादिविधिम् आह ।

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥

कार्य इति शेषः । स्नानं प्रत्यहं कुर्यात् । तस्य च विधिर् आचार्येणैवान्यत्राभिहितः ।

विद्यमाने प्रभूते हि नाल्पे स्नानं स्माचरेत् । इति ।

उभयात्मकं हि स्नानं शौचम् आचारश् च । तत्र केचित् पञ्चविधम् आहुः “आग्नेयं वारुणम्”[^६] इत्यादि । तत् पुनर् गृहस्थ्स्यापद्विषयं द्रष्टव्यम् । इह त्व् अम्भसैव स्नानम् दण्डवद् आप्लववचनाद् ब्रह्मचारिणः । संध्योपासनादयस् त्व् आचाराः । तत्रायं संध्योपासनविधिः “अब्दैवतैर् मन्त्रैर् मार्जनम्,” “आपोहि ष्ठा” इत्येवमादिभिः । प्राणसंयमश् च वक्ष्यमाणः । “सूर्यस्य चाप्य् उपस्थानम्,” चशब्दाद् द्रुपदायाश् च । तथा च संध्योपासनविधौ हारीतः ।

यतः प्राणान् समाधाय त्रिर् जपेद् द्रुपदाम् ऋचम् ।
त्रिसंध्यम् एनसो मुक्तो दीपिकेव विराजते ॥ इति ।

सूर्योपस्थानं च सौरीभ्याम् ऋग्भ्याम् । यथोक्तम् ।

आपोहिष्ठातृचेनाद्भिर् मार्जयित्वा शुचिर् नरः ।
अथोद् उ त्यम् इति द्वाभ्याम् उपतिष्ठेत भास्करम् ॥ इति ।

सावित्रीं च गायत्रीं “तत् सवितुर्” इत्य् ॐकारव्याहृतिपूर्विकां प्रत्यहं जपेत् । तथा च मनुः ।

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।
संध्ययोर् उभयोर् विप्रो वेदपुण्येन युज्यते ॥ इति । (म्ध् २.७८)

अपिशब्दात् स्नानाद्य् अपि नित्यम् । स्नानं च दण्डवद् आप्लवनं ब्रह्मचारिणो ऽविरुद्धम् । गौतमीयं तु सुखार्थस्य प्रतिषेधः (च्ड़्। ग्ध् १.१३) । तथा च आपस्तम्बः “नाप्सु श्लाघमानः स्नायात्” (आप्ध् १.२।३०) इत्य् अदृष्टार्थम् अनिषिद्धम् इति दर्शयति । एवं मनुः ।

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् । इति । (म्ध् २.१७६)

देवतर्पणादिप्राप्त्यर्थो वापिशब्दो व्याख्येयः, अस्माद् एव मनुवचनात् (?) ॥ २२ ॥

प्राणायामः कर्तव्य इत्य् उक्तम् । तत्स्वरूपम् आह ।

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ १.२३ ॥

“महर् जनस् तपः सत्यं भूर् भुवः सुवस् तत् सवितुर् वरेण्यम्” इत्य् ऋचम् ।

सावित्र्याश् च शिरः पुण्यम् आपो ज्योती रसो ऽमृतम् । इति ।

अयं च प्राणसंयमस् त्रिः कार्य इति योजनीयम् । अन्ये त्व् एवंरूपां सावित्रीं त्रिर् जपेद् अयं च प्राणसंयम इत्य् वर्णयन्ति । संयतोच्छ्वासेन चायं जपः कार्यः, समाख्यानात् । तथा च मनुः ।

त्रिर् जपेद् आयतप्राणः प्राणायामः स उच्यते । इति । (म्ध् २.८३ अद्दितिओन्)

पाठक्रमाच् च मार्जनात् परतः प्राणायामप्राप्ताव् आह ।

प्राणान् आयम्य संशुद्धस् तृचेनाब्दैवतेन तु ।
जपन्न् आसीत सावित्रीं प्रत्यग् आ तारकोदयम् ॥ १.२४ ॥

यद् वा, अयं सायंसंध्यविषय एव क्रमः । पूर्वं प्राणान् आयम्य संशोधनं कार्यम् । संशब्दाच् चाद्भिर् मार्जनं दर्भैः । तृचेनेत्य् अधिकनिवृत्त्यर्थम् । पुनर्वचनम् अत्रैव । अतश् च मध्यंदिन आधिक्यम् अविरुद्धम् । तुशब्दश् चशब्दार्थे द्रुपदाप्राप्त्यर्थः । अर्धास्तमित आदित्ये प्राणान् आयम्य “आपो हि ष्ठा” इति तृचेन मार्जयित्वा द्रुपदां च जप्त्वा सूर्यम् उपस्थाय जपन्न् आसीत सावित्रीम् ॐकारमहाव्याहृतिपूर्विकां प्रत्यङ्मुख आ नक्षत्रोदयात् । यद् अपि “आ ज्योतिषो दर्शनात्” इत्य् उक्तम्, तद् अप्य् उदयोपलक्षणार्थम् एव, दर्शनस्यानियतत्वात् । द्वयं चानेन श्लोकेन विधीयते- प्राणायामस्य पूर्वकालता सायं च संध्याविधानम्, आ नक्षत्रदर्शनाद् इति लिङ्गात् । कालविशिष्टसंध्योपासनविधिर् वा स्यात् । एवं च “तृचेनाब्दैवतेन” इत्य् अधिकनिवृत्त्यर्थं पुनर्वचम् अर्थवत् । तथा च स्नानविधौ स्पष्टीकरिष्यते ॥ २४ ॥

किं सायम् एव संध्योपासनम् उत प्रातर् अपि । यदा च प्रातः, तदा किम् एवम् एव । उच्यते ।

संध्यां प्राङ् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ १.२५ ॥

एवम् एव प्रातः संध्योपासनं कुर्यात् । अयं तु विशेषः- प्राङ्मुखस् तिष्ठन् नक्षत्रदर्शनाद् आरभ्य आ सूर्यधर्शनाज् जपं कुर्यात् । मध्यंदिने तु विशेषानभिधानात् प्राङ्मुख उदङ्मुखो वासीनः शक्त्या सावित्रीं जपेत् । अन्ये त्व् आदित्याभिमुखस् तिष्ठन् सहस्रादिसंख्याताञ् जपेद् इत्य् आहुःन्, हारीतवचनात् ।

देवी सहस्रशीर्षा तु शतमध्या दशावरा ।
जपेद् अतः सहस्रान्तां शतमध्यां दशावराम् ॥ इति ।

तत् तु कार्योपरोधाद् अग्निहोत्रिविषयं द्रष्टव्यम् । प्राक् सूर्योदयाद् उपस्थानानुपपत्तेर् उत्कर्ष इति केचित् । न त्व् एवं समाचारः । अभिविधावाङ् द्रष्टव्यः,

ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः । (म्ध् ४.९४)

इत्य् स्मृत्यन्तरदर्शनात् । संध्येति चोपस्थानकर्मणो नामधेयं, कालस्य चान्यतः प्राप्तत्वात् । यथाह गार्ग्यः ।

पूर्वां संध्यां सनक्षत्रां प्रातर् आ भास्करोदयात् ।
आ तारकोदयात् सायं पश्चिमां सदिवाकराम् ॥ इति ।

“अर्धास्तमितभास्कराम्” इति संवर्तः । मार्जनं त्व् आत्मसंस्कारार्थं संध्याङ्गं च । अन्ये तु जपकर्मप्राधान्यं मन्यन्ते । यथाह मनुः ।

पूर्वां संध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् । इति । (म्ध् ४.९३)

तिष्ठञ् जपेद् इति विभक्तिव्यत्ययस् तथा स्यात् । एवं च संध्याम् उपास्याग्निकार्यं कुर्यात् । तस्य विधिर् गृह्याद् अवगन्तव्यः । “संध्ययोर् उभयोः” संध्याशब्दश् चायम् अनन्तरकालोपलक्षणार्थः, विरोधात् । उभयग्रहणं चादरार्थम् । “कृताग्निकार्यो भुञ्जीत” (य्ध् १.३५) इत्य् अग्निकार्यम् अन्यत् कर्तव्यम् इत्य् आशङ्का मा भूद् इत्य् आदरः । अन्ये तु संध्ययोर् इत्य् अङ्गाङ्गिभावं मन्यन्ते । तत् पुनर् नातीव पेशलम्, “ततः” इति क्रमाभिधानात् सप्तमीनिर्देशाच् च । अपिशब्दो नित्यत्वज्ञापनार्थः । अहर् अहर् इत्य् अनुकर्षणात् ॥ २५ ॥

एवम् अग्निकार्यं निर्वर्त्य,

ततो ऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन् ।
गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ १.२६ ॥

तत इति क्रमार्थम् । “अभिवादयेद् वृद्धान्” विद्याभिजनवृत्तवयोधनादिभिः । असाव् इति नामादेशः । इतिकरणः प्रकारार्थः । यथाह बौधायनः- “कामम् अन्यस्मै साधुवृत्ताय गुरुणानुज्ञातः असाव् अहं भो इति श्रोत्रे संस्पृश्य मनसः समाधानार्थम् अधस्ताज् जान्वोर् आ पद्भाम्” इत्यादि (ब्ध् १.३।२६–२८) । श्रोत्रसंस्पर्शश् च समाचाराद् देशनियत इति केचित् । यद् आपस्तम्बेनोक्तम्- “दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयेत्” इत्यादि (आप्ध् १.५।१६) । तद् दृष्टार्थत्वाद् दूरस्थविषयं द्रष्टव्यम् । अभिवाद्यानभिवाद्यविवेको ऽन्वेष्टव्यः । यथा- “नाप्रयतो नाप्रयताय” इत्यादि (ब्ध् १.३।२९) । यथा- “समिन्मृदुदकुम्भहस्तो नाभिवादयेत्” (ब्ध् १.३।३१) । अन्यद् अप्य् एवंसंयुक्तं “न समवाये ऽभिवादनम् अत्यन्तशो भ्रातृपत्नीनां जातवीर्यश् चेद्” इत्यादि (ब्ध् १.३।३२–३३) । “नाम्नो ऽन्ते ये न प्लुतिं विदुर्” इत्यादि । “गुरुं चैवाप्य् उपासीत” इति तुशब्दार्थश् चशब्दः । एवशब्दश् च मकारान्तः । गुरुं त्व् एवम् उपसंगृह्णीयात्, नाभिवादयेद् इत्य् अर्थः । यथाह मनुः ।

व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ (म्ध् २.७२)

इति वचनात् । यत् त्व् आपस्तम्बोक्तं, “दक्षिणं पादं पाणिभ्यां परिमृज्य हस्तं गृह्णीयात्” (आप्ध् १.५।२१) इति, तत् प्रसादविशेषार्थत्वान् नैमित्तिकम् । पूर्वं गुरोर् उपसंग्रहणम्, “गुरुणानुज्ञातः” इति वचनात् । न केवलम् उपसंगृह्णीयात्, अप्य् उपासीत स्वाध्यायार्थं समाहितः प्रणिहितमनाः । यद् वा, अन्तरेणापि स्वाध्यायार्थम् उपासीतेत्य् एवम् अपिशब्दार्थः ॥ २६ ॥

अयं चान्यस् तद्धर्मः ।

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् ।
हितं चास्याचरेन् नित्यं मनोवाक्कायकर्मभिः ॥ १.२७ ॥

आहूतो ऽविचारयन् गुरुणा गच्छेत् । चशब्दाद् अनाहूतश् च । किं चान्यत् । अप्य् अधीयीत गुरुणानुज्ञातः, अपिशब्दात् । प्रकारार्थो वापिशब्दः, “अर्थनित्यः परीक्षेत” (निरुक्त २.१) इति शब्दज्ञा यतः । प्रकारं चाह गौतमः- “पाणिना सव्यम् उपसंगृह्य” इत्यादि (ग्ध् १.४६) । लब्धं च बैक्षम् अस्मै निवेदयेत्, लाभान्तराभावात् । यद् वा, अन्यद् अप्य् अयाचितम् अप्रत्याख्येयं, ब्राह्मणाद्याहृतम् अस्माद् एव वचनाद् गृह्णीयात् । गुर्वर्थं वा तदनुज्ञया भिक्षेतेति । तथ च आपस्तम्बः- “सर्वं लाभम् आहरन् गुरवे” (आप्ध् १.३।२५) इति सर्वग्रहणाद् भैक्षस्य पृथङ्निवेदनाद् एतद् एव ज्ञापयति । यत् तु “पक्वान्नस्वामिनो भिक्षवः” इति, तद् आत्मवृत्त्यर्थं द्रष्टव्यम् । “हितं तस्याचरेन् नित्यम्”, चशब्दात् प्रियं च । तथाह गौतमः- “युक्तः प्रियहितयोः” इति (ग्ध् २.३०) । अप्रियम् अपि च तदात्वे हितं भवत्य् एवौषधादि । अतो भेदेनाभिधानम् । नित्यशब्दाच् च समावृत्तो ऽपीति गम्यते । मनोवाक्कायकर्मभिर् इति सर्वथेत्य् अर्थः । यथाहाम्नायः- “यस् ते न द्रुह्येत् कतमच् चनाहं ये गुरुं नाद्रियन्ते विप्रा मनसा वाचा कर्मणा वा” इति (च्ड़्। वध् २.९, ११) । हितप्रकारविशेषश् च लोकतः शास्त्रान्तरतश् चावगमयितव्यः । एते ब्रह्मचारिणो नियमाः ॥ २७ ॥

गुरोः पुनः ।

कृतज्ञो ऽद्रोही मेधावी शुचिः कुल्यो ऽनसूयकाः ।
अध्याप्याः साधुशक्ताप्तस्वार्थ्दा धर्मतस् त्व् इमे ॥ १.२८ ॥

कृतज्ञः प्रसिद्ध एव । अद्रोही सर्वभूतानाम्, आचार्याद्रोहस्य हितवचनाद् एव सिद्धत्वात् । शुचिर् व्याख्यातः । कुल्यः कुलीनः । अनसूयकाः असूयारहिताः । असूया परमर्मसूचनम् अभिनयादिना, परिवादो वा । उक्तवक्ष्यमाणविशेषणं वैतद्, बहुवचनसामर्थ्यात् । एकवचनपाठे ऽप्य् अयम् अध्याप्यान्तरोपन्यासः । साधुः सद्भिर् व्याख्यातः । शक्तो ऽभियोगग्रहणसमर्थ ऊहापोहक्षमो वा । आप्तो मित्रम् । स्वः पुत्रव्यतिरेकेण भ्रात्रादिः । अर्थदो द्रव्यदः, विद्याप्रदो वा । “विद्या मनुष्याश् च विहिताः परिवर्तकेन” (वध् २.३९) इति स्मृत्यन्तरात् । द्रव्यदश् चापणेन, धर्मत इत् वचनाद् भृतकाध्यापनप्रतिषेढच् च । एते धर्मतो ऽध्याप्याः । तुशब्दाच् च वृत्त्यर्थम् अन्यो ऽपि । यथाह मनुः ।

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
शक्तो ऽर्थदो ऽर्थी स्वः साधुर् अध्याप्या दश धर्मतः ॥ इति । (म्ध् २.१०९)

आचार्यच्छलेन शिष्यस्यामी धर्मा विधीयन्ते । एवंगुणो ऽध्याप्यः । तेन चैवं भवितव्यम् इत्य् अर्थः । अमी च ब्रह्मचारिण एव ॥ २८ ॥

दण्डाजिनोपवीतानि मेखलाम् चैव धारयेत् ।
ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ १.२९ ॥

एवशब्दो मकारान्तो द्रष्टव्यः, स्मृत्यन्तरोक्तप्रकारार्थः । चशब्दो ऽनुक्तसमुच्चयार्थः । यथाह गौतमः- “वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम्” इत्यादि (ग्ध् १.१७) । दण्डप्रकारश् च- “बैल्वपालाशौ ब्राह्मणदण्डौ” इत्यादि (ग्ध् १.२२) । “कृष्णरुरुबस्ताजिनानि” (ग्ध् १.१६) इत्य् अजिनप्रकारः । तानि चोत्तरीयाणि । यथाह आपस्तम्बः- “अजिनम् एवोत्तरीयं धारयेयुः” इति (आप्ध् १.३।१०) । उपवीतं च । यथाह बौधायनः- “कौशं सौत्रं वा त्रिस् त्रिवृद् यज्ञ्ōपवीतम् । आ नाभेर् दक्षिणं बाहुम् अवधाय शिरो ऽवदध्यात्” इति (ब्ध् १.८।५–७) । मानवं तु- “उद्धृते दक्षिणे पाणौ” (म्ध् २.६३) इत्यादि विन्यासार्थम् । यत् तु वर्णविशेषेण “कार्पासम् उपवीतं स्याद् विप्रस्य” इत्यादि (म्ध् २.४४), तज् जातुकर्णिवचनात् “दीक्षितौ चेद् राजन्यवैश्यौ शाणाविके कुर्याताम्” इति दीक्षितविषयम् । मेखलाप्रकारश् च- “मौञ्जी त्रिवृत् समा श्लक्ष्णा” इत्यादि (म्ध् २.४२) । एतानि च दण्डादीन्य् अविरुद्धेषु कालेषु नित्यं धार्याणि । यत् तु मनुनोक्तम्- “प्रतिगृह्येप्सितं दण्डम्” इति (म्ध् २.४८), तद् आप्द्य् अन्यदण्डग्रहणार्थं द्रष्टव्यम् । “ब्राह्मणेषु चरेद् बैक्षम् अनिन्द्येष्व् आत्मवृत्तये,” न सर्वार्थम् । ब्राहमणकुलेष्व् इति चायं प्रथमः कल्पः । क्षत्रियवैश्यकुलेष्व् इति चायम् अनुकल्पः । शूद्रकुलेष्व् अपीत्य् आपत्कल्पः । तथा चाह मनुः ।

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥
सर्वं वा विचरेद् ग्रामं पूर्वोक्तानाम् असम्भवे । इति । (म्ध् २.१८३, १८५)

“सार्ववर्णिकं भैक्षचरणम्” (ग्ध् २.३५) इति च गौतमः । ब्राह्मणवचने ऽपि ब्राह्मण्स्त्रीभ्यो भैक्षचरणम् । यथाह आपस्तम्बः- “अप्रत्याचक्षाणाम्” इति (आप्ध् १.३।२६) । आम्नायश् च- “यस्या आचारभूयिष्ठं श्लक्ष्णता च तां भिक्षेद् इत्य् आहुस् तल्लोक्यम् इति । अथ यद्य् अन्यां भिक्षितव्यां न विन्देतापि स्वाम् एवाचार्यानीं भिक्षेत” इति स्त्रियं भिक्षितव्यां दर्शयति । “स्वस्ति वाच्य भिक्षादानम् अप्पूर्वम्”[^७] (ग्ध् ५.१८) इत्य् एतद् अपि स्त्रीविषयम् एव । दातुर् वैतद् इत्य् अदोषः ॥ २९ ॥

ब्राह्मणविषयैवेयं बैक्षवृत्तिः । इतरयोः प्रतिग्रहानधिकाराद् इत्याशङ्कां निराकरिष्णुर् गुणोपदेशद्वारेण प्राप्तिम् आह ।

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३० ॥

निगदव्याख्यानः श्लोकः ॥ ३० ॥

वृत्त्यर्थत्वाद् अविद्यमानधनस्यैव प्राप्ताव् आह ।

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि ।
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ १.३१ ॥

स्थितवचनाद् अन्यथा वृत्ताव् अब्रह्मचारी स्यात् । “नैकस्मिन् गृहे बुञ्जीतानापदि” इति ब्रुवन्न् आपदि प्रतिप्रसवाद् विद्यमानधनस्यापि बैक्षेण वृत्तिनियमं दर्शयति । “ब्राह्मणः कामम् अश्नीयात्,” भिक्षार्थम् आगतो ऽनिन्द्यैर् आमन्त्रितश् च । न राजन्यवैश्यौ । व्रतम् अपीडयन्, मधुमांसादिवर्जम् इत्य् अर्थः। तथा च मनुः ।

व्रतवद् दैवदेवत्ये पित्र्ये कर्मण्य् उपस्थिते ।
कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥ इति । (म्ध् २.१८९)

अनन्तरं च ब्राह्मणस्तुत्या राजन्यवैश्ययोर् अनधिकारं दर्शयति । यत् तु ब्रह्मचारिणः श्राद्धभोजने प्रायश्चित्त्म् आम्नातं, तत् पूर्वेद्युर् आमन्त्रितस्येति द्रष्टव्यम् ॥ ३१ ॥

उक्ताश् च ब्रह्मचारिणो नियमाः । यमा उच्यन्ते ।

मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादांश् च वर्जयेत् ॥ १.३२ ॥

यद्य् अपि मध्वशनम् आम्नाये ऽनुमतम्, “तत् स्वादुकारम् एवाश्नीयात्” इति, तथाप्य् आचार्यस्य न ब्रह्मचारी सन् मध्व् अश्नीयद् इत्य् अयम् एव पक्षो ऽभिमतः, अनुज्ञानस्यापद्विष्ययत्वात् । ऋग्यजुःसामादिभिर् व्यवहारवान् विद्वान् कर्तव्यम् इत्य् आपदि मद्व् अश्नीयाद् इत्य् अर्थः, नान्यस्मिन् । तथा च चरकाः पठन्ति- “श्वेतकेतुं हारुणेयं ब्रह्मचर्यं चरन्तं किलासो जग्राह । तम् अश्विनाव् ऊचतुः- ऽमधुमांसौ किल ते भैषज्यम्ऽ इति । स होवाच- ऽब्रह्मचर्यमानी कथं मद्व् अश्नीयाम्ऽ इति । तौ होचतुः- ऽयदा चात्मना पुरुषो जीवति, अथान्यत् सुकृतं करोमिऽ इति । आत्मानं ह्य् एव सर्वतो गोपायेत्” । अथ खल्व् आहुर् वाजसनेयिनः- “आचार्याय मधुमांसे प्रदास्यामस् तदुच्छिष्टं भोक्ष्यामः । तथा न दुष्यामहे, तद् यथाग्निहोत्रोच्छिष्टम् एव नस् तद् भविष्यति” इत्यादिना आपद्विषयता वाजसनेयिवाक्यस्येति विज्ञायते । ततश् चानापद्य् अन्यथाभक्षणे च प्रायश्चित्तम् । अञ्जनग्रहणं त्व् अलङ्कारलक्षणार्थम् । उच्छिष्टं चागुरोः । तथा चाहुः- “उच्छिष्टम् अगुरोर् अभोज्यम्” इति । शुक्तं पर्युषितं भक्षादि । स्त्रियश् च संभाषणादाव् अपि, अन्यत्रावश्यकार्यात् । तथा च आपस्तम्बः- “स्त्रीभिर् यावदर्थं संभाषेत” इति (आप्ध् १.३।१६) । प्राणिहिंसनं मनसापि । तथा च भरद्वाजः- “मनसा प्राणिहिंसायां त्रिर् द्रुपदाम् आवर्तयेत्” इति । भास्करालोकनम् उदयास्तमयादौ । यथाहुः ।

नेक्षेतोद्यन्तम् आदित्यं नास्तं यन्तं कदाचन । इति । (म्ध् ४.३७)

अश्लीलं सङ्कल्पनम् अपि, “यदि वेदम् अप्रतिरूपं संकल्पयति” इति श्रुतेः । यत् तु “शुक्ता वाचः” (ग्ध् २.१९) इति, तत् प्रायश्चित्तविशेषार्थम् । परिवादं द्विषद्भ्यो ऽपि । चशब्दः स्मृत्यन्तरोक्तयमप्राप्त्यर्थः । यथोकम् “उपानच्छत्रकामक्रोध” इत्यादि (ग्ध् २.१३) । औषधर्थं चानलङ्कारत्वाद् अञ्जनाद्य् अप्रतिषिद्धम् । तथा चाम्नायः- “आत्मानं ह्य् एव सर्वतो गोपायेत्” इति दर्शित एव । एवम् उदाहरणार्थं कतिचिद् यमनियमा उक्ताः । सर्वथा यान् एव गुरुर् आचार्यो वा ब्रूयात्, त एव ब्रह्मचारिणो यमनियमा इत्य् अवसेयम् । तथा च शौनकः- “यद् एव विद्वान् आचार्यो वा ब्रूयात् तद् एवाविचिकित्सन्न् आचरेत् । उपदेशत एव ब्रह्मचारिणो धर्म इति हि विज्ञायते” इत्य् आह ॥ ३२ ॥

किंलक्षणः पुनर् गुरुः किंलक्षणो वाचार्य इति । उच्यते ।

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।
उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥ १.३३ ॥

निषेकाद्याः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति यः, स गुरुर् उच्यते । “निषेकादीनि कर्माणि” इति (म्ध् २.१४२) स्मृत्यन्तरात् पितेत्य् अर्थः । उपनयनम् एव केवलं कृत्वा वेदं ददद् आचार्यः स उदाहृतो मन्वादिभिः । तथा चाह मनुः ।

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ इति (म्ध् २.१४०) ॥ ३३ ॥

मान्यत्वज्ञापनार्थं प्रसङ्गाद् ऋत्विगुपाध्यायाव् उच्येते ।

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते ।
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ १.३४ ॥

प्रकृतस्य वेदस्यैकदेशं ददद् उपाध्याय उच्यते, सर्वाणि वा वेदाङ्गानि । यथाह मनुः ।

एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥ इति । (म्ध् २.१४१)

अत्र च श्लोके वृत्त्यर्थम् अपीति योजनीयम् । परार्थं तु यज्ञकृद् ऋत्विग् उच्यते । स च त्रिविधः । यथाह नारदः ।

ऋत्विक् तु त्रिविधः प्रोक्तः पूर्वैर् जुष्टः स्वयं वृतः ।
यदृच्छया च यः कुर्याद् आर्त्विज्यं विधिपूर्वकम् ॥ इति । (न्स्म् ३.१०)

यत् तु मानवम् ।

अग्न्याधेयं पाकयज्ञम् अग्निष्टोमादिकान् मखान् ।
यः करोति वृतो यज्ञे स तसर्त्विग् इहोच्यते ॥ इति । (म्ध् २.१४३)

तद् इहेति वचनान् मानातिशयज्ञापनार्थं, न त्व् अन्यव्यावृत्त्यर्थम् । एषां पूर्वः पूर्वो ऽतिशयेन मान्यः । माता तु सर्वेभ्यो गरीयसीति द्रष्टव्यम् । तथा च गौतमः- “मातेत्य् एके” इति (ग्ध् २.५१) । मनुर् अप्य् एवंविधाद् एव पितुर् मातरं गरीयसीम् आह ।

सहस्रं तु पितुर् माता गौरवेणातिरिच्यते । इति । (म्ध् २.१४५)

अन्यादृशस् तु पिताप्य् आचार्याद् ऊनः । तथा च आपस्तम्बः- “तच् छ्रेष्ठं जन्म शरीरम् एव मातापितरौ जनयतः” इति (आप्ध् १.१।१८) । उत्पादकमात्रत्वे ऽपि मातैव पितुर् गरीयसी । यस् तु पिता प्राग् उपनयनान् निषेकादीनि विधिवत् कुर्यात् कारयेद् वा, अन्नेन च संभावयेत्, स आचार्येण तुल्यः । यथाह मनुः ।

निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ इति । (म्ध् २.१४२)

विप्रग्रहणं चोपलक्षणार्थम् अनुपनेतृत्वात् । मातापि हि पित्राद्यपेक्षया सगुणनिर्गुणत्वेनालोच्य माननीया । ये त्व् अन्ये वित्तादिभिर् मान्यास् तेषाम् अत्रानुपन्यासः, यस्मात् तन्मानने ऽभ्युदयो न त्व् अन्यथा प्रत्यवायः । मातृग्रहणाच् चान्या अपि स्त्रियो मान्या इति ज्ञायते । यथाह मनुः ।

पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।
मातृवद् वृत्तिम् आतिष्ठेन् माता त्व् आभ्यो गरीयसी ॥ इति । (म्ध् २.१३३)

पितृमातृसंबद्धाश् च सर्वे मान्याः स्मृत्यन्तरात् समाचाराच् च । मान्याश् चैवं मानिता भवन्ति, यदि तत्संबद्धा अपि मान्यन्ते । तस्मान् मान्यसंबन्धिनो मान्या एव । तेभ्यश् चान्योन्यं वित्तादिभिर् मानविशेषः । अमान्यसंबद्धानाम् अपि वित्तादिभिर् मान्यत्व्म् उक्तं कामतः । वित्तादिवक्यानि च स्वावसरे वक्ष्यामः । सर्वथा “श्रुतं तु सर्वेभ्यो गरीयः” (ग्ध् ६.२१) इत्य् अयम् एव समस्तवाक्यालोचनायाम् अपि राद्धान्तः । “तन्मूलत्वाद् धर्मस्य” (ग्ध् ६.२२) इति हेत्वभिधानाद् वित्तादीनाम् अपि मानकारणत्वम् ॥ ३४ ॥

भूयश् च गुरोर् मान्यत्वं दर्शयितुम् आह ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुञया ।
अपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ १.३५ ॥

गुर्वनुज्ञया सत्कृत्यान्नं भुञ्जीतेति संबन्धः । इत्थं गुरुर् मान्यः, येन कृताग्निकार्यस्यापि तदनुज्ञया भोजनम् अन्नसंस्कारश् च भवति । अग्निकार्यं तु प्रातःकालीनम् एवानूद्यते गुरुप्रशंसार्थम् । यद् वा भैक्षाद् अग्नौ होमो ऽग्निकार्यं प्रकरणात्, न समिदाधानं, तस्य “सायं प्रातर्” इति (आप्ध् १.४।१६) नियमात् । तथा च आपस्तम्बो “भैक्षाद् अग्नौ कृत्वा” (आप्ध् १.३।४२) इत्यादिनैतद् एवाग्निकार्यम् इति दर्शयति । एवं च भैकाद् अग्नौ हुत्वा गुरवे निवेद्य तदनुज्ञया सत्कृत्यापोषनक्रियापूर्वं वाग्यतो ऽश्नीयात् । गुरुनिवेदं च भैक्षसंस्कारो ऽदृष्टार्थः, आत्मवृत्तय इति वचनात् । अकुत्सयन् अन्नदोषान् अनुद्भावयन्न् इत्य् अर्थः ॥ ३५ ॥

कियान् पुनः काल एवं व्रतचर्यायाः । उच्यते ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥ १.३६ ॥

परिसमाप्यैकं वेदं वेदान्तरारम्भः । स चेच् छातो न नैयमिकः । यथाह मनुः ।

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् । इति । (म्ध् ३.२)

“ग्रहणान्तिकम् इत्य् एके” इति । अत्रेतिकरणो हेत्वर्थः । वेदार्थत्वाद् ब्रह्मचर्यस्य तद् ग्रहणान्तम् एव युक्तम् इत्य् एके मन्यन्ते । केशान्तस् तु सर्वपक्षेषु षोडश एवाब्दे कर्तव्यः । चशब्दस् तुशब्दस्यार्थे । एवकारस्योत्कर्षः । केशान्ताख्यश् च संस्कारश् चूडाकरणाद् ईषद्भिन्नः । स गृह्याद् अवगन्तव्यः । यदा पुनः प्राक् षोडशाब्दात् कथंचिन् नोपनीतस् तदा कालप्राप्ताव् अनुपनीतस्य तदभावः, तदा चासमावृत्तस्यापि केशान्तप्रवृत्तिः । तस्मिंस् तु काल उपनयनं कार्यं प्राधान्यात् । केशान्तस्य गुणत्वात् कालबाधः । किं पुनर् गर्भाष्टमादिकालाद् ऊर्ध्वम् अप्य् उपनयनं प्रवर्तेत । बाढं प्रवर्तते । गुणत्वात् कालस्य यथोक्ताभावे ऽपि प्रधानस्य प्रवृत्तिर् अविरुद्धा ॥ ३६ ॥

एवं तर्हि यावज्जीवम् उपनयनं स्यात् । नेत्य् आह ।

आ षोडशाद् द्वाविंशाच् च चतुर्विंशाच् च वत्सरात् ।
ब्रह्मक्षत्रविषां काल औपनायनिकः परः ॥ १.३७ ॥

आ षोडशाद् इत्य् अभिविधाव् आङ् द्रष्टव्यः, “द्विगुणां गायत्रीम् अतिक्रम्य ब्राह्मण्ō व्रात्यः स्यत्” इति जातुकर्णिवचनात् । गौतमश् च “द्व्यधिकाया वैश्यस्य” (ग्ध् १.१४) इत्य् अधिकग्रहणाद् एतद् एव ज्ञापयति । द्वाविंशाच् चतुर्विंशाच् चेत्य् अत्राप्य् आङनुषङ्गेण द्रष्टव्यः । गुणत्वे ऽपि कालस्यातः परं नोपनयनम् इति ॥ ३७ ॥

एतद् एव निन्दार्थवादेन स्पष्टीकरोति ।

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ १.३८ ॥

अतः परं षोडशाद् द्वाविंशाच् चतुर्विंशाच् च वर्षात् । पतन्त्य् एते ब्राह्मणादयो द्विजातिकर्मभ्यः, प्राग् एतस्मात् कालाद् आपद्य् अप्य् अनुपनयने अध्यापनसामर्थ्ये तु प्राथमकल्पिकात् कालाद् ऊर्ध्वं पतनम् एव । यथाह मनुः ।

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते । (म्ध् ११.३०)

इत्यादि । ततश् च द्विजातिकर्महानात् सर्वधर्मबहिष्कृता असंव्यवहार्या भवन्ति । यथा च आपस्तम्बः- “ते ब्रह्महसंस्तुतास् तेषाम् अभ्यागमनं भोजनं विवाह इति च वर्जयेत्” (आप्ध् १.१।३३–३४) इत्यादिना असंव्यवहार्यतां दर्शयति । कस्मात् पुनर् असंव्यवहार्या भवन्ति । यस्मात् सावित्रीपतिता व्रात्याः । सावित्रीशब्दश् चोपनयनकालोपलक्षणार्थः । तथा च वसिष्ठः- “अत ऊर्ध्वं पतितसावित्रीका भवन्ति । नैतान् उपनयेयुः” (वध् ११.७४–७५) इत्यादि । आख्याकरणं च निन्दाव्यवहारार्थम् । अथ किम् एते व्रात्या एव । न । “व्रात्यस्तोमाद् ऋते क्रतोः” । क्रतुग्रहणं गौरवार्थम् । स्तोममात्रव्यावृत्त्यर्थं वा । तथा च याज्ञिकाः “व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद् विरमेयुर् व्यवहार्या भवन्ति” (कात्श्र् २२.४।२७–२८) इत्य् आहुः । कार्यगौरवार्थं वा । अप्रकरणे प्रायश्चित्ताभिधानम् अनन्तरानुष्ठानार्थं, लाघवार्थं वा । स्मृत्यन्तरोक्तानां व्रात्यप्रायश्चित्तानां स्वावसरे विवेकं वक्ष्यामः । कामं पतितसावित्रीकत्वाद् उपनयनम् अध्ययनं वा मा भूद्, द्विजातिकर्महानं तु कुतस् त्व् इत्य् उक्तम् अद्विजातित्वाद् इत्य् उच्यते ॥ ३८ ॥

कस्मात् पुनर् अद्विजातित्वम् । यस्मात्,

मातुर् अग्रे ऽधिजायन्ते द्वितीयं मौञ्जिबन्धने ।
ब्राहमणक्षत्त्रियविशस् तस्मद् एते द्विजातयः ॥ १.३९ ॥

“तद् द्वितीयं जन्म” (ग्ध् १.८) इति स्मृत्यन्तरम् । न चानुपनीतानां तद् अस्ति । अत एव शूद्रो ऽप्य् अद्विजातिः । अद्विजातित्वाद् एव द्विजातिकर्मभ्यः पतनम् । वर्णधर्मास् तु प्रवर्तन्त इत्य् उक्तम् । अतः सूक्तं “पतन्त्य् एते सर्वधर्मबहिष्कृताः” इति ॥ ३९ ॥

अस्यैव दार्ढ्यार्थम् इयम् अन्या व्रात्यनिन्दा द्विजातिस्तुतिर् वा ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४० ॥

चशब्दैवशब्दौ छन्दःसमाधानार्थौ । यज्ञानां ज्योतिष्टोमादीनाम् । तपसां चान्द्रायणादीनाम् । मूलं परम् । परश् नैःश्रेयसकरः, अपवर्गमूलत्वात् । सर्वकर्मणां च कारणाधीनत्वात् परत्वाभिधानम् अविरुद्धम् । स च द्विजातीनाम् एवेति स्तुतिः । अद्विजातीनां वा स एव नास्तीति निन्दा । ब्रह्मयज्ञस्य चायम् उपोद्घातः । एवं च वक्ष्यमाणश्लोकानाम् अपि प्रकृतसंबन्धो वाच्यः । ब्रह्मयज्ञविधानपरत्वे ऽपि व्रात्यनिन्देयं, तेशाम् अनधिकारात् । द्विजातिस्तुतिर् वा, तेषाम् अधिकारात् ॥ ४० ॥

तथा चाह ।

मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः ।
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते हि यो ऽन्वहम् ॥ १.४१ ॥

द्विजग्रहणं स्तुत्यर्थम् । अन्वहम् इति नित्याधिकारज्ञापनार्थम्, अधिकाराविशेषत्वात् कामपदाननुबन्धित्वाच् च । देवादितर्पणम् अर्थवादः । स्तुत्या च विधिकल्पनम् । चशब्दस्यापकर्षविषयत्वम् । पितॄंश् चेति योजना । एवं वक्ष्यमाणविषया अपि श्लोका व्याख्येयाः । ऋगादिशब्दा ऋग्वेददिवचना एवेत्य् उपक्रमसामर्थ्याद् अवसेयम् । ऋज्व् अन्यत् ॥४१॥

यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः ।
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥ १.४२ ॥

प्रीणातीत्य् अनुषङ्गः । घृतान्य् अमृतानि वा घृतामृतानि । घृतबहुत्वं चाहुतिभेदात् । अमृतं त्व् अमरणधर्मकत्वात् सुवर्णम् । तेन शतकृष्णलादौ तर्पणम् । दुग्धाब्धिप्रभवं वा । तद् ऐतिहासिकानां प्रसिद्धम् ॥ ४२ ॥

स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४३ ॥

चशब्दस्योत्कृष्य पितॄणां चेति योजना ॥ ४३ ॥

मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् ।
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥ १.४४ ॥

पुनः पुनर् अन्वहम् इत्य् आदरार्थम् उक्तम् । ऋगादीनां नैरपेक्ष्यकथनार्थं वा । द्विजग्रहणं चात्र वाकोवाक्यादाव् अद्विजातिप्राप्त्यर्थम् । ऋज्व् अन्यत् ॥ ४४ ॥

वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः ।
इतिहासांस् तथा विद्या यो ऽधीते शक्तितो ऽन्वहम् ॥ १.४५ ॥

वाकोवाक्यं त्रय्यनुगतानि वादप्रकरणानि । नाराशंस्यः पौरेषेय्यो यज्ञगाथाः, देवस्तोत्राणि पुरुषकृतान्य् एवेत्य् अन्ये । गाथा आत्मवादश्लोकाः । पुरुषकृता एव यज्ञगाथा इत्य् अन्ये । विद्या मीमांसादयः । यो ऽन्वहं शक्तितो द्विजातिर् अद्विजातिर् वाधिकृतः सन्न् अधीते ॥ ४५ ॥

मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृप्तिं च तथा पितॄणां मधुसर्पिषा ॥ १.४६ ॥

मांसौदनक्षीरौदनाभ्यां मधुना च तर्पणम् । दिवि ओको निवासो येषां ते दिवौकसः । देवा इत्य् अर्थः । तथा पितॄणां च मधुसर्पिषा तृप्तिं करोतीति योजना ॥ ४६ ॥

किं पुनस् तैस् तृप्तैः प्रयोजनम् ।

ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः ।
यं यं क्रतुम् अधीते च तस्य तस्याप्नुयात् फलम् ॥ १.४७ ॥

ते देवा पितरश् च । तृप्ताः, एनं स्वाध्यायिनम् । तर्पयन्ति, सर्वकामफलैः सर्वे कामा फलानि येषां ते सर्वकामफलाः क्रतवः । तैस् तर्पयन्ति, तृप्तिं कुर्वन्तीत्य् अर्थः । शुभैर् इति श्येनादिव्यावृत्त्यर्थम् । समानम् एतद् द्विजातीनाम् अद्विजातीनां च । यद् वा, एवं ब्रह्मयज्ञाभ्यस्ता ऋगादयो मन्त्रा क्रत्वङ्गं भवन्ति, ब्राह्मणानि च विधानक्षमाणि । अतश् च यो यो यं यं क्रतुम् अधीते, स स तत्र तत्राधिकारलाभात् तस्य तस्याप्नुयात् फलं, नान्यः । अद्विजातेश् चानध्ययनान् महाफलक्रत्वनधिकारान् निन्दा । क्रत्वभिधानाच् चायम् ऋग्वेदाद्यधयनशेषः श्लोकः । उत्तरार्धो वा । न वाकोवाक्याद्यध्ययनशेषः ॥ ४७ ॥

इयम् अन्या ब्रहयज्ञस्यातिस्तुतिः ।

त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते ।
तपसश् च परस्येह नित्यस्वाध्यायवान् द्विजः ॥ १.४८ ॥

तथा चाम्नायः- “यावन्तं ह वा इमां वित्तेन पूर्णां ददत् स्वर्गं लोकं जयति त्रिस् तावन्तं लोकं जयति भूयांसं चाक्षय्यम्” इत्यादि (श्ब् ११.५।६.३) । तपसश् च परस्य फलम् अश्नुते । चतुर्थाश्रमगतस्येत्य् अर्थः । इहैव ब्रह्मचर्ये स्थितः । नित्यस्वाध्यायवान् निष्काम इत्य् अर्थः । द्विजग्रहणम् उक्तार्थम् । यद् वा इहेत्य् अस्यान्यो ऽर्थः । इह ग्राम्ये धर्मे स्थितो ऽलङ्कृतः सुखितः सुखे शयने शयानः परस्य तपसः फलं प्राप्नुयात् । द्विजग्रहणं द्विजातीनां यावज्जीविको ऽयं ब्रह्मयज्ञ इति ज्ञापनार्थम् । तथा चाह मनुः ।

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ इति । (म्ध् २.१६७)

उपलक्षणार्थं चैतत् तृतीयं द्विजग्रहणम् । द्विजो ऽद्विजो वा यथाविहितस्वाध्यायवान् इदं नाम प्राप्नुयाद् इति । एवं च सर्वशेषो ऽयं श्लोकः । क्रतुप्राप्त्यादयश् च फलार्थवादा इति प्रपञ्चनीयम् । तदालम्बनानि च कारणे कार्यवद् उपचारात् सादृश्यादिभिर् वा कथंचिद् उपपादनीयानि ॥ ४८ ॥

एवम् उक्तकालं ब्रह्मचर्ये समाप्यानन्तरं गुरुकुलात् समावर्तितव्यं गृहस्थधर्मानुष्ठानाय । नैष्ठिकं वा ब्रह्मचर्यम् अनन्तरं प्रतिपत्तव्यम् । यथाह वसिष्ठः- “अवशीर्णब्रह्मचर्यो यम् इच्छेत् तम् आवसेत्” इति (वध् ७.३)_ । गौतमश् च “तस्याश्रमविकल्पम् एके ब्रुवते” _(ग्ध् ३.१) इत्य् एतद् एव दर्शयति । तस्य चावशीर्णव्रतस्येत्य् अर्थः । तत्रानन्तर्याद् ब्रह्मचारिण एवान्यः प्रकारो नैष्ठिकत्वं तावद् उच्यते ।

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ ।
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ १.४९ ॥

तुशब्दस्यापकर्षः । नैष्ठिकस् त्व् आचार्यसंनिधौ वसेत् । संनिधिवचनाद् अदृष्टार्थो वासः । समाख्यानाच् च तच्छुश्रूषणपरस् तत्रैव निष्ठां गमयेत् । तदभवे त्व् अस्यैव पुत्रे गुणान्विते पत्न्यां वा गुणान्वितायाम् । वाशब्दापिशब्दात् सपिण्डे वाचार्यस्यात्मनो वा सब्रह्मचारिणि वा । तथा चाह मनुः ।

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा काङ्क्षन् गतिम् अनुत्तमाम् ॥ इति । (म्ध् २.२४७)

गौतमश् च- “गुर्वभावे तदपत्ये वृत्तिः । तदभावे वृद्धे सब्रह्मचारिणि” इत्यादि (ग्ध् ३.७–८) । “वैश्वानरे ऽपि वा”, नित्यधारणभैक्षहोमसमिदिन्धनोपलेपनादिभिः शुश्रूषाविशेषैर् देहं क्षपयेत् । आचार्याग्न्योर् इच्छाविकल्पः । दोषवति चाचार्ये ऽग्निः । इतरेषां त्व् अभावतो गुणतो वा ग्रहणम्, सर्वत्र साद्गुण्याभावात् ॥ ४९ ॥

ततश् च ।

अनेन विधिना देहं साधयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः ॥ १.५० ॥

साधनं क्षपणम् । अनेन विधिना पूर्वोक्तेनाग्नीन्धनादिना आचार्यादिसंनिधौ देहं समापयन् ब्रह्मलोकम् अवाप्नोति । न च पुनर् इहाजायते । यद् वा, अनेन विधिनेति स्मृत्यन्तरोक्तविधिसंबन्धः, अस्य च प्रकरणाद् एव सिद्धेः, “चतुर्थषष्ठाष्तमकालभोजी भैक्षम्” (वध् ७.८–९) इत्यादिना स्मृत्यन्त्रोकेतेन विधिना । विजितेन्द्रियत्वं चात्मोपासनम् अभिप्रेतं, ब्रह्मलोकप्राप्तिवचनात् पुनराजननप्रतिषेधाच् च । तथाह मनुः ।

आ निपाताच् छरीरस्य यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ इति । (म्ध् २.२४४)

अञ्जसा आत्मज्ञानेनेत्य् अर्थः । “गुरोः कर्मशेषेण जपेत्” (ग्ध् ३.६) इति गौतमः । एवंभूतो ब्रह्मलोकम् अवाप्नोति जितेन्द्रिय इति । एवंभूतो जितेन्द्रिय आत्मविद् इत्य् अर्थः । बह्येन्द्रियजयस् तु पूर्वम् उक्तः ।

  • ननु इयं नैष्ठिकत्वविधानस्मृतिर् आम्नायविरुद्धा । कथं, “यावज्जीवम् अग्निहोत्रं जुहुयात्”, “यावज्जीवं दर्शपूर्णमासाभ्याम् यजेत” (च्ड़्। शब् ओन् प्म्स् २.४।१) इत्य् एवमाद्याम्नायः प्रत्यक्षः । स नैष्ठिकत्वे सत्य् उपरुध्येत । तद्विरोधिन्यश् च स्मृतयो न प्रमाणम् इत्य् उक्तम् । न चैवम् अविरोधसंभवः, कृतदाराणाम् एवाग्निहोत्रादिविधय इति । प्राग् अपि जीवनान्वयात् तद्वतश् चाधिकारः । कामम् अधिकृतानाम् एवास्तु दारसंग्रहः । न चैवं सति प्राग् उपनयनाद् उपनीतमात्रस्य वा प्रसङ्ग इति शक्यं वक्तुम्, अविदुषो ऽनधिकारात् । न च निषादवद् वाचनिको ऽधिकारः संभवति, अनध्ययनप्रसङ्गात् । यदि ह्य् अविदुषाम् अधिकारः स्यात्, को ऽध्ययनादिक्लेशं कुर्यात् । न चाध्ययनात् फलान्तरम् इति शक्यं वक्तुम्, अश्रवणात् । फलवत्कर्मावबोधनेन च प्रयोजनवत्त्वाद् घृतकुल्यादीनाम् अर्थवादत्वम् । न चास्त्व् अध्ययनम् इति शक्यं वक्तुं, संप्रदायोच्छेदप्रसङ्गाच् च । अतश् च युक्तं वक्तुम् अविदुषाम् अनधिकारकल्पनम् । न च प्राग् अध्ययनाद् अविदुषां परतस् तु विदुषाम् इति युक्तं, वैरूप्यप्रसङ्गात् । तेनाविदुषाम् निरासः । विदुषां पुनर् अधिकारहेतुः पत्न्यभाव इत्य् चेत्, क्रियतां तर्हि पत्नीसंग्रहः । न च केवलकामप्रयुक्ता सेति शक्यं वक्तुम् “अन्यतरापाये दारान् कुर्वीत” इति वचनात् । किं च “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते” इत्य् उपक्रम्य, “अथ तर्ह्य् अनृणो भवति यदि हि यज्वा ब्रह्मचारी प्रजाम् उत्पादयेत्” (त्स् ६.३।१०.५) इत्यादिना प्रजोत्पादननियमं दर्शयति । न चाकृतदारत्वे तदुपपत्तिः । अतो ऽपि नियोगतः कार्यो दारसंग्रहः । अपि च स्मृतिविरोधो ऽपि स्यात्, तन्नैयमिकसंस्कारहनात् । तथा च मनुः ।

महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः । इति । (म्ध् २.२८)

“चत्वारिंशत् संस्कारैः संस्कृतः” (ग्ध् ८.८) इति गौतमः । न चैतद् अगृहस्थस्य संभवति । न च यो गृहस्थस् तस्य तद् इति युक्तम्, अविशेषश्रुतेः । तथा च गौतमः “तस्याश्रमविकल्पम् एके ब्रुवते” (ग्ध् ३.१) इत्य् उपक्रम्याश्रमान् अभिधायानन्तरम् “ऐकाश्रमयं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) इत्य् उपसंहरन्न् एतद् एव स्पष्टीक्रोति, यद् उपवर्णितम् अस्माभिः । अतो नैष्ठिकत्वस्मृतिर् असारा । तत्रान्ये ऽग्निहोत्राद्यनधिकृतानाम् अत्र्यार्षेयाणाम् (?) अन्धपङ्ग्वादीनां नैष्ठिकादिस्मृतय इति वर्णयन्ति । तेषाम् अप्य् आश्रमसमुच्चयो दुःश्लिष्ट एव । स्वाभिप्रायेण च विषयकल्पना “यम् इच्छेत् तम् आवसेत्” (वध् ७.३) इति । अतो ऽशब्दार्थकल्पनातस् तु वरम् अप्रामाण्यम् एव । तथा चाङ्गिराः ।

स्वाभिप्रायकृतं कर्म यत् तु धर्मविवर्जितम् ।
क्रीडाकर्मेव बालानां तत् सर्वं निष्प्रयोजनम् ॥ इति ।

  • अत्राभिधीयते- नेयम् अपस्मृतिः, वेदमूलत्वाविशेषात् । विरोधाद् अतन्मूलत्वम् इति चेत्, कः खल्व् अत्र विरोधः । यदि हि न कृतदाराः कामतः स्युस् तदाग्निहोत्रादिविधयः प्रयोजका इति कल्प्येत । कामानां तु प्रयोजकत्वे न तत्कल्पनावसरः । न च क्रत्वर्थत्वे प्रमाणम् अस्ति । नापि द्रव्यार्जनवद् दारा इति शक्यं वक्तुं, द्रव्याभावे हि जीवनानुपपत्तेः । सर्वेण हि द्रव्यम् अर्थ्यते यतः, अतश् चाद्रव्यत्वं निरुणद्धि । तथा च न्यायविदो याज्ञिका- “जीविष्यन्ति हि विधानेनेत्य् अन्पुपन्नम्” इत्य् आहुः । न चैवं दारसंग्रहे प्रवृत्तिर् इति वैषम्यम् । न हि दाराभावे जीवनानुपपत्तिः । या तु “अन्यतरापाये दारान् कुर्वीत” इति क्रतोः प्रयोजकत्वाशङ्का, सा कृतदारस्याधिकृतत्वात् केवलानौपयिकदारसद्भावे च द्रव्यार्जनेनाविशिष्टा । यथैव ह्य् आत्मार्थम् आर्जने प्रवृत्त आत्मार्थत्वाविशेषात् क्रत्वर्थम् अप्य् आर्जयति, नाहम् अद्रव्यत्वाद् अनधिकृत इति मन्यते, तथैव कृतदारेणाकृतदारो ऽहम् इति च नावमन्तव्यम् । वीतरागस्य त्व् आत्मार्थम् अपि प्रवृत्त्यभावान् नाधिकृतत्वम् । तथा च वसिष्ठः “गृहस्थो ऽविनीतक्रोधहर्षः” (वध् ८.१) इत्य् एतद् एव दर्शयति । अविनीतक्रोधहर्षस्यैव गार्हस्थ्यं, विनीतक्रोधहर्षस् तु “यम् इच्छेत् तम् आवसेत्” (वध् ७.३) इत्य् अस्यार्थो यतः । यत् तु गौतमीयम् “ऐकाश्रम्यम्” (ग्ध् ३.३६) इति, तद् वनस्थाश्रमनिरूपणे निर्णेष्यामः । यत् तु “ब्राह्मीयं क्रियते तनुः” (म्ध् २.२८) इति, संस्कारत्वं यज्ञादीनाम् इति तस्यार्थः, न तु तद्रहितानाम् अब्राह्मी तनुर् इति । गौतमीयं त्व् आत्मगुणप्रशंसार्थम् इत्य् उक्तम् एवेत्य् अनवद्यम् । एवम् ऋणवाक्यम् अपि गृहस्थविषयतयैव व्याख्येयम् । यथैवाविदुषो न प्रजोत्पादनाय दारसंग्रहः, तथैव विदुषो ऽय् अरागिणः ।

  • ननु एतत् कामप्रयुक्त्वे पि समानम्, असमावृत्तस्यापि कामसंभवात् । नैवम् । कामप्रयुक्तत्वे ब्रह्मचारिणो दाराधिगमः स्मृत्या निराक्रियते, प्रजोत्पादनविधिप्रयुक्तत्वे ऽग्निहोत्रादिविधिप्रयुक्तत्वे च स्मृतेर् दौर्बल्यात् केन वार्यते । अतः कामप्रयुक्तत्वे वैषम्यम् । आम्नायश् च “ये चामी अरण्ये श्रद्धा सत्यम् उपासते” (छु ५.१०.१) इत्य् अग्निहोत्राद्यनपेक्षाम् अपवर्गप्राप्तिं दर्शयति । एवं छान्दोग्ये ऽपि “त्रयो धर्मस्कन्धाः । यज्ञो ऽध्ययनं दानम् इति प्रथमः । तप एव द्वितीयः । ब्रह्मचार्य् आचार्यकुले वासीति तृतीयः । अत्यन्तम् आत्मानम् आचार्यकुले ऽवासादयन्” (छु २.२३१) इति नैष्ठिकत्वं दर्शयति । अत सूक्तं “नैष्ठिको ब्रह्मचारी” इत्यादि ॥ ५० ॥

इति ब्रह्मचारिप्रकरणम्

**