१९ दण्ड-पारुष्य-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

दण्डपारुष्यप्रकरणम् । (१९)

अथ दण्डपारुष्यनिमित्ते दण्डविधिः । दण्डपारुष्यं नाम शरीरस्य ताडनेनामेध्यसंयोजनेन ताडनार्थम् अवगूरणेन वा परस्य दुःखोत्पादनम् । तद् आह नारदः ।

परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
तस्माद् एभिश् चोपघाते दण्डपारुष्यम् उच्यते ॥

तथा ।

तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।
अवगूरणनिःसङ्गपातक्षतजदर्शनैः ॥
हीनमध्योत्तमानां तु वर्णानां समतिक्रमात् ॥

बृहस्पतिः ।

हस्तपाषाणलगुडैर् भस्मकर्दमपांसुभिः ।
आयुधैश् च प्रहरणैर् दण्डपारुष्यम् उच्यते ॥

तत्रापराधसदसद्भावसंदेहे निर्णयहेतूंस् तावद् आह ।

असाक्षिके हते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् ऋते ॥ २.२१२ ॥

असाक्षिके देशे ऽहम् अनेन हत इति केनचिद् राज्ञे निवेदिते राज्ञा सभ्यैश् च द्वेषादिकृतमिथ्याचिह्नं वर्जयित्वान्यैश् चिह्नैर् युक्तिभिर् आगमेनाप्तवाक्येन चकाराद् दिव्यैश् च विवादो ऽयं वादी साधुर् अय्म असाधुर् अयम् इति विचार्य निर्णेतव्यः । चिह्नं क्षतादि । युक्तिभिर् हन्तृहन्तव्ययोः संनिधानं द्वेषहेतुसंभव इत्यादिभिः । आगम आप्तवाक्यम् । केचिद् पठन्ति — “कूटचिह्नकृताद् भयात्” इति । तस्यार्थः — न व्रणादिदर्शनमात्रेण विना विचारं निर्णयः कर्यः । यतो मत्सरादिवशात् कूटं कृत्रिमम् अपि चिह्नं कर्तुं शक्यते । नारदः ।

कश्चित् कृत्वात्मनाश् चिह्नं द्वेषात् परम् अभिद्रवेत् ।
युक्तिहेत्वर्थसंबन्धैस् तत्र युक्तं परीक्षणम् ॥

युक्तिर् अर्थापत्तिः । हेतुर् अनुमानम् । अर्थः प्रयोजनम् । संबन्धः प्राप्तिः संनिधिर् इति यावत् । पूर्वकलहो वा । कात्यायनः ।

हेत्वाधिभिर् न पश्येच् चेद् दण्डपारुष्यकारणम् ।
**तत्र साक्षीकृतं चैव दिव्यं वा विनियोजयेत् ॥ [८१२]

साक्षीकृतं साक्षिस्थाने कृतम् । नारदः ।

पारुष्ये सति संबन्धाद् उत्पन्ने क्षुब्धयोर् द्वयोः ।
स मान्यते यः क्षमते दण्डभाग् यो ऽतिवर्तते ॥
पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न दृश्येत विनयः स्यात् समस्तयोः ॥

बृहस्पतिः ।

द्वयोः प्रहरतोर् दण्डः समयोस् तु समः स्मृतः ।
आरम्भको ऽनुबन्धी च दाप्यः स्याद् अधिकं दमम् ॥

नारदः ।

द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ।
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वा परः ॥
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

कात्यायनः ।

आभीषणेन दण्डेन प्रहरेद् यस् तु मानवः ।
पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः ॥

बृहस्पतिः ।

पूर्वाकृउष्टः समाक्रोशंस् ताडितः प्रतिताडयन् ।
हत्वाततायिनं चैव नापराधी भवेन् नरः ॥
वाक्पारुष्यादिना नीचो यः सन्तम् अभिलङ्घयेत् ।
स एष तादयंस् तस्य नान्वेष्टव्यो महीभुजा ॥

वाक्पारुष्यादिना नीचेनाभिलङ्घिते साधौ साधुर् यदि नीचं ताडयेत् तदा राज्ञा ऽसौ न दण्डनीय इत्य् अर्थः । नारदः ।

श्वपाकषण्डचण्डालवेश्यासु वधवृत्तिषु ।
हस्तिपव्रात्यदारेषु गुर्वाचार्यातिगेषु च ॥
मर्यादातिक्रमे सद्यो घातयेच् चानुशासनम् ।
न च तद् दण्डापारुष्ये दोषम् आहुर् मनीषिणः ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जना नृषु ।
स एव विनयं कुर्यान् न तद्विनयभाग् भवेत् ॥
मला ह्य् एते मनुष्याणां मलम् एषां धनात्मकम् ।
**अपि तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ [८१३]

कात्यायनः ।

अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ॥ २.२१२ ॥
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस् ततः ॥ २.२१३ ॥
समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमः प्रोक्तो मदादिभिर् अदण्डनम् ॥ २.२१४ ॥

जातितो गुणतो वा तुल्यं परं भस्मकर्दमधूलिभिर् योजयतो दशपणो दण्डः । यदि पुनर् अमेध्यादिभिः संयोजयति तदा विंशतिपणः । अत्र यदि परस्त्रीमात्रे, तथा जातितो गुणतो वोत्कृष्टेषु नरेषूक्तम् अपराधं कुर्यात् तदा पूर्वोक्ताद् दण्डाद् द्विगुणो दण्डः कार्यो विंशतिपणः स्यात् । जातितो वा गुणतो वा हीनविषय उक्तस्यार्धं दण्डनीयः । मदादिना लुप्तज्ञानस्यापराधाभावतो दण्डाभावः । अमेध्यं वसाशुक्रादिशरीरमलात्मकम् । पार्ष्णिः पादापरभागः । निष्ट्यूतं निष्ठीवितम्(वनम्) । बृहस्पतिः ।

भस्मादीनां प्रक्षिपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्यो ऽत्र माषिकः ॥
एष दण्डः समेषूक्तः परस्त्रीष्व् अधिकेषु च ।
द्विगुणस् त्रिगुणो ज्ञेयः प्रादान्यापक्षया बुधैः ॥

परस्त्रीषु द्विगुण उत्तमेषु त्रिगुण इत्य् अर्थः । माषो ऽत्र राजतः । कात्यायनः ।

छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान् मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥ २.२१३, २१४ ॥

किं च

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २.२१५ ॥

विप्रताडनकरणीभूतं क्षत्रियादेः करचरणाद्यङ्गं राजा छिन्द्यात् । विप्रताडनार्थं शस्त्रदण्डादिकं वोद्यच्छतः प्रथमसाहसो दण्डः । उद्यमनार्थं शस्त्रादिकं स्पृशतः प्रथमसाहसार्धम् । अयं च दण्डः क्षत्रियवैश्ययोः । शूद्रस्य तु मनुर् आह ।

येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
**छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासमम् ॥ [८१४]

अत्र च स्रेयांसम् इति वचनात् क्षत्रियवैश्यपीडाकरम् अपि शूद्राङ्गं छेद्यम् । तथा ।

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥

द्विजातेर् उपरि निष्ठीवनादि कुर्वतः शूद्रस्य दण्डान्तरं स एवाह ।

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥

तथा ।

सहासनम् अभिप्रेप्सुर् उर्कृष्टस्यावकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिजौ(चौ) वाप्य् अस्य कर्तयेत् ॥
केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।
पादयोर् दाढिकायां तु ग्रीवायां वृषणेषु तु ॥

दाढिकायां श्मश्रुणि । वृषणेषु वृषणादिष्व् इत्य् अर्थः । नान्यथा बहुवचनोपपत्तिः ॥ २.२१५ ॥

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२१६ ॥

हस्ते परपीडार्थम् उद्यमिते दशमो दमः । पादे विंशतिको दमः । शस्त्रे मध्यमसाहसः । उद्यमन एवैतन् न तु निपातने, तत्र दण्डान्तरविधानात् । परस्परम् इति वचनात् सजातिविषयम् एतत् । हीनजातेर् उत्तमजातिं प्रत्य् उद्गूर्णमानस्य दण्डान्तरविधानात् । बृहस्पतिः ।

मध्यमः शस्त्रसंधाने संयोज्यः क्षुब्धयोर् द्वयोः ।
कार्यः कृतानुरूपस् तु लग्ने घाते दमो बुधैः ॥
इष्टकोपलकाष्ठैश् च ताडने तु द्विमाषिकः ।
द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥ २.२१६ ॥

किं च

पादकेशांशुककरालुञ्चनेषु पणान् दश ।
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २.२१७ ॥

पादयोः केशानाम् अंशुकस्य वस्त्रस्य हस्तयोर् वा समानजातीयस्य पुंस आलुञ्चन आकर्षणे दश पणान् दण्ड्यः । पीडादीनां समुच्चितानां करणे पञशतं दमः । पीडा निष्पीडनम् । आकर्ष आक्रोश आकर्षणम् । अंशुकावेष्टो ग्रीवादौ वस्त्रबन्धनम् । पादाध्यासो मूर्धादौ पादन्यासः ॥ २.२१७ ॥

[८१५]

किं च

शोणितेन विना पीडां कुर्वन् काष्टादिभिर् नरः ।
द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शने ऽसृजः ॥ २.२१८ ॥

शोणितम् अदर्शयित्वैव काष्ठादिभिः परस्य समानजातीयस्य दुःखम् उत्पादयन् द्वात्रिंशतं पणान् दाप्यः । शोणितदर्शने तु चतुःषष्टिम् । मनुः ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥

निबन्धातिशये सति लोहितदर्शकस्य शतम् अन्यथा चतुःषष्टिः । बृहस्पतिः ।

त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।
उत्तमस् त्व् अस्थिभेदे स्याद् घातेन तु प्रमापणम् ॥

क्षत्रियादीनां दण्डो ऽयं न तु ब्राह्मणस्य, तस्य प्रमापणायोगात् ॥ २.२१८ ॥

करपाददन्तभङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२१९ ॥

हस्ताङ्घ्रिदशनानां प्रत्येकं भङ्गे मोटने, कर्णस्य नासाया वा छेदने, पूर्णस्य व्रणस्योद्भेदे पुनर् नवीकरणे, तथा मृतकल्पो मृततुल्यो निःस्पन्दो भवति तथाभिघाते कृते, मध्यमो दण्डः । अत्र च विषमसमीकरणम् अनुबन्धादितारतम्येन कल्प्यम् ।

कर्णौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मधमो गुरुः ॥

विष्णुः- “उभयनेत्रभेदिनं राजा यावज्जीवं न मुञ्चेद् बन्धनात् । तादृशम् एव वा कुर्यात्” ॥ २.२१९ ॥

किं च

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्यङ्घ्रिभङ्गे मध्यमसाहसः ॥ २.२२० ॥

चेष्टा गमनागमनमूत्रपुरीषोत्सर्गादिः । भोजनम् अभ्यवहारः । वाग् व्याहारः । एषां कस्यचिद् रोधे प्रतिबन्धे, नेत्रादेश् च ज्ञानेन्द्रियाधिष्ठानस्य प्रतिभेदने तदधिष्ठानत्वविनाशे, कन्धराया ग्रीवाया बह्वोः सक्थ्नो जघनस्याङ्घ्रेः पादस्य [८१६] वा भङ्गे, मध्यमसाहस एव दण्डः । पूर्वम् इदं च वाक्यं ब्राह्मणव्यतिरिक्तस्य समानजातीयस्यापराध्नुवतो दण्डविधायकम् । विष्णुः- “चेष्टाभोजनवाग्रोधे प्रहारदाने च नेत्रकन्धराबाहुसक्थिभङ्गे चोत्तमम्” । उत्तमम् उत्तमसाहसः, दण्ड इति शेषः । अत्र क्षत्रियस्य वैश्यम् अपराध्नुवतो वैश्यस्य क्षत्रियम् अपराध्नुवतो यथाक्रमं दण्डदाने मध्यमोत्तमसाहसयोर् विषयव्यवस्था । अथ वा मध्यमसाहसविधिः शूद्रस्य समानजातीयापराधे । उत्तमसाहसस् तु समानजातीयापराध एव क्षत्रियवैश्ययोः ॥ २.२२० ॥

किं च

एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः ।
कलहापहृतं देयं दण्डश् च द्विगुणस् तथा ॥ २.२२१ ॥

यदा पुनर् एकं प्रति बहवो हन्तारो दण्डपारुष्यकर्तारो भस्मकर्दमपांसुसंयोगकर्तारो भवन्ति तदा तेषां तस्मिन् विषये यो दण्ड उक्तस् तस्माद् द्विगुणो दण्डः प्रत्येकं कार्यः । कलहे च वर्तमाने येन यस्य यद् अपहृतं तेन तस्मै तद् दत्वा ततो द्विगुणं धनं राज्ञे देयम् । विष्णुः- “एकं बहूनां घ्नतां प्रत्येकं स्वोक्ताद् दण्डाद् द्विगुणः । उत्क्रोशन्तम् अनभिधावतां तत्समीपवर्तिनां च” । कात्यायनः ।

वाग्दण्डस् ताडनं चैव येषूक्तम् अपरादि(धि)षु ।
हृतं भग्नं प्रदाप्यास् ते शोध्यं निःस्वैस् तु कर्मणा ॥ २.२२१ ॥
दुःखम् उत्पादयेद् यस् तु समुत्थानधनव्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२२ ॥

यस् तु शस्त्रादिताडनेन परस्य दुःखम् उत्पादयेत् स व्रणारोपणादौ समुत्थाने यो धनव्ययस् तं दद्यात् । यश् च यस्मिन् कलहे दण्डपारुष्ये दम उक्तस् तं च राज्ञे दद्यात् । बृहस्पतिः ।

अङ्गावभेदने चैव पीडने छेदने तथा ।
समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥

कात्यायनः ।

देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥
**समुत्थानव्ययं चासौ दद्याद् आ व्रणरोपणात् ॥ [८१६]

मनुः ।

भार्या पुत्रश् च दासश् च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्याः स्युः रज्ज्वा वेणुदलेन वा ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥

किल्बिषं दण्डः । ब्रह्मचार्यधिकारे नारदः ।

अनुशास्यो गुरूणां तु न चेद् अनुविधीयते ।
अवधेनाथ वा हन्याद् रज्ज्वा वेणुदलेन वा ॥
भृशं न ताडयेद् एनं नोत्तमाङ्गे न चोरसि ।
अनुशास्य च विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥
पुत्रापराधे न पिता श्ववान् न शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तेनैव प्रहृतो नु चेत् ॥

अवधेनाहिंसया ॥ २.२२२ ॥

अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३ ॥

कुड्यस्यापहर्ता पञ्च पणान् दाप्यः । छेत्ता दश । भेत्ता विंशतिम् । पातयिता तु कुड्यव्ययं स्वामिने दाप्यः ॥ २.२२३ ॥

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४ ॥

यः परगृहेषु दुःखोत्पादकं वृश्चिकादि क्षिपेत् स षोडश पणान् दाप्यः । यस् तु प्राणहरं सर्पादि स मध्यमसाहसम् ॥ २.२२४ ॥

दुःखे ऽथ शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २.२२५ ॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।

क्षुद्रपशूनाम् अजादीनां ताडननिमित्ते दुःखे शोणितस्रावे शाखायाः शृङ्गस्य छेदने ऽङ्गस्य पादादेश् छेदने कृते सति यथाक्रमं द्विपणप्रभृतिर् दण्डः । द्विपणाद् उत्तर उत्तरः पूर्वस्मात् पूर्वस्माद् द्विगुणः । तत्र दुःखोत्पादे द्विपणः । शोणिते चतुष्पणः । शृङ्गछेदे ऽष्टपणः । अङ्गछेदे षोडशपणः । एषाम् एव पशूनां लिङ्गस्य [८१८] पुंस्त्वस्य छेदे वृषणचूर्णने मध्यमसाहसः । मृत्यौ तु कृते मूल्यं पशुस्वामिने मध्यमसाहसं च राज्ञे दद्यात् ॥ २.२२५ ॥

महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ २.२२६ ॥

क्षुद्रपशुसंबन्धीनि दण्डनिमित्तानि यान्य् उक्तानि तानि यदा महापशूनां गवादीनां तदात(स) एव द्विगुणो दण्डो वेदितव्यः । कार्षापणशतं दण्ड्य इत्य् अनुवर्तमाने विष्णुः- “पशूनां पुंस्त्वोपघातकारी तथाश्वोष्ट्रगोघाती व्येकपादः (?) कार्यः । विमांसविक्रयी च ग्रामपशुघाती च कार्षापणशतं दण्ड्यः । पशुस्वामिनश् च तन्मूल्यं दद्यात् । आरण्यपशुघाती पञ्चशतं कार्षापणानाम् । पक्षिघाती मत्स्यघाती च दश कार्षापणान् । कीटोपघाती कार्षापणम्” । मनुः ।

गोकुमारीर् देवपशून् उक्षाणं वृषभं तथा ।
वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधे ॥

कात्यायनः ।

श्रान्तांस् तृषार्तान् क्षुधितान् अकाले वाहयेन् नरः ।
खरगोमहिषोष्ट्रादीन् प्राप्न्युआत् पूर्वसाहसम् ॥ २.२२६ ॥
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणा दमाः ॥ २.२२७ ॥

प्ररोहिणां न्यग्रोधादीनाम् उपजीव्यानां च टङ्काम्रादीनां शाखिनां वृक्षाणां च शाखायाः स्कन्धस्य सर्वस्य वृक्षस्य च भेदने यथाक्रमं त्रयो दण्डा भवन्ति । तत्र शाखाया भेदने विंशतिः । स्कन्धस्य द्विगुणाश् चत्वारिंशत् । सर्वस्य द्वुगुणा अशीतिः । प्ररोहो न्यग्रोधः । स्कन्धः प्रधानशाखामूलम् ॥ २.२२७ ॥

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणा दमा वृक्षे च विश्रुते ॥ २.२२८ ॥

चैत्यादिस्थानजातानां द्रुमाणां शाखास्कन्धसर्वविदारणेषु विश्रुतद्रुमविषयेषु पूर्वोक्ता विंशत्यादयो दमा द्विगुणा वेदितव्याः । चैत्यं मनोहरस्थानम् ॥ २.२२८ ॥

गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २.२२९ ॥

[८१९]

वृक्षेभ्यो न्यूनपरिमाणा उद्भिज्जा गुल्माः कुरुवकादयः । ततो न्यूनपरिमाणा गुच्छाः । ततो ऽपि ह्रसीयांसः क्षुपाः । लता वल्लयः । ता एव स्थूलाः प्रतानाः । व्रीहियवादयः फलपाकान्ता ओषधयः । बीजकाण्डप्ररोहिण्यो वीरुधः । आसां पूर्वोकेषु दण्डनिमित्तेषु पूर्वोक्तदण्डानाम् अर्थम् अर्धं ग्राह्यम् । मनुः ।

वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।
तथा तथा दमः कर्यो हीम्सायाम् इति धारणा ॥

विष्णुः- “फलोपभोगद्रुमछेदी तूत्तमसाहसं दण्ड्यः । पुष्पोपभोगछेदी मध्यमम् । वल्लीगुल्मलताछेदी कार्षापणशतम् । तृणछेद्य् एकम् । सर्वेषां च तत्स्वामिनां तदुत्पत्तिं दण्डपारुष्यम्” ॥ २.२२९ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**दण्डपारुष्य्प्रकरणम् ॥ १२ ॥ **