२४ स्त्री-सङ्ग्रहण-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

स्त्रीसंग्रहणप्रकरणम् । (२४)

अथ परस्त्रीसंभोगात्मके संग्रहणे निमित्ते पुरुषस्य ग्राह्यतायां कारणम् आह ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ २.२८३ ॥

संग्रहणे परस्त्रिया सह मिथुनीभावे निमित्ते दण्डयितुं पुमान् ग्राह्यः । केन हेतुनेत्य् अपेक्षित उक्तम् — केशाकेशि, परस्त्रिया सह परस्परकेशग्रहनवत्या क्रीडया पुमान् ग्राह्य इत्य् अन्वयः । बहुव्रीहिसमासात्मकं तृतीयान्ता(न्त)वृत्तीच्समासान्तं केशाकेशीत्य् अव्ययम् । न केवलम् अयम् एव हेतुः, किं तु सद्यः संभूतानि परस्परमिथुनीभावाभिलाषाद् उत्पन्नानि दन्तनखक्षतादीनि चिह्नानि सुरत(ता)व्यभिचारीणीति, तैर् अपि हेतुभिर् ग्राह्यः । उक्तहेत्वभावे ऽपि द्वयोः स्त्रीपुंसयोः सिद्धो मिथुनीभाव आवयोर् इत्य् एवंरूपायां संप्रतिपत्तौ सत्याम् अपि ग्राह्यः । मनुः ।

परदाराभिमर्शेषु प्रवृत्तेषु महीपतिः ।
उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥

[८५४] तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।

येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥

बृहस्पतिः ।

पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥
बलोपाधिकृते द्वे तु तृतीयम् अनुरागजम् ।
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥
अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥
छद्मना गृहम् आनीय दत्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यास् तत्द् उपाधिकृतं विदुः ॥
अन्योन्यचक्षूरागेण दूरीसंप्रेषणेन च ।
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥

रूपार्थयोर् लोभो रूपार्थलोभः । कार्मणं वशीकरणम् ॥ २.२८३ ॥

नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकस्थानम् एव च ॥ २.२८४ ॥

संग्रहणे ग्राह्य इत्य् अनुवर्तते । यः परस्त्रीणां नीव्यादिस्पर्शं करोति, यत्र देशे च काले च परस्त्रिया सह बाषमाणः शिष्टैर् न गर्ह्यते ततो ऽन्यो देशः कालश् चादेशकालम् । तत्र यः परस्त्रीसंभाषणं कुरुते, यश् चैकत्र शयन आसने वा परस्त्र्या सहावतिष्ठते, स पुमान् संग्रहणे ग्राह्यः । नीवी परिधानग्रन्थिः । कुचयोर् आवरणं स्तनप्रावरणम् । सक्थि जघनम् । व्यासः ।

संग्रहस् त्रिविधो ज्ञेयः प्रथमो मध्यमस् तथा ।
उत्तमश् चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
अदेशकालसंभाषा अरण्ये च परस्त्रिया ।
अपाङ्गप्रेक्षणं हास्यं पूर्वसंग्रहणं स्मृतम् ॥

मनुः ।

परस्य पत्न्या संभाषं पुरुषो योजयन् सह ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥
(यस् त्व् अनाक्षारितो दोषैर् अभिभाषेत कारणात् ।
**न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ [८५५]

दोषैस् तत्स्त्रीप्रार्थनादिभिर् अशस्तैः ।

प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् । )
प्रलोभनं चान्नपानैर् मध्यमः संग्रहः स्मृतः ॥
शय्यासने विविक्ते तु परस्परसमाश्रयः ।
केशाकेशिग्रहश् चैव ज्ञेय उत्तमसंग्रहः ॥

विविक्तं विजनम् । बृहस्पतिः ।

त्रयाणाम् अपि चैतेषां प्रथमो मध्य उत्तमः ।
विनयः कल्पनीयः स्याद् अधिको द्रविणाधिके ॥

व्यासः ।

उपकारः क्रिया केलिः स्पर्शो भूषणवससाम् ।
सह शय्यासनं चैव सर्वं संग्रहणं स्मृतम् ॥
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तथा ।
परस्परस्यानुमतं सर्वं संग्रहणं स्मृतम् ॥

(नारदः ।

दर्पाद् वा यदि वा मोहाच् छ्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भुक्तेति तच् च संग्रहणं स्मृतम् ॥)
पाणौ यश् च निगृह्णीयाद् वेण्यां वस्त्राञ्चले ऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रूयात् सर्वं संग्रहणं स्मृतम् ॥

शङ्खलिखितौ- “अबुद्धिपूर्वम् अलंकृतो युवा परदारम् अनुप्रविशन् कुमारीं वावच्यः । बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः” ॥ २.२८४ ॥

स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ २.२८५ ॥

येन पुरुषेणा सह स्त्रियाः संभाषणं भर्त्रादिभिः प्रतिषिद्धं तत् तेन सह समाचरन्ती पणशतं दण्ड्या । एवं पुरुषो ऽपि पणशतद्वयम् । उभयोः प्रतिषिद्धम् अन्योन्यसंभाषणम् आचरतोर् यो वक्ष्यते संग्रहणे दण्डः स एव वेदितव्यः । मनुः ।

चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ।
भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा ॥
संभाषणं सह स्त्रीभिः कुर्युर् अप्रतिवारितः ।
न संभाषं सह स्त्रीभिः प्रतिषिद्धः समाचरेत् ॥

[८५६] निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ।

नैष चारणदारेषु विधिर् नात्मोपजीविषु ॥
सज्जयन्ति हि ते नारीं निगूढाश् चारयन्ति च ।
किंचिद् एव हि दाप्यः स्यात् संभाषं ताभिर् आचरन् ॥
प्रेष्यासु चैकभक्तास् तु रहः प्रव्रजितासु च ॥

भिक्षुकादयो ऽप्रतिवारिता अनिषिद्धभाषणाः स्त्रीभिः सह संभाषेरन् । प्रतिषिद्धा न संभाषेरन्न् इत्य् अर्थसिद्धम् । ततश् च “न संभाषं सह स्त्रीभिः” इति भिक्षुकादिव्यतिरिक्तपुरुषविषयो निषेधः । तद्विषय एव च सुवर्णं दण्डम् अर्हतीति दण्डविधिः । सुवर्णशब्दो ऽयं परिमाणवचनः । तथा हि सति जातिपरिमाणयोर् उक्तिः । अन्यथा तु जातेर् एव । न चापरिमाणा जातिर् उपासीनाङ्गं भवति । ततश् च पणशतद्वयस्य सुवर्णस्य च दण्डत्वं शक्त्यपेक्षया व्यवस्थाप्यम् । प्रेष्या दास्यादयः । एकभक्ता अव्यभिचारिण्यः । प्रव्रतिजासु च नैष विधिर् इत्य् अन्वयः । मत्स्यपुराणम् ।

भिक्षुको ऽप्य् अथ वा नारी यो ऽपि स्यात् तु कुशीलवः ।
प्रविशेत् प्रतिषिद्धस् तु प्राप्नुयाद् द्विशतं दमम् ॥
यस् तु संचारकस् तत्र पुरुषः स तथा भवेत् ।
पारदारिकवद् दण्ड्यो यश् च स्याद् अवकाशदः ॥ २.२८५ ॥
सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६ ॥

सर्वेषां वर्णानां सजातौ सवर्णे यत् संग्रहणं तत्रोत्तमसाहसो दण्डः । आनुलोम्ये ब्राह्मणादेः क्षत्रियादिस्त्र्यभिगमने तु मध्यम्साहसो दण्डः । गुप्तां बलाद् गच्छतः एतत् । यद् आह मनुः,

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥

ते क्षत्रियावैश्ये । तथा ।

अगुप्ते वैश्यराजन्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दाप्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥

प्रातिलोम्ये हीनवर्णः पुरुष उत्तमवर्णा स्त्रीत्य् एवंरूपे संग्रहणे पुंसो वधः । स्त्रियास् तु कर्णकरनासौष्ठच्छेदनं कार्यम् । गुप्तायां स्त्रियाम् एतत् । यद् आह मनुः ।

[८५७] ब्राह्मणीम् यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।

वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥
उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥
शूद्रो गुप्तम् अगुप्तं वा द्वैजातं सर्णम् आवसन् ।
अगुप्तैकाङ्गसर्वस्वी गुप्ते सर्वेण हीयते ॥

एकाङ्गं लिङ्गम्, सर्वेन जीवितधनेनेत्य् अर्थः । तथा च शूद्रस्यानुवृत्तौ गौतमः- “आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वहरणं च” । मनुः ।

वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥

अत्यन्तविप्लुतायाम् अगुप्तायां क्षत्रियायां वैश्यस्य पञ्चशतिको दण्डो ऽयम् । अविप्लुतायां गुप्तायां वधः “प्रातोलोम्ये वधः” इति विशेषवचनाद् उक्तः । सजातौ सामान्येनोत्तमसाहसो दण्डः । तदपवादाय स्त्रीविशेषे दण्डान्तरम् आह नारदः ।

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नन्यो दण्डो विधीयते ॥

मनुः ।

पुमान् संदाहयेत् पापं शयने तप्त आयसे ।
अभ्यादद्युश् च काष्ठानि तत्र दह्येत पापकृत् ॥

ब्राह्मणव्यतिरिक्तगुरुतल्पगविषयम् एतत् । तथाविधं ब्राह्मणं प्रति बृहस्पतिर् आह ।

छद्मना कामयेद् यस् तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्केन परान् निर्वासेयत् ततः ॥
सहमायः कामयते धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्दभेन तु ॥ २.२८६ ॥

[८५८]

प्रसङ्गात् कुमारीविषयम् आह

अलंकृतां हरन् कन्याम् उत्तमं त्व् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णां तु प्रातिलोम्ये वधः स्मृतः ॥ २.२८७ ॥
समाकास्व् अनुलोमासु न दोषस् त्व् अन्यथाधमः ।

सवर्णां कुमारीम् अलंकृतां हरन्न् उत्तमसाहसं दण्डं दद्यात् । अनलंकृतां तु प्रथमसाहसम् । हीनवर्णस्योत्तमवर्णां कन्यां हरतो वधो दण्डः । उत्तमवर्णेन हीनवर्णासु सकामासु कन्यास्व् अपहृतासु नास्त्य् अपहर्तुर् दोषः । अन्यथा त्व् अकामास्व् अधमः प्रथमसाहसः । एतच् चापहारमात्रे दण्डविधानम् ॥ २.२८७ ॥

कन्यां दूषयतो ऽधुना दण्डम् आह ।

दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ २.२८८ ॥

यस् तु कन्याया अङ्गुल्या योनिक्षतं कृत्वा दूषणं करोति, तस्य करच्छेदो दण्डः । अस्मिन् दोष उत्तमवर्णकन्याविषये दूषयितुर् वधः । करशब्दो ऽत्राङ्गुल्यां वर्तते । अत एव मनुः ।

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुऌयौ दण्डं चार्हति षट्शतम् ॥

अभिषह्य प्रसह्य, कन्यां षतयोनित्वेन दुष्टां कुर्याद् इत्य् अर्थः । तस्याविलम्बेनाङ्गुल्यौ कन्यादूषणहेतुभूते कर्ते छेद्ये । तथा ।

सकामां दूषयंस् तुल्यो नाङ्गुलीछेदम् अर्हति ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥

तुल्यः सवर्णः । प्रसङ्गो ऽतिप्रसङ्गः । यस् तु मैथुनेन कन्यां दूषयति, तं प्रत्य् आह मनुर् एव ।

यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥

अकामाम् अनिच्छन्तीं कन्याम् अकृतविवाहां चाक्षतयोनिं दूषयति, स ब्राह्मणव्यतिरिक्तः सवर्णो ऽसवर्णो वा वधम् अर्हति । ब्राह्मणस्य तु दण्डः कल्प्यः । सकामां यदि तुल्यः सवर्णो ऽभिगच्छेत् ततो ऽस्य न वधः । किं तूत्तमसाहसो दण्डः ।

कन्यां भजन्तीम् उत्कृष्टं न किंचिद् अपि दापयेत् ।
**जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ [८५९]

उत्कृष्टम् उत्कृष्टवर्णम्, जघन्यं हीनवर्णम् । सवर्ण उत्तमग्रहणेन लक्ष्यते ।

उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥

समां सवर्णां सेवमान इच्छते तत्पित्रे शुल्कं दद्यात् । नारदः ।

सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः ।
किं त्व् अलंकृत्य संस्कृत्य स एवैनां समुद्वहेत् ॥

शङ्खलिखितौ- “कन्यायाम् असकामायां द्व्यङ्गुलच्छेदो दण्डश् चोत्तमायां वधो जघन्यस्य, समायां सकामायां च शुल्कम् आभरणं द्विगुणं च स्त्रीधनं दत्वा प्रतिपद्येत स्व(स)कन्याम्” । मनुः ।

कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च त्रिगुणं दद्याच् छिपाश् चैवाप्नुयाद् दश ॥

अयम् अर्थः — या कन्या केनापि हेतुनाङ्गुल्यादिना कन्यां क्षतयोनिं कुर्यात् सा पणशतद्वयं राज्ञे दद्यात् । तथा यच् छुल्कं मूल्यं कन्यार्हति, तत्त्रिगुणं तस्यै दूषितायै दत्वा दश शिफाश् चाप्नुयात् । रज्जुप्रहारो लताप्रहारो वा शिफा ।

या तु कन्या प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव छेदं खरेणोद्वहनं तथा ॥

स्त्री चात्र कन्याव्यतिरिक्ता वेदितव्या । कन्यायाः पूर्वम् उक्तत्वात् ॥ २.२८८ ॥

किं च

शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसिता ।
पशुं गच्छञ् शतं दाप्यो हीनस्त्रीं गां च मध्यमम् ॥ २.२८९ ॥

स्त्रियाः कन्याया दूषणं क्षतयोनित्वादिकेनाकन्यात्वाभिधानम् । तत्कर्तुः पणशतं दण्डः । तद् एव चेन् मिथ्या ब्रूयात् पणशतद्वयं दण्ड्याः । गोव्यतिरिक्तं पशुं गच्छन् पणशतं दाप्यः । अन्त्यजां स्त्रीं गां च गच्छतो मध्यमसाहसो दण्डः । हीनस्त्रीं गच्छतो ब्राह्मणव्यतिरिक्तस्यायं दण्डः । ब्राह्मणस्य तु सहस्त्रम्, “सहस्रं त्व् अन्त्यजस्त्रियम्” इतिवचनात् । कन्यादोषान् आह नारदः ।

दीर्थकुत्सितरोगार्ता व्यङ्गा सासृष्टमैथुना ।
**धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ [८६०]

यत् तु “दूषयंस् तु मृषा शतम्” इत्य् उक्तम्, तद् अल्पधनविषयम् ॥ २.२८९ ॥

अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत् पणिकं दमम् ॥ २.२९० ॥

या दास्यः स्वामिनावरुद्धा निषिद्धपुरुषसेवा याश् च भुजिष्याः स्वामिनैवोपभुज्यन्ते, ता यद्य् अपि दासत्वे सत्य् आनुलोम्येन गम्यास् तथापि तदभिगन्ता पुमान् पञ्चाशत्पणं दाप्यः । गम्यत्वाभिधानं चेदं न प्रत्यवायाभावाभिप्रायम् । किं तु दण्डभावाभिप्रायम् । तेन भुजिष्याम् अनवरुद्धां च दासीं गच्छतो नास्ति दण्डः । नारदः ।

स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेया यतस् ताः सपरिग्रहाः ॥

व्यासः ।

परोपरुद्धागमने पञ्चाशत्पणिको दमः ।
प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥

द्वादशको द्वादशपणः । व्यासः ।

बहुभिर् भुक्तपूर्वा या गच्छेद् यस् तां नराधमः ।
तस्य वेश्यावद् इच्छन्ति दण्डनं न तु दारवत् ॥

कात्यायनः ।

कामार्ता स्वैरिणी या तु स्वयम् एव प्रकामयेत् ।
राजादेशेन भोक्तव्या विख्याप्य जनसंनिधौ ॥ २.२९० ॥
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ २.२९१ ॥

परदासीं हठाद् अभिगच्छतो दशपणो दण्डः । अनिच्छन्तीं बहूनाम् अभिगच्छतां प्रत्येकं चतुर्विंशतिपणः ॥ २.२९१ ॥

[८६१]

अयोनौ गच्छतो योषां पुरुषं चाधि मेहतः ।
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे ॥ २.२९२ ॥

यः पुनर् अयोनौ मुखादौ योषां योषितं गच्छति, यश् च पुरुषम् अधि पुरुषस्योपरि मेहं मूत्रपुरीषं चोत्सृजति, यश् च प्रव्रजितां श्रमणिकादिकाम् उपैति, तस्य चतुर्विंशतिपणो दण्डः । चत्वारिंशत्पणो दण्ड इति वा पाठे चत्वारिंशत्पणरूपः ॥ २.२९२ ॥

अन्त्याभिगमने त्व् अङ्क्य कबन्धेन प्रवासयेत् ।
शूद्रस् तथाङ्क्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ २.२९३ ॥

इति स्त्रीसंग्रहणप्रकरणम् ॥ २४ ॥

अन्त्याश् चण्डालक्षत्रायोगवस्त्रियः । तदभिगन्तारं द्विजातिं प्रायश्चित्तम् अकुर्वाणं कबन्धेन शिरोरहितेन पुंसा ललाटे ऽङ्कयित्वा स्वराष्ट्रात् प्रवासयेत् । शूद्रस् तु प्रायश्चित्तम् कुर्वाणो ऽप्य् अङ्क्य एव । अन्त्यस्य चन्दालादेर् उत्तमवर्णां गच्छतो वध एव । इति स्त्रीसंग्रहणम् ॥ २.२९३ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**स्त्रीसंग्रहणप्रकरणम् ॥ २४ ॥ **