१६ वेतनादान-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

वेतनादानप्रकरणम् । (१६)

इदानीं वेतनानपाकर्माख्यं विवादपदम् आरभते ।

[७९७] गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।

अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३ ॥

भृतिर् वेतनम् । तद् भृतको गृहीत्वा स्वामिनः कर्म त्यजन्न् अकुर्वंस् तद्द्विगुणम् आवहेत् । स्वामिने दद्यात् । कर्मन्य् अभ्युपगते वेतने वागृहीते कर्म त्यजन् यावद् वेतनं तस्मै देयत्वेन स्वामिनाभ्युपगतं युगवरत्रादिः परिरक्षणीयः । नारदः ।

भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥
भृत्याय वेतनं दद्यात् कर्म स्वामी यथा कृतम् ।
आदौ मध्ये ऽवसाने वा कर्मणो य्द् विनिश्चितम् ॥

बृहस्पतिः ।

भृतकस् तु न कुर्वीत स्वामिनः शाठ्यम् अण्व् अपि ।
भृतिहानिम् अवाप्नोति ततो वादः प्रवर्तते ॥
गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥

नारदः ।

कर्माकुर्वन् प्रतिश्रुत्य वार्यो दत्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥
कर्मारम्भं तु यः कृत्वा सिद्धिं नैव तु कारयेत् ।
बलात्कारयितव्यः स्याद् अकुर्वन् दण्डम् अर्हति ॥

वृद्धमनुः ।

प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्याद् बलाद् अपि ।
स चेन् न कुर्यात् तत् कर्म प्राप्नुयाद् द्विशतं दमम् ॥

मनुः ।

भृत्यो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं तच् च वेतनम् ॥

कृतकर्मणो ऽपीति शेषः ।

यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् देयम् अल्पोनस्यापि कर्मणः ॥

यथोक्तं यथाप्रतिश्रुतम् ।

आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
सुदीर्घस्यापि कालस्य स लभेतैव वेतनम् ॥ २.१९३ ॥

[७९८]

दाप्यस् तद्दशमं भागं वणिज्यापशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ २.१९४ ॥

यः स्वामी त्य्भ्यम् इयतीं भृतिं दास्यामीत्य् अनिश्चित्य कर्म कारयति, स भृतककृतकर्मणो वाणिज्यादेर् यद् उत्पन्नं धनं तस्य दशमं भागं भृत्याय स्वामी दद्यात् । न ददाति चेद् राज्ञा स्वामी दाप्यः । वृद्धमनुः ।

समुद्रयानकुशलाः देशकालार्थदर्शिनः ।
नियच्छेयुर् भृतिं यां तु सा स्यात् प्राग् अकृता यदि ॥

बृहस्पतिः ।

त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः ।
भक्ताच्छाभृतः सीराद् भागं गृह्णीत पञ्चमम् ॥
जातसस्यात् त्रिभागं तु प्रगृह्णीयाद् अथाभृतः ॥

नारदः ।

काले ऽपूर्णे त्यजन् कर्म भृतिनाशम् अवाप्नुयात् ।
स्वामिदोषाद् अपक्रामन् यावत् कृतम् अवाप्नुयात् ॥

विष्णुः- “भृतकश् चापूर्णे काले भृतिं त्यजन् सकलम् एव मूल्यं जह्यात् । राज्ञे च पणशतं दद्यात् । तद्दोषेण यन् नश्येत् तत् स्वामिने देयम् । अन्यत्र दैवोपघातात् । स्वामी चेद् भृतकम् अपूर्णे काले जह्यात् तस्य सर्वम् एव मूल्यं दद्यात् । पणशतं च राज्ञे ऽन्यत्र भृतकदोषात्” ॥ २.१९८ ॥

देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा ।
तत्र स्यात् स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥ २.१९५ ॥

यत्र देशे काले च क्रियमाणं कृष्यादिकं कर्म सफलं स्यत् तौ देशकालौ स्वातन्त्र्येण व्यतिक्रामेत्, लाभं च बहुतरव्ययकरणेन क्षयं प्रापयते, तत्र भृत्याय स्वामी स्वच्छन्दतः स्वाभिप्रायतो भृतिं दद्यान् नैवाल्पां स्वातन्त्र्येण स्वामिनः । अधिकं कालं (फलं) लभते यदि तस्मै प्राप्तान् मूल्याद् अधिकं पारितोषिकं द्रव्यं स्वामिना देयम् ॥ २.१९५ ॥

यो यावत् कुरुते कर्म तावत् तस्य च वेतनम् ।
उभयोर् अप्य् अशाठ्यं चेच् छाठ्ये कुर्याद् यथाश्रुतम् ॥ २.१९६ ॥

येद् एकं स्वामिकर्मानेकभृतकसाध्यं भवति तत्र शाठ्यं वर्जयित्वा यो भृत्यो [७९९] यावत् कर्म करोति तस्मै तदनुरूपं वेतनं देयम् । यदि पुरुषद्वयसाध्यम् एकः कुर्यात् तत्र भृतिद्वयं देयम् । न्यूनं चेद् भागहानिः कल्प्या । शाठ्ये तु यथाश्रुतं यथोक्तं तद् दद्यात् स्वामिनश् छन्द[त] इति ज्ञेयम् । एतच् चानेकभृत्यसाध्ये कर्मणि वेतने वा परिभाषिते वेदितव्यम् । अत्र चोभयग्रहणं प्रदर्शनार्थम् । तेन यत्र बहवो ऽपि भृत्याः शाठ्यं विहाय कर्म कुर्वन्ति तत्रापि कर्मानुसारेण मूल्यदानं सिद्धं भवति ॥ २.१९६ ॥

अराजदैविकान् नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थान्विघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥ २.१९७ ॥

यो वोढव्यद्रव्यप्रापणाय परिक्रीतः सन् राजदैविकव्यापारव्यतिरेकेण स्वकीयप्रज्ञापराधाद् भाण्डं वोढव्यं द्रव्यं विनाशयति, स तन्मूल्यं दाप्यः । यस् तु प्रस्थाने विघ्नम् आचरति स द्विगुणं भृतिं दाप्यः । वृद्धमनुः ।

प्रमादान् नाशितं दाप्यः समं द्विर् मोहनाशितम् ।
न तु दाप्यो हृतं चौरैर् दग्धम् ऊढं जलेन वा ॥

द्विर् द्विगुणम् इत्य् अर्थः । ब्र्हस्पतिः ।

प्रभुणा विनियुक्तः सन् भृतको विदधाति यत् ।
तदर्थम् अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

तदर्थं स्वाम्यर्थम् । अशुभं चौर्यादि । अपराध्नुयाद् दण्डादिभाग् भवेत् ॥ २.१९७ ॥

प्रक्रान्ते सप्तसमं भागं चतुर्थं पथि संत्यजेत् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥ २.१९८ ॥

इति वेतनादानप्रकरणम् ॥ १६ ॥

प्रक्रान्ते गमने राजमार्गप्राप्तेः प्राग् भृतः कर्म परित्यजन् मूल्यस्य सप्तमं भागं दाप्यः । एतच् च वाहकान्तरलाभात् प्रस्थानविघ्नाभावे वेदितव्यम् । तद्विघ्ने तु द्वुगुणं दानम् उक्तम् । यदि तु पन्थानं प्राप्य परित्यजेत् तदा भृतेश् चुतुर्थांशं दाप्यः । अर्धपथे तु सर्वां भृतिम् । एवं स्वाम्य् अपि परिक्रीय वाहकं यदि त्याजयति न वाहयति । मनुः ।

यः कर्म काले संप्राप्ते न कुर्याद् विघ्नम् आचअरेत् ।
तद्वृत्तो ऽन्यस् तु कार्यः स्यात् स दाप्यो द्विगुणाम् भृतिम् ॥

नारदः ।

अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।
**दाप्यो भृतिचतुर्भागं सर्वाम् अर्धपथे त्यजेत् ॥ [८००]

वृद्धमनुः ।

पथि विक्रीय तद् भाण्डं वणिग् भृत्यं त्यजेद् यति ।
अथ तस्यापि देयं स्याद् भृतेर् अर्धं लभेत सः ॥
यदा स पथि तद् भाण्डं निषिध्येत ह्रियेत वा ।
यावान् अध्वगतस् तेन प्राप्नुयात् तावतीं भृतिम् ॥

नारदः ।

भृतिषड्भागम् आभाष्य पथि युग्यभृतं त्यजेत् ।
अददत् कारयित्वा तु सोदयां भृतिम् आवहेत् ॥

यदीयैर् अश्वबलीवर्दादिभिर् युग्यं भाण्डं नीयते स युग्यभृतः । तं प्रति वोढव्यद्रव्यषड्भागं भृतित्वेनाभाष्य न ददाति तं च त्यजति तदा सोदयां भृतिं तस्मै स्वामी दद्याद् इत्य् अर्थः । बृहस्पतिः ।

कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृतेः ।
राज्ञा दापयितव्यः स्याद् विनयं चानुरूपतः ॥

कात्यायनः ।

त्यजेत् पथि सहायं यः श्रान्तं रोगार्थम् एव वा ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ।

मत्स्यपुराणे ।

मूल्यम् आदाय यो विद्यां शिल्पं वा न प्रयच्छति ।
दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता ॥

नारदः ।

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छञ् शुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥
अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।
अक्रेमेण तु संगच्छन् घातदन्तनखादिभिः ॥
अयोनौ यः समाक्रामेद् बहुभिर् वापि वासयेत् ।
शुल्कं सो ऽष्टगुणं दाप्यो विनयं तावद् एव तु ॥
वेश्याः प्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥

मत्स्यपुराणे ।

गृहीत्वा वेतनं वेश्या लोभाद् अन्यत्र गच्छति ।
तां धनं दापयेद् दद्याद् अनूढस्यापि भाटकम् ॥
अन्यम् उद्दिश्य वेश्यां यो नयेद् अन्यस्य कारणात् ।
तस्य दण्डो भवेद् राज्ञः सुवर्णस्य च माषकम् ॥
नीत्वा भोगं न यो दद्याद् दाप्यो द्विगुणवेतनम् ।
राज्ञश् च द्विगुणं दण्डं तथा धर्मो न हीयते ॥

[८०१] बहूनां व्रजताम् एकां सर्वे ते द्विगुणं दमम् ।

दद्युः पृथक् पृथग् राज्ञे दण्डं च द्विगुणं परम् ॥

स्म्र्तिः ।

व्याधिता सश्रमव्यग्रा राजधर्मपरायणा ।
आमन्त्रिता च नागच्छेद् अवाश्या वडवा स्मृता ॥

नारदः ।

परभूतौ गृहं कृत्वा स्तोमं दत्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥
स्तोमादिना वसित्वा तु परभूमाव् अनिश्चितः ।
निर्गच्छंस् तृणकाष्ठानि न गृह्णीयात् कथंचन ॥
यान्य् एव तृणकाष्ठानि त्व् इष्टका विनिवेशिता ।
विनिर्गच्छंस् तु तत् सर्वं भूमिस्वामिनि वेदयेत् ॥

स्वामिनीति चतुर्थ्यर्थे सप्तमी । स्तोमो भाटकम् । व्यासः ।

स्नेहेन स्थण्डिलं लब्ध्वा मन्दिरं कुरुते तु यः ।
निर्गच्छतस् तस्य दारु दत्तस्तोमस्य नान्यथा ॥

कात्यायनः ।

गृहवार्यापणादीनि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद् यावत् तावद् दाप्यः स भाटकम् ॥

(वृद्धमनुः-

यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति । }
स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ॥
ग्रहीतुर् आभवेद् भग्नं नष्टं वान्यत्र संप्लवात् ॥

स्तोमेन भाटकेन घृततैलादिद्रव्यान्तरप्रापणार्थं यानि मृन्मयानि भाण्डानि तानि स्तोमवाहीनि, तानि पूर्णभाटककालानि तत् स्वामिनम् उपानयेत् । तेषां मध्ये यत् तद् अवलेपाद् भग्नं प्रध्वस्तं वा तत् स्तोमग्रहीतुर् आभवेत् । नेतरेण तद् देयम् इत्य् अर्थः । एतच् च संप्लवाद् अन्यत्र । संप्लवे तु भाण्डस्वामिने भग्नादिभाण्डमूल्यं देयम् । संप्लवो द्रव्यान्तरेणास्फालनम् । इति वेतनादानप्रकअणम् ॥ २.१९८ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**वेतनादानप्रकरणम् ॥ १६ ॥ **

[८०२]