२५ प्रकीर्णक-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

प्रकीर्णकप्रकरणम् । (२५)

अधुना प्रकीर्णाख्यं विवादपदं प्रस्तौति ।

ऊनं वाप्य् अधिकं वापि यो लिखेद् राजशासनम् ।
पारदारिकचौरौ वा मुञ्चतो दण्ड उत्तमः ॥ २.२९४ ॥

दत्तस्य भूम्यादे राजनिर्दिष्टं यत् परिमाणं तच् छासने न लिखति । किं तु ततो न्यूनम् अधिकं वा यः शासनलेखने ऽधिकृतः स लिखेत् । यच् (यश्) चौरादिग्रहणे ऽधिकारी चौरं पारदारिकम् अन्यं वा दण्डनीयं गृहीत्वा राजाज्ञाम् अन्तरेण मुञ्चेत् स उत्तमसाहसं दण्डनीयः । [८६२] शङ्खलिखितौ- “कूटशासनप्रयोगे राजशासनप्रतिषेधे कूटतुलामानप्रतिमानव्यवहारे शारीरो ऽङ्गच्छेदो वा” । कात्यायनः ।

प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद् यो वै स दाप्यो दम उत्तमम् ॥

मनुः ।

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश् च हन्याद् द्विट्सेविनस् तथा ॥

प्रकृतयः स्वाम्यादिराज्याङ्गानि, द्विट्सेविनो राजद्वेषिसेविनः । विष्णुः- “कूटशासनकृतॄंश् च राजन्यात् कूटलेख्यकरांश् च” ॥ २.२९४ ॥

द्विजं प्रदूष्याभक्ष्येण दण्ड्य उत्तमसाहसम् ।
क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ २.२९५ ॥

अभक्ष्येण लशुनादिना ब्राह्मणं दूषयित्वोत्तमसाहसं दण्ड्यः । क्षत्रियं दूषयित्वा मध्यमसाहसम् । वैश्यं दूषयित्वा प्रथमसाहसम् । शूद्रं तु तदर्थम् । दण्ड्य इत्य् अनुवृत्तौ विष्णुः- “अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् । जात्यपहारिणा शतम् । सुरया वध्यः । क्षत्रियं दूषयितुस् तदर्धम्, वैश्यं दूषयितुस् तदर्धम् अपि शूद्रं दूषयितुः प्रथमसाहसम् । जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः” ॥ २.२९५ ॥

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥ २.२९६ ॥

असुवर्णे सुवर्णबुद्धिं परस्योत्पाद्य यो व्यवहरति, यश् च विरुद्धं विड्वराहादिमांसं समीचीनमांसबुद्धिम् उत्पाद्य विक्रीणीते, स त्रिभिर् अङ्गैर् नासाकर्णहस्तैर् हीनः कार्यः । उत्तमसाहसं च दण्ड्यः । यतु तु मनुनोक्तम्,

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥

तद् ब्राह्मणसुवर्णापहारिसुवर्णकारविxअयम् ॥ २.२९६ ॥

विषयविशेषे दण्डापवादम् आह

चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः ।
काष्ठलोष्टेषु पाषाणवाह्ययुग्यकृतस् तथा ॥ २.२९७ ॥

[८६३]

चतुष्पादैर् योऽजाश्वादिभिः कृतो मनुष्यमारणादिर् अपराधस् तद्वाहकस्य दण्डनिमित्तं भवति । यद्य् असाव् उच्चैर् अपेहीति परं प्रति ब्रूयात्, काष्ठादि व्यापारयतश् चापेहीत्य् उच्चैर् भाषमाणस्य काष्ठादिक्र्तो ऽपराधो दण्डनिमित्तं न भवति । लोष्टो मृत्पिण्डः । इषुर् बाणः । युग्यं यानम् ॥ २.२९७ ॥

छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच् चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २.२९८ ॥

बलीवर्दनासिकार्पिता रज्जुर् नस्या, सा छिन्ना यत्र याने तच् छिन्ननस्यं यानम् । तथा भग्नं युगादि यस्य तत् तथोक्तम् । आदिशब्देन चक्राक्षादीनि यानाङ्गानि गृह्यन्ते । तेनोक्तप्रकारेण यानेन पश्चाद् अपसरता कृते प्राणिहिंसने स्वामी न दोषभाग् भवति । चकारात् पश्चाद् अपसरणव्यतिरिक्ता अप् यानस्य गतयः परिगृह्यन्ते । स्वामिग्रहणं प्रदर्शनार्थम् । तेन सारथ्यादिर् अपि न दोषभाक् । मनुः ।

छिन्ननस्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षाभावे च यानस्य चक्राभावे तथैव च ॥
छेदने चैव यन्त्राणां योक्तृरश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपेहीति न दण्डं मनुर् अब्रवीत् ॥
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥

प्राजकः सारथिः । स्वामी रथी ।

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥

आप्तो निवारणसमर्थः । अनाप्ते तु तस्मिन् युगस्था यानस्थाः सर्वे प्रत्येकं शतं दण्ड्याः । तथा ।

स चेत् तु प्रतिसंरुद्धः पशुभिर् वा रथेन वा ।
प्रमापयेत् प्राणभृतस् तत्र दण्डो विचारतः ॥
मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥

[८६४] क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।

पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।
माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ २.२९८ ॥
शक्तो ऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥ २.२९९ ॥

दंष्त्रिणां गजादीनां शृङ्गिणां बलीवर्दादीनां स्वामी प्राणिव्यापादने प्रवर्तमानानां तन्निवारणे शक्तः सन् यो न निवारयति, तस्य प्रथमसाहसो दण्डः । यस् तु व्यापाद्यमानेन त्रायस्वेति विक्रुष्टे ऽपि न निवारयति तस्य पूर्वोक्ताद् द्विगुणो दण्डः ॥ २.२९९ ॥

जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ २.३०० ॥

यस् तु स्वकीयस्त्रीणां दोषं प्रच्छादयितुकामस् तज्जारं चौरत्वेनाभिवदति, तस्य पञ्च शतानि यअस्य स पञ्चशतः [दण्डः] । यस् तु जाराद् द्रव्यं गृहीत्वा तं राजन्य् अनिवेद्य मुञ्चति, स गृहीतं धनम् अष्टगुणं दाप्यः ॥ २.३०० ॥

किं च

राज्ञो ऽनिष्तप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०१ ॥

राज्ञो जनपदादिपालकस्य यद् अनिष्टम् अप्रियं शत्रुप्रशंसादि तस्यातिशयेन वक्तारम्, तथा राजविषयस्याक्रोशस्य शपथस्य कर्तारम्, तदीयमन्त्रस्य च संधिविग्रहादिविषयस्य भेत्तारं प्रकाशयितारं छिन्नजिह्वं कृत्वा प्रवासयेत् । मनुः ।

राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥

उपजापका उपोद्बलकाः । विविधैर् दण्डैर् इति । यथापराधं सर्वे ऽपि दण्डाः प्रयोक्तव्या इत्य् अर्थः । तत्र सर्वस्वापहारे जीविकासाधनं नापहार्यम् इत्य् आह नारदः ।

आयुधान्य् आयुधीयानां बाह्यादीन् बाह्यजीविनाम् ।
वेशस्त्रीणाम् अलंकारान् आतोद्यादीनि तद्विदाम् ॥

[८६५] यश् (यच्) च यस्योपकरणं येन जीवन्ति कारवः ।

सर्वस्वहरणे ऽप्य् एतन् न राजा हर्तुम् अर्हति ॥ २.३०१ ॥
मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा ।
राजयानासनारोढुर् दण्डो मध्यमसाहसः ॥ २.३०२ ॥

शवालंकरणाय तदङ्गलग्नं वस्त्रादि विक्रीणानस्य गुरुमुक्तलक्षणं ताडयतः (प)हरतो (?) राज्ञो यानासनयोस् तदाज्ञाम् अन्तरेणारोढुर् मध्यमसाहसो दण्डः ॥ २.३०२ ॥

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।
विप्रत्वेन तु शूद्रस्य जीवतो ऽष्टशतो दमः ॥ २.३०३ ॥

यो द्वे अपि नेत्रे रोषात् परस्य भिनत्ति, यश् च राजद्विष्टस्याज्ञाकारी, यश् च शूद्रो विप्रलिङ्गेन जीवति, तस्याष्टौ शतानि दण्डः । विप्रत्वेन जीवता शूद्रेण यदि द्विजातिभिः सह ब्राह्मो योनौ वा संबन्ध आचरितस् तदासौ वध्य एव ।

तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ।

इति मनुवचनम् । यत् तु “शूद्रस्य विप्रवेशधारिणस् तप्तशलाकया यज्ञोपवीतं दद्याद् वपुष्य् अपि लिखेत्” इति स्मृत्यन्तरवचनम्, तच् छ्राद्धभोजनवैश्वदेवादिकं स्मार्तं कर्म परार्थं कुर्वतो द्रष्टव्यम् । मनुः ।

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥

क्षत्रियवैश्यविषयम् एतत् ॥ २.३०३ ॥

सर्वव्यवहारशेषतया किंचिद् आह

सम्यग् दृष्ट्वा तु दुर्दृष्टान् व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं पृथक् ॥ २.३०४ ॥

ये दुर्दृष्टा लोभादिवशाद् अयथाशास्त्रं दृष्टा व्यवहारास् तान् पुनः सम्यग् दृष्ट्वा राज्ञा पूर्वसभाश् तत्र च यो जयी वादी तेन सहिताः प्रत्येकं पराजितस्य यो दण्डस् ततो द्विगुणं दण्डं दण्डनीयाः । [८६६]

सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ।

इत्य् उक्तम्, तद् दनविवादविषयम् । इदं तु तद्व्यतिरिक्तविषयम् इति न पौनरुक्त्यम् । यदा तु साक्षिदोषाक्रुष्टदुष्टो व्यवहारः स्यान् न तदा सभ्यदण्डस् तेषां तत्राहेतुत्वात् । यदा तु विवादादिसभ्यसभापतिसाक्षिवशाद् असमीचीनो व्यवहारः स्यात् तदा सर्वेषां लेशतः प्रत्यवायसमवायः स्यात् । तद् उक्तम् ।

पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ २.३०४ ॥

न्यायतः पराजितस्य वादिनो न्यायदर्शनोपायम् आह

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ २.३०५ ॥

यो वादी शास्त्रतः पराजितो ऽपि नाहं पराजितो ऽस्मीति मन्यते, तं पुनर् व्यवहारदर्शनायायान्तम् आगतं पुनर् व्यवहारदर्शनेन जित्वा द्विगुणं दमम् दापयेत् । द्विगुणदमाङ्गीकारे सत्य् एव तदीयो व्यवहारः पुनर् द्रष्टव्यो नान्यथेति तात्पर्यार्थः । अत एव नारदः ।

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥

अयम् अर्थः — यत् तस्य पराजयहेतुलिखितं तीरितं यश् (यच्) च तस्य दण्डनं तद् अनुशिष्टं तद् उभयं विधर्मतो धर्मशास्त्रविरोधतो जातम् इति यो मन्यते, स द्विगुणं दण्डम् अङ्गीकृत्य व्यवहारदएशनं पुनः कारयेद् इति । यदि पुनर् द्विगुणदण्डा[न]ङ्गीकारो वादिन ऽस्ति, तदा पूर्वदृष्टं नैव चालनीयम् इत्य् आह ।

तीरितं चानिशिष्टं च यत्र क्वचन विद्यते ।
कृतं तद् धर्मतो ज्ञेयं न तत् प्राज्ञो निवर्तयेत् ॥ इति ॥ २.३०५ ॥
राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३०६ ॥

इति प्रकीर्णप्रकरणम् ॥ २५ ॥

यदा तु राज्ञान्यायेन न्यायातिक्रमेण कुतो ऽपि दण्डो गृहीतस् तद्दण्डधनं [८६७] तस्मै दत्वा ततस् त्रिंशद्गुणं वरुणाय निवेद्य वरुणम् उद्दिश्य स्वयं त्यक्त्वा ब्राह्मणेभ्यो दद्यत् । ब्राह्मणेषु प्रतिपादयेद् इत्य् अर्थः ॥ २.३०६ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**प्रकीर्णप्रकरणम् ॥ २५ ॥ **

समाप्तो ऽयं व्यवहाराध्यायो द्वितीयः \