२० साहस-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

साहसप्रकरणम् । (२०)

साहसं प्रत्य् आह

सामान्यद्रव्यप्रसभहरणं साहसं स्मृतम् ।

सामान्यस्यानेकेषां भ्रात्रादीनां मध्यमकस्य धनस्य प्रसभं स्वामिसमक्षं तान् अवगणय्य हठाद् अपहरणं साहसम् । एतच् च न साहसस्य लक्षणं किं तूपलक्षणम् । तल्लक्षणं त्व् आह नारदः ।

साहसात् क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥
मनुष्यमारणं चौर्यं परदाराभिमर्शणम् ।
पारुष्यम् उभयं चेति साहसं पञ्चधा स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदाराभिमर्शणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥

[७२०] नाशः पश्वन्नयानानां गृहोपकरणस्य च ।

एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥

बृहस्पतिः ।

हीनमध्यमोत्तमत्वेन त्रिविधं तत् प्रकीर्तितिअम् ।
द्रव्यापेक्षो दमश् चात्र प्रथमो मध्य उत्तमः ॥

मध्यमकधनापहारे दण्डम् आह ।

तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३० ॥

अपहृतद्रव्यमूल्यम् अपेक्ष्य द्विगुणो ऽपहर्तुर् दमः । अपहारापह्नवे ऽपलापे तु कृते तन्मूल्याच् चतुर्गुणः । बृहस्पतिः ।

क्षेत्रोपकरणं सेतुं मूलपुष्पफलानि च ।
विनाशयन् हरन् दण्ड्यः शतोद्यम् अनुरूपतः ॥
पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयंश् चौरवद् दाप्यो द्विशतोद्यं दमं तथा ॥
स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा ।
कौशेयं चोत्तमद्रव्यम् एषां मूल्यसमो दमः ॥
द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता वा घातनीयः स्यात् प्रसङ्गविनिवृत्तये ॥

नारदः ।

तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
उत्तमे साहसे दण्डः सहस्रावर इष्यते ।
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ॥
तदङ्गछेद इत्य् उक्तो दण्ड उत्तमसाहसे ।
स्यातां संव्यवहार्यौ द्वौ धृतदण्डौ तु पूर्वकौ ॥
घृतदण्डो ऽप्य् असंभाष्यो ज्ञेय उत्तमसाहसे ॥

मनुः ।

द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥
चर्म चार्मिकभाण्डेषु काष्ठलोष्टमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥

कात्यायनः ।

क्षतं भङ्गोपमर्दौ च कुर्याद् द्रव्येषु यो नरः ।
प्राप्नुयात् साहसं पूर्वं द्रव्यभाक् स्वाम्य् उदाहृतः ॥ २.२३० ॥

[८२१]

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ २.२३१ ॥

साहसकर्तुर् यो दण्ड उक्तः स तत्प्रयोजयितुर् द्विगुणः । यस् तु मदीयं साहसं भवान् कुरुते तदैवाहं धनं भवते दास्यामीत्य् उक्त्वा कारयति तस्य चतुर्गुणो दण्डः । कात्यायनः ।

आरम्भकृत् सहायश् च तथा मार्गानुदेशकः ।
आश्रयशस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तस्य दोषवक्त्रनुमोदकः ॥
अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।
यथाशक्त्य् अनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥ २.२३१ ॥
अर्घ्याक्रोषातिक्रमकृद् भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३२ ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥ २.२३३ ॥

अर्घ्याणां पूज्यानाम् अप्रियोक्तिपरिभवयोः कर्ता, भ्रातृभार्यायास् ताडयिता, प्रतिश्रुतस्याप्रदाता, मुद्रावतो गृहस्य भेत्ता, सामन्तानां समीपगृहक्षेत्रादिस्वामिनां कुलिकानां कुलोद्गतानाम् अन्येषां च साधूनाम् अपकर्ता, इत्य् एतेषां प्रत्येकं पञ्चाशत्पणिको दण्डः शास्त्रेषु विनिश्चितः । मनुः ।

अभक्ष्यम् अथ वापेयं वैश्यादीन् भक्षयन् द्विजान् ।
जघन्यमध्यमोत्कृष्टदण्डान् अर्हेद् यथाक्रमम् ॥
पणाः शूद्रे भवेद् दण्डश् चतुष्पञ्चाशद् एव तु ।
ग्रसितारः स्वयं कार्या राज्ञा निर्विषयास् तु ते ॥

विष्णुः- “जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता निर्वास्यः” । मनुः ।

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
मूलकर्मणि विद्वेषे कृत्यासु विविधासु च ॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा ।
मणीनाम् अपवेधे तु दण्डः प्रथमसाहसः ॥

[८२२] यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।

तं राजा निर्धनं कृत्वा क्षिप्रम् एव विवासयेत् ॥

तथा ।

संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।
प्रतिकुर्याच् च तत् सर्वं पञ्च दद्याच् छतानि च ॥

कात्यायनः ।

हरेद् भिन्द्याद् दहेद् वापि देवानां प्रतिमा यदि ।
तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥

विष्णुः- “अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकास् चोत्तम साहसं दण्डनीयः” । नारदः ।

अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनर् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥

यमः ।

यस् तु पूर्वनिषिद्धस्य तडाकस्योदकं हरेत् ।
आगमं चाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥
तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा ।
तद् वापि प्रतिसंस्कुर्याद् दद्याद् वोत्तमसाहसम् ॥

अत्र वधः शूद्रादेः । दण्डान्तरं द्विजातेः ॥ २.२३२, २३३ ॥

स्वच्छन्दविधवागामी विक्रुष्टे ऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशन् ॥ २.२३४ ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ २.२३५ ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.३३६ ॥
पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २.२३७ ॥

स्वच्छन्देन स्वेच्छया न शास्त्रवशाद् विधवागामी, चौरादिभिर् अभिभूयमानेन जनेन विक्रुष्टेन धावत धावतेत्यार्तस्वने कृते विक्रोष्टारं प्रत्य् अनभिधावकः, अकारणे चौराद्युपद्रवविरहे ऽपि विक्रोष्टा, उत्तमान् द्विजातीन् बुद्धिपूर्वं चण्डालः स्पृशन्, शूद्राणां प्रव्रजितानां देवान् पितॄन् वोद्दिश्य भोजयिता, अयुक्तम् अनर्हं कोशपानादिकं ब्राह्मणो ऽपि कुर्वन्, अयोग्यो ऽनुपनीतो ऽकृतपायश्चित्तो वा [८२३] यद् योग्यस्योपनीतादेः कर्म कुर्वन्, वृषस्योक्ष्णः क्षुद्रपशूनाम् अजाविकादीनां च पुंस्त्वप्रतिघातं वृषणमर्दनेन करोति, साधारणं स्वस्यान्यस्य च यद् द्रव्यं तस्यापलापी, दास्या गर्भस्य नाशकः, पित्रादीनाम् अपतितानाम् अन्योन्यत्यागी च, शतसंख्याकपणदण्डभाक् । शङ्खलिखितौ- “अत्याज्या माता तथा पिता सपिण्डा गुणवन्तः सर्वे वात्याज्या यस् त्यजेत् कामाद् अपतितान् स दण्डं प्राप्नुयाद् द्विगुणं शतम् । न मातापितराव् अतिक्रामेन् न गुरुं त्रयाणां व्यतिक्रमाद् अङ्गच्छेदः” । गुरुर् अत्राचार्यो न पिता, तस्य पृथगुपादानात् । येनाङ्गेनातिक्रामेत् तस्य छेद इत्य् अर्थः । मनुः ।

न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान् राज्ञा दाप्यः शतानि षट् ॥

समुच्चितानां त्याग एतत् । इति साहसप्रकरणम् ॥ २.२३४, २३५, २३६, २३७ ॥

वसानस् त्रीन् पणान् दाप्यो नेजकस् तु परांसुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २.२३८ ॥

रजको यदि परकीयं वासः प्रक्षालनाय नीतं स्वयं वस्ते प्रैधत्ते तदा त्रीन् पणान् दाप्यः । अथ तस्यैव वाससो विक्र्यादिकं करोति तदा दश पणान् दाप्यः । अवक्रयो भाटकेन दानम् । आधानम् उत्त्मर्णं प्रत्य् आधित्वेन दानम् । याचितं याचितकम् । मनुः ।

शाल्मले फलके श्लक्ष्णे निज्याद् वासांसि नेजकः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥

वासोभिर् बद्ध्वा वासांसि न नयेत् । न वासयेत् स्वगृहे न स्थापयेद् इत्य् अर्थः । धनम् आदायाच्छादनार्थं न दद्याद् इति वार्थः ॥ २.२३८ ॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे तु तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ २.२३९ ॥

पितापुत्रयोर् विरोधे वादे तोयोर् विप्रपतिपत्तेर् निराससमर्था अपि ताम् अनिरस्य साक्षिणो ये भवन्ति तेषां त्रिपणो दमः । यस् तु तयोर् अन्तरे प्रतिभूत्वे जितधनादानाय तिष्ठे तस्य त्रिपणाद् अष्टगुणो दण्डः । [८२४] विष्णुः- “पितृपुत्रविरोधसाक्षिणां दशपणो दण्डः । यस् तयोर् अन्तरे तस्योत्तमसाहसः” । निर्बन्धातिशय एतत् । शङ्खलिखितौ- “पित्रापुत्रयोर् विरोधे साक्षी न तिष्ठेत् । यस् तिष्ठेत् स दण्ड्यस् त्रीन् कार्षापणान् यश् चान्तरे तिष्ठेत् सो ऽप्य् अष्टशतं दाप्यः” । मध्यमापराधविषयम् एतत् ॥ २.२३९ ॥

तुलाशासनमानानां कूटकृन् नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ २.२४० ॥

तुलादीनां कृटकृत्, तथा कृटैश् च तुलादिभिर् ज्ञानपूर्वं यो व्यवहरति, स उत्तमसाहसं दाप्यः । धरिममेयानां मानदण्डस् तुला । शासनम् “दत्वा भूमिं निबन्धं च” इत्य् अत्रोक्तम् । एतच् चोपलक्षणार्थम् । मानं कुडवादि । नाणकं द्रम्मादि ॥ २.२४० ॥

अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ २.२४१ ॥

यो नाणकस्य द्रम्मादेः परीक्षया जीवति स चेद् अकूटं समीचीनम् असमीचीनम् इति ब्रूयात् कूटं चाकूटम् इति । तदैव स उत्तमसाहसं दण्ड्यः । एतच् च तत्त्ववेदिनो रागद्वेषादिवशाद् अन्यथा ब्रुवतो दमविधानम् ॥ २.२४१ ॥

बिषङ् मिथ्याचरन् दाप्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजमानुषे तूत्तमं दमम् ॥ २.२४२ ॥

तिर्यक्षु गवादिषु मिथ्याचिकित्साचरन् वैद्यः प्रथमसाहसं दण्डं दाप्यः । मानुषे मध्यमसाहसम्, राजसंबन्धिमानुषे तु पुनर् उत्तमसाहसं दाप्यः । अयथाशास्त्रं मिथ्या । व्यासः ।

भिषजो द्रवभेदेन क्लेशयन्ति चिरं नरान् ।
व्याधिप्रकोपं कृत्वा तु धनं गृह्णन्ति चातुरात् ॥

बृहस्पतिः ।

अजानन्न् औषधं तन्त्रं यश् च व्याधेर् अतन्त्रवित् ।
रोगिभ्यो ऽर्थम् उपादत्ते स दण्ड्यश् चौरवद् भिषक् ॥

तन्त्रं शास्त्रम् । विष्णुः- “उत्तमं साहसं दण्डनीयो भिषङ् मिथ्याचरन्न् उत्तमेषु पुरुषेषु मध्यमं मध्यमेषु तिर्यक्षु प्रथमम्” ॥ २.२४२ ॥

अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ २.२४३ ॥

[८२५]

अबन्ध्यं बन्धनानर्हम् अदोषं यो दर्पाद् बध्नाति, राज्ञा बद्धं निगडितं यो दर्पात् प्रमुञ्चति, यश् चाप्राप्तव्यवहारं वादिनं मुञ्चति, स उत्तमसाहसं दाप्यः । विष्णुः ।

दण्डम् उन्मोचयन् दण्ड्याद् द्विगुणं दण्डम् आवहेत् ।
नियुक्तश् चाप्य् अदण्ड्यानां दण्डकारी नराधमः ॥

यो दण्ड्यदण्डने राज्ञा नियुक्तः स दण्ड्याद् दण्डं मुञ्चति अदण्ड्यं च दण्डयति, तस्य द्विगुणो दण्डः ॥ २.२४३ ॥

मानेन तुलया वापि यो ऽंशम् अष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४ ॥

यो मानेन कुडवादिना तुलया वा पण्यस्य क्रयविक्रये वाष्टमम् अंशम् अपहरेत् स पणशतद्वयं दाप्यः । अष्टमाद् अंशाद् वृद्धाव् अधिके हावाव् अल्पे ऽपहृते तदनुसारेण कल्पितं दण्डं दाप्यः । मनुः ।

समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ऽपि वा ।
स प्राप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ॥
अबीजविक्रयी यश् च बीजोत्क्रष्टा तथैव च ॥

समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टविषयद्रव्यदानेन यो व्यवहरत्य् असौ पूर्वसाहसं प्राप्नोति । समे च द्रव्ये बह्व् अल्पं च मूल्यम् आददानो मध्यमसाहसम् इत्य् अर्थः । अबीजविक्रयी अजीजं बीजत्वेन यो विक्रीणाति । बीजोत्क्रष्टा, उप्तं बीजं य उत्खननेन गृह्णाति । तथा ।

मर्यादाभेदनाच् चैव विकृतं प्राप्नुयाद् दमम् ।

तथा ।

तुलामानं प्रतीमानं सर्वं तत् स्यात् सुरक्षितम् ।
षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥

बृहस्पतिः ।

प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी ।
पण्ये तद्द्विगुणं दाप्यो वणिग् दण्डं च तत्समम् ॥ २.२४४ ॥
भेषजस्नेहलवणगन्धदान्यगुडादिषु ।
पण्येषु हीनं क्षिपतः पणा दण्डस् तु षोडश ॥ २.२४५ ॥

भेषजादिषु पण्येषु हीनम् अल्पमूल्यं पण्यं क्षिपतो विक्षिपतो निश्चयतः षोडशपणो दण्डः । भेषजम् औषधम् ॥ २.२४५ ॥

[८२६]

मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रये ऽष्टगुणो दमः ॥ २.२४६ ॥

मृदादीनां मध्ये किंचिद् अनुत्कृष्टजातीयम् अपि तदुत्कृष्टजातीयद्रव्यसादृश्यम् आपाद्य क्रेतारं प्रति समीचीनम् एतद् इति भ्रान्त्यापादनेनासमीचीनं द्रव्यं दत्वा यः समीचीनद्रव्यमूल्यम् आदत्ते, तस्य तत एव मूल्याद् अष्टगुणो दण्डः । यथा मृदः कस्तूरिकया कस्तूरिकाभ्रान्तिकरणेनाधिकमूल्यापादानम् । एवं चर्मादिष्व् अपि संभवति । वल्कलं वृक्षत्वक् । बृहस्पतिः ।

अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान् वञ्चयन्ति दण्ड्यास् ते ऽर्थानुरूपतः ॥
हेममुक्ताप्रवालाद्यं कृत्रिमं कुर्वते तु ये ।
क्रेत्रे मूल्यं प्रदाप्यास् ते राज्ञा तद्द्विगुणं दमम् ॥ २.२४६ ॥
समुद्रपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२४७ ॥
भिन्ने पणे तु पञ्चाशत् पणे तु शतम् उच्यते ।
द्विपणे द्विशतो दण्डो मूलवृद्धौ तो वृद्धिमान् ॥ २.२४८ ॥

मुद्रया द्वारबन्धेन सह वर्तत इति समुद्रम् । तदन्यत् समीचीनं प्रदर्श्यान्यत् ततो ऽप्रकृष्टं क्रेत्रे चोत्तमर्णाय वा कौशलेन भ्रान्ति जनयन्न् अर्पयति । यश् चासारम् अल्पमूल्यं मृदादिकं सारभाण्डतया कस्तूरिकादिमहार्घपण्यतया परं प्रत्याधान्कृते नयति विक्रीणीते वा तस्य दण्डकल्पनोच्यते । भिन्ने पणे पणाद् अल्पमूल्ये द्रव्य आहिते विक्रीते वा पञ्चाशत्पणो दण्डः । पणमूल्ये तु पणशतम् । द्विगुणमूल्ये तु द्वे पणशते । इत्थं यावन्तः पणा मूल्यस्य वर्धन्ते तावन्ति पणशतानि दण्डे वर्धनीयानि ॥ २.२४७, २४८ ॥

संभूय कुर्वताम् अर्थं संबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासे वृद्धौ वा साहस्रो दण्ड उच्यते ॥ २.२४९ ॥

पण्यानां राजकृतम् अर्घं विदित्वा ततो ऽन्यथाभूतम् अर्घं वाणिज्याजीविनां कारुशिल्पिप्रभृतिजनस्य संबाधं पीडाकरं कुर्वतां राजकृतार्घापेक्षयार्घस्य ह्रासे वृद्धौ वा पणसहस्रपरिमितो दण्डः कार्यः ॥ २.२४९ ॥

[८२७]

संभूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् ।
विक्रीणताम् अभिहितो दण्ड उत्तमसाहसः ॥ २.२५० ॥

राजनिर्मितम् अर्घम् अगणयित्वा स्वयं कल्पितेन महतार्घेण वणिजां मिलितानां वणिगन्तरैर् आहृतं पण्यम् उपरुन्धतां विरुद्धं विक्रयं कुर्वताम्, तथा राजकृताद् अर्घाद् विहीनार्घापादनेन स्वकीयस्य पण्यस्य निर्गमं कुर्वताम् उत्तमसाहसो दण्डः । मनुः ।

राज्ञः प्रक्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निक्षिपतो लोभात् सर्वहारं हरेन् नृपः ॥ २.२५० ॥

येनार्घ्येण व्यवहारो वणिग्भिः कार्यस् तम् आह

राजभिः स्थापितो यो ऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निस्रवस् तस्माद् वणिजां लाभकः स्मृतः ॥ २.२५१ ॥

राजभिर् यो ऽर्घः स्थापितो निर्मितस् तेन वणिग्भिः प्रत्यहं विक्रयः क्रयश् च कार्यः । तस्माद् अर्घाद् यो निस्रवो द्रव्योत्कर्षः स एव वणिजां प्रशस्तो लाभः । नान्यथा । मनुः ।

आगमं निगमं स्थानं तथा वृद्धिक्षयाव् उभौ ।
विचार्य सर्वं पण्यानां कारयेत् क्रयविक्रयौ ॥
पञ्चरात्रे सप्तरात्रे पक्षे मासे तथा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्थसंस्थापनं नृपः ॥ २.२५१ ॥
स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेशे तु यः सद्यः क्रयविक्रयी ॥ २.२५२ ॥

यः क्रयादिन एव पण्यं वणिग् विक्रीणीते स स्वदेशागते पण्ये पञ्चकं देशान्तराद् आगते तु दशकं शतं गृह्णीयात् ॥ २.२५२ ॥

क्रयदिनाद् दिनान्तरविक्रयविषयम् आह ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घो ऽनुग्राहकः कार्यः क्रेतुर् विक्रेतुर् एव च ॥ २.२५३ ॥

[इति साहसप्रकरणम् ॥ २० ॥]

स्वदेशपरदेशाद् आगतस्य पण्यस्योपरि तत्प्रतिबद्धो व्ययः संस्थाप्यः, [८२८] पण्येनैव तन्निबन्धनं सकलं व्ययं परिशोध्य क्रेतुर् विक्रेतुश् च तुल्यानुग्रहहेतुर् अर्धो राज्ञा परिकल्पनीयः ॥ २.२५३ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**साहसप्रकरणम् ॥ १२ ॥ **