२२ सम्भूय-समुत्थान-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

संभूयसमुत्तानप्रकरणम् । (२२)

संभूयसमुत्थानं नाम विवादपदम् आरभते ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा व संविदा कृतौ ॥ २.१५९ ॥

समवायो मेलकः समूह इति यावत् । तेन वणिजां वणिगादीनां लाभार्थम् अधिकधनलाभार्थं कर्म वणिज्यादि कुर्वतां लाभक्षयौ यथैव द्रव्यं मेलितं यथैव वा संवित्कृता तद् द्रव्यं परिगुणीकृतं तथैव तदनुसारेण विभाजनीयौ । नारदः ।

वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत् संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥

बृहस्पतिः ।

अशक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।
**वणियाद्याः सहैतैस् तु न कर्तव्या बुधैः क्रियाः ॥ [८३२]

आश्रयो मूलधनम् ।

कुलीनदक्षानलसैः प्राज्ञैर् नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सह क्रियाः ॥

नारदः ।

फलहेतोर् उपायेन कर्म संभूय कुर्वताम् ।
आधारभूताः प्रक्षेपा उत्तिष्ठेरंस् ततो ऽंशतः ॥

संभूय कर्म कुर्वताम् आधारभूत आश्रयभूतो मूलधनं प्रक्षेपः । ततस् तम् अवेक्ष्योत्तिष्ठेरन् पृथग्धना भवेयुः ।

समो ऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयाक्षयौ तथा वृद्धिस् तत्र तस्य तथाविधः ॥
समो न्यूनो ऽधिको वांशो येन क्षिप्तस् तथैव सः ।
दायं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥

कात्यायनः ।

समवेतास् तु ये केचिच् छिल्पिनो वणिजो ऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥

अयम् अर्थः — पित्रादिधनम् अविभज्य भ्रातृभिर् यत् फलम् अविभक्तैः प्राप्तं तत् समं विभजनीयं न विषमम् इति ।

भाण्डपिण्डव्ययोद्धारभारसारार्थवीक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समयेन व्यवस्थिताः ॥

भाण्डं विक्रेयं द्रव्यम्, पिण्डं पाथेयम् । व्यासः ।

समक्षम् असमक्षं वावञ्चयन्तः परस्परम् ।
नानापण्यानुसारेण प्रकुर्युः क्रयविक्रयौ ॥

बृहस्पतिः ।

परीक्षकाः साक्षिणश् च त एवोक्ताः परस्परम् ।
संदिग्धे ऽर्थे ऽवञ्चनीया न चेद् विद्वेषसंयुताः ॥
यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥

कात्यायनः ।

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकर् अंशैर् लाभस् तेषां तथाविधः ॥
बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।
ऋणं च कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥
ज्ञातिसंबन्धिसुहृदाम् ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥

[८३३] स्वेच्छादेयं हिरण्यं तु रसा धान्यं च सावधि ।

देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥
समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल् लाभात् स परिहीयते ॥ २.२५९ ॥
प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।
स तद् दद्याद् विप्लवाच् च रक्षिता दशमांशभाक् ॥ २.१६० ॥

संभूयकारिभिर् इदम् इत्थं च कार्यम् इति प्रिषिद्धं व्यापारम् आचरता तथानादिष्टम् अनुक्तं कर्म कुर्वता तत् समुदायमध्यवर्तिना प्रमादात् प्रज्ञापराधाद् धनं विनाशितं तत् तेनैवेतरेभ्यो देयम् । येन तु राजदैवकृताद् विप्लवाद् विनाशाद् धनं परिरक्षितं स तस्य दशमम् अंशम् अधिकं भजेत । बृहस्पतिः ।

अनिदिष्टो वार्यमाणः पर्मादाद् यस् तु नाशयेत् ।
तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥
दैवराजभयाद् यस् तु स्वशक्त्या परिपालयेत् ।
तस्यांशं दशमं दत्वा गृह्णीयुस् ते ऽंशतो ऽपरम् ॥ २.२६० ॥
अर्धप्रक्षेपनाद् विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६१ ॥

पण्यस्यार्धप्रक्षेपनान् मूल्याद् विंशतितमं भागं शुल्कसंज्ञितं राजा गृह्णीयात् । यत् तु राज्ञा नेदम् अत्र विक्रेतव्यम् इति प्रतिषिद्धविक्रयम्, यत् तु (यच् च) राजयोग्यं गजतुरंगादि अनिषिद्धविक्रयम् अपि, तद् उभयं विक्रीतम् अपि राजगामि न क्रेतृगामि । मनुः ।

शुक्लस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥

राज्ञ इत्य् अनुवृत्तौ गौतमः- “विंशतिभागः शुल्कं पण्ये मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठः । तद्रक्षणधर्मित्वात् तेषु नित्ययुक्तः स्यात्” । बौधायनः- “सामुद्रशुल्को वरं रूपम् उद्धृत्य दशपणं शतम् अन्येषाम् अपि सारानुसारेणानुपहत्य धर्मं प्रकल्पयेत्” । सामुद्रस्य पण्यस्य यद् वरं स एव शुल्कः । तद् उद्धृत्य दशकं शतं ग्राह्यम् । अन्येषाम् अपि द्रव्याणां सारानुरूपेण धर्मम् अनुपहत्य शुल्कं कल्प्यम् इत्य् अर्थः । [८३४] वसिष्ठः ।

न भिन्नकार्षापणम् अस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्ष्यलब्धे न हुतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥ इति ।

मनुः ।

राज्ञा प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात् सर्वस्वं हारयेन् नृपः ॥

विष्णुः- “राजनिषिद्धं विक्रीणतस् तदपहारः” । अस्माच् च वचनाद् गम्यते — प्रतिषिद्धं विक्रीणता पूर्वक्रेतुर् मूल्यम् अर्पणीयम्, राज्ञा च मूल्यं विनैव प्रतिषिद्धक्रयं भाण्डम् अपहार्यम् इति ॥ २.२६१ ॥

मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन् ।
दाप्यस् त्व् अष्टगुणं यश् च सव्याजक्रयविक्रयी ॥ २.२६२ ॥

पण्यविक्रयी पण्यपरिमाणं शुल्कहानये मिथ्या वदञ् शुल्कग्रहणस्थानाच् चापाक्रामन् वणिक्शुल्काद् अष्टगुणं दण्ड्यः । यश् च सव्याजौ शौल्किकप्रतारणवन्तौ क्रयविक्रयौ करोति, सो ऽपि शुल्काद् अष्टगुणं दण्ड्यः । नारदः ।

शुल्कस्थानं परिहरण्न् अकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्यो ऽष्टगुणम् अत्य्यम् ॥

अत्ययो ऽतिक्रमनिमित्तो दण्डः । बृहस्पतिः ।

शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद् यथोचितम् ।
न तद् व्यभिचरेद् राज्ञां बलिर् एष प्रकीर्तितः ॥

विष्णुः- “शुल्कस्थानम् अपक्रामन् सर्वस्वापहारम् आप्नुयात्” ॥ २.२६२ ॥

तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणः प्रतिवेष्यानाम् एतद् एवानिमन्त्रणे ॥ २.२६३ ॥

तरिको जलशुल्काधिकारी स्थलोद्भवं शुल्कं गृह्णन् राज्ञा दश पणान् दाप्यः । ब्राह्मणभोजने कार्ये प्रतिवेश्यानां समीपगृहस्वामिनां निमन्त्रणाकरणे ब्राह्मणो दश् पणान् इत्य् एव दाप्यः । जलशुल्कम् आह मनुः ।

पणं यानं तरे(रं) दाप्यः पुरुषो ऽर्धपणं तरम् ।
पादं पशुश् च योषिच् च पादार्धं द्विकरः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
**रिक्तभाण्डानि यत् किंचित् पुमांसश् चापरिच्छदाः ॥ [८३५]

अस्यार्थः — तरे(रं) जलोत्तरं यानं शिविकादिकं पणं दाप्यः(प्यम्), पुरुषश् चार्धपणं दाप्यः । पशुः पणस्य चतुर्थांशं योषिच् च दाप्यः, पुमांश् च द्विकरो रिक्तहस्तः । भाण्डैः पूर्णानि यानानि प्रत्येकं यथासारतस् तार्यं नद्यादितरणनिमित्तं शुल्कं दाप्यानि । तान्य् एव रिक्तभाण्डानि यत् किंचिद् अल्पं तार्यं नद्यादिपणनिमित्तं शुल्कं दाप्यानि, पुमांसश् चापरिच्छदा अपरिकरा दाप्याः । अत्रापवादं स एवाह ।

गर्भिणीं तु द्विमासादिस् तथा प्रव्जितो मुनिः ।
ब्राह्मणो लिङ्गिनश् चैव न दाप्यस् तारिकान् तरे ॥

तथा ।

प्रातिवेशानुवेश्यौ च कल्याणे विंशतिद्विजे ।
अर्हाव् अभोजयन् विप्रो दण्डम् अर्हति माषकम् ॥

मुनिश् चान्द्रायणादिकारी । लिङ्गिनो ब्रह्मचार्यादयः । अनुवेश्यः स्वगृहाद् गृहा(ह)द्रष्टा । विंशतिर् द्विजा यत्र कल्याणे तद् विंशतिद्विजम् । कल्याणं शोभनम् ।

श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजनम् ।
तद् अन्नं द्विगुणं दाप्यो हैरण्यं चैव माषकम् ॥

भूतिकृत्यानि बहुधनसाध्यानि ब्राह्मणभोजनादीनि मङ्गलप्रधानानि । विष्णुः- “येषां देयः पन्थास् तेषां सु (त्व्) अपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः । आसनार्हस्यासनम् अदत्वा पूजार्हम् अपूजनंश् च प्रातिवेश्यब्राह्मणातिक्रामी च निमन्त्रयित्वा भोजनादायी च निमन्त्रितस् तथेत्य् उक्तवान् अभुञ्जानः सुवर्णमाषकं निकेतयितुश् च द्विगुणम् अन्नम्” । मत्स्यपुराणे ।

निमन्त्रितो द्विजो यस् तु वर्तमानः प्रतिग्रहे ।
निष्कारणं न गच्छेत स दाप्यो ऽष्टशतं दमम् ॥ २.२६३ ॥

संभूयकारिणो मृतस्य धनाधिकारिणां क्रमम् आह ।

देशान्तरगते प्रेते धनं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस् तद् आगतास् तैर् विना नृपः ॥ २.२६४ ॥

संभूयकारिणि देशान्तरगते मृते तद्धनं दायादाः पुत्रा गृह्णीयुः । तदभावे बान्धवाः संबन्धिनः पत्नी दुहितर इत्याद्याः । तेषाम् अभावे ज्ञातयः समानोदकाः । तेषाम् अभावे संभूयकारिणस् तेन सहागताः । तदभावे नृपः । [८३६] संभूयकारिणां द्रव्याधिकारित्वप्राप्त्यर्थं वचनम् । अन्यैस् तु पत्नी दुहितर इत्याद्युक्तम् अनूद्यते । नारदः ।

एकस्य चेत् स्याद् व्यसनं दायादो ऽस्य तदाप्नुयात् ।
अन्यो वासति दायादे सक्तश् चेत् सर्व एव वा ॥

व्य्सनं मरणम्, सक्तः संबद्धः, सर्वे संभूयकारिणः ।

कश्चिच् चेत् संचरन् देशान् प्रेयाद् अभ्यागतो वणिक् ।
राजास्य भाण्डं तद् रक्षेद् यावद् दायाददर्शनम् ॥
दायादे ऽसति बन्धुभ्यो ज्ञातिभ्यो वा तद् अर्पयेत् ।
तदभावे स्वगुप्तं तद् धारयेद् दश वत्सरान् ॥
अस्वामिकम् अदायादं दशवर्षस्थितं धनम् ।
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥

दायादः पुत्रः । बृहस्पतिः ।

एकक्रियाप्रवृत्तानां यदा कश्चिद् विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥ २.१६४ ॥
जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् ।

संभूयकारिणां यो जिह्मः कुटिलः प्रातिस्विककर्मकारीति यावत् । तम् इतरे निर्लाभं लाभरहितं कृत्वा त्यजेयुः पेटकाद् बहिः कुर्युः । यदि पुनर् न जैह्म्यात् कर्म न करोति किं त्व् अशक्तेस् तदान्येन तत् कारयेत् ॥

उक्तम् अर्थम् ऋत्विगादिष्व् अतिदिशन्न् आह ।

अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २.२६५ ॥

अनेन विणिजां धर्मेण ऋत्विगादीनां धर्मविधिर् आख्यातो वेदितव्यः । ततश् च वृतेनर्त्विजा व्याध्यादिवशात् कर्म कर्तुम् अशक्तेनान्येन तत् कारयितव्यम् । शाठ्याच् चेन् न करोति त्याज्य एव । तद् आह वसिष्ठः- “ऋत्विगाचार्याव् अयाजकानध्यापकौ हेयाव् अन्यत्र हानात् पतति” । नारदः ।

ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत्कर्म निर्हरेत् ।
लभेत दक्षिणाभागं स तस्मात् संप्रकल्पितम् ॥

मनुः ।

ऋत्वग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देवो ऽंशः सह कर्तृभिः ॥

[८३७] दक्षिणासु च दत्तासु स्वकर्म परिहापयेत् ।

कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥
सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽर्धिनः ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥

सर्वम् एव कर्म कुर्युश् चेद् ऋत्विजस् तदाशेषम् अंशं यजमानाद् आदद्युः । तत्र सर्वेषाम् ऋत्विजां मध्ये ये मुख्याश् च महर्त्विजो होतृब्रह्माध्वर्यूद्गातार इषन्न्यूनार्धग्रहणे ऽपि सामीप्यतस् ते ऽर्धिनो दक्षिणार्धस्वामिनः । ये त्व् अर्धिना द्वितीयिनो ब्राह्मणाच्छंसिप्रशास्तृप्रस्तोतृप्रतिप्रस्थातारस् ते ऽर्धिनो महर्त्विग्भागार्धिनः कार्याः । ये तृतीयांशिन आग्नीध्राच्छावार्ध(क)प्रतिहर्तृनेष्टारस् ते महर्त्विग्दक्षिणायास् तृतीयम् अंशं लभन्ते । ये तु पादिनश् चतुर्थांशिनो ग्रावस्तुत्पोतासुब्रण्योन्नेतारो महर्त्विग्दक्षिणायाश् चतुर्थम् अंशं लभन्त इति ।

यस्य कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव वा ॥

अङ्गम् अङ्गं प्रति ऋत्विग्विशेषसंबन्धेन समाम्नाता दक्षिणास् ताः किम् एकैकेन ग्राह्या यत् संबन्धेन समाम्नाताः । यथाभिषेचनीये हिरण्यप्राकाशाव् अध्वर्यवे ददातीति तेनैवाध्वर्युणा ग्रहीतव्या उताध्वर्युर् द्वारमात्रम्, सर्वे विभज्य गृह्णीरन्न् इति संशयः । मनुबृहस्पती ।

रथं हरेद् अथाध्वर्युर् ब्रह्माधाने च वाजिनम् ।
होता चापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥

पूर्वोक्तसंशये ऽयं निर्णयः — केषांचिच् छाखिनाम् आधाने ऽध्वर्यवे रथ आम्नायते, ब्रह्मणे वेगवान् अश्वः । होत्रे चाश्व उद्गात्रे सोमक्रये सोमवहनं शकटम् एवं व्यवस्थायां ददातिर् मुख्यार्थो भवति । पुरुषसंयोगश् च नादृष्टो भवति । यद् उक्तं मनुना,

ऋत्विजं यस् त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥

इति, तत् क्रमागतेषु स्वयंवृत्तेषु ऋत्विक्षु द्रष्टव्यम् । शङ्खलिखितौ- “अथर्त्विजि वृते पश्चाद् अन्यं वृणुयात् पूर्ववृत्तस्यैव दक्षिणायाः पश्चाद् आहृतः किंचिल् लभते प्रवसेच् चेत् कालं निमित्तं चावेक्षमाणस् तं कालम् अपेक्षेत नान्तरा यजेत् । स्याड् आत्ययिको वा तं क्रतुं संपादयेत् । प्रोष्य प्रत्यागतश् च किंचिल् लभेत । [८३८] अथ चेत् प्रतिषिद्धः प्रवसेत् कामाद् अनुप्राप्तः सवने स ऋत्विक् शतं दण्ड्यः स एव चादुष्टस् तस्य ऋत्विक् कुलोपाध्यायः । एवं व्याधितपतितोन्मत्तप्रहीणप्रध्वस्तेष्व् असंप्रदानकरणम् ऋत्विक्षु । कामाच् चेद् अपतितं याज्यं त्यजेद् ऋत्विक् प्राप्नुयाद् द्विशतं दण्डम्, याज्यश् चेत् त्यजेत् तद् एवाप्नुयात् । त्याग ऋत्विजो ऽपतितस्य । कामपतितम् अश्रोत्रियं त्यजेत् । याज्यं चाभिशस्तम् अदातारम्” । कालं प्रक्षमासादि । निमित्तं विवाहादि । स्याद् आत्ययिक इति, अत्यय एवात्ययिकः । तेन यदि तत्परीक्षणे यज्ञात्ययो यज्ञबाधः संभाव्यते, तदा ऋत्विगन्तरेण तं यज्ञं निष्पादयेद् इत्य् अर्थः । प्रहीणो ऽभिशापादिना त्यक्तः । प्रध्वस्तो ऽतिवृद्धः । बृहस्पतिः ।

प्रयोगः पूर्वम् आख्यातः समासेनोदितो ऽधुना ।
श्रूयतां कर्षकादीनां विधानम् इदम् उच्यते ॥

प्रयोग ऋत्विगादिधनप्रयोगः ।

बाह्यकर्षकबीजाद्यैः क्षेत्रापकरणेन च ।
ये समानास् तु तैः सार्धं कृषिः कार्या विजानता ॥
बाह्यबीजात्ययाद् यत्र क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥
एष धर्मः समाख्यातः कीनाशानां पुरातनः ।
हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ॥
संस्कर्ता तु कलाभिज्ञः शिल्पी चोक्तो मनीषिभिः ।
हेमकारादयो यत्र शिल्पं संभूय कुर्वते ॥
कर्मानुरूपं निर्वेशं लभेतंस् ते यथांशतः ॥

कीनाशाः कृषीवलाः । कात्यायनः ।

शिक्षकाभिज्ञकुशला आचार्यश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥

बृहस्पतिः ।

हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशम् अर्हति ॥

[८३९] नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।

तालज्ञो लभते ऽध्यर्धं गायनास् तु समांशिनः ॥
स्वाम्याज्ञया तु यश् चौरैः परदेशात् समाहृतम् ।
राज्ञे दत्वा तु षड्भागं भजेयुस् ते यथांशतः ।
चतुरो ऽंशांस् ततो मुख्यः शूरस् त्र्यंशं समाप्नुयात् ॥
समर्थस् तु हरेद् द्व्यंशं शेषाः सर्वे समांशिनः ॥ २.२६५ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**संभूयसमुत्थानप्रकरणम् ॥ २२ ॥ **