०१ उपोद्घात-प्रकरणम्

यो बिभर्ति नमस् तस्मै चन्द्रस्य कलयः कलाम् ।

गौरीगण्डस्थलज्योत्स्नानिष्पन्दगलिताम् इव ॥१॥

प्रसक्तचिन्त्यद्युतिमण्डलात्मसामर्ग्यजुर्भिस् तपनात् तपोभिः ।

जयत्य् असौ येन विधातृधाम्नो यजूंषि शुक्लानि समाहृतानि ॥२॥

सुश्लिष्टवेदमूलः पावनशाखो महाध्वरस्कन्धः ।

हारित्रिवर्गकुसुमो मोक्षफलो जयति विध्यर्थः ॥३॥

मायाभिर् इन्द्रं पुरुरूपम् एकं जागर्ति यत् सुप्तम् अपीत्य् अवैति ।

दूरङ्गमं द्योतनवद् द्युतीनां तन् मे मनः शिवसङ्कल्पम् अस्तु ॥४॥

प्रणम्यार्कं महानागं तिलकस्वामिनं तथा ।

विनायकं सद्गोभिः स्मृतिर् उद्द्योत्यते मया ॥ ५ ॥

योगीश्वरम् इत्यादि याज्ञवल्कीयम् इदं धर्मशास्त्रं व्याचिख्यासया प्रस्तूयते, अभ्युदयहेतुत्वात् तद्धेतौ च वस्तुनि महाप्रयोजनत्वाद् व्याख्यानादिप्रयासस्य । तथा चाम्नायः- “प्रिये स्वाध्यायप्रवचने भवतः । युक्तमना भवति । अपराधीनो ऽहर् अहर् अर्थान् साधयते । सुखं स्वपिति । परमचिकित्सकश् चात्मनो भवति । इन्द्रियसंयमश् च, एकाग्रता, प्रज्ञावृद्धिः, यशो, लोकपक्तिः” इत्यादि (श्ब् ११.५।७) । प्रवचनग्रहणं चात्र ग्रन्थकरणादाव् अप्य् उपलक्षणार्थं द्रष्टव्यम् । कथं पुनर् अभ्युदयः शास्त्रस्य इत्य् आदित एव प्रपञ्चनीयं, शास्त्रप्रयोजनत्वात्, सर्वत्रैव हि शास्त्रारम्भे प्रयोजनं वाच्यम् इति स्थितेः । तथा चाह ।

सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥ इति । (श्वार् १.१२)

यद्य् अपि विषयप्रयोजनसंबन्धाभिधानम् अपेशलम् इव मन्यन्ते, अल्पप्रयोजनत्वाद् दुरुपपादत्वाच् च । तथापि किंचित् सौहृदाद् दिङ्मात्रं प्रदर्श्यते । तत्र च,

विषयः श्लोकनिर्दिष्टो धर्माख्यश् च प्रयोजनम् ।
तदादिकश् चतुर्वर्गः संबन्धो नियमात्मकः ॥

विषयस् तावच् छ्लोकनिर्देशाद् “ब्रूहि धर्मान्” इति, समाख्यानाच् च धर्मः । प्रयोजनं तु धर्मार्थकामापवर्गाः । तथार्थलक्षणत्वाद् अधर्मो ऽपि विषयः । तदनुसारिणश् चाधर्मानर्थदुःखबन्धाः प्रयोजनम् । सो ऽयं हेयोपादेयलक्षणत्वेनाभ्युदयात्मको ऽष्टवर्गो ऽस्माद् एव शास्त्राद् अवगम्यत इति नियमः संबन्धः । यद्य् अपि चार्थकामौ प्रत्यक्षावसेयौ, तथापि न शास्त्रानपेक्षाणाम् आञ्जस्येन तदवाप्तिः, आञ्जस्येन च प्रयोजनत्वम् । तस्माद् अनवद्यम् । कथं पुनर् एकस्यैव धर्मस्य विषयप्रयोजनत्वे भवतः । नैष दोषः, अवगम्यमानस्य विषयत्वाद् अवगतस्य च प्रयोजनत्वात् । न हि शास्त्रविषयताम् अवगम्यमानतयाप्रतिपद्यमानः प्रयोजनीभवति । ननु एवं सत्य् अर्थकामापवर्गाः शास्त्रस्याविषयत्वात् प्रयोजनं न स्युः । विषयत्वम् अपि भविष्यतीति चेन् न, अनिर्देशात् । धर्मपदस्योपलक्षणार्थत्वान् निर्दिष्टा एवेति चेन् न, तस्य श्रौतत्वेनैवोपपत्तेः । अर्थादीनां वा प्रयोजनत्वं हातव्यम्, अविषयते ऽपि वा तद् अनुमन्तव्यम् इति । अत्रोच्यते । द्विविधं हि क्रियाणां प्रयोजनं कारकाधारम् अकारकाधारं च । तत्र यत् कारकाधारं, न तद् विषयताम् अप्रतिपद्य प्रयोजनीभवति । न च तत्र वैरूप्याद् अविषयतेति शक्यं वक्तुम् ।

यथा विक्लिद्यमानत्वे विक्लिन्नत्वे च तण्डुलाः ।
धर्म्यभेदान् अन् गच्छन्ति नानारूप्ये ऽपि भिन्नताम् ॥

यद्य् अप्य् ओदनरूपता विक्लिद्यमानेषु तण्डुलेषु नास्ति, तथापि तण्डुलत्वानपायाद् विषयत्वोपपत्तेर् अदोषः । अकारकाधारं पुनर् विषयताम् अप्रतिपद्यैव प्रयोजनीभवति । यथा स्वर्गो यागस्य, यथा च वेतनलाभादयः पच्यादीनाम् । ओदनवच् च धर्मस्य विषयप्रयोजनत्वे, वेतनलाभवच् च केवलप्रयोजनत्वम् अर्थादीनाम् । अतो ऽविरोधः । अथ वा, अस्त्य् अर्थादीनाम् अपि शास्त्रविषयत्वम् । एवं हि वक्ष्यति-

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् । इति । (य्ध् १.११४)
तस्मात् स्त्रियः सेव्याः । (य्ध् १.७७)
ईश्वरं चाधिगच्छेत योगक्षेमार्थसिद्धये । इति । य्ध् १.९९)

तथा,

पश्येद् आत्मानम् अक्षय्यम् । (?)

इत्यादि । यत् त्व् अनिर्दिष्टत्वाद् इति, तद् धर्मपदस्योपलक्षणार्थत्वेन प्रत्युक्तम् । कथं पुनः श्रौतत्वे संभवत्य् उपलक्षणत्वम् । न ह्य् उपसंहारानुसार्य् उपक्रमो भवति । उच्यते । नैव वयम् उपसंहारानुसारिणम् उपक्रमं ब्रूमः । किं तर्हि । उपक्रमाद् एवैतद् अवगम्यते, योगीश्वरम् इति विशेषणात् । चतुर्वर्गज्ञानायैव हि तद्विशेषणम् यतः । मुख्यत्वात् तु धर्मस्य धर्मान् इत्य् उक्तम् । तस्मात् सिद्धम् अर्थादीनाम् अपि विषयप्रयोजनत्वम् । एतेनेतरश् चतुर्वर्गो व्याख्यातः ।

  • कथं पुनर् अस्माद् एव शास्त्राद् अयम् अष्टवर्गो ऽवगम्यत इति नियमस्योपपत्तिः । यदा हि वेदाद् एव सर्वम् इदम् अवगम्यते । अथास्माद् अप्य् अवगम्यत इत्य् उच्येत, तथापि नियमो ऽनुपपन्नः । अर्थकामयोः पुनः प्रमाणान्तरगम्यतैव । यत् त्व् आञ्जस्यं शास्त्राद् इति, तद् अप्य् अयुक्तम् । न हि परदाराभिगमजनितः कामो मिथ्येति शक्यं वक्तुम् । दुःखहेतुतया वानन्दरूपं कैवल्क्यम् आलोचयतो बन्धात्मकत्वाद् धर्मो ऽप्य् अपुरुषार्थः स्यात् ।

  • नैतत् सारम् । नास्माभिर् अनुभवनम् अफ्नूयते । दुःखनिमित्तत्वात् त्व् अपुरुषार्थत्वम् उक्तम् । न हि दुःखानुबन्धिनम् अर्थं कृतधियः प्रार्थयन्ते । न चाबुद्धिपूर्वकृद् व्यवहारो विचार्यः । तेनोच्यते- “शास्त्राद् आनन्दावगतेः शास्त्रीयाव् अर्थकामौ” इति । शास्त्रानुसारिणश् च धर्मार्थकामाः प्रार्थ्यमानत्वाद् दुःखाननुबन्धित्वाच् चाञ्जस्येन पुरुषार्थाः । यथा च नापवर्गप्रतिबन्धिकास् तथापवर्गनिरूपणे वक्ष्यामः । न चैवं सति प्रमाणान्तरावगतिर् विरोधिनी । यत् तु वेदाद् अवगतेर् नियमानुपपत्तिर् इति, तद् वेदमूलतयैवास्य शास्त्रस्य नियम्यमानत्वाद् अचोद्यम् । प्रमाणान्तरापेक्षया हि व्यावृत्तिः, न वेदापेक्षया, तदधीनत्वात् स्मृतिशास्त्रस्य । तथा च स्वायंभुवम्-

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । इति । (म्ध् २.१३)

धर्मशब्दश् च भगवतो ऽपि चतुर्वर्गोपलक्षणार्थः । सो ऽयम् वेद एव प्रत्यक्षपरोक्षतया श्रुतिस्मृतिशब्दवाच्यः । अतः सुष्ठूच्यते ऽस्माद् एव शास्त्राद् अयम् अष्टवर्गावगतेः समस्तो ऽभ्युदयः प्राप्यत इत्य् अलं प्रसङ्गेन ॥

कस्मात् पुनर् वेदसिद्ध एवार्थे भगवतः शास्त्रारम्भप्रयत्नः । यस्मात्,

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् ।
वर्णाश्रमेतरेषां नो ब्रूहि धर्मान् अशेषतः ॥ १.१ ॥

वेदार्थतत्त्वविदो ऽपि मुनयो यस्मात् संपूज्योपेत्यार्थितयाब्रुवन्, ततस् तदनुरोधाद् भगवतो ऽयं प्रयत्न इति मन्तव्यम् । युक्तं चैतत्, तादृशानाम् अध्याप्यत्वात् । तथा चाह मनुः ।

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
शक्तो ऽर्थदो ऽर्थी स्वः साधुर् अध्याप्या दश धर्मतः ॥ इति । (म्ध् २.१०९)

ते तु पुनः कस्माद् एव प्रयत्नेनाब्रुवन् । योगीश्वरं मन्यमाना याज्ञवल्क्यतयापि च महाभिजनत्वाद् अध्यापनार्हम् । तथा चापस्तम्बः- “तस्माद् विद्याभिजनसमुदेतं संस्कर्तारम् ईप्सेत्” इति (आप्ध् १.१।२) । युक्तं च गुणातिशयवति याज्ञवल्क्ये मुनीनां प्रश्नकरणम्, ज्ञातसतत्त्वानाम् अपि कदाचित् संशयोत्पत्तेः । तथा च व्यासः-

ज्ञातवेदार्थतत्त्वेन धर्मान् अप्य् अनुतिष्ठता ।
असंशयाय कर्तव्यः कियांश् चिद् गुरुसंनिधिः ॥ इति ।

अथ वा मन्दख्यातियुक्ता ज्ञानिनो ऽप्य् अतिविख्यातं कञ्चिच् छिष्यभावेनानुगम्यात्मानं प्रख्यापयितुं पृच्छन्त्य् एव । किन्निमित्ता वास्येयं योगीश्वरत्वख्यातिर् इति जिज्ञासवः । सर्वथा च प्रश्नोपपत्तेर् उपसन्नानां च नियोगतो ऽध्याप्यत्वाद् अनुपालम्भः । तथा चोक्तम्- “उपसन्नाय तु निर्ब्रूयद्” इति । किं पुनर् अब्रुवन् । उच्यते- अर्थकामापवर्गास् तर्ह्य् अपृष्टत्वाच् छास्त्रस्याविषयाः । किं च एकत्वाद् धर्मस्य धर्मान् इति बहुवचनम् अयुक्तम् एव । न च धर्मभेदोपसंग्रहार्थं तद् इति युक्तम्, अशेषत इति पदान्तरानर्थक्यप्रसङ्गात् । नैष दोषः, धर्मपदस्योपलक्षणार्थत्वेनोक्तत्वात् । न ह्य् अन्यथा योगीश्वरपदोपपत्तिः । अथ स्तुथ्यर्थं तद् इत्य् उच्येत । तद् अप्य् असत् । न हि कार्यान्वयिनः स्तुतिमात्रता युक्ता । अस्तु नाम कार्यान्वयः । तथाप्य् उपलक्षणत्वं कथम् इति वक्तव्यम् । तद् उच्यते । योगीश्वरं मन्यमाना धर्मं पृच्छन्तीत्य् असंबद्धम् इव स्यात् । यस्माद् योगिनो हि धर्मविदः । तेषाम् आचार्यत्वेनेश्वरो ब्रह्मवित्तमः । स च ब्रह्मैव प्रष्टव्यः, न धर्मम् । ननु च धर्मज्ञो ऽपि परमार्थतो योगीश्वर एव । अर्थकामौ वा स किं न जानाति । न ब्रूमो न जानातीति । धर्मज्ञविवक्षयात्र योगीश्वराभिधानम् । नैतद् युक्तम् । नोपक्रमस्य योगीश्वरपदं तदधीनात्मलाभोपसंहारस्थेन धर्मपदेन विरुध्यमानं विशेषे ऽवस्थापयितुं शक्यम् । न चैवं सति केवलापवर्गविषय एव प्रश्न इत्य् अवसेयं, सर्वज्ञत्वाद् योगीश्वरस्य, धर्मान् इति च बहुवचनोपपत्तेः । किं च केवलधर्मप्रश्ने ऽपवर्गमात्रप्रश्ने वा कृत्स्नं शास्त्रम् असमञ्जसं स्यात्, चतुर्णाम् वक्ष्यमाणत्वात् । भूयसां चैवम् अनुग्रहो भवति । मुख्याव् अपि च योगीश्वरधर्मशब्दाव् अन्योन्यापादितविरोधव्याहतसामर्थ्यौ दुर्बलाद् एव । महाविषयता चैवं शास्त्रस्येत्य् अलं प्रसङ्गेन ।

  • तम् एवंविधं योगीश्वरं मन्यमाना याज्ञवल्क्यम् अब्रुवन् । यज्ञवल्क्यो ब्रह्मा इति पौराणिकाः । तदपत्यं याज्ञवल्क्यः । कथं कृत्वाब्रुवन् । संपूज्य । पूजा चात्रोपसदनादिलक्षणा विज्ञेया, सम् इत्य् उपसर्गस्य सम्यगर्थत्वात् । मुनयो वेदार्थत्वविदः । वर्णाश्रमेतरेषां नो ब्रूहि धर्मान् अशेषत इत्य् अब्रुवन्न् इति संबन्धः । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचार्यादयः । वर्णेतरा अन्तरप्रभवा अनुलोमादयः । आश्रमेतराः पाषण्डादयः । तेषां वर्णाश्रमेतरेषाम् । समग्राभ्युदयात्मकाष्टवर्गप्रतिपादकं शास्त्रं नो ब्रूहीति श्लोकार्थः । धर्मादीनां वक्तुम् अशक्यत्वाद् एवम् अभिधीयते । ब्रूहीति चाध्येषणेयम्, आचार्यत्वाद् भगवतः । अशेषत इति । कार्त्स्न्येनेत्य् अर्थः । वेदाद् इति चाध्याहार्यम् । वेद एव वानन्यशेषत्वाद् अशेष इत्य् उच्यते । तस्माद् अशेषतो ऽनुग्रहार्थम् अस्माकं धर्मान् ब्रूहीति । अन्यः पाठः- “वर्णानां साश्रमाणाम्” इति । अत्रापि स एवार्थः । अन्तरजा अप्य् अनुलोमा वर्णा एव । यथाह मनुः ।

पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥ इति ।

अनन्तरग्रहणं चैकान्तरद्व्यन्तरार्थम् अपि द्रष्टव्यम् । क्रमानन्तर्यवचनाच् च प्रतिलोमानाम् अवर्णत्वम् । तथा च गौतमः- “प्रतिलोमात् तु धर्महीनः” (ग्ध् ४.२५) इत्य् अवर्णविवक्षयैवाह । जातूकर्णश् चाह- “प्रतिलोमास् त्व् अन्तावसायिनः” इति । यत् तु किंचित् तद्गतधर्माभिधानं, तद् आनुषङ्गिकविषयम् । प्रयोजकविषयस् तु प्रश्नः । पाषण्डिनां त्व् आश्रमप्रतिपत्त्यर्थो धर्म इत्य् आश्रमशब्देन ग्रहणम् । एवं च पाठान्तराण्य् अपि व्याख्येयानि । यद् वा वर्णाश्रमेतरेषां न इति संबन्धः । वर्णाश्रमेतरा एव हि तावद् वयं, यावद् अनिर्णीतो धर्मः । तेनास्माकं निर्णयाय ब्रूहीति ॥ १ ॥

किम् अनभिगम्यैव मुनिभिर् योगीन्द्रः पृष्टः । नेत्य् उच्यते ।

मिथिलास्थः स योगीन्द्रः सम्यग् ध्यात्वाब्रवीन् मुनीन् ।
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ १.२ ॥

न हि मिथिलास्थं योगीन्द्रम् अनभिगम्यैव मुनयः प्रष्टुं क्षमाः । मिथिलास्थत्ववचनाच् च योगीन्द्रस्य मुनीनां देशान्तरस्थत्वं सिद्धम् । अन्यथा विशेषणम् एव न स्यात् । युक्तश् चाभिगमैव श्रेयसि प्रश्नः । तथा च “अभिगम्य महर्षयः” (म्ध् १.१) इति मानवम् । जातूकर्णो ऽप्य् आह- “नाकस्मात् समवाये गुरुं पृच्छेत्” इति । अथ स तैः पृष्टः किम् कृतवान् । “सम्यग् ध्यात्वाब्रवीन् मुनीन्” । प्रश्नविशेषणं वा सम्यग् इति । ध्यात्वा निरूप्य मुनीनां योग्यतादिकम् । अन्ये “क्षणं ध्यात्वा” इति पठन्ति । तेषां कालविवक्षा । क्षणेनैवेयान् महागहनः शास्त्रार्थो ऽनुध्यातः । नूनम् अयं योगीन्द्रः स्यात् । वैलक्षण्यप्रदर्शनार्थं वाचार्यस्य । अध्यापनप्रकारनियमो वा । किं पुनस् तद् अब्रवीत् । “यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत” इति । बहुवचनम् उक्तार्थम् । ये तु “धर्मम्” इति पठन्ति, तेषां मुख्यत्वं धर्मस्येत्य् अभिप्रायः । निबोधतेति शिष्यबुद्धिसमाधानार्थम् । प्रसक्तस्यापि धर्मस्य पुनर् वचनं कृष्णोपलक्षितदेशसंबन्धार्थम् । कथं योगीन्द्र एवैवं ब्रूयात् “योगीश्वर याज्ञवल्क्य”, “मिथिलास्थः स योगीन्द्रः” इति च । नाप्य् अन्यः कर्तेति शक्यं वक्तुम्, “श्लोकत्रयम् अपि ह्य् अस्मात्” (य्ध् ३.३३४) इति वक्ष्यमाणत्वाद् ग्रन्थकर्तापि भगवान् एवेति गम्यते । नैवान्यकृतत्वं धर्मशास्त्रस्येति ब्रूमः । किम् तु भगवतैव परोक्षीकृत्यात्मा निर्दिश्यते, स्वप्रशंसानिषेधात् । यदि हि “मां योगीश्वरम्” “अहं योगिश्वरः” इति ब्रूयात्, तदात्मस्तुतिर् आपद्येत । वक्तव्यं वैतद् आत्मप्रवृत्तिप्रयोजनकथनाय । अतो वाच्यत्वाद् आत्मस्तवकर्णायोगाच् च परोक्षतयाभिधानान् नायम् उपालम्भः । ननु एतद् “यस्मिन् देशे मृगः कृष्णः” इति प्रधानं प्रयोगम् अनभिधायैव बाह्यतरदेशाभिधानम् अयुक्तम् । किं च ब्रह्मावर्तादेर् अङ्गत्वम् अप्य् अभिप्रेतम् । अथायम् अभिप्रायः- अतः परम् अयज्ञियो देश इति । तद् अप्य् असत् । “सूर्यस्योदयनं पुरः” (ब्ध् १.२।१२) इत्य् अनेन कृष्णरहितदेशानाम् अपि प्राशस्त्यदर्शनात् । मूर्ख साध्व् एतत् । बहिरङ्गत्वे ऽपि देशस्याधिकाराश्रयत्वेन प्राधान्याद् वक्ष्यमाणाखिलार्थोपयोगित्वाच् च सर्वादाव् अद्भिधानम् । अन्यथा ह्य् एककर्मार्थतापि संनिधेर् आशङ्क्येत । न च नैयामिकः क्रमाद्र इति चाचार्याभिप्रायः । ब्रह्मावर्ताद्यनभिधानं तु विशिष्टफलत्वात् तेषाम् । न तु त एव धर्म्याः । अयं तु नित्यतया कर्मणाम् अङ्गम्, यज्ञियत्वेनैव धर्मनियमात् । तथा चाम्नायः- “यज्ञो हि कृष्णः, स कृष्णमृगो भूत्वा पृथिवीम् अन्वचरत् । तम् अनु धर्मश् चचार” इत्यादि । श्वेताश्वतराश् च- “स कृष्णमृगो ऽभवत् । स कृष्णमृगो भूत्वा पृथिवीम् अन्वचरत् । तम् अनु धर्मश् चचार” इत्यादि । न च तद्रहितानां धर्म्यत्वम् । एवं हि भाल्लविनां गाथा- “यतः पश्चात् सिन्धुर् विहरणी सूर्यस्योदयं पुरः” इति (च्ड़्। वध् १.१४–१५) । विच्छिद्यायुः पुंसां हरतीति विहरणो ऽस्तमयकालः । सो ऽस्मिन्न् इति वहरणी । सिन्धुः समुद्रः पर्वतो वा, उभयत्र स्यन्दनाविशेषात् । ऋज्व् अन्यत् । एवम् उदयास्तमयोपलक्षितायां पृथिव्यां यावत् कृष्णो विचरति, तावद् ब्रह्मवर्चसम् इति । तावद् एवेत्य् अर्थः । यावद् वेत्य् अपि पाठे वाशब्दो ऽवधारणार्थो न विकल्पार्थः । तथा च शङ्खः- “देश आर्यो गुणवान् प्रागस्ताद् अर्वाग् उदयात्” इत्य् आरभ्य “पुण्यः कृष्णो वा यावद् विचरति, तावद् आचारः स्यात्” इति । अयम् अपि वाशब्दो ऽवधारणार्थ एव । तथा चाह मनुः-

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः । इति । (म्ध् २.२३)

आम्नायश् च- “तं देवाः समाजह्रुः । तं धर्मो ऽन्वागच्छत् । यज्ञं ह्य् अन्य् धर्मः” इति श्वेताश्वररीयः कृष्णानुयायित्वं हिशब्देन धर्मस्यानुवदंस् तद्वान् एव देशो धर्म्य इति दर्शयति । अतः सूक्तम्- “यस्मिन् देशे मृगः कृष्णः” इति । उत्पद्यत इत् चाध्याहार्यं, श्रुतिस्मृत्यन्तरानुसारात् । ब्रह्मावर्तादेर् अपि धर्म(म्य)त्वं नित्यतया श्रुतिस्मृत्यनुसारात् कृष्णोपलक्षितत्वेनैव, तादात्म्येन तु फलविशेषहेतुत्वम् इत्य् अलं प्रसङ्गेन ॥ २ ॥

यद्य् अपि न मुनिभिर् वेदाद् एव धर्मान् ब्रूहीत्य् उक्तः, तथापि न मन्त्रब्राह्मणलक्षणाद् वेदाद् धर्मावगतिः, किं तर्हि ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य तु चतुर्दश ॥ १.३ ॥

पुराणादीनां धर्मोपयोगित्वं प्रसिद्धम् । न्यायमीमांसेति चैकं विद्यास्थानम् । पुराणम् इति चेतिहासपुराणयोर् ग्रहणम् । धर्मशाश्त्रं स्मृतिः । अङ्गानि षट् शीक्षादीनि । वेदाश् चत्वारः । एवं चतुर्दश । अन्ये तु न्यायम् आक्षपादादिकं वर्णयन्ति । तन्मतेनेतिहासपुराणयोर् ऐक्यम् । मिश्रणत्ववचनाच् च वेदोपकरणत्वेन पुराणादीनां वेदस्वातन्त्र्यम् अभिहितम् । विद्यानां धर्मस्येति द्वे षष्ठ्यौ विद्याशब्दस्य धर्मपर्यायान्वयकथनार्थे । चतुर्दशेति शाक्यादिग्रन्थव्यावृत्त्यर्थम् । तुशब्दो ऽवधारणार्थः । चतुर्दशैव, नाभ्यधिकानीत्य् अर्थः । ननु एवं सत्य् अशेषस्मृत्यात्मकम् एकं धर्मशास्त्रम्, अन्यथा सङ्ख्यायोगात् । नैष दोषः, प्रतिस्मरणावसायित्वे ऽपि धर्मशास्त्रस्य समुदायालम्बनत्वेनैकवचनोपपत्तेः, वनवत् ॥ ३ ॥

अभेद एव सिद्ध इति चेत्, नेत्य् आह ।

वक्तारो धर्मशास्त्राणां मनुर् विष्णुर् यमो ऽङ्गिराः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥ १.४ ॥
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ।
गौतमः शङ्खलिखितौ हारीतो ऽत्रिर् अहं तथा ॥ १.५ ॥

वक्तार इति प्रमाणान्तरपूर्वकताभिप्रायम् । वेदाद् अवगम्य वक्तारो वयं, न स्वयं द्रष्टार इत्य् अर्थः । धर्मशास्त्राणाम् इति बहुवचनं भेदकथनार्थम् । “मनुर् विष्णुर्” इति ख्याततमैर् नामभिः सामर्थ्यकथनार्थम् । “अहम्” इत्य् अन्तत आत्मभिधानम् आचारपरिपालनार्थम् । “तथा” इति चानुक्तोपसंग्रहार्थम् । तथा च वृद्धयाज्ञवल्क्यो धर्मप्रवक्तॄन् उक्त्वाह ।

भूयांसो धर्मवक्तार उत्पन्ना भाविनस् तथा ।
निधानं सर्वधर्माणां वेद एव हि शाश्वतः ॥ इति ।

पुनश् चाह ।

नारदः पुलहो गार्ग्यः पुलस्त्यः शौनकः क्रतुः ।
बौधायनो जातुकर्णो विश्वामित्रः पितामहः ॥ इति ।

मननान् मनुः । विविधज्ञानेन स्नातः शुद्धो वेष्टितो वा विष्णुः । यमनाद् धर्मस्य प्रजानां वा यमः । इत्यादि सर्वत्र योज्यं स्तुत्यतिशयार्थम् ।

  • किं पुनर् अस्याः स्मृतेर् मूलम् । न तावद् आम्नायो धर्मशास्त्रभेदप्रतिपादकः । न च तत्प्रभवो न्यायः । अपि तु श्रौतानां कृत्स्नोपसंहारात् तत्पूर्वकत्वाच् च तथैवात्रापि प्राप्नोति । कार्त्स्न्येन चैवं धर्मावगतिः, न ह्य् एकस्मृत्यध्ययने सकलधर्मावाप्तिर् यतः । भेदे च द्वयोर् अप्य् अध्ययनं न स्यात्, शाखान्तरवत् । इष्यते च तत्, “स्मृतिद्रोणपाठकः” इति वचनात् । नैतद् एवम् । न हि परंपरापेक्षं मन्वादीनां धर्माभिधानम्, सर्वत्र कार्त्स्न्याभिधानात् । इतरथा हि क्वचिद् एव पदार्थाभिधानं स्यात्, अन्यत्र गुणविधयः । क्वचिच् च सापेक्षत्वं दृश्यते, वचनात् । तद् यथा-

आम्नायात् सम्यग् उद्धृत्य शङ्खश् च लिखितस् तथा । इति ।

न चानुमेयेष्व् अर्थेष्व् ऐक्यं शक्यते वक्तुम्, लिङ्गानुसारेण लिङ्गिनो ऽपि भेदावगतेः । भिन्नानि चाष्टकादिलिङ्गानि प्रतिशाखं, तथैवोपलब्धेः । तथा च स्मरणं भेदेन । अन्यथा ह्य् एकरूप एव प्रयोगः स्मर्येत । यत् तु शाखान्तरवद् उपसहरणम् उक्तं, तच् छ्रौतकर्मणां प्रत्यक्षत्वेन प्रकरणाभेदाद् युक्तम् । इह तु प्रधाने भेदो ऽभिहितो लिङ्गभेदात् । अतो वैषम्यम् । यानि तु नामतो गुणविधानानि तान्य् अविशेषाद् अत्रापि समुच्चीयन्त एव । यथा शातातपः श्राद्धम् अनुक्त्वैव तद्गतान् गुणान् आह-

विना यज्ञोपवीतेन गन्धर् यस् तु समालभेत् ।

इत्यादि । सर्वार्थता च कथं स्याद् इति गुणार्थस्मृत्यारम्भः । यत् तु स्मृतिद्रोणाध्ययनं तन् नानात्वे ऽपि बह्वङ्गप्रयोगकरणे फलभूयस्त्वलाभार्थम् अधिकगुणोपसंहारार्थं च । द्रोणवचनात् तु नियमादृष्टं व्रताध्ययनवद् भूयस्त्वविवक्षया वा द्रोणशब्द इत्य् अवसेयम् । यत् तु “नैकत्र कार्त्स्न्यं धर्मस्य” इति, तद् वैतानिकानेककर्मकलापानभिधानात्~~ ~~कार्त्स्न्ये ऽपि नैव । अखिलपरोक्षार्थाश्रयित्वेन कार्त्स्न्यम् इति चेत्, तद् अपि कर्णवेधाद्यनुपसंहृतेर् असिद्धम् । आचारप्रामाण्याभिधानात् तदुपसंहृतम् इति चेत्, वेदो धर्ममूलम् इत्य् अनेनैव सिद्धत्वान् नमः शास्त्राय । धर्मप्रवक्तृसङ्ख्यानियमानवधारणाच् च सापेक्षत्वेन सर्वस्मिन् धर्मशास्त्रे समाप्तिः स्यात् । ततश् चाननुष्ठानम् । न च सङ्ख्यावधारणम् अस्ति, परिगणनस्य प्रदर्शनार्थत्वात्, हेत्वन्तरस्य चाभावाद् इत्य् एषा दिक् ।

  • ननु च प्रयोगभेदे ऽपि गुणार्थस्मृत्यन्तरापेक्षाणां तदवस्थम् एवाननुष्ठानम् । मैवम् । यदि परिपूर्णे ऽपि प्रयोगे ऽभ्युदयाय गुणान्तरोपसंहारः, नित्यवत् करणं त्व् अनुपसंहृतैर् अप्य् उपपन्नम् इत्य् अविरोधः । यद् वास्तु नियोगतस् तदुपसंहारः । सति तु ज्ञाने ज्ञातगुणान्तरत्यागे नैकस्मृत्यवगतप्रयोगानुष्ठानद् एव कृतकृत्यता । अवगतश् च प्रयोगो ऽनुष्ठेयः । गुणान्तराणि चान्वेष्याणि । उपलब्धगुणानुपसंहाराच् च प्रत्यवायः । सापेक्षत्वे तु स्मृतीनां प्राक् प्रयोगावधृतेर् अनुष्ठातुम् अशक्यत्वाद् अवधारणोपायासंभवाच् चाननुष्ठानम् इति वैषम्यम् । परिपूर्णे तु प्रयोगे नैमित्तिकाङ्गान्वयो ऽभिमतः । “भिन्ने जुहोति” इतिवत् । ज्ञानगतम् अपि च गुणानां नैमित्तिकत्वम् दृष्टम् । तद् यथा- वैश्वानरग्रहग्रहणे “स यदि चरकेभ्यो वा पततो ऽनुब्रुवीत” इति (श्ब् ४.२।४.१) । एवम् अत्रापि । यद्य् अप्रमाद्यद्भिर् अन्विष्यमाणं गुणान्तरम् उपलभ्येत, तत उपसंह्रियेत । अनुपलब्धौ त्व् अदोषः । यदा चान्विष्यमाणस्य यस्योपलब्धिः तदा तस्यानुपसंहारे प्रत्यवायाद् अव्याहतम् अनुष्ठानम् । यत्र त्व् अपरिपूऋणः प्रयोगः कर्तव्यतोपदेशमात्रं च यथोपनयनादिषु, तत्रानुमितैव स्मृत्यन्तरापेक्षा । यथा च मृद्भिर् इति मृदां बहुत्वे ऽवगते तिस्रः पञ्च वेति स्मृत्यन्तरात् । एवं सर्वत्रोन्नेयम् । स्मरणवैचित्र्यम् एवास्याः कल्पनायाः प्रमाणम् इति न हेत्वन्तरं मृग्यम् । प्रयोगैक्ये तूक्तानुपपत्तिः । अतः सूक्तं “वक्तारो धर्मशास्त्राणाम्” इति स्मृतिबहुत्वम् ॥ ४–५ ॥

उक्तं धर्मादयः शास्त्रस्य विषया इति । तेषां तु लक्षणं वाच्यम् इत्य् अत आह ।

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितैः ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ १.६ ॥

देशः सामान्यविशेषात्मकत्वेन द्विविधः । सामान्यतः कृष्णोपलक्षितः । विशेषतः शुद्धादिकः । कालो ऽप्य् अहःपूर्वाह्णादिकः । उपायस् त्व् अङ्गकलापो दृष्टादृष्टार्थः । यथा- “अभिगम्योपविश्य हिरण्यं दद्यात्” इति । देशकालयोस् तूपायत्वे ऽप्य् अधिकारान्वयाद् भेदेनोपन्यासः । द्रव्यस्य च प्राधान्यात् । द्रव्यं शुक्लं हिरण्यम् इत्यादि । श्रद्धा प्रसिद्धैव । संशब्दः सम्यगर्थे । अन्वितैर् युक्तैर् इत्य् अर्थः । पात्रं जातिसंस्कारविद्यावृत्ततपोभिः संपन्नम् । एवं यद् दानं, सो ऽनवद्यः कृत्स्नो धर्म इति । दानशब्दश् चायं यागाद्यशेषविहितकृत्योपलक्षणार्थो द्रष्टव्यः । विपरीतश् चाधर्मः । यत् तु दानम् एवोदाहृतं, तत् सार्ववर्णिकाधिकारप्रतिपादनार्थम् । कुरुक्षेत्रग्रहोपरागादयस् तु काम्यनैमित्तिकतयावसेयाः । तथा च शङ्खः- “तत्र धर्मलक्षणानि । देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति समयः । तेषु धर्मोदयः साधारणः, अन्यथा विपरीतः” इति । देशाद्यभावे “विपरीतः” इति वदन् नित्यानीमानीति दर्शयति । न च कुरुक्षेत्रादीनां नित्यत्वोपपत्तिः, अन्यत्र निवासाभावप्रसङ्गात् । न चैतद् युक्तम् । अतः सूक्तं काम्यनैमित्तिकत्वम् एवमादीनाम् इति ॥ ६ ॥

ननु इयं धर्मलक्षणावधृतिर् निर्मूलेव लक्ष्यते । आम्नायानभिज्ञ, मैवम्

वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक्सङ्कल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ १.७ ॥

यदि हि स्मृत्यादयो वेदानपेक्षा धर्ममूलम् इत्य् उच्येरन्, तदा निर्मूलता स्यात् । यदा त्व् एषाम् अपि वेदाविनिर्भागः, तदा निर्मूलवचनं प्रलापः । वेदपूर्वकतया चैषां प्रामाण्यम् । अतः सुष्ठूच्यते “धर्ममूलम् इदं स्मृतम्” इति । यथा चाह मनुः- “स्मृतिशीले च तद्विदाम्” इति । वेदस्मृती प्रसिद्धे । अकामात्मानो दम्भादिरहिता वेदार्थविदो ऽनुष्ठातरश् च सन्तः, तेषां यद् अदृष्टायाचरणं स सदाचारः । तथा च वसिष्ठः- “शिष्टः पुनर् अकामात्मा, अगृह्यमाणकारणो धर्मः” इति । अनुपनिबन्धनाच् च स्मृतितो ब्राह्मणपरिव्राजकवद् भेदेनोपन्यासः । अनुपनिबन्धं तु स्मृत्यन्तरार्थवत् । वेदाविरोध्य् असाहसं स्वस्यात्मनः प्रियं, यथावसीदति कुटुम्बे संन्यासः । विचिकित्साशङ्कया तु स्मृत्याचारयोर् भेदेनोपन्यासः । यथैतद् एवं तथा तदाश्रमनिरूपणे वक्ष्यामः । अनात्मद्रुहा प्रीत्युत्पादः सम्यक्सङ्कल्पजः कामः । यथा वैकल्पिकयोर् अन्यतरावधारणम् । इच्छया तु प्रवृत्तेः पौरुषेयाशङ्का मा भूद् इति भेदेनोपन्यासः । ऋज्व् अन्यत् ।

  • प्रत्येकविशेषणं वा सम्यग् इति । वेदस्य सम्यक्त्वं वाक्यविवेकावधृतिः, तन्मूलत्वनियमोपरस्मृतेः । यद् वा स्वस्य चेति कुलधर्मः पित्राद्याचारो ऽभिप्रेतः । सताम् अ(दृ?रि)ष्ठाय चेत्य् अत्रापि योज्यम् । तथा चाहुः ।

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ इति । (म्ध् ४.१७८)

प्रियं त्व् आत्मन आत्मतुष्टिः । तद् अपि धर्ममूलम् । किं पुनर् आत्मनः प्रियं, सम्यक्सङ्कल्पजः कामः । कस्यचित् त्व् आप्ताभिहितमात्रेण तत्वावधृतिः स्याद्, अन्यस्य मूलप्रमाणप्रतिपत्त्या । यावद् अस्य निर्विचिकित्सं सम्यक्सङ्कल्पजः कामः स्यात्, तदा तस्यात्मनः प्रियं धर्ममूलतयावसेयम् । विचित्रधियाम् अपि पुंसां सम्यक्सङ्कल्पजत्वेनेच्छानियमाद् अनवद्यम् । समानम् अन्यत् ।

  • अथ वा स्वस्य च प्रियम् आत्मन इत्य् अपवर्गलक्षणम् । सम्यगित्याद्य् अर्थकामयोः । धर्मस्य तूक्तम् । तद् एतत् सर्वं स्मृतिशास्त्रेण प्रतिपाद्यते । तच् च वेदमूलत्वाद् वेद एवेत्य् अभिप्रेत्योच्यते- “धर्ममूलम् इदं स्मृतम्” इति । न्यायमूलत्वाच् च श्लोकस्यानेकार्थत्वम् अदोषः ।

  • कुतः पुनर् इदम् आम्नायमूलत्वं स्मृतेर् अवगमितम् । न तावत् सर्वस्मृतीनां मूलभूतवेदवाक्योपलब्धिः । कतिपयवाक्यदर्शनं त्व् असदागमेष्व् अप्य् अविशिष्टम् । न च वेदः स्वयं मूलताम् अलं प्रतिपादयितुम् । अनुमानादेस् त्व् असामर्थ्यम् अतिप्रसिद्धम् । विपर्यये वा तत्प्रवृत्तिः, सर्वात्मकवेदमूलत्वानुपपत्तेः । न तावद् विधिरूपः, अदर्शनात् स्मृत्यानर्थक्याच् च । तथा हि ।

प्रत्यक्षे विधिरूपे च वेदे सति मुधा स्मृतिः ।
कल्पकारास् तदा कुर्युर् लघुतायै प्रकल्पनम् ॥
वाक्यानां विप्रकीर्णानां स्मृतिः संग्रहणाय चेत् ।
तद् असत् स्मार्तता मा भूत् ताद्रूप्याज् ज्योतिषो ऽपि हि ॥
संहाराद् एकशाखात्वे ऽप्य् आदिमध्यान्तवर्तिनाम् ।
शाखान्तरगतानां च समाहारः प्रवर्ग्यवत् ॥
मैवं न ज्योतिषा तुल्यं विप्रकीर्णत्वम् अत्र नः ।
इतिकर्तव्यता तद्वत् कॢप्ता न ह्य् अस्ति संनिधौ ॥
एकैकशः प्रकीर्णाङ्गप्रधानैकध्यसंहृतेः ।
ज्योतिष्टोमादितुल्यत्वं स्मृतीनाम् अतिदुर्भणम् ॥
शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः ।
नानाप्रकरणस्थत्वात् स्मृतिमूलं न गृह्यते ॥
कार्यो ऽतश् चोपसंहारः पुरुषानुग्रहात्मकः ।
तद् वेदादृश्यमानत्वं न दोषायात्र जायते ॥
स्मृतिमूला हि विधयः सन्ति वेदे सहस्रशः ।
संप्रदायविनाशात् तु भीतैः साक्षाद् असंहृतिः ॥
उत्क्रष्टव्यस् तु ख्यातो ऽयं मलवद्वाससा सह ।
न संवसेद् इति विधिः स्मृतिमूलत्वसंमतः ॥
आत्रेय्या योषितैनस्वी भवेद् घातयितेत्य् अपि ।
वृत्तं तस्माद् अनिन्द्यस्य नापक्रामेद् इतीति च ॥
अनारभ्य च सौवर्णं हिरण्यं भार्यम् इत्य् अयम् ।
रूपसंपत्तये चैवं भवितव्यं सुवाससा ॥
नन्व् एवं भिन्नरूपत्वं स्मृतीनां नोपपद्यते ।
उपसंहरणीयानाम् ऐक्यात् कृच्छ्रादिकर्मणाम् ॥
नैतद् अस्त्य् एव भिन्नत्वं प्रत्यक्षाध्ययने ऽपि हि ।
कर्मणां भेदकैः सङ्ख्यागुणप्रकरणान्तरैः ॥
भिन्नत्वाच् च प्रधानानाम् अङ्गभेदस् तदाश्रयः ।
भिन्नाश् चातो ऽदृष्टकादीनां प्रयोगाः स्मार्तकर्मणाम् ॥
उद्दिश्यैक्यं प्रधानं च विशिष्टगुणलक्षितम् ।
अङ्गं विधीयमानं हि न सर्वार्थं प्रसज्यते ॥
साधारणं हि नामैकं भविष्यत्य् अक्षशब्दवत् ।
स्मृतीनां भिन्नरूपत्वम् अतो भिन्नार्थसंग्रहात् ॥
एकैकं चाष्टकाकर्म कृत्वैव कृतिनो नराः ।
फलसाम्याद् भवन्त्य् अस्मान् नैककर्त्राखिलग्रहः ॥
सर्वेषां ये नृणां धर्माः सर्वैस् ते तूपसंहृताः ।
मन्वादिभिर् यमाः प्रायो नियमाश् चाविशेषतः ॥
एवं च विप्रकीर्णैकशाखाशाखान्तराश्रयम् ।
दृश्यमानं स्मृतेर् मूलम् अपहातुं न शक्यते ॥
सम्यगालोचितं नैतद् आचार्येणेव लक्ष्यते ।
प्रकीर्णविधिवाक्यानां मूलत्वानुपपत्तितः ॥
जीवतः कामिनो वा स्याद् अधिकारो ऽष्टकादिषु ।
जीवतश् चेत् ततः सर्वं कर्तव्यं सर्वकर्तृभिः ॥
कर्तव्यत्वाविशेषात् स्युः कृतार्था नैककर्मणा ।
अकृत्वेष्टिं हि तुल्यत्वात् कृतिनो नाग्निहोत्रिणः ॥
तथास्त्व् इति यदि ब्रूयाद् अताद्रूप्योपसंहृतेः ।
मानवाद्यप्रमाणत्वम् अनुष्ठानं च दुर्लभम् ॥
स्मर्तॄणां जायते दोषो नन्व् अकर्तव्यसंग्रहात् ।
न पुनर् निखिलत्वेन कर्तव्यानुपसंहृतौ ॥
अन्योन्यनिरपेक्षत्वं स्मृतीनां यच् च वर्णितम् ।
एकक्रियाप्रयोगे हि तज् ज्ञेयं नाखिलग्रहे ॥
मैवम् एकप्रयोगे ऽपि न वेदोक्तो ऽखिलग्रहः ।
अनुष्ठानविरोधस् तु तुल्यो भेदे ऽपि कर्मणाम् ॥
कर्तुर् एकस्य यत् कार्यं नियोगेनैककालिकम् ।
तत् स्मार्थं नैरपेक्ष्यार्थम् एकैकत्राखिलात्मनाम् ॥
सर्वं चैतत् प्रपञ्चेन वक्ष्यामः श्राद्धसंग्रहे ।
यथास्मृत्यप्रमाणत्वम् उक्तरूपानुपग्रहे ॥
कालैक्येन विरुद्धत्वाद् अथैककरणं मतम् ।
तथापि यावतां शक्तिः कृतिर् भवति तावताम् ॥
पूर्वाह्णानुपसंहाराद् अक्रिया चेद् गुणत्वतः ।
प्रधानबाधनात् तस्य न युक्तेर् उपसंहृतिः ॥
संस्कारत्वाद् अथैकेन न कुर्युः संस्कृताः परम् ।
संस्कारत्वं तथा वाच्यं सर्वस्मृत्युक्तकर्मणाम् ॥
कृत्वैकां चाष्टकां कुर्युर् नैकगृह्योदिताम् अपि ।
कामिनाम् अधिकारे तु याथाकाम्याद् अनित्यता ॥
नित्यवत् स्मरणं तत्र स्मर्तॄणां स्याद् अमूलकम् ।
न चान्यथाधिकारो ऽस्ति तस्माद् इयम् अकल्पना ॥

किं च ।

एकैकशः प्रकीर्णाङ्गप्रधानैकध्यसंहृतौ ।
स्मार्तत्वं वैकृतानां स्यात् पौष्णचर्वादिकर्मणाम् (?) ॥
कॢप्तोपकारसंबन्धात् तत्र चेद् अप्रकीर्णता ।
पौर्णमासविकारत्वात् तद्वत् स्याद् अष्टकाद्य् अपि ॥
न चास्ति पठ्यमानत्वे स्मार्तानाम् अविकारता ।
दर्विहोमेष्व् अपूर्वत्वम् उक्तं सादृश्यहानतः ॥
अन्वारुह्योक्तम् एतच् च विधिवाक्यप्रकीर्णताम् ।
शाखासहस्रमध्ये ऽपि न त्व् एका पठ्यते ऽष्टका ॥
प्रकीर्णा ये तु दृश्यन्ते नृधर्मा विधयः क्वचित् ।
नियमानां यमानां च ते स्युर् मूलं न कर्मणाम् ॥
प्रत्यक्षं पठ्यमानानां प्रकीर्णत्वाद् धि कर्मणाम् ।
कल्पकाराश् च निन्द्याः स्युर् असामर्थ्याद् अकल्पने ॥
मन्त्रार्थवादमूलत्वं स्मर्तारः कीर्तयन्ति यत् ।
तच् चासत् स्याद् वसिष्ठादौ कथं लाङ्गलम् उद्वपेत् ॥
व्याख्यानतः शुनःशेफ इत्य् उक्तेश् चार्थवादजाः ।
श्रुत्या सह विरोधे च विकल्पो विधितुल्यतः ॥
तत्र शङ्खवचो दुस्स्थं तयोश् च ज्यायसी श्रुतिः ।
द्वितीयस् तदनुव्याख्या स्मार्तो बौधायनस्य च ॥
अनयायं दिशा पक्षः प्रपद्यैव विवेकतः ।
सर्वथा परिशोध्यस् तु स्मृत्यप्रामाण्यवादिभिः ॥

एवं तावद् विप्रकीर्णविधिमूलत्वम् अनुपपन्नम् । मन्त्रार्थवादयोस् त्व् अन्यपरतयैवामूलत्वम् । किं च मन्त्रः प्रकरणे वा स्याद् अप्रकरणे वा । प्राकरणिकस् तावत् परार्थ एव । इतरो ऽप्य् उपादानशून्यलिङ्गविनियोजकत्वानभ्युपगमाद् अमूलम् । स्वाध्यायाध्ययनविधेर् अपि जपयज्ञाद्युपयोगित्वेन नैराकङ्क्ष्याद् औदासीन्यम् । अर्थवादास् तु ये ऽनारभ्य पठ्यन्ते, तेषां प्राग् विधिकल्पनाद् अपर्यवसनात्, कल्पिते च तादर्थ्याद् अकारणत्वम् । अथ मन्त्रार्थवादान्वितपदार्थसत्यतोपपादनार्थं तदनुसारिकाल्पनिकविध्यन्तरमूलतोच्येत, यथा “प्र ते यक्षि” (र्व् १०.४।१) इत्य् अग्न्यभिधानपरे मन्त्रे “धन्वन्न् इव प्रपा असि” (र्व् १०.४।१) इत्य् एतद् दृष्टान्तपदं लोकप्रसिद्ध्यानुपपद्यमानं स्वसिद्ध्यर्थं विध्यन्तरं प्रपा कर्तव्येति कल्पयति, तथार्थवादे ऽप्य् अश्वानुगतौ रासभस्य “तस्माच् छ्रेयांसं यन्तं पापीयान् पश्चाद् अन्वेति” (त्स् ५.१।२.३) इति हेत्वभिधानात् तत्सिद्ध्यै श्रेयान् अनुगन्तव्य इत्याद्यनुमितविध्यर्थमूलतोच्येत । तद् अप्य् असारम् । भ्रान्तिजनितो ऽपि व्यवहारः पदार्थालम्बनहेतुतां प्रतिपद्यते । भ्रान्तिः किम् इति चेद्, अस्माद् एव वाक्यार्थविपर्ययात् । सत्यतया वा सालम्बनत्वे को विरोधः । विज्ञानघन इत्यादेर् अपि सत्यता वचनीया । ततश् च नैरात्म्यापत्तेश् चोदनाव्यवहारो दुःश्लिष्टः स्यात् । तथास्त्व् इति चेत्, कः खल्व् अकल्पनयैवोपपद्यमानप्रामाण्यं वेदं कल्पनाम् आरोप्याप्रमाणी कुर्यात् । यथा च कुदृष्टीनां भ्रान्तिजनितानाम् एव प्रतिषेध्यत्वेन पदार्थालम्बनत्वं, तथैतेषाम् अपीत्य् अदोषः । कल्पनायाम् अपि फलवत्प्रयोगवचनान्तर्गतेस् तादर्थ्याद् अपुरुषार्थत्वेन स्मृत्यविषयताप्रसङ्गः । नाम्नां तु गुणफलान्वयमात्रोपयोगित्वाद् दूरापेतं मूलत्वम् ।

  • एतेनोत्सन्नशाखामूलत्वं व्याख्यातम् । उत्सन्ना अपि ह्य् एवंरूपा एवेति । किं च, उत्सादो ऽपि प्रमाणशून्यः कल्पनीयः स्यात् । न हि शाखोत्सादः सम्भवति, एवंरूपशाखान्तरानुपलब्धेः । चतुर्णाम् अपि वेदानां काश्चिच् छाखाः पठ्यन्ते । न चैकस्याम् अपि स्मृत्यभिहितधर्मसादृश्योपलब्धिर् अस्ति । न चात्यन्तविलक्षणत्वेन शाखान्तरत्वोपपत्तिः । न हि मैत्रायणी शाखा काठकस्यात्यन्तविलक्षणा । शाखैकदेशमूलत्वे वा महत्य् अदृष्टकल्पना स्यात् । उत्सन्नवेदमूलत्वं तु वेदचतुष्टयप्रसिद्धेर् नातीव पेशलम् । प्राक् चोत्सादात् स्मृत्यभावप्रसङ्गः । उत्सादाशङ्कया वा स्मरणे ऽग्निहोत्रादीनाम् अपि स्मार्तत्वं स्यात् । अतो ऽयम् असारः पक्षः ।

  • ये तु वेदवत् स्मृतीनाम् अपि नित्यतया प्रामाण्यं मन्यन्ते प्रवचननिमित्ता मन्वादिसमाख्येति वदन्तः, ते खलु मौनभाजो दुर्निवाराः । अबाधकत्वे ऽपि हि पुरुषाप्रणीतेर् वेदः प्रमाणम् । सर्वलोकबाह्या चात्र तदप्रणीतिः । दुर्निवारं चासदागमात् ताद्रूप्यम् एवं सति स्यात् । तथास्त्व् इति चेत् । अलं स्मृतिशास्त्रेण । इदानीम् अदृष्टमात्रेणोपरतकर्तृकाणां कूपारामादीनाम् अपि तदकर्तृत्वप्रसङ्गः । मन्वादीनां च “स सर्वो ऽभिहितो वेदे” इत्याद्यभिधानं मृषेत्य् आपद्येत । तद्यशःप्रोत्सारणेन वा कथंचित् क्लिष्टकल्पनयार्थवादत्वं योजनीयम् । कठादिचरणानि च तां तां शाखां बिभ्रति । न च मानवादिचरणोपलब्धिर् अस्ति । न च छान्दोग्यब्राह्मणवत् त एव शाखिनो धारका इति शक्यं वक्तुम् । अन्यतमवेदशाखानन्तर्गतत्वात् । यद् अपि शाखिनां धारणम् उपलभ्यते, तद् अपि स्मृतित्वेनावेदतया, अङ्गवत् । व्रताध्ययनानादरश् चैवम् उपपद्यते । ताश् च स्मृतयो (अ?)नित्या इति वाच्यम् । यदि तावत् कतिपयमन्वादिप्रणीता एवेत्य् उच्येत, नारदादेर् अप्रामाण्यप्रसङ्गः । तथास्त्व् इति चेद्, विशेषहेतुर् वाच्यः । इदानीं प्रणीतबौधायनादिस्मृतेश् च मन्वादिवद् आदरो न स्यात् । यत् त्व् अप्रयत्नपूर्वकं सर्वा ब्रह्मणो मुखान् निस्सृता इति तच् छाक्यमुनिदेशनेवातिस्थूलम् । अपि च नित्यत्वे स्मृतीनाम् अध्ययनविध्यभावात् संप्रदायविच्छित्तिः स्यात् । ननु अस्ति,

विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः । इति । (म्ध् १.१०३)

न तेनाखिलस्मृत्यध्ययनविधानम्, इदम् इति च प्रकृतपरत्वात् । प्रकृते च विरोधाद् असमर्थत्वम् । यदि चाध्येतव्यम् इत्य् अस्य विधेर् अर्थावगम्यतोच्येत तदानुपनीतस्य शूद्रसमत्वाद् वेदार्थत्वेन चोपनीतस्य तदध्ययनात् संध्योपासनादिकतिपयार्थशिक्षणवचनाच् च स्मृत्यनध्ययनम् । अधीतवेदस्य च गुरुकुलनिवर्तनम् इत्यादि प्रपञ्चनीयम् । पाठमात्रपर्यवसायित्वे त्व् अस्याप्य् अदृष्टार्थत्वात् स्मृतिसंप्रदायो दुर्घटः स्यात् । वेदमूलत्वे तु स्वाध्यायाध्ययनविधिविजृम्भणात् कथंचिद् उपपद्येतापि । तद् एव दुरुपपादम् इत्य् उक्तं पुरस्तात् । नैवं त्रुटितविकल्पजालेन परावृत्तिचतुरप्रज्ञासहाया गृह्यन्ते । को वा वेदमूलतया स्मृतीनां प्रामाण्यं ब्रूयात् । संप्रदायाविच्छेदाद् वेदवत् स्मृतयो ऽपि स्वतन्त्रा यतः । न च पूर्वाभिहितदोषप्रपञ्चनम् । ग्रन्थनित्यत्वानभ्युपगमात् । ग्रन्थेन च नातीव प्रयोजनं, स्मार्तक्रियानुष्ठानरहितकालाभावात् । यथैव हि कृष्यादयो विशिष्टफलोपायान्वितत्वेन लोकत उपलभ्यन्ते, तथाष्टकादयो ऽपि यतः । इयांस् तु विशेषः- संनिकृष्टफलाः कृष्यादयः । अनियतफलाश् चाष्टकादयः । न चैतावता लौकिकत्वं शक्यं वक्तुम् । अस्माद् एव विवेकावधारणात् । प्रमाणान्तरतः स विवेको भ्रान्त्यापीति चेत्, न । प्रमाणान्तरस्य निराकृतत्वाद् दृढत्वावगतेश् चाभ्रान्तिः । भ्रान्तिकल्पने चावेद एव वेदतया गृहीत इत्य् अप्य् आशङ्क्येत । यथैव वेदो ऽयम् इति बुद्धिर् लौकिकत्वे ऽपि वाचकत्वस्मरणान् न भ्रान्तिर् इत्य् उच्यते तथाष्टकाद्युपायफले स्वरूपनियमो ऽपीत्य् अवगन्तव्यम् । न च परोक्षत्वात् फलसाधनशक्तेर् अलौकिकत्वाभिधानं, शब्दशक्तिवत् । प्रतिपत्त्यन्यथानुपपत्त्या सेति चेत्, तद् अत्रापि समानं दृढत्वात् प्रत्ययस्य । यथैव हि शब्दाः प्रत्यायकत्वेन शक्तिकल्पनानिमित्तं, तथा निरूढप्रतिपत्तिहेतवो ऽर्था अपीत्य् अदोषः । कस्य वात्र परोक्षता । अष्टकादयस् तावत् पुरुषान्तरैर् अनुष्ठीयमानाः प्रत्यक्षत्वेनाशेषाङ्गा उपलभ्यन्ते । तत्र च वेदशब्दवद् अष्टकादिशब्दव्युत्पत्तिः । विशिष्टकार्यनिमित्तं च तदनुष्ठानम् इति स्वरूपवद् अनुष्ठातृभ्य एवावगम्यते । तत्प्रसिद्ध्यनुपपत्तिकल्पिते च संबन्धिनि बोधकशक्तिवत् प्रवृत्तेर् अव्याघातः । तस्मात् स्वातन्त्र्यं स्मृतीनाम् इत्य् उक्तम् । तथा चाह ।

अग्रन्थकानां अर्थानां चकारोपनिबन्धनम् ।[^१] इति ।

आम्नायश् च- “यद्य् उक्तो भूर्” इत्याद्युपक्रम्य, “यजुष्टस् सामतः” इत्य् उक्त्वा, “यद्य् अविज्ञातम्” इत्य्[^२] आह । स्मार्तं चाविज्ञातम् इति संप्रदायः । तच् च वेदमूलत्वे सत्य् अनुपपन्नम्, सर्वथाविज्ञानासम्भवात् । न हि विद्यमानमूलं निरूप्यमाणे ऽविज्ञातम् इति शक्यं वक्तुम् । पुरुषान्तरापेक्षया त्व् अविज्ञाने ऽतिप्रसङ्गः । स्वातन्त्र्यपक्षे त्व् अविरोधः ।

  • साहसिक, मैवम् । राजन्वान् जनपदः । न खलु सद्भिः परिगृहीता नार्यः स्वतन्त्रा भवन्ति । न हि लौकिकम् अनुष्ठानं प्रमाणरहितं स्मृत्यर्थसतत्त्वायालं भवितुम् अर्हति । मा भूच् चैत्यवन्दनादिक्रियास्व् अपि तथात्वम् । अवेदविदां तदनुष्ठानाद् वैषम्यम् इति चेत्, किं वा स्वातन्त्र्यवादिनां वेदविद्भिः प्रयोजनम् । न खलु वेदो वेदवित्परिग्रहात् प्रमाणम् । नापि लोकनिबन्धनाः कृष्यादयो वेदविदपेक्षाः । सांदृष्टिकफलास् त इति चेत्, अन्यथा वा कथं लोकनिबन्धनत्वम् । न ह्य् असांदृष्टिकम् अर्थम् आगमानपेक्षो लोकः प्रतिपत्तुं क्षमः । अथ वाचकशब्दवल् लोकव्यवहाराधीनतोच्येत, तद् असत् । तत्रार्थप्रत्ययानुपपत्तिः कल्पनामूलम् । इह तु किं नोपपद्यते । व्यवहारस्य चैत्यवन्दनादिष्व् अपि दर्शनात् । न चाभियुक्तमन्वादिस्मरणाद् विशेषोपपत्तिः, व्यवहारमूलत्वे ऽसदागमैर् अविशेषात् । ननु च वेदस् तावत् प्रमाणम् इत्य् उक्तम् । तद्विहितदर्शपूर्णमासाद्यनुष्ठातारश् च धर्मं प्रत्य् अभियुक्ताः । ते चाष्टकादिनाम् अनुष्ठातारः । तेनेतरव्यवहाराद् वैषम्यम् । मैवम्, विपर्ययेण सुतराम् अस्योपपत्तेः । वेदविदां हि तेनैव निराकाङ्क्षत्वान् न व्यावहारिकधर्मादरः । परित्यक्तवेदमूलव्यवहाराणां त्व् अनन्यगतिकत्वाद् व्यवहारे सुलग्नता । अस्तु, तेषाम् अपि कार्यतेति चेत्, सुश्लिष्टम् एवं सति प्रामाण्यम् ।

  • एवं तर्हि चोदनार्थानुष्ठातृव्यवहारसामान्याद् एव तत्प्रवृत्तिसमर्थं कारणम् अनुमीयताम् । ननु तद् एव नास्तीत्य् उक्तम् । अत एवानुमीयते । किम् असद् अप्य् अनुमीयते । न ह्य् अनुमापकलिङ्गसंभवे सत्य् असद् इति शक्यं वक्तुम् । किं पुनस् तल्लिङ्गम् । त्रैवर्णिकानाम् असांदृष्टिको व्यवहारश् चोदनामूलो दृष्टः । तथाविधश् चायम् । तस्माद् अत्राप्य् अस्ति चोदना मूलभूतेति । नापि तद्वद् उपलब्धिप्रसङ्ग इत्य् एवं विशेषणविरुद्धत्वम्, अदर्शनस्याबाधकत्वात् । इतरव्यवहारे तु व्याप्त्यभावाद् वैषम्यम् । किम् अनुपलभ्यमानैव चोदना व्यवहारं प्रवर्तयति । किम् अनयानुपयुज्यमानविचारणया, सर्वथा प्रवर्तयति । न चानुपलब्धिः सामान्यतो विशेषतश् चानुमानात् । नियतकारणानि हि कार्याणि तथैव स्वकारणान्य् अप्य् अवगमयन्ति । एवं च विध्यर्थानुष्ठानम् उपपद्यते । स्वातन्त्र्ये तु क्रियानुष्ठानम् । तत्र च फलाभावप्रसङ्गो ऽनन्तरोत्पादनानन्वयफलानाम् । न च संस्कारोत्पत्तिद्वारेण कालान्तरे फलोत्पादकत्वम् इति शक्यं वक्तुम्, लौकिकाभिधानव्याघातात्, कल्पनाहेत्वभावाच् च । अतो ऽयम् एव पक्ष श्रेयान् । दर्शनानि चात्राप्य् उपपद्यन्त एव ।

  • नायं पक्षो निर्वहणीयः । न खलु प्रमेयगम्यानि प्रमाणानि भवन्ति । अनुष्ठानानुपपत्त्या हि कारणं कल्पयतः कुतो ऽनुष्ठानम् । न हि प्राक् कारणकल्पनातो ऽनुष्ठानसिद्धिः । तत्सिद्धौ मुधा कारणकल्पना । अथोच्येत पुरुषान्तरस्थम् अनुष्ठानं दृष्ट्वा तदनुपपत्त्या कारणम् अनुमाय ततो ऽनुष्ठानप्रवृत्तेर् अदोष इति । तद् अयुक्तम् । न हि पुरुषान्तरानुष्ठानानुपपत्तिः, तस्य सिद्धत्वात् । यद् अप्य् अनुमानम् उक्तं कर्तृसामान्याद् इति, तत्रापि हेतोर् अप्रयोजकत्वम् । न हि दर्शपूर्णमासादीनां त्रैवर्णिकानुष्ठानाद् धर्म्यत्वम्, अपि तु वेदविहितत्वात् । न चैषां तद् अस्ति । अथासांदृष्टिकं तदनुष्ठानं धर्म इति । तद् अपि व्यभिचारि । अवैदिकत्वे ऽपि विगुणधर्मानुष्ठानधर्शनात् । भ्रान्तेस् तद् इति चेत् । एवं सत्य् अत्रापि भ्रान्त्युपप्लवाद् व्यभिचारः । अथाबाधीभावाद् अभ्रान्तिर् इत्य् उच्येत, तद् अप्य् असिद्धम् । वेदविरुद्धे हि स्मृत्यर्थे ऽबाधादर्शनात् । अथ यत्र तदभावस् तत् प्रमाणम् इत्य् उच्येत, तद् अपि दुरधिगमम् । सर्वं चावेदविहित्ं तद्विरुद्धम् एवानुष्ठानम् असांदृष्टिकम् । अतो ऽयम् अप्य् असारः पक्षः । “स सर्वो ऽभिहितो वेदे” (म्ध् २.७) इत्यद्य् असंबद्धं स्यात् । प्रमाणरहितकारणकल्पनायां त्व् अन्धपरम्परा । न्यायोक्ते तु दर्शनानाम् आत्मलाभः । “वचनानि त्व् अपूर्वत्वात्” (प्म्स् ३.५।२१) इत्य् अस्यायम् अविषयः । अनया दिशा परिचोदनीयं प्रपञ्चनीयम् । सर्वथा तु स्मृतीनाम् अप्रामाण्यं मूलकारणानुपलब्धौ स्मृतित्वाद् वन्ध्यादौहित्रस्मरणवत् ।

  • अत्राभिधीयते । नैवं स्वोत्प्रेक्षितविकल्पजालैः स्मृतीनाम् अप्रामाण्यारोपणं युक्तम् । स्वयं हि मन्वादिभिर् उक्तं “स सर्वो ऽभिहितो वेदे” (म्ध् २.७), “वेदो धर्ममूलम्” (ग्ध् १.१) “आम्नायप्रामाण्याद् आचारः,” “द्वितीयस् तदनुव्याख्या स्मार्तः” (च्ड़्। ब्ध् १.१।१–३), वेदः स्मृतिः सदाचारः" (म्ध् २.१२) इत्यादि । न चैवंरूपाभ्युपगमातिक्रमेण मूलान्तरान्वेषणं युक्तम् । युक्तश् चायम् अभ्युपगमो ऽस्मिन्न् अर्थे प्रमाणान्तराभावात्, “चोदनालक्षण एव धर्मः” इति (च्ड़्। प्म्स् १.१।२) नियमो यतः । न च भ्रान्त्यादिकल्पनोपपत्तिः, वेदवित्परिग्रहविरोधात् । नाप्य् अन्यमूलत्वे तत्परिग्रहोपपत्तिः चैत्यवन्दनादिवत् । भ्रान्त्यादिकल्पने वा वेदे ऽप्य् अवेदताप्रसङ्गः । न चासंभाव्यं वेदमूलत्वं, “वेदविदो हि मन्वादयः” इति स्मरणात् । न चैतद् भ्रान्तेः, स्मर्तृत्वस्मरणवत् । अतः सूक्तं वेदमूलत्वम् । आह च ।

भ्रान्तेर् अनुभवाच् चापि पुंवाक्याद् विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच् चोदनैव लघीयसी ॥ इति । (त्व् इइ- ७४)

ननु तद् एव वेदमूलत्वं दुरुपपादम् इत्य् उक्तम् । उक्ता हि सर्वथा वेदस्य मूलत्वानुपपत्तिः । न तत् सम्यग् उक्तं प्रमाणतो हि मूलत्वोपपत्तेः । उपलभ्यते हि स्मृतीनां तन्मूलत्वम् । विध्यर्थान्यथानुपपत्तिलभ्यत्वात् । तथा हि “स्वाध्यायो ऽध्येयः” इत्य् उक्ते, “विद्यां चाध्यापयेत्” इति द्वयस्यानुपपत्त्यान्यो विधिस् तत्र प्रक्लप्यते । “विद्याम् अध्यापयेत्” इति हि विधिर् आत्मोपपादनायाध्ययनं प्रयुङ्क्ते । अध्ययन्विधिर् अपि तत्प्रयुक्त्यैवोपपन्नानुष्ठानो ऽधिकारान्तरकल्पनाम् अन्तरेणौदासीन्यं प्रतिपद्यते । न चाध्यापयिताध्येतारम् अनुपनीयाध्यापयितुं कमः । तत्र विधिद्वयोपपत्त्यर्थं विध्यन्तरानुमित्या “ब्राह्मणादीन् उपनयीत” इति । एवं वेदार्थावगत्युत्तरकालं विधिद्वये चरितार्थे सत्य् अनन्तरं प्रजोत्पादनविध्यपेक्षाया पत्न्यभावे तदनुपपत्तेः कामैकसाधनत्वाच् च “लक्षण्यां स्त्रियम् उद्वहेत्” इति (य्ध् १.५२) विध्यन्तरोत्थानम् । अग्निहोत्राद्यनुष्ठानस्य च पत्न्यपेक्षत्वात् तत्संनिधानाच् च “तया सह यजेत” इत्य् अनतिक्रमणविध्युदयः । तथा “ऋताव् उपेयत्” (ग्ध् ५.१) इत्यादि । तत्र तत्र प्रधानोपपादका विधयः साधिकारा अनयैव दिशा कल्पनीया । तथाङ्गसंबन्धः प्रत्यक्षैर् आनुमनिकैश् च श्रुत्यादिभिर् अध्यवसेयः । निपुणतस् तु ग्रन्थव्याख्यायाम् एव प्रदर्शयिष्यामः । न चैवं सति दुःश्लिष्टता स्मृतिप्रामाण्यस्य ।

  • ननु एवं सत्य् अर्थगम्या स्मार्था विधयः प्रसज्यन्ते । तद् यथ । “जुहुयात् सर्पिषा” इत्य् उक्ते “स्रुवेणावद्यति” इति च “आज्यं स्रुवेण गृह्णीयात्” इति विध्यन्तरोदयः । यथा हि चतुरवत्तविशिष्टः सरिपिषा होमो ऽवदानसमर्थद्रव्यविशेषापेक्षः स्रुवाद्याकाङ्क्षति, तथा “स्रुवेणावद्यति” इति स्रुवविधिः स्वशक्त्यनुसाराद् द्रवद्रव्यविषयतयोपप्लवमानस् तद्विशेषाभिमुखता चालोच्य विध्यन्तरम् आविर् भावयति “स्रुवेणाज्यं गृह्णीयत्” इति । एवञ्जातीयकाः सर्वे विधयः स्मार्ताः प्रसज्येरन् ।

  • मैवम्, एशा विनियोगमात्रावसायित्वात् । यो ह्य् उत्पादक्ः पदार्थस्यानुष्ठापको वा स्यात्, स एवोपदेशकारणम् । न तूत्पन्नैदमर्थ्यमात्रनियामको ऽपीत्य् अविरोधः । एवं तर्हि स्मृतिविनियुक्तानाम् अप्य् अस्मार्तत्वप्रसङ्गः । , स्मृतेः पदार्थोत्पादकत्वेन वैषम्यात् । का वार्ताष्टकादिषु । न तदभावे कस्यचिद् विदेर् अनुपपतिः । स्वाध्यायाध्ययनविधेर् मन्त्राणां चोपपन्नत्वात् । उच्यते । अत्राप्य् अष्टकादिसमाख्यातमन्त्रवान् स्वाध्यायाध्ययनविधिर् नोपपद्यते । न हि जपयज्ञाद्यन्वये सति समाख्यानोपपत्तिः । न च स्पष्टतरविनियोगोपलब्धिः, यद्बलेनाख्याया बाधः । शक्यते च मन्त्रैर् द्रव्यदेवतासंयोगो ऽधिकारहेतुत्वं च प्रतिपादयितुम् । तद्युक्ताध्ययनविध्यनुपपत्तितश् च कार्यतावमगः । अङ्गान्वयप्रकारस् तूक्त एव । ननु एवं समाख्यानाभेदाद् अशेषैर् मन्त्रैर् एकम् एवाष्टकाकर्मानुमीयेत । मैवम्, सामर्थ्यभेदात् । स्वशक्त्या हि मन्त्राः कर्म प्रतिपादयन्ति । न चैककर्मप्रतिपादनशक्तिर् अस्ति । अतः सिद्धो ऽष्टकादिकर्मणां भेदः । न चैवं सत्य् अशेषशाखाधिगताष्टकाद्यनुष्ठानम् एकस्यैव स्यात् । न खल्व् एकशाखाधिगतक्रियानुष्ठाने तदकरणनिमित्तप्रत्यवायो न परिहृतः स्यात् । पठ्यमानत्वे हि कर्मणां भिन्नानां समाननाम्नाम् अप्य् एकक्रियायाम् अकृती स्यात्, कर्तव्यतावगतेः समानत्वात्, प्रयोजनैक्यानवगमाच् च । अनुमेयत्वे तद् अनुपपन्नम्, अष्टकाद्यभिन्नकालसंबन्धिनस् तदनुसारेण प्रयोजनस्याभेदात् । अवगतकालादिसंबन्धाविरोधेन हि प्रयोजनं कल्पनीयम् । तच् चानेककर्मानुष्ठाने ऽनुपपन्नम् । न ह्य् एकस्मिन् काले ऽनेककर्मानुष्ठानोपपत्तिः । न चानुमेयत्वे पूर्वाह्णादिकालस्याङ्गत्वकृतः कश्चिद् विशेषो ऽस्ति, पठ्यमानवत् । किं च पठ्यमानं कर्मात्मानं कारयितुम् अक्रियायां प्रत्यवायं कल्पयति । काल्पनिकं पुनः पठ्यमानन्य् अथानुपपत्त्या कल्प्येत । तच् च कल्प्यकर्माननुष्ठाननिमित्तदोषकल्पनाम् अन्तरेणैवोपपन्नम् इति न कल्पनावसरो ऽस्ति । अथ कॢप्तकर्मानुष्ठानावगमानुपपत्त्या कल्प्येत, तदैवंरूपा कल्पना स्यद्- यो ह्य् अस्मिन् काले ऽष्टकाख्यं कर्म न कुर्यात् स प्रत्यवेयाद् इति । एवं सति तदाख्यैककर्मकरणे ऽपि कृती स्यात् । न चैकैकत्र कल्पनाहेतुसद्भावाद् अनेककल्पनाप्रसङ्ग इति शक्यं वक्तुम् । तस्यैककल्पनायाम् अप्य् अविरोधात् । अथागृह्यमाणविशेषत्वाद् अनेककल्पनम् इत्य् उच्यते । तद् एकशाखापठ्यमानविषयत्वाद् एकैकशाखाधिगतत्वे ऽनुपपन्नम् । न हि भिन्नशाखाधिगतत्वे ऽप्य् अगृह्यमाणविशेषतास्ति । पठ्यमाने ऽप्य् एतत् समानम् इति चेत् । न, तस्य स्वमहिम्नैवानुष्ठापकत्वात् । इह तु स्वरूपस्यान्यतो ऽधिगतेर् वैषम्यम् । किं च, अनुष्ठानोपपत्त्यर्था कल्पना । न चैककर्तृविषयतया सर्वकर्मानुष्ठानाभ्युपगमे तदुपपत्तिः । न हि स्वहेतुविरोधिन्यः कल्पनाः संभवन्ति । प्रत्यक्षाध्ययने त्व् अप्राधान्यात् कालस्य प्रसक्ताव् अपि विरोधः परिह्रियेत, न त्व् अनुमेयत्वे ऽपि । अतः सूक्तम् एककरणे ऽपि कृती स्याद् इति । विरोधादर्शनात् तु चतस्रो ऽष्टकाः क्रियन्त इत्य् अनवद्यम् । एवं च सामान्यतः कार्यावगमः । क्वचिच् च प्रत्यक्षतो ऽपि पठ्यमानत्वेन सामान्यतः कार्यावगतौ मन्त्रार्थवादा विशेषसमर्पका भवन्ति । तान्य् अपि स्मृतिमूलानि । यथा, “एतद् उ खल्व् अद्धा तपः यद् अहिंसा यद् दमो यद् दानं यद् अतिथिसपर्या । अथ परमं तपो भूतानाम् यद् अनुजिघृक्षा तस्माद् एवंवित् सर्वेषां भूतानाम् अद्धैवोपकुर्याद्” इति ब्राह्मणम् । अद्धोपकारश् च दृष्टकारणरहित उपकारः । तदपेक्षितप्रकारविशेषो मन्त्रार्थवादैर् अन्यपरैर् अपि प्रतिपाद्यमानो नापेशलः । यथा, “स्थलयोदकं परिगृह्णन्ति” इति तटाकादिकरणम् । “धन्वन्न् इव” (र्व् १०.४।१) इति च प्रपाकरणम् । यत् तु फलवत् प्रयोगान्तर्गतेः कल्प्यमानस्यापि तादर्थ्यम् इति । तल्लिङ्गेन प्रकरणस्य बाध्यमानत्वाद् अचोद्यम् । यमनियमास् तु प्रायशः प्रत्यक्षमूला एव । यत्र पुनः प्रत्यक्षं तदनुपपत्तौ कॢप्तं वा न सामान्यकरणम् अस्ति, तत्राप्य् अन्यपरत्वान् मृषार्थत्वेन चोपपन्नत्वान् न मन्त्रार्थवादाः स्वान्वितपदार्थसत्यताभाजो भवन्ति । तेनासदागमैर् वैषम्यम् । स्मृतयो ऽपि च तद्रूपा एव बाध्यन्ते । न चैतावता समूलत्वे ऽपि तन्मिथ्यात्वकल्पनेत्य् अलं प्रसङ्गेन । सर्वथा वेदमूलत्वं स्मृतिनाम् उपपन्नम् । शक्यते चैव सति स्मृतीनाम् अविज्ञातत्वं वक्तुं, काल्पनिकत्वात् । कल्पनानिमित्तम् एवर्ग्वेदादयः, न व्यपदेशकारणम् । तथा च मनुः- “स सर्वो ऽभिहितो वेदे” (म्ध् २.७) इत्याद्यभिधानमन्त्रं ब्रुवन् कल्प्यत्वाद् विधेर् वेदव्यपदेशो नास्तीति दर्शयति, आपस्तम्बश् च “ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते” (आप्ध् १.१२.१०) इति वदंस् तेषां मूलसत्यताम् । उत्सन्ना इव प्रयोगाद् अनुमीयन्त इत्य् अर्थः । स्मार्तव्यपदेशानादिता चैवम् उपपद्यत इत्य् एषा दिक् । विरोधे चैव बाध उपपन्नतरो भवति । अन्यथा तु विरोधे विकल्पः स्यात् । न च भवत्व् इति सक्यं वक्तुं, शिष्टानभ्युपगमात् । ननु विपरीतः शिष्टाभ्युपगमः । न खलु स्मृतिविरुद्धं श्रुत्युक्तम् अप्य् आद्रियमाणा दृश्यन्ते । तथा हि ।

गोवधं नानुमन्यन्ते श्रुत्युक्तम् अपि तद्विदः ।
तस्योपपातकश्रैष्ठ्यं स्मृतौ यस्माद् उदाहृतम् ॥
करणं च श्रुतेर् ज्ञातं ज्योतिष्टोमादिकर्मणाम् ।
स्तेयाद्यर्थार्जनेनापि न तत् स्मृतिविरोधतः ॥
मैवं न खलु शिष्टानां क्वचित् स्मृतिविरोधतः ।
श्रुत्युक्तार्थाननुष्ठानं दृढम् अल्पीयसाम् अपि ॥
न हि च्छागवधं तज्ज्ञा न कुर्वन्ति निवारितम् ।
अवारितः स चेत् स्मृत्या गोवधो ऽपि हि तत्समः ॥
स्मार्ता हि विधयः सर्वे श्रुत्युक्तव्यतिरेकिणः ।
तेन स्मृतिविरुद्धत्वं नाननुष्ठानकारणम् ॥
स्मार्तो ऽपि गोवधो ऽस्त्य् अर्घ्यम् अर्हयेत् प्रथमं गवा ।
नित्यानि चाष्टकादीनि हेतुस् तदकृतौ च यः ॥
वेदमूलबलं वापि भ्रान्तिर् वा वैदिके च सः ।
न तु स्मृतिबलाच् छिष्टा न कुर्युः कर्म वैदिकम् ॥
अर्धास्तमित आदित्ये प्रारभ्यार्क्षविभावनात् ।
जपः स्मृत्युदितस् त्यक्तो विरोधाद् अग्निहोत्रिभिः ॥
अनुष्ठानाननुष्ठाने कारणं न बलाबले ।
मा भूद् धर्मः खरारूढावस्त्रसञ्छादनद्य् अपि ॥
वेदम् एव त्व् अदृष्टार्थे प्रमाणं मन्यते मनुः ।
प्रमाणं परमं धर्मे श्रुतिर् इत्यदिभाषणात् ॥
मन्यन्ते चातिदौर्बल्यं स्मर्तारः श्रुतितः स्मृतेः ।
धर्ममूलतया वेदं वदन्तस् तद्विदाम् इति ॥
तेन वेदविरुद्धायाः स्मृतेर् बाध इति स्थितिः ।
श्रूयमाणविरुद्धत्वात् कल्पनानुपपत्तितः ॥
प्रत्यक्षो ऽप्य् उपकारादिविधिः सामान्यगोचरः ।
यायाद् आलोच्य दौर्बल्यं विशेषविषयां स्मृतिम् ॥
विध्यर्थान् अन्यथाभावकॢप्त्यैः प्रायो विधायकैः ।
दृषिभिर् बहुधा भिन्नैः स्मृतयः संप्रवर्तिताः ॥
प्रत्यक्षतः कल्पनया च सम्यक् सिद्धस्य सामान्यविधायकस्य ।
मन्त्रार्थवादैर् विधिभिश् च कुर्याद् दृश्यानुमेयैः परिपूरणानि ॥
इत्थं च गाढं नृकृतत्वपङ्कं विधूय दर्माख्यहिरण्यमाला ।
आम्नायसूर्यांशुविकासितानि बिभर्ति विध्यर्थसरोरुहाणि ॥
एवं प्रामाण्यम् आलोच्य वेदमूलतया स्मृतेः ।
ते सर्वार्थेष्व् अमीमांस्ये इत्य् आह भवान् मनुः ॥ ७ ॥

ननु एवं सति “धर्ममूलम् इदं स्मृतम्” इति वचनाद् अर्थादेर् मूलं[^३]_ न प्राप्नोति । मैवम् । धर्मपदस्य प्रदर्शनार्थत्वात् । अथापि धर्ममात्र एव धर्मपदं स्यात् । तथाप्य् अर्थकामौ तावच् छास्त्रनियतौ धर्म्याव् एव । अपवर्गस्यान्यत्वम् इति चेत् । तद् अप्य् असत् ।_

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ १.८ ॥

इज्येति यागादीनां वैदिकानाम् उपलक्षणम् । आचार इति स्मार्तानां सोपनिबन्धानाम् अनुपनिबद्धानां च । दम इन्द्रियसंयमः । अहिंसा यज्ञाद्याततायिव्यतिरेकेण । दानं प्रसिद्धम् । स्वाध्यायो ब्रह्मयज्ञः । एषां कर्मणां धर्म्यत्वं यद्य् अपि प्रसिद्धं, तथाप्य् अल्पधर्मो ऽयं, धारणाल्पत्वेन योगस्यापौष्कल्यात् । अयम् एव परमो धर्मः यद् योगेनात्मदर्शनम् । मनोवृत्तिसंनिरोधो योगः । तेन यद् आञ्जस्येनात्मदर्शनं तद् एवात्यन्तिकधारणत्वेन परमो धर्मः । तस्मात् सिद्धम् अर्थादीनां शास्त्रावसेयत्वम् । कस्मात् पुनः श्रुतिस्मृत्यन्तर्गतत्वे ऽपि दमादीनां पृथग् उपन्यासः । स्मार्तत्वप्रदर्शनार्थः । आचारः स्मार्तानां ग्राहकः, तानि पुनर् दमादीन्य् अपि । अत एव ब्रह्मयज्ञो ऽप्य् अत्रैवोदाहृतः । प्रत्यक्षश्रुतिपाठे ऽपि स्मार्तत्वाद् गाथादिलक्षणः शूद्रस्यापि कथं स्याद् इति । सर्वाधिकारार्थं वा दमादीनां पृथग् विधानम् । आचारशब्देन त्व् अष्टकादीनां त्रैवर्णिकार्थानाम् ग्रहणम् । तथा चाहुः ।

अहिंसा सत्यम् अक्रोधः शौचम् इन्द्रियनिग्रहः ।
एष साधारणो धर्मश् चातुर्वर्ण्ये प्रकीर्तितः ॥ इति । (म्ध् १०.६३)

सत्यम् इति चात्र व्याहृत्युपलक्षितो ब्रह्मयज्ञः परिगृह्यते । सत्यवचनस्येन्द्रियनिग्रहाद् एव लब्धत्वात् । तथा च वक्ष्यत्य् एतत् । “पञ्चयज्ञान् न हापयेत्” इति (य्ध् १.१२०) । अथ वा इज्येति संस्कारोपलक्षणम् । आचार इत्य् आत्मगुणानाम् । दमादयस् तूदाहरणार्थाः । समानम् अन्यत् । अपवर्गनिरूपणार्थश् चायं श्लोकः । तद् एतद् ऋचाप्य् उक्तम्- “तम् एवं विदित्वा मृत्युम् अत्येति” इति (च्ड़्। व्स् ३१.१८) । स्मृतिश् चात्मज्ञानं प्रकृत्याह-

तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः । इति । (म्ध् १२.८५)

सर्वं चैतत् श्रुतिस्मृत्यवसेयम् इति तयोः सूक्तं धर्ममूलत्वम् ॥ ८ ॥

_ननु च श्रुतिस्मृत्योर् अबोधकत्वे ऽपि पुरुषसामर्थ्यापेक्षया प्रतिभानतो ऽर्थनियमः । तथा खल्व् एकस्माद् एव वाक्याद् अन्यथा चान्यथा च प्रतिपन्ना दृश्यन्ते । कथं चैवं सति धर्मनिर्णयः । तद् उक्तम्- “धर्मस्य तत्त्वं निहितं गुहायाम्” इति _(म्भ् ३। अप्प्। ३२.६७) सत्यम् एवं, यदि निर्णयोपायो न स्यात् । अस्ति ह्य् उपायः ।

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ १.९ ॥

चत्वार इति नियमः पञ्चादिव्यावृत्त्यर्थः, महासमवाये निश्चयक्लेशात् । वेदविदो धर्मशास्त्रविदश् च वेदधर्मज्ञाः । पारार्थ्याच् च ज्ञानस्य न तन्मात्रावसायिनः । किं तर्हि, ज्ञानिनो ऽनुष्ठातारश् च ते सविवेकाः परिषत् । त्रैविद्यं वा । त्रयी विद्या ऋग्यजुःसामलक्षणा यस्मिन्, तत् त्रैविद्यम् । त्रय ऋग्यजुःसामपारगा इत्य् अर्थः । पुरुषसंख्यानियमाच् चार्थववेदाध्ययनम् अविरुद्धम् । अस्मिंश् च पक्षे ये प्रतिवाक्यं श्रुतिस्मृत्योर् मूलमूलिभावं जानन्ति, ते गृह्यन्ते । एवकारस् त्व् अप्यर्थः । स च संभावनायाम् । वाशब्दो ऽभ्यर्हितत्वेन विकल्पद्योतनार्थः । त्रयो ऽपि यदि भवन्ति द्वौ वा यदि स्याताम् एको ऽपि वाध्यात्मवित्तमः । स हि सम्यग् वेत्तानन्यथावक्ता च । तथा चोक्तम् ।

एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः । इति । (म्ध् १२.११३)

आत्मयाजिनो ऽपि गृहस्था ब्रह्मविदो नैष्ठिकाश् च ब्रह्मचारिणः वनस्थाश् च । तदर्थम् अध्यात्मवित्तम इत्य् उक्तं पराश्रमाभिप्रायम् । ननु एतद् अयुक्तं, स खलु “हिंसानुग्रहयोर् अनारम्भी” इति (ग्ध् ३.२४–५) । को वा तम् आरम्भिणम् आह । अभिगम्य तु संशये पृष्टः सो ऽपि ब्रूयद् इत्य् उक्तम् अस्माभिः । तथा च व्यासः ।

सर्वभूतगणाद्रोही चरेद् अव्यहरन्न् अपि ।
पृष्टो ऽन्यैः साधुभिर् ब्रूयात् पृच्छेद् अन्यांश् च संशये ॥ इति ।

यत् तु “प्राग् उत्तमात् त्रय आश्रमिणः” इति (ग्ध् २८.४९), वैखानसाभिप्रायं तद् भिक्षोः समवायप्रतिषेधाद् दशावरादिविषयं द्रष्टव्यम् । तत्रापि तु यदि कश्चित् स्वनियमातिलङ्घनेन समवेयात् ततः परिषत् सगुणैव । तथा चाङ्गिराः ।

ब्रह्मचार्याश्रमाद् ऊर्ध्वं त्रय आश्रमिणः स्मृताः ।

इत्य् आह । वाशब्दद्वयाच् च द्वौ वेत्य् उक्तम् । पूर्वापेक्षया च तौ प्रकृष्टगुणौ द्रष्टव्यौ । तथा चाहुः ।

चत्वारस् तु त्रयो द्वौ वा यद् वैकः स्याद् अनिन्दितः ।
यतीनाम् (?) अग्र्यविद्यानाम् एको ऽपि परिषद् भवेत् ॥ इति ।

सा परिषद् अन्योन्यं विमृश्य सम्यग् अवधार्य यद् ब्रूते स धर्मः स्यात् । स निर्विचिकित्स्यो धर्म इत्य् अवगन्तव्यम् । तथा च गौतमः- “यच् चात्मवन्तो वृद्धाः सम्यग्विनीता डम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत्” इति (ग्ध् ९.६२) । शङ्खो ऽप्य् आह- “श्रुतिविरोधे त्रैविद्यसमवायेषु निर्णयः” इति, “यथावलेपं शास्त्रतस् ते ऽनुब्रूयुः” इति च । यत् तु पञ्चावरा दशावरा वा परिषद् धर्मप्रवक्तृभिर् उक्ता, सा महापातकादिप्रायश्चित्तविषया द्रष्टव्या, शुद्ध्यशुद्ध्योस् तत्र प्रकाश्यत्वात् । या त्व् एकविंशत्या शतेन अङ्गिरसाभिहिता, सा किल भूयांसो ब्राह्मणाः, ते यत् ब्रूयुस् तत् तथैव भवतीति श्रद्धामात्रेणेति मन्तव्या, गायत्रीमात्रसारैश् चीर्णव्रतैर् अपि धर्मस्य निर्णेतुम् अशक्यत्वात् । पूर्वोक्तपरिषत्प्रशंसार्थं वा, अविदुषां निन्दार्थम् । तथा चोक्तम्, “नेतरे तु सहस्रशः” इति (ब्ध् १.१।९) । गुणविद्विषयत्वे वा कार्यगौरवज्ञापनार्थम् । यत् तु,

राज्ञां (तु) सैव द्विगुणा वैश्यानां त्रिगुणा स्मृता ।

इति, तत् क्षत्रियवैश्ययोः प्रायश्चित्तदाने यत्नातिरेकार्थम्, आपद्विषयं वा, प्रायश्चित्तस्य वावश्यकार्यताज्ञापनार्थम्, परिषदि वाचावेदननियमार्थं वा । यत् तु क्षत्रियादिप्रायश्चित्तदाने पुरोहिताद्यधिकारः, अन्येषां च प्रायश्चित्तम् इति, तत् प्रायश्चित्तप्रकरणे वक्ष्यामः । सर्वथा परिषदि धर्मनिर्णयः । अल्पापि च प्रकृष्टगुणा परिषत् प्रशस्तेत्य् आचार्याभिप्रायः । न्यायमूलत्वात् परिषन्निर्णयार्थस्मृतेर् अनेकार्थत्वम् अविरुद्धम् । अनयैव दिशा विवेकः कार्यः ॥ ९ ॥

इति उपोद्घातप्रकरणम् ।