२३ स्तेय-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

स्तेयप्रकरणम् । (२३)

चौरस्य दण्डनार्थं परिज्ञानोपायम् आह

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २.२६६ ॥

ग्राहकैश् चौरग्रहणाधिकृतैर् लोप्त्रादिना चौरो गृह्यते ऽवगम्यते । लोप्त्रम् अपहृतद्रव्यैकदेशः । पांसुकर्दमादिवर्ती पादाङ्कः पदं तस्य पुरुषस्य पादेन संमितम् । यस्य गृहं प्रति नष्टदेशाद् आरभ्य पदपरम्परा जाता सो ऽपि चौरः । अपहृतस्य गवादेः पदपरम्परा यस्य गृहं प्रति प्रवृत्ता सो ऽपि चौरः । एतच् च चौर्याव्यभिचारिधर्मजातस्य प्रदर्शनार्थम् । तेन यन् नष्टावशिष्टं तण्डुलादि प्रस्परगृहे दृश्यते तस्यैकप्रकारकत्वे परस्परचौरत्वं श्रूयते । यश् च पूर्वं पूर्वं कृतेन चौर्यकर्मणापराधीति ज्ञातः, यश् चाशुद्धवासको न विद्यते शुद्धः समीचीनो वास्ते निवासस्थानं यस्य सो ऽशुद्धवासकः, सो ऽपि चौरः ॥ २.२६६ ॥

निर्णयरूपस्य ग्रहणस्य हेतव उक्ताः । तस्यैव संशयरूपस्य हेतून् इदानीम् आह

अन्ये ऽपि शङ्कया ग्राह्या नामजात्यादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ २.२६७ ॥

[८४०] परद्रव्यगृहाणां च पृ(प्र)च्छका गूढचारिणः ।

निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ २.२६८ ॥

उक्तेभ्यो ऽन्ये ऽपि नामजातिग्रामदेशादीनां निह्नवैर् अपलापैर् या चौर्याशङ्का तया ग्राह्याः । चौरत्वेन शङ्कनीया इत्य् अर्थः । तथा ये द्यूतादिसक्ताः, ये च चौरत्वेनाभियुक्ताः शुष्कमुखा भिन्नस्वराश् च भवन्ति, ये च कस्येमानि द्रव्याणि कस्य वा गृहाणीति परद्रव्यगृहाणां पृ(प्र)च्छकाः, ये च गूढाः प्रच्छन्नाः सन्तो विचरन्तीति तच्छीलाः, ये च निराया अदृष्टधनागमा व्ययवन्तश् च भवन्ति, ये च विनासितग्रैवेयाद्यलंकारस्य विक्रयिणस् ते चौरशङ्कया ग्राह्याः । नारदः ।

सहोढग्रहणे स्तेयं होढे सत्य् उपभोगतः ।
शङ्का त्व् असज्जनैकार्थ्याद् अनायव्ययतस् तथा ॥
अहोढान् विमृशेच् चौरान् गृहीतान् परिसंख्यया ।
भयोपधाभिश् चित्राभिर् ब्रूयुस् तथ्यं यथा हि ते ॥
देशं ग्रामं दिशं नाम जातिं वा संप्रतिश्रयम् ।
कृतकार्यसहायाश् च प्रष्टव्याः स्युर् विगृह्य ते ॥
वर्णस्वराकारभेदात् ससंदिग्धनिवेदनात् ।
अदेशकालद्रष्टृत्वान् निवेशस्य विशोधनात् ॥
असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् ।
दोषैर् अप्य् अनुगन्तव्या न होढेनैव केवलम् ॥

होढो लोप्त्रम् । उपभोगो ऽपहृतद्रव्यस्यासाधारणस्य प्रकारान्तरेणासंभवात् प्राप्तेः । ऐकार्थ्यम् एकप्रयोजनवत्त्वम् । भयोपधा भयहेतवः के(क्ले)शायुक्तयः । तथा ।

गवादिषु प्रनष्टेषु द्रव्येष्व् अपहृतेषु च ।
पदेनान्वेषणं कुर्युर् आ मूलात् तद्विदो जनाः ॥

आ मूलाद् आ गवादिहरणस्थानात् ।

ग्रामे व्रजे विवीते वा यत्र तन् निपतेत् पदम् ।
वोडव्यं तद् भवेत् तेन न चेत् सो ऽन्यत्र तन् नयेत् ॥
वदे प्रमूढे भग्ने वा विषमत्वाज् जनान्तिके ।
**यस् त्व् आसन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥ [८४१]
समे ऽध्वनि द्वयोर् यत्र स्तेनप्रायो ऽशुचिर् जनः ।
पूर्वापराधैर् दुष्टो वा संसृष्टो वा दुरात्मभिः ॥
नैवान्तरिक्षान् न दिवो न समुद्रान् न चान्यतः ।
दस्यवः संप्रवर्तन्ते तस्माद् एवं प्रकल्पयेत् ॥
ग्रामेष्व् अन्वेषणं कुर्युश् चण्डालवधकादयः ।
रात्रिसंचारिणो ये च बहिः कुर्युर् बहिश्चराः ॥

समे ऽधव्नि तुल्यमार्गे । द्वयोर् ग्रामयोः । स्तेनप्रायश् चौरबहुलः । मनुनारदौ ।

सभाप्रपापूपशालावेशमद्यान्नविक्रयाः ।
चतुष्पथाश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥
शीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च ।
शून्यानि वाप्य् अगाराणि वनान्य् उपवनानि च ॥
एवंविधान् नृपो देशान् गुल्मैः स्थावरजङ्गमैः ।
तस्करप्रतिषेधार्थं चारैर् अप्य् अनुचारयेत् ॥

तथा ।

तान् सहायैर् अनुगतैर् नानाकर्मप्रवादिभिः ।
विद्याद् उत्साहयेच् चैव निपुणैः पूर्वतस्करैः ॥
भक्ष्यभोज्यापदेशैश् च ब्राह्मणानां च दर्शनैः ।
शौर्यकर्मापदेशैश् च कुर्युस् तेषां समागमम् ॥
ये तत्र नोपसर्पेयुश् चारैः प्रणिहितैर् अपि ।
ते ऽपि स्युः संग्रहीतव्याः समित्रज्ञातिबान्धवाः ॥
यांस् तत्र चौरान् गृह्णीयुस् तान् विताड्य विडम्ब्य च ।
अवघोष्य च सर्वत्र हन्याच् चित्रवधेन तु ॥
अचौरा अपि दृश्यन्ते चौरैः सह समागताः ।
यदृच्छया नैव तु तान् नृपो दण्डेन संस्पृशेत् ॥

कात्यायनः ।

अन्यहस्तात् परिभ्रष्टम् अकामाद् उद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥

अस्यार्थः — किम् एतद् अन्यहस्तात् परिभ्रष्टं सदस्य हस्ते दृश्यते, किं वा चौर्यकामनया विनानेनोद्धृतम्, यद् वा चौरेण सतनेन परिक्षिप्तम् उद्धृतम् इति संशयस्य संदेहस्य संभवाद् यत्नतो लोप्त्रं विचार्यम् इति ॥ २.२६८ ॥

[८४२]

गृहीतः शङ्कया चौर्य आत्मानं चेन् न शोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २.२६९ ॥

शङ्कया संदेहेन चौर्यविषयेण मृहीतो ऽभियुक्तो यद्य् आत्मानं दिव्येन मानुषेण वा प्रमाणेन न शोधयेद् व्यपेतचौर्यशङ्कं न कुर्यात्, तदापहृतं द्रव्यं दापयित्वा वक्ष्यमाणेन चौरदण्डेन दण्डनीयः । न चात्र वाच्यं चौरत्वेनाशङ्कितस्य प्रमाणानर्हता मिथ्यावादित्वाद् इति । यतो न मिथ्यावादित्वमात्रं साधनानर्हत्वे प्रयोजकम् । किं तु प्रथमवादिनो ऽवष्टम्भाभियोक्तृत्वे सति । अतो ऽत्र युक्तं यच् छङ्कितः प्रमाणं कुर्याद् इति । न च चौर्याद्यभावे प्रमाणाभावः । तथा हि सति “महाभियोगेष्व् एतानि,” “रुच्या वान्यतरः कुर्यात्,” राजभिः शङ्कितानां च" इत्यादिवचनानि नैवारम्भ्येरन् । न च वाच्यं मानुषप्रमाणानाम् अभावो न साध्यत(ध्य) इति । यस्माच् चौर्याद्याभावाव्यभिचारिणं भावविशेषं साधयतां सिध्यत्य् एव्(वा)भावसाधकत्वम् अपि । यथा यत्र काले ऽस्य द्रव्यं केनाप्य् अपहृतं तदा ततो ऽपहारप्रदेशाद् अतिदूरे ऽहं व्यवस्थितो महता व्याध्यादिना क्लान्त इत्यादि भावयन् साधयत्य् एवात्मनश् चौर्याद्यभावम् इति । अत एव शङ्खः- “असाक्षिप्रणिहिते दिव्यम्” इत्य् उक्त्वा “अथ वा मित्रैः सज्जनैर् आत्मानं ना शोधयेद् एव । स चेद् दण्ड्यो ऽर्थिनां चार्थं दापयेत्” इत्य् उक्तवान् ॥ २.२६९ ॥

चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ २.२७० ॥

प्रमाणतो निश्चितं चौरम् अपहृतं द्रव्यं स्वरूपतो मूल्यतो वा स्वामिने प्रदाप्य विविधैर् वधैर् वधोपायैर् घातयेद् धिंस्यात् । ब्राह्मणं तु चौरं सचिह्नं श्वपदाङ्कितं कृत्वा स्वराष्ट्राद् राजा विप्रवासयेत् । न तु घातयेत् । अत्र मनुः ।

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥

महापातकव्यतिरिक्तापराधविषयम् एतत् । तत्र पुनस् तेनैवोक्तम् ।

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
**स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ [८४३]

ते च (?) ।

असंभोज्यास् त्व् असंयाज्या असंपाठ्या विवाहिकाः (?) ।
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥

अङ्कनं च प्रायश्चित्तम् अनिच्छतां कार्यम्, यत आह ।

प्रायश्चित्तं तु कुर्वाणास् त्रयो वर्णा यथोचितम् ।
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥

अतश् च दण्डप्रायश्चित्तयोः समुच्चयो गम्यते । प्रायश्चित्ताकरणे तूत्तमसाहसः शरीरदण्डयोः समुच्चय उक्तस् तेनैव ।

चतुर्णाम् अपि चैतेषां प्रायश्चित्तम् अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पितम् ॥

चतुर्णां महापातकिनाम् इत्य् अर्थः । नारदः ।

ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनं तथा ।
ललाटे चाङ्ककरणं प्रयाणं गर्दभेन वा ॥

गौतमः- “न शारीरो ब्राह्मणस्य दण्डः कर्मवियोगविख्यापननिर्वासनाद्यङ्ककरणानि” । शारीरो दण्डो ऽङ्गच्छेदादिः । आपस्तम्बः- “पुरुषवधे स्तेये भूम्यादान इति स्वान्य् आदाय वध्यश् चक्षुर्निरोधस् तु तेषु ब्राह्मणस्य” । बृहस्पतिः ।

वृत्तस्वाध्यायवान् स्तेये बन्धने क्लेश्यते चिरम् ।
स्वामिने तद् धनं दाप्यः प्रायश्चित्तं च कर्यते ॥ २.२७० ॥

गृहीते चौर उक्तम्, अगृहीते यत् कार्यं तद् आह ।

घातिते ऽपहृते दोषो ग्रामभर्तुर् अनिर्गते ।
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥ २.२७१ ॥

मनुष्यादौ हते गवाश्वादौ वापहृते हन्तरि चादृष्टे ग्रामाद् बहिर् अनिर्गते चौरस्य पथि मार्गे ग्रामस्वामिनश् चौर्यदोषः । तेन चौरो देयो ऽपहृतं वेति तात्पर्यार्थः । विवीते तु घातापहारौ चेज् जातौ विवीताच् च बहिर् अदृष्टे चौरमार्गे विवीतभर्तुर् दोषः । अवीतके विवीताद् अन्यत्र तु घाते ऽपहारे च कृते चौरोद्धरणनियुक्तस्य दोषः । विवीतं तृणादिप्रयोजनभूः । नारदः ।

गोचरे यस्य मुष्येत तेन चौरः प्रयत्नतः ।
ग्राह्यो दाप्यो ऽथ वा मोषं पदं यदि न निर्गतम् ॥

[८४४] निर्गते तु पदे तस्मान् न चेद् अन्यत्र पातितम् ।

सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥

पदे चौरमार्गे तस्माद् ग्रामान् निर्गते, तद् यदि न ग्रामान्तरे पातितं चौरेण तदा सामन्तादीन् दापयेत् । कात्यायनः ।

गृहे तु मुषितं राजा चौरग्राहांस् तु दापयेत् ।
अरक्षकांश् च दिक्पालान् यदि चौरो न लभते ॥
ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ॥

तथा ।

स्वदेशे यस्य यत् किंचिद् घृतं देयं नृपेण तु ।
गृह्णीयात् तत् स्वयं नष्टं प्राप्तम् अन्विष्य पार्थिवः ॥
चौरैर् हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद् अन्यथा किल्बिषी नृपः ॥
लब्धे ऽपि चौरे यदि तु मोषस् तस्मान् न लभ्यते ।
दद्यात् तम् अथ वा चौरं दापयेत् तु यथेष्टतः ॥
तस्मिंश् चेद् दाप्यमानानां भवेद् दोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वा विशोधयेत् ॥

बन्धुभिः साक्षिभूतैर् निकटवसिभिर् अदुष्टैर् इत्य् अर्थः ।

यस्माद् अपहृताल् लब्धं द्रव्यात् स्वल्पं तु स्वामिना ।
तच्छेषम् आप्नुयात् तस्मात् प्रत्यये स्वामिना कृते ॥ २.२७१ ॥
स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथ वा पुनः ॥ २.२७२ ॥

ग्रामसीम्न्य् एव यदि मोषो भवति, तदा स एव ग्रामो मुषितं दद्यात् । यदि तु पदं चौरमार्गो ग्रामसीम्नो बहिः कंचन ग्रामं प्रति यायात् तदा स एव ग्रामो दद्यात् । यदा तु क्रोशमात्रव्यवस्थितानाम् अनेकेषां ग्रामाणां मध्ये चौर्यं भवति, तदा तुल्याध्वानः पञ्च ग्रामाः समाहृता मोषं दद्युः । यदा पुनर् दश् ग्रामा मोषस्थानात् तुल्यान्तराला भवन्ति तदा दशापि समाहृता हृतं दद्युः ॥ २.२७२ ॥

चौरं विचित्रैर् वधैर् हन्यद् इति सामान्येनैवोक्तम् । तत्र चौर्यविसेषम् आह ।

[८४५] बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।

प्रसह्यघातिनश् चैव सूलम् आरोपयेन् नरान् ॥ २.२७३ ॥

शूलरोपणं च वधपर्यन्तम् । मनुः ।

अग्न्यागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄश् च हन्याद् एवाविचारयन् ॥

प्रसह्यघातिनो जनसमक्षं मनुष्यादिहन्तारः । व्यासः ।

अश्वहर्ता हस्तपादौ कटिं छित्त्वा प्रमाप्यते ।
पशुहर्तुश् चार्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥

मनुः ।

संधिं भित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥

यतो हस्तच्छिन्नस् तत्र शूलद्वयं निवेशयेद् इत्य् अर्थः । बृहस्पतिः ।

संधिछिदो हृतं त्याज्याः शूलम् आरोपयेत् ततः ।
तथा पान्थमुषो वृक्षे गले बद्ध्वावलम्बयेत् ॥

कात्यायनः ।

स्वदेशघातिनो ये स्युस् तथा मार्गनिरोधकाः ।
तेषां सर्वस्वम् आदाय राजा शूले निवेशयेत् ॥ २.२७३ ॥
उत्क्षेपकग्रन्थिभेदो करसंदंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २.२७४ ॥

यो ऽङ्गुष्ठाङ्गुलिभ्यां परस्वम् उत्क्षिपत्य् अपहरति, यश् च ग्रन्थिं भिनत्ति, तौ करसंसंशेनाङ्गुष्ठाङ्गुलिभ्याम् अपराधहेतुभूताभ्यां हीनौ कार्यौ । द्वितीये ऽपराध एकेन करेणैकेन च पादेन हीनौ हार्यौ । मनुः ।

अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

कात्यायनः ।

येन येन परद्रोहं करोत्य् अंशेन तस्करः ।
छिन्द्याद् अङ्गं नृपस् तस्य न करोति यथा पुनः ॥ २.२७४ ॥

उक्तम् अविशेषेण “चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः” इति, तद्विषयविशेषम् उपसंहर्तुम् आह

[८४६] क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।

देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७५ ॥

क्षुद्रद्रव्याणि मृद्भाण्डादीनि, मध्यमानि वस्त्रादीनि, महाद्रव्याणि हिरण्यादीनि, तेषां सारतो यथासारं दमो धनापहाराङ्कनगात्रच्छेदवधात्मा चौराणां कल्प्यः । देशश् च कालश् च वयश् च् शक्तिश् च देशकालवयःशक्ति । एतत् सर्वं दण्डे कार्ये ब्राह्मणैः सह नृपेण चिन्तनीयम् । तत्र द्रव्यत्रैविध्यम् आह नारदः ।

मृद्भाण्डासनखड्गादि चारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रद्रव्यम् उदाहृतम् ॥

शमीधान्यं शिम्बिधान्यं माषमुद्गादि । कृतान्नं सिद्धान्नम् ।

वासः कौशेयवर्जं च गोवर्जं पशवस् तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवं तथा ॥
हिरण्यरत्नकौशेयस्त्रीगुञ्जो(पुंगो)गजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥

कौशेयम् अस्तसीमयम् । हिरण्यं सुवर्णं रजतं च । अत्र त्रिविधस्यापहारे त्रिविधसाहसदण्डातिदेशं स एवाह ।

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि त्रिषु द्रव्येष्व् अनुक्रमात् ॥

तत्र धान्ये विशेषम् आह मनुः ।

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥

कुम्भो द्रोणद्वयम् । तद् उक्तम् ।

पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थः प्रस्थाश् चत्वार आढकः ॥
आढकैस् तैश् चुतुर्भिश् च द्रोणस् तु कथितो बुधैः ।
कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास् तु षोडश ॥ इति ।

दशभ्यः कुम्भेभ्यो ऽधिकधान्यहारिणो वधः । शेषे ऽनधिके हृते यत्र दान्यापहारे यो दण्डस् तम् एकादशगुणं दण्डं दाप्यः । यावद् अपहृतं तावच् च स्वामिने ।

[८४७] तथा धरिममेयानां शताद् अभ्यधिके वधः ।

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ॥

धरिमेण तुलया मीयन्त इति धर्ममेयानि, तान्य् एव सुवर्णरजतादीनाम् इत्य् अनेन विशेषितानि । यदि सुवर्णरजतादीनाम् इत्य् एतावन्मात्रम् उच्यते ततो लोहानाम् एव ग्रहणं स्यात् । अथ धरिममेयानाम् इत्य् एवोच्येत, तदा गुडादीन्य् अपि गृह्येरन् । उभयोपादाने तु लोहव्यतिरिक्तानाम् अपि मुक्ताप्रवालादीनां तुलामेयानां परिग्रहः । महार्घत्वेन सुवर्णरजतप्रकारत्वात् । प्रकारवचनश् चायम् आदिशब्दः । अत एव गुडादीनां धरिममेयत्वे ऽपि निवृत्तिः । अमहार्घत्वेन सुवर्णतुल्यताविरहात् । तेन लोहानाम् अपि त्रपुसीसादीनाम् असाराणां नेह ग्रहणम् । उत्तमानि च वासांसि पत्त्रो(त्रो)र्णनेत्रपटीप्रभृतीनि । तथा ।

पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥
महापशूनां हरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥

महापशवो गवादयः ।

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दघ्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
वेणुवैणवभाण्डानां लवणानां तथैव च ।
मृन्मयानां च हरणे मृदो भस्मन एव च ॥
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥
अन्येषां चैवमादीनां मद्यानाम् ओदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥
कार्षापणं भवेद् दण्डो यत्रान्यः प्राकृतो जनः ।
तत्र विप्रो भवेद् दण्ड्यः सहस्रम् इति धारणा ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥

[८४८] ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।

द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् (?) धि सः ॥

विद्वद्विषयम् इदं वाक्यम् । तद्दोषगुणविद् धि स इति हेत्वभिधानात् । तेन यः स्तेयास्तेययोर् गुणदोषाव् ऐहिकामुष्मिकौ बालादिर् न जानाति तस्य स्ते[ये] यो दण्डः सो ऽष्टगुणस् तद्विदुषः शूद्रस्य भवेति । तद् उक्तम् — अष्टापाद्यं तु शूद्रस्य किल्बिषम् इति । अष्ट दण्डा आपाद्या येन किल्बिषेण स्तेयेन तद् अष्टापाद्यम् ।

यज्ञार्थाय् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।
तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥
यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च य प्रपाम् ।
दण्डं स प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥
महापशून् स्तेनयतो दण्ड उत्तमसाहसः ।
मध्यमो मध्यमपशून् पूर्वः क्षुद्रपशौ हृते ॥
पुरुषं हरतो हस्तौ दण्ड उत्तमसाहसः ।
सर्वस्वं हरतो नारीं कन्यां तु हरतो वधः ॥
तुलाधरिममेयानां गणिमानां च सर्वशः ।
एभ्यस् तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ॥
काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ।
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥
शाकानां सार्द्रमूलानां हरणे फलपुष्पयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानां कृतान्नानां मधूनाम् आमिषस्य च ।
सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥

स्मृतिः ।

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छंस् तु गृह्णानो हस्तच्छेदनम् अर्हति ॥

शङ्खलिखितौ- “अब्राह्मणो ब्राह्मणस्य समिदाज्येध्माग्निकाष्ठतृणोलपशष्पपुष्पधूपफलान्य् अपहरेद् वलाद् अविज्ञातो वा हस्तच्छेदनम् आप्नुयात् । कुशचर्मभाण्डं करकाग्निहोत्रद्रव्याण्य् अपहारतः प्रत्यक्षो ऽङ्गच्छेदः स्याद् अप्रत्यक्षं यदा विदितो ऽयं किल्बिषीति ब्राह्मणः खरयानम् आप्नुयात् । सूत्रमौण्ड्यम् । इतरेषां खरयानम् एव” । [८४९] विष्णुः- “स्तेनाः सर्व एवापहृतं धनिकस्य दाप्यास् ततस् तेषाम् अभिहितदण्डप्रयोगः” । मनुः ।

न होढेन विना चौरं घातेयेद् धार्मिको नृपः ।
सहोढं सोपकरणं घातयेद् अविचारयन् ॥

होढं लोप्त्रम् । उपकरणं चौर्योपकरणम् । कात्यायनः ।

सहोढम् असोहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्याच्छिन्नम् आवेद्य सर्वस्वैर् विप्रयोजयेत् ॥

तत्त्वतः प्रमाणतः साहसकर्तृकतया निश्ञितं होढं विनापि साहसिको ऽयम् इति सर्वजनविदितं कृत्वा यथाविधि सर्वस्वहरणाङ्गच्छेदादिकं वधं कुर्याद् इत्य् अर्थः ।

अयःसंधानगुप्तास् तु मन्द्भक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेर् आ मृत्योर् इति कौशिकः ॥

अयःसंधानम् अयोनिगडः । मन्दभक्ता अल्पभक्ताः ।

परदेशाद् धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद् दर्व्यम् अदण्डं तं विसर्जयेत् ॥

वैदेश्यः प्रवासी ॥ २.२७५ ॥

स्तेयप्रसङ्गाद् अन्यद् अप्य् आह

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययम् ।
दत्वा चौरस्य हर्तुर् वा जानतो दम उत्तमः ॥ २.२७६ ॥

चौरो ऽयं साससिको ऽयम् इत्य् अवगच्छन्न् अपि तस्य भक्तम् अन्नम् अवकाशं निवासं पाकादिसिद्धये ऽग्निं शीतापनोदाय वा स्नानपानाद्यर्थम् उदकं मन्त्रं स्तेयहरणोपायकथनम् उपकरणं खनित्रशस्त्रादि व्ययं पाथेयादिकम् एवमादिकं चौरसाहसिकयोर् अनुकूलं कुर्वत उत्तममो दमः स्यात् । मनुर् आह ।

ग्रामेष्व् अपि च ये केचिच् चौराणां भक्तदायकाः ।
भाण्डावकाशदांश् चैव सर्वांस् तान् अपि घातयेत् ॥
अग्निदान् भक्तदांश् चैव तथा शत्रावकाशदान् ।
संनिधातॄंश् च मोषस्य हन्याच् चौरान् इवेश्वरः ॥

नारदः ।

क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च ।
**समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ [८५०]

गौतमः- “चौरसमः सचिवो मतिपूर्वं प्रतिग्रहीताप्य् अधर्मसंयुक्तात्” । अत्रैव ब्राह्मणं प्रय् आह मनुः ।

अदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥
राष्ट्रेषु राष्ट्राधिकृतान् सामन्तांश् चैव चोदितान् ।
अभ्याघातेषु मध्यस्थाञ् शिष्यांश् चौरान् इव द्रुतम् ॥
ग्रामघाते हिडाभङ्गे पथि मोषाभिदर्शने ।
शक्तितो ऽनभिदावन्तो निर्वास्याः सप्रिच्छदाः ॥

प्रक्षेत्रोप्तसस्यस्य नाशनं हिडाभङ्गः । नारदः ।

उत्क्रोशतां जनानां च ह्रियमाणे जने तथा ।
श्रुत्वा ये नाभिधावन्ति ते ऽपि तद्दोषभागिनः ॥ २.२७६ ॥
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २.२७७ ॥

शस्त्रावपातः शस्त्रघातः, परं प्रति तस्मिन् कृते गर्भपातने चोत्तमसाहसो दण्डः । दासीगर्भपातने तु पणशतस्योक्तत्वात् ततो ऽन्यद् अत्र गर्भपातनं द्रष्टव्यम् । ब्राह्मणीगर्भपातने तु,

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।

इति प्रायश्चित्तमात्रातिदेशाद् अप्राप्तो दण्डो ऽनेन विधीयत एव । पुरुषस्य स्त्रियाश् चैव वधे यथासंख्यम् उत्तमाधमौ ज्ञेयौ । अधमः प्रथमसाहसः । वाशब्दद्वयाद् दण्डान्तरम् अपि गुणाद्यपेक्षया वेदितव्यम् । उशना ।

परिक्लेशेन पूर्वः स्याद् भैषज्येन तु मध्यमः ।
प्रहारेण तु गर्भस्य पातने दम उत्तमः ॥

बौधायनः- “क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च तेषाम् एव तुल्यावकृष्टवधे गोसहस्रम् ऋषभाधिकं राज्ञ उत्सृजेत् । वैरनिर्यातनार्थं शतशतं वैश्ये, दश शूद्रे वृषभश् चात्राधिकः । शूद्रवधेन स्त्रीवधो गोवधश् च व्याख्यातौ । अन्यत्रात्रेय्या धेन्वनडुहोश् चान्ते चान्द्रायणं चरेत् । आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः” । [८५१] आत्रेयी रजस्वला । “हंसभासबर्हिणचक्रवाकबलाकाकाकोलूकनकुल-मण्डूकहिण्डिकाभेरीकश्वबभ्रुनकुलादीनां वधे शूद्रवत्” । बृहस्पतिः ।

प्रकाशघातका ये तु तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग् धनं हृत्वा हन्तव्या विविधैर् वधैः ॥
मित्रप्राप्त्यर्थलाभे वा राज्ञा लोकहितैषिणा ।
न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ॥
लोभाद् भयाद् वा यो राजा न हन्त्य् अन्याय्यकारिणः ।
तस्य प्रक्षुभ्यते राष्ट्रं राज्याच् च परिहीयते ॥
एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।
मर्मप्रहारदो यस् तु घातकः स उदाहृतः ॥
समघाती तु यस् तेषां यथोक्तं दापयेद् दमम् ।
आरम्भकृत् सहायश् च दोषभाजस् तदर्धतः ॥
क्षतस्याल्पमहत्त्वं च मर्मस्थानं यत्नतः ।
सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसादयेत् ॥

नारदः ।

अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः ।
वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥

साहसवौर्ययोर् यमः ।

न ब्राह्मणस्य शारीरो दण्डो भवति कर्हिचित् ।
गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेत् ॥
अथ वा बन्धनं रज्ज्वा कर्म वा कारयेन् नृपः ।
मासार्धमासं कुर्वीत कार्यं विज्ञाय तत्त्वतः ॥
यथापराधं विप्रं तु विकर्माण्य् अपि कारयेत् ॥ २.२७७ ॥
विप्रदुष्टां स्त्रियं भ्रूणपुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८ ॥

विविधं प्रकर्षेण दुष्टाम् एनस्विनीम्, तथा भ्रूणस्य गर्भस्य पुरुषस्य हन्त्रीम्, बहूनां लोकानाम् उपकारकस्य सेतोर् भेत्त्रीम् अगर्भिणीं स्त्रियं शिलां बद्ध्वा जले निमज्जयेत् ॥ २.२७८ ॥

[८५२]

विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रवासयेत् ॥ २.२७९ ॥

या तु मनुष्यमृत्यवे विषं ग्रामादिदाहाय चाग्निं ददाति, तथा पतिं गुरुं पितरं श्वशुरं वा निजम् अपत्यं वा हन्ति, तस्याः कर्णौ हस्तौ नासाम् ओष्ठौ च छित्त्वा तां बलीवर्दम् आरोप्य देशाद् बहिः कुर्यात् । प्रमापयेद् इति पाठे तां पादयोर् वरत्रया युगे बद्ध्वा बलीवर्दा यथाकृष्य प्रमापयन्ति तथा कुर्यात् ॥ २.२७९ ॥

घातकाविज्ञाने तत्परिज्ञानोपायम् आह ।

अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥ २.२८० ॥
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
तत्प्रदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ २.२८१ ॥

अविज्ञातेन विशेषतो न ज्ञातेन हस्तस्य पुत्रा बान्धवाश् च केनास्य कलहो भवेद् इति श्रीघ्रं प्रष्टव्याः । तथायं कस्य स्त्रियं द्रव्यं वृत्तिं वा कमयेत, तथायं केन सह च गत इति तदीयाः स्त्रियो याः पुंश्चल्यस् ताः प्रत्येकं पृच्छेत् । तथा यत्रासौ मृतस् तं प्रदेशं प्रति समासन्नं जनं पूर्वोक्तप्रकारेण शनैः पृच्छेत् । बृहस्पतिः ।

हतस् तु दृश्यते यत्र घातकश् च न दृश्यते ।
पूर्ववैरानुसारेण ज्ञातव्यः स महीभुजा ॥
प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः मासादिभिर् उपक्रमैः ॥
विज्ञेयो ऽसाधुसंसर्गाच् चिह्नहोढेन वा नरैः ।

व्यासः ।

ज्ञात्वा तु घातकं सम्यक् ससहायं सबान्धवम् ।
हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ॥

बृहस्पतिः ।

दिव्यैर् विशुद्धो मेध्यः स्याद् अशुद्धो वधम् अर्हति ।
निग्रहानुग्रहै राज्ञः कीर्तिर् धर्मश् च वर्धते ॥ २.२८०,२८१ ॥
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ २.२८२ ॥

[८५३]

क्षेत्रस्य सस्यवतो वेश्मनो महतो राजकीयादेर् वनस्यारामस्य ग्रामस्य गृहसमूहस्य विवीतस्य तृणाद्याधाराया भुवः खलस्य धान्यसाधनस्थानस्य च दाहकाः, राजपत्न्यभिगामी च, प्रत्येकम् एते कटागिना कटस्यानलेन दग्धव्याः । वीरणम्य उपवेशनार्थो द्रव्यविसेषः कटः । मनुः ।

प्राकारस्य च भेत्तारं परिखानां(णां) च पूरकम् ।
द्वाराणां चैव भेत्तारं क्षिप्रम् एव प्रमापयेत् ॥
राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥

राज्ञ इति प्रत्येकं संबध्यते । तेन दण्डेन विधीयमानेन प्रसङ्गात् साहसिकानाम् अपि वधो ऽत्रैव प्रकरणे विहितः । इति स्तेयप्रकरणम् ॥ २.२८२ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**स्तेयप्रकरणम् ॥ २३ ॥ **