१७ द्यूत-समाह्वय-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

द्यूतसमाह्वयप्रकरणम् । (१७)

अथ द्यूतसमाह्वयाख्यं व्यवहारपदं प्रस्तूयते । तत्र नारदः ।

अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणकृईडावयोभिश् च पदं द्यूतसमाह्वयम् ॥

अक्षाः पाशकाः । वध्रश् चर्मादिवलयवेधः । शलाका कितवेभ्यो ज्ञेया । आद्यशब्दाद् अन्येषाम् अपि कर्पटकादीनां ग्रहणम् । देवनं क्रीडा, विजिगीषा वा । जिह्मं कुटिलम् । जिताद् यद् द्रव्यं गृह्यते स पणः । वयांसि पक्षिणः । अक्षादिभिर् अचेतनैर् वयःप्रभृतिभिश् च चेतनैर् जिह्मेन कुटिलभावेन देवनं द्यूतम् । मनुः ।

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥
काकिन्यो वध्रिकाश् चैव् अशलाका भौर्य एव च ।
अक्षाः सबीजाः कुहका द्यूतोपकरणानि षट् ॥

बृहस्पतिः ।

अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः ।
प्रहरन्ते कृतपणास् तं वदन्ति समाह्वयम् ॥ २.१९८ ॥

तत्र सभापतिना यावती वृद्धिर् यतश् च ग्राह्या तद् आह

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ २.१९९ ॥

यः सभां कृत्वा द्यूतोपकरणानि च प्रगुणीक्र्त्य कितवेभ्यो देवितुं वृद्ध्या धनं प्रयच्छति स सभिको धूतकितवाद् धूर्तो विजयी वा कितवो ध्यूतकर्ता स धूर्तकितवस् तस्माच् छतिकवृद्धेः शतसंख्याकग्लहे पणे विषयभूते यो वृद्धिं जितवान् स शतिकवृद्धिस् तस्मात् पञ्चकं शतं गृह्णीयात् । यः पराजितः स इतरस् तस्मात् तु दशकं शतम् ॥ २.१९९ ॥

स सम्यक्पालितो भागं राज्ञे दद्याद् यथाश्रुतम् ।
जितम् उदग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ २.२०० ॥

[स]सभिकः पूर्वोक्तो राज्ञा सम्यक्पालितः कितवेभ्यः सम्यग्रक्षितो राज्ञे [८०३] यथाश्रुतम् अङ्गीकृतं स्वकीयाद् धनाद् भागं दद्यात् । जितं धनं पराजितात् कितवाद् उद्ग्राहयेद् उत्कालयेत् । तथैतावति काले तुभ्यम् इयद् धनं दास्यामीति जेत्रे सत्यं वचस् तद्विश्वासाय क्षमी सन् दद्यात् । कात्यायनः ।

सभिकः कारयेद् द्यूतं देयं दद्याच् च यन् नृपे ।
दशकं च शतं वृद्धिं गृह्णीयाच् च पराजयात् ॥
जेतुर् दद्यात् स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षिकम् ।
सद्यो वा सभिकेनैव कितवात् तु न संशयः ॥

नारदः ।

सभिकः कारयेद् द्यूतं देयं दद्याच् च तद्गतम् ।
दशङं तु शतं वृद्धिस् तस्य स्याद् द्यूतकारिता ॥
अथ वा कितवो राज्ञे दत्वा भागं यथोचितम् ।
प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥

अथ वा सभिकं विना कितव एव राजभागं दत्वा प्रकटं देवनं कुर्यात् । कितव इति जात्यभिप्रायेणैकवचनम् । बृहस्पतिः ।

द्वंद्वयुद्धेन यः कश्चिद् अवसादम् अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥

समाह्वयविषयम् एतत् । अवसादो बलहानिः । नारदः ।

अशुद्धः कितवो नान्यद् आश्रयेद् द्यूतमण्डलम् ।
प्रतिहन्यान् न कितवं दापयन्तं स्वम् इष्टतः ॥

अदत्तदेयो ऽशुद्धः स्वं स्वकीयं धनं साधयति कितवस् तं राजा न वारयेत् ॥ २.२०० ॥

प्राप्ते भागे च नृपतिः प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेद् अन्यथा तु न ॥ २.२०१ ॥

धूर्ता द्यूतकारास् तन्मण्डले ससभिके नृपतिः प्रसिद्धे यथापरिभाषिते भागे प्राप्ते जितं दापयेद् अन्यथा नैव । नारदः ।

अनिर्दिष्टस् तु यो राज्ञा द्यूतं कुर्वीत मानवः ।
न स तं प्राप्नुयात् कामं विनयं चैव सो ऽर्हति ॥

अनिर्दिष्टो यो भूपेननियुक्तः सन् द्यूतं कुर्वीत ससभिको भवन् स तं कामं सभिकलभ्यं भागं न लभेते दण्डं च प्राप्नुयात् । [८०४] कात्यायनः ।

प्रसह्य दापयेद् देयं तस्मिन् स्थाने न चान्यथा ।
जितं वै सभिकस् तत्र सभिकप्रत्यया क्रिया ॥
अनभिज्ञो जितो मोच्यो ऽमोच्यो ऽभिज्ञो जितो रहः ।
सर्वस्वे विजिते ऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥

बृहस्पतिः ।

रहो जितो ऽनभिज्ञश् च कूटाक्षैः कपटेन वा ।
मोच्यो ऽभिज्ञो ऽपि सर्वस्वं जितं सर्वं न दाप्यते ॥ २.२०१ ॥
द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि ।

कितवव्यवहाराणां द्रष्टारो निर्णायकाः साक्षिणश् च त एव कितवा एव । नारदः ।

कितवेष्व् एव तिष्ठेरन् कितवाः संशयं प्रति ।
त एव तत्र द्रष्टारस् त एवैषां च साक्षिणः ॥

सभिकानुवृत्तौ बृहस्पतिः ।

स एव साक्षी संदिग्धे सभैश् चान्यैस् त्रिभिर् वृतः ।

कात्यायनः ।

विग्रहे ऽथ जये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस् तत्र शुचिश् च सभिको यदि ॥
म्लेच्छश्वपाकधूर्तानां कितवानां तपस्विनाम् ।
तत्कृताचारभर्तॄणां निश्चयो न तु राजनि ॥

राजनीति पूर्वोक्तसकलसभ्योपलक्षणार्थम् । तेन श्रुताध्ययनसंपन्ना इत्याद्य् उक्ताः सभ्या म्लेच्छादिविवादेषु नादरणीयाः । बृहस्पतिः ।

उभयोर् अपि संदिग्धे कितवास् तु परीक्षकाः ।
यदा विद्वेषिणस् ते तु तदा राजा विचारयेत् ॥
राज्ञा सचिह्नं निर्वस्याः कूटाक्षोपधिदेविनः ॥ २.२०२ ॥

विष्णुः- “द्यूते च कपटाक्षदेविनां करच्छेदः । उपधिदेविनां संदंशच्छेदः” । अन्यवचनार्थम् अन्योन्यसंप्रतिपत्तिर् हस्तचातुर्याद् यथाभिमतपातनादि वोपधिः । संदंशच्छेदो ऽङ्गुष्ठाङ्गुलीछेदः ॥ २.२०२ ॥

द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् ।

द्यूतम् एकमुखम् एकप्रधानम् एकेन राजपुरुषेणाधिष्ठितं तस्करज्ञानार्थं कार्यम् । यत् तु मनुनोक्तम्,

द्यूतं समाह्वयं चैव यः कुर्याद् यश् च कारयेत् ।
**तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥ [८०५]

इत्यादि, तद् राजपुरुषानधिष्ठितद्यूतविषयम् । बृहस्पतिः ।

द्यूतं निषिद्धं मनुना सस्यशौचधनापहम् ।
तत्प्रवर्तितमन्यैस् तु राजभागसमन्वितम् ॥

राजभागरहित्ं न प्रवर्तयितव्यम् इत्य् अर्थः ।

एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्व्ये ॥ २.२०३ ॥

इति द्यूतसमाह्वयप्रकरणम् ॥ १७ ॥

एष उक्तो विधिः प्रकारः प्राणिभिर् मेषमहिषादिभिः साध्ये द्यूते समाह्वयसंज्ञके वेदितव्यः । इति द्यूत[समाह्वय]प्रकरणम् ॥ २.२०३ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**द्यूतसमाह्वयप्रकरणम् ॥ १७ ॥ **