१८ वाक्-पारुष्य-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

वाक्पारुष्यप्रकरणम् । (१८)

अथ वाक्पारुष्यप्रकरणम् आरभते । तस्य स्वरूपम् आह नारदः ।

देशजातिकुलादीनां क्रोशनं न्यङ्गसंज्ञितम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥

क्रोशनम् आक्रोशनम् आक्षेपः । तत्र देशाक्षेपो यथा — गौडं प्रति कलहप्रिया गौडा इति । जात्याक्षेपो यथा — विप्रं प्रति नितान्तलोलुपा विप्रा इति । कुलाक्षेपो यथा — क्रूरचरिता वैश्वामित्रा इति । न्यङ्गम् असभ्यवचनम् । कात्यायनः ।

हुंकारं कासनं चैव लोके यच् च विगर्हितम् ।
अनुकुर्याद् अनुब्रूयाद् वाक्पारुष्यं तद् उच्यते ॥
निष्ठुराश्लीलतीव्रत्वा तद् अपि त्रिविधिं स्मृतम् ।
आक्षेपो निष्ठुरं ज्ञेयम् अश्लीनं न्यङ्गस्ंज्ञितम् ॥
पतनीयैर् उपाक्रोषैस् तीव्रम् आहुर् मनीषिणः ।
यस् त्व् असत्संज्ञकर् अङ्गैः परम् आक्षिपति क्वचित् ॥
अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक् स्वृता तु सा ।
न्यङ्गावगूरणं वाचाक्रोशात् तु कुरुते यदि ॥

[८०६] वृत्तदेशकुलानां तु अश्लीला सा बुधैः स्मृता ।

महापातकयोक्त्री च राजद्वेषकरी च या ॥
जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वाक् ।

न्यङ्गावगूरणं निकृष्टाङ्गप्रकाशनेन तिरस्करणम् । बृहस्पतिः ।

अप्रियोक्तस् ताडणं च पारुष्यं द्विविधं स्मृतम् ।
एकैकं तु त्रिधा भिन्नं दमश् चोक्तस् त्रिलक्षणः ॥
देशधर्मकुलादीनां क्षेपः पापेन योजनम् ।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥
भगिनीभ्रातृसंबद्धम् उपपातकशंसनम् ।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥
अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यम् उत्तमं प्रोक्तं तीव्रमर्मातिपातनम् ॥

द्रव्यं विनेत्य् अत्र द्रव्यशब्दो ऽभिधेयपरः । तेनोच्यमानार्थव्यतिरेकेणैवंविधम् अभिधानं वाक्पारुष्यम् इत्य् अर्थः ।

तत्र वाक्पारुष्यविशेषे दण्डविशेषम् आह

सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ २.२०४ ॥

अङ्गानि कर्मेन्द्रियाणि जिह्वादीनि, इन्द्रियाणि पुनः श्रोत्रादीनि ज्ञानेद्रियाणि । रोगाः कुष्ठादयः । न्यूनान्य् अङ्गानीइन्द्रियाणि च येषाम्, येषाम् च व्याधयः सन्ति तेषां क्षेपम् अप्रियोक्तिं सत्येनासत्येन विपरीतस्तुत्या वा यः करोति, स द्वादश् पणान् सार्धान् दण्ड्यः । तत्र सत्येनाङ्गहीनक्षेपो यथा — पादहीनं प्रति कुण्ठस् त्वम् इत्यादिः । असत्येन यथा — सकलाङ्गं प्रति विकलाङ्गस् त्वम् इति विकलाङ्गं प्रति सकलाङ्गस् त्वम् इति । विपरीतस्तुत्या यथा — हस्तहीनं प्रति सुबाहुर् महाबाहुर् वेति । एवम् इन्द्रियहीनाक्षेपः । अर्धस् त्रयोदशो येषां पणानां ते ऽर्धत्रयोदशाः पणाः । यत् तु मनुनोक्तम्,

काणं वा यदि वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणं वरम् ॥

तद् आक्षेप्तुर् अत्यन्तोत्कर्षे स्वल्पे वाशयदोषे ग्राह्यम् । बृहस्पतिः ।

समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।
**विनयो ऽभिहितः शास्त्रे पणस् त्व् अर्धत्रयोदशः ॥ [८०७]

विष्णुः- “समवर्णाक्रोशने द्वादश पणान् दण्ड्यः । हीनवर्णाक्रोशने तु षट् । यथाकालम् उत्तमसमवर्णाक्षेपे तत्प्रमाणो दण्डस् त्रयो वा कार्षापणाः । शुल्कवाक्याभिधाने त्व् एवम् एव” । अल्पधनविषयम् एतत् ।

समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥

समवर्णग्रहणम् आक्षेप्तुर् आक्षेप्यस्य च जातितो गुणतश् च साम्यप्रतिपादनार्थम् । तेन सर्वसाम्ये सति वाक्पारुष्यरूपव्यतिक्रमविषये द्वादशपणो दमः । जातिमात्रसाम्ये हीनगुणस्य बहुगुणं प्रत्याक्षेपकत्वे द्विगुणो दमः । शङ्खलिखितौ- “सवर्णव्यतिक्रमे द्वादश कार्षापणाः । यथारूपविशिष्टाक्षेपे ह्य् अविशिष्टस्य (?) चतुर्विंशतिर् अविशिष्टातिक्रमे च विशिष्टस्य तथो ऽर्थम्” ॥ २.२०४ ॥

प्रथमे वाक्पारुष्ये दण्ड उक्तः संप्रति मध्यमे वाक्पारुष्ये दण्डम् आह ।

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ २.२०५ ॥

तव भगिनीं मातरम् अभिगन्तास्मीत्य् एवम् आक्षिपन्तं पञ्चविंशतिपणात्मकं दण्डं राजा दापयेत् । आक्रोश इत्य् अधिकृत्याहतुः शङ्खलिखितौ- “तथाधिकृतान् विप्रान् गुरूंश् च निर्भर्त्सयतो मुण्डनं गोमयालेपनं खरारोपणं दर्पहारो दण्डो वा” । दण्ड इत्य् अनुवृत्तौ विष्णुः- “क्षिपन् स्वस्रादिकं दद्यात् पञ्चाशत् पणिकं दमम्” । अल्पधनविषयम् एतत् ॥ २.२०५ ॥

प्रथमे मध्यमे च वाक्पारुष्ये सवर्णानां दण्ड उक्तः । तस्यैव दण्डनीयगुणसदसद्भावकृतं विशेषम्। आह

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।

विद्यानुष्ठानादिगुणवताधमेष्व् अधमगुणेष्व् आक्रुष्टेषूक्तस्यार्धम् एव दण्डः स्यात् । तत्र प्रथमे वाक्पारुष्ये षट्पणाः । पणचतुर्थांशश् च दण्डार्थम्, मध्यमे तु द्वादश [८०८] सार्धाः । यस् तु परस्त्रीर् आक्षिपति, तथालपगुणश् च सन्न् उत्तमगुणांस् तस्योको द्विगुणो दण्डः । तत्र प्रथमे वाक्पारुष्ये पञ्चविंशति । बृहस्पतिः ।

समानयोः समो दण्डो न्यूनस्य द्विगुणस् तु सः ।
उत्तमस्यार्धिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥

इदानीं ब्राह्मणादिवर्णानां मूर्धावसिक्तद्विजातीनाम् अन्योन्याक्रोश्याक्रोशकभावे राज्ञा दण्डः कल्पनीय इत्य् आह ।

दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २.२०६ ॥

वर्णानां जातीनां च मध्याद् उत्तरैश् चाधराणाम् अधरैश् चेतरेषाम् आक्षेपे कृते स्वयम् अभ्यू(यु)ह्य दण्डप्रणयनं राजा कुर्यात् । तत्र मूर्धावसिक्ता अम्बष्ठादयः । अनुलोमजा मातृभिस् तुल्यवर्णाः । ततश् च ते क्षत्रियादिवद् एव दण्डभाजः ॥ २.२०६ ॥

इदानीं वर्णानां प्रातिलोम्याक्षेपे दण्डविशेषम् आह

प्रतिलोमापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ २.२०७ ॥

अधरो वर्ण उत्तरम् आक्रोशतीति प्रतिलोमापवादः । तत्रानन्तरं वर्णम् आक्रोशतः पूर्वोक्तात् पञ्चाशत्संख्याकाद् द्विगुणो दमः शतसंख्याको दमः स्यात् । एकान्तराक्षेपे तु तत एव त्रिगुणः सार्धशतिको भवेत् । ततश् च क्षत्रियस्य ब्राह्मणं वैश्यस्य क्षत्रियम् आक्रोशतः शतसंख्याको दमः । वैश्यस्य ब्राह्मणाक्रोशे ऽध्यर्धं शतम् । शूद्रस्य वैश्याक्रोशे शतम् । क्षत्रियाक्रोशे ऽधर्धम् । ब्राह्मणाक्रोशे तु दण्डान्तराभिधायकानि स्मृत्यन्त्राण्य् उदाहरिष्यन्ते । उत्तरेण वर्णेनाधरस्याक्षेपो ऽनुलोमापवादः । तत्र क्षत्रियस्य ब्राह्मणम् आक्षिपतो दण्डः पणशतात्मको ऽभिहितः । तदर्धं पञ्चाशत्पणिकः क्षत्रियाक्षेपणे ब्राह्मणस्य दण्डः । वैश्याक्षेपे पञ्चविंशतिकः । शूद्राक्षेपे सार्धद्वादश पणाः । अस्य च व्याख्यानस्य,

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्यस्याप्य् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥

इति मनुवाक्यं मूलम् । एवं क्षत्रियो वैश्यम् आक्रोशन् पञ्चाशद् दण्ड्यः । शूद्रे तु पञ्चविंशतिः । वैश्यस्य शूद्राक्रोशे पञ्चाशद् एव । शूद्रस्य ब्राह्मणाक्रोशे मनुर् आह ।

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
**वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ [८०९]

वधो ऽत्र जिह्वाच्छेदः । यद् आह स एव ।

एकजातिर् द्विजातिं तु वाचा दारुणया क्षिपेत् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥
नामजातिग्रहांस् तेषाम् अभिद्रोहेण कुर्वतः ।
निक्षेप्यो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलम् ॥

अत्यन्ताभ्यास एतत् ।

धर्मोपदेशं दर्पेण द्विजानाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥

अस्येति शूद्रस्य । बृहस्पतिः ।

वैश्यम्। आक्षारयञ् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।
क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ॥
धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।
आक्रोशकश् च विप्राणां जिह्वाछेदनम् अर्हति ॥

गौतमः- “शूद्रो द्विजातिम् अभिसंधायाभिहत्य च वाग्दण्डपारुष्याभ्याम् अङ्गं मोच्यं यो नाभिहन्यात् । अथास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां श्रोत्रपूरणम् उदाहरणाज् जिह्वाछेदो धारणे शरीरभेदः” । विष्णुः- “श्रुतदेशजातिकर्मणाम् अन्यथावादी कार्षापणशतं दण्ड्यः” । नारदः ।

न किल्बिषेणापवदेच् छास्त्रतः कृतपावनम् ।
न राज्ञो धृतदण्डं तु दण्डभाक् तद्व्यतिक्रमात् ॥ २.२०७ ॥
बाहुग्रीवानेत्रसक्थिविनाशे वाचिको(के) दमः ।
शत्यस् ततो ऽर्धिकः पादनासाकर्णकरादिषु ॥ २.२०८ ॥

बाह्वादीनां वचनेन विनाशक्रियां तव बाहू खञ्चयामीत्य् एवमात्मिकां कुर्वतः शत्यः शतपरिमाणो दण्डो ग्राह्यः । पादनासादेर् वाचनिकं नाशम् आचरतः शतार्धिको दण्ड आदेयः ॥ २.२०८ ॥

सामान्येनोक्तस्य विषयविशेषे व्यवस्थाम् आह

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
य(त)था शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२०९ ॥

[८१०]

बाह्वादिच्छेदं कर्तुं समर्थः स य्दि तं ब्रूयात् तदोक्तं दण्डं गृहीत्वा क्षिप्तस्य क्षेमाय परिरक्षणार्थं प्रतिभुवं दाप्यः । बाह्वादिच्छेदासमर्थस् तु चेद् दशैव पणान् दाप्यः ॥ २.२०९ ॥

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१० ॥

पतनीयैः पतितत्वकारणैर् ब्रह्महत्यादिभिर् ब्रह्ममा त्वम् असीत्यादाव् आक्षेपे कृते मध्यमसाहसो दण्दो भवति । उपपातकहेतुभिर् गोवधाधिभिर् आक्षिपन् प्रथमसाहसं दाप्यः । व्यासः ।

पपोपपापवक्तारो महापातकशंसकाः ।
आद्यमध्योत्तमान् दण्डान् दद्युस् ते ते यथाक्रमम् ॥
उपपातकगणे यन् न निर्दिष्टं शास्त्रतः प्रतिषिद्धं च तद् इह पापशब्दवाच्यम् । विष्णुः- “परस्य पतनीये क्षेपे कृते तूत्तमसाहसम् । उपपातकयुक्ते मध्यमम्” । उत्तमवर्णाक्षेपविषयम् एतत् ॥ २.२१० ॥

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसम् ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२११ ॥

इति वाक्पारुष्यं प्रकरणम् ॥ १८ ॥

ऋग्यजुःसामवेदिनां मृपतेर् ब्राह्मणादिदेवानां वा क्षेप्तुर् उत्तमसाहसो दण्डः कार्यः । ब्राह्मणादिजातीनां पूगानां परिषदादीनां व्यवहारनिर्णयाद्येककार्यकारिणां विदुषाम् आक्षेप्तुर् मध्यमसाहसः, ग्रामस्य जनपदस्य वा क्षेपं कुर्वतः प्रथमसाहसः । विष्णुः- “त्रैविद्यवृद्धानां जातिपूगानां च ग्रामदेशयोः प्रथमम्” । अल्पाशयदोषविषयम् एतत् । बृहस्पतिः ।

देशादिकं क्षिपन् दाप्यः पणान् अर्धत्रयोदशान् ।
पापेन योजयन् दर्पाद् दाप्यः प्रथमसाहसम् ॥

उशना ।

मोहात् प्रमादात् संहर्षात् प्रीत्या चोक्तं मयेति यः ।
नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

बृहस्पतिः ।

एष दण्डः समाख्यातः पुरुषापेक्षया मया ।
समन्यूनधिकत्वेन कल्पनीयो मनीषिभिः ॥

इति वाक्पारुष्यं प्रकरणम् ॥ २.२११ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**वाक्पारुष्यं प्रकरणम् ॥ १८ ॥ **

[८११]