२१ विक्रीयासम्प्रदान-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

विक्रीयासंप्रदानप्रकरणम् । (२१)

संप्रति विक्रीयासंप्रदानं नाम विवादपदम् आरभते । तत्स्वरूपम् आह नारदः ।

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥

पण्यविक्रयार्थं मूल्यं पण्यं च न ददातीति विवादपदम् अनेनोक्तम् । तथा ।

लोके ऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥

गणिमं पूगादि, तुलिमं हिरण्यादि, मेयं व्रीह्यादि, क्रियया दोहनवाहनादिकया च गवाश्वादि, रूपतः पण्याङ्गनादि, श्रिया धनेन ग्रामारामादि श्रिया कान्त्या वा रत्नादि ।

तत्र मूल्यं गृहीत्वा पण्यम् अनर्पयतो दण्डम् आह ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते ॥ २.२५४ ॥

यस्य पण्यस्य मूल्यं विक्रेत्रा गृहीतं तद् गृहीतमूल्यं तद् यो विक्रेता क्रेतुर् न समर्पयति स तत् पण्यं तन्निबन्धनेन सोदयम् उदयेन धनलाभेन सहितं क्रेतुर् अर्पयेत् । यदि पुनर् विक्रेतुं दिगन्तरे पण्यं नीतं तदा तत्र दिगन्तरे तस्य विक्रीतस्य् पण्यस्य यो लाभो भवति, तेन सहितं तत् तस्य देयम् । न(स) चोपचय उच्यते । अत्रोदयो [न] दिग्लाभरूपः । किं तु सर्वा मूल्यस्य वृद्धिः । पण्यस्य च तत्कालविक्रये यो लाभस् तेनोभयेन सहितं पण्यं देयम् । विक्रीयानुशयाभावे [८२९] पण्यम् अप्रयच्छत एतत् । अनुशयवशाद् अप्रयच्छति (*तु विवादान्तरम् । नारदः ।

विक्रीय पण्यं मूलेन क्रेतुर् यन् न प्रयच्छति ।)
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥
अर्घश् चेद् अपचीयेत सोदयं पण्यम् आवहेत् ।
स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥

स्थावरस्य क्षयम् इति स्थावरविषयम्, क्रेतुर् उपभोगक्षयं दाप्य इत्य् अर्थः । क्रिया भारवाहनादिका । फलं क्षीरादि । विष्नुः- “गृहीतमूल्यं यः पण्यं क्रेतुर् नैव दद्यात् तस्यासौ सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” । नारदः ।

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥ २.२५४ ॥
विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ २.२५५ ॥

यदा तु मूल्यं दत्वा पण्यं न गृह्णाति तदा विक्रेत्रा तद् अन्यत्र विक्रेयम् । यदि तन् नश्यति तदा क्रेतुर् एव तन् नश्यति । तस्य मूल्यं न प्रत्यर्पणीयम् इत्य् अर्थः । नारदः ।

दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
स एवास्य भवेद् दोषो विक्रेतुर् यो ऽप्रयच्छतः ॥

विक्रेतुर् दोषः “उपहन्येत वा पण्यम्” इत्याद्य् उक्तः ॥ २.२५५ ॥

उक्तस्यापवदम् आह

राजदैवोपघातेन पण्यदोष उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ २.२५६ ॥

यदा तु ग्राहकेण याचितो ऽपि गृहीतमूल्यं पण्यं दायको न ददाति, तदा तद्विनाशो राजदैवादिकृतो दायकस्यैव । ततश् च तेन ग्राहकस्य तुष्टये पण्यानत्रं मूल्यं वा प्रत्यर्पणीयम् ॥ २.२५६ ॥

[८३०]

अन्यहस्ते च विक्रीतं दुष्टं वादुष्टवद् यदि ।
विक्रीणीते दमस् तत्र मूल्याच् च द्विगुणो भवेत् ॥ २.२५७ ॥

येन विक्रेत्रा पण्यम् एकत्र विक्रीतं तद् एव पण्यं तेनैव दयकेनान्यहस्ते विक्रीतम् अन्यस्य विक्रीतम् इति यावत् । तथा यः पण्यं सदोषं जानन्न् अपि निर्दोषम् इव दोषान् प्रच्छाद्य विक्रीणीते, तस्य विक्रेतुर् मूल्याद् द्विगुणो दमो भवति । चकाराद् द्विगुणम् एव मूल्यं क्रेतुः प्रत्यर्पणीयम् । नारदः ।

अन्यहस्ते तु विक्रीतं यो ऽन्यस्मै तत् प्रयच्छति ।
द्रव्यं तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ॥

इति दत्ताप्रदानिकं नाम ॥ २.२५७ ॥

क्रयकर्तुर् अनुशयं प्रति किंचिद् आह

क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२५८ ॥

[इति विक्रीयासंप्रदानप्रकरणम् ॥ २१ ॥]

क्रीतस्य पण्यस्य यन् मूल्यं तदीयक्xअयवृद्धी सम्यग् अपरिभावयता क्रीत्वा नानुशयः पश्चात्तापः कार्यः । क्षयवृद्धिज्ञस् तु सद्य एवानुशयीत । नारदः ।

क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आहरेत् ।
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥

एतच् चापरीक्षितपण्यविषयम् । यद् आह स एव ।

क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्षाभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥

परीक्षाकालश् चोक्तः — “दशैकसप्तपञ्चाह” इत्यादिना । एवं च सत्य् उक्तकालायां परीक्षायां सत्याम् अनुशयकर्तुर् मूल्यस्य षष्ठो ऽंशो दण्डः । (*अकृतायाम् अपि सत्याम् अनुशयकर्तुअः स एव मूल्यस्य षष्ठो ऽंशो दण्डः।) यदा पुनर् अदुष्टं पण्यं क्रीत्वानुशयकाल एव क्रेता सानुशयो भवति तत्राह कात्यायनः ।

[८३१] क्रीत्वा सानुशयात् पण्यं त्यजेद् दोह्यादि यो नरः ।

अदुष्टम् एव काले तु स मूल्याद् दशमं वहेत् ॥
क्रीत्वा गच्छन्न् अनुशयं क्रये हस्तम् उपागते ।
षड्भागं तत्र मूल्यस्य दत्वा क्रीतं त्यजेद् भृगुः ॥

अनुशयकालाद् ऊर्ध्वम् एतत् । बृहस्पतिः ।

परीक्षेत स्वयं पण्यम् अन्येषां च प्रदर्शयेत् ।
परीक्षितं बहु मतं गृहीत्वा न पुनस् त्यजेत् ॥

मनुः ।

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहे तद् द्रव्यं दद्याच् चैवाददीत वा ॥
परेण तु दशाहस्य न दद्यान् न च दापयेत् ।
आददानो ददच् चैव राज्ञा दाप्यः शतानि षट् ॥

इति क्रयविक्रयानुशयप्रकरणम् ॥ २.२५८ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**विक्रीयासंप्रदानप्रकरणम् ॥ २१ ॥ **