१५ संविद्-व्यतिक्रम-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

संविद्व्यतिक्रमप्रकरणम् । (१५)

संविद्व्यतिक्रमलक्षणस्य व्यवहारपदस्योपयोगिनम् अर्थं तावद् आह ।

[७९२]

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यान् वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यतं इति ॥ २.१८५ ॥

राजा निजनगरे स्थानं स्थीयते यत्र विशिष्टनिवेशनाद्युपेते भूभागे तत् स्थानं वृत्तिमत् कुटुम्बनिर्वाहसमर्थस्थावरजङ्गमधनोपेतं निर्माय तथा ब्राह्मणांस् त्रैविद्यान् ऋग्यजुःसामरूपविद्यात्रयोपेतांस् तत्र स्थाने न्यस्य निवेश्य यथार्हं गृहवृत्त्यादि दत्वा स्वधर्मो वर्णाश्रमादिधर्मः पाल्यतां क्रियताम् इति तान् ब्राह्मणान् ब्रूयात् । केचित् पठन्ति — तैविद्यं वृत्तिमद् इति । तदा त्रैविद्यं वृत्तिमच् च यथा तथा कुर्याद् इत्य् अर्थः । तिसृणाम् ऋगादिविद्यानां समाहारस् त्रैविद्यम् । स्थानस्य च तद्विशिष्टता तद्युक्तब्राह्मणवत्तया । एवं च ब्राह्मणसमूहरचनाभिधानात् संकेतसमयक्रिया संविच्छब्दवाच्या कर्तव्येत्य् अर्थाद् उक्तं भवति । न हि तां विना समूहबाधाश् चौरादयो निराकर्तुं शक्या इष्टापूर्तक्रियादिधर्माश् च संपादयितुम् । अत एवाह बृहस्पतिः ।

वेदविद्याविदो विप्राञ् श्रोत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥
अनाच्छेद्यकरास् तेषां प्रदद्याद् गृहभूमिकाः ।
मुक्ता भाव्याश् च नृपतिर् लेखयित्वा स्वशासनैः ॥
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धे निर्णयं तथा ॥
ग्रामश्रेणिगणार्थं तु संकेतसमयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥
चाटवौरभयं बाधा सर्वस्श्धारणा स्मृता ।
तत्रोपशमं कार्यं सर्वैर् नैकेन केनचित् ॥
कोशेन लेख्यक्रियया मधस्थैर् वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥
विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।
लुब्धातिवृद्धबालाश् च न कार्याः कार्यचिन्तकाः ॥
शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् च कर्तव्यास् तु महत्तमाः ॥ २.१८५ ॥

[७९३]

ब्राह्मणाः स्थाने राज्ञा निवेशनीया इत्य् उक्तं तैस् तु निविष्टैर् यत् कार्यं तद् आह

निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ २.१८६ ॥

निजेन स्वकीयेन श्रौतादिधर्मेणाविरुद्धो यो ऽपि गणोपयोगी स सामयिकः समयादिनिर्वृत्तो धर्मः । यथा — व्याध्याद्युपद्रवसमये प्रतिक्षेत्रं प्रतिगृहं वा धनम् एतावद् गृहयज्ञादिशान्तिकसिद्धये देयम् । यथा वा सर्वैर् जनपदैः स्वव्यापारपरिहारेणामुत्र स्थानविशेष आगन्तव्यं यो नागच्छेत् तस्यायं दण्ड इति । यद् वा सभाप्रपादेवकुलतडागादीनां जीर्णानाम् उद्धारो दीनानाथादीनां च संस्कारो यज्ञभिक्षादिनिमित्तं च दानं साधारणधनेनानया व्यवस्थयैतत् कर्तव्यम् इति । यश् च राज्ञा समर्थधर्मः कृतो यो युष्मास्व् अधिकं पठति वेत्ति वा तस्यैतावती पूजा कार्येत्यादि । स उभयविधो ऽपि यत्नतः परिपाल्यः । अत्र च बृहस्पतिः ।

सभाप्रपादेवगृहतडाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो योजनक्रिया ॥
पालनीयाः समर्थैस् तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥
तत्र भेदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।
चतुःसुवर्णाः षण् निष्कास् तस्य दण्डो विधीयते ॥ २.१८६ ॥

सामयिकराजकृतधर्मभेदिनं प्रति गणद्रव्यहर्तारं प्रति च यत् कार्यं तद् आह ।

गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ २.१८७ ॥

संवित् समयः । महत्य् अपराध एतत् । अन्यत्र मनुर् आह ।

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥
निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण् निष्काञ् शतमानं च राजतम् ॥

अत्रापि चत्वारो देशनिर्वासनादयो दण्डा अपराधानुसारेण व्यवस्थाप्याः । कात्यायनः ।

साहसी भेदकारी च गणद्रव्यविनाशकः ।
**उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥ [७९४]

बृहस्पतिः ।

यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।
संवित्क्रियां विहन्याच् च स निर्वास्यः पुरात् ततः ॥

त्रैविद्यादिकम् उत्सृष्टं क्षिपेद् आक्षिपेद् इत्य् अर्थः ।

अरुंतुदः सूचकश् च भेदकृत् साहसी तथा ।
श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥

अरुंतुदो मर्मोद्घाटकः । सूचको दोषज्ञापकः । भेदकृत् स्नेहवतां विमतिकारी ।

कुलश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ॥
तैः कृतं च स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद् राज्ञो ऽप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥

अध्यक्षा महत्तमाः । वाग्दमं धिदमं वापराधानुसारेण । वाग्विश्रमम् इति पाठे वाग्विश्रमो ऽसंभाष्यता । परित्यागो ऽसंव्यवहार्यता । निसृष्टार्था अनुज्ञातकार्याः ।

बाधां कुर्युर् यद् एकस्य संभूता द्वेषसंयुताः ।
राज्ञा ते विनिवार्यास् तु शास्याश् चैवानुबन्धिनः ॥

अनुबन्धः आग्रहः ।

मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेद् राजा स्वमार्गे स्थापयेच् च तान् ॥

नारदः ।

मिथः संघातकरणम् अहेतोः शस्त्रधारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् ॥

न मर्षेयेन् न क्षमेत । कात्यायनः ।

एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।
अकुर्वंस् तं तथा दण्ड्यस् तस्य दोषम् अदर्शयन् ॥

बृहस्पतिः ।

संभूयैकतमं कृत्वा राजभाव्यं हरन्ति ये ।
ते तद् अष्टगुणं दाप्या वणिजश् च पलायिनः ॥

राजभाव्यं करः । नारदः ।

प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥
दोषवत् कारणं यत् स्याद् अनाम्नायप्रवर्तितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ २.१८७ ॥

[७९५]

किं च

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ २.१८८ ॥

ये समूहहितं वदन्ति गणिनस् तद् उक्तं सर्वैः समूहिभिः कार्यम् । यस् तु हितवादिनां प्रतिकूलः स्यात् स समूहेन प्रथमसाहसं दण्ड्यः । कात्यायनः ।

युक्तियुक्तं तु यो हन्याद् वक्तुर् यो ऽनवकाशदः ।
अयुक्तं चैव यो ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ २.१८८ ॥
समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१८९ ॥

समूहकार्यार्थं समूहप्रमुखान् आयातान् कृतकार्यान् सदानमानसत्कारैर् अभ्यर्च्य महीपतिर् विमुञ्चेत् ॥ २.१८९ ॥

समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ २.१९० ॥

समूहेन स्वकार्यसिद्धये यो नृपादिके(कं) प्रति प्रहितः स तस्माद् यल् लभेत तत् समूहाय स्वयम् एव तेन दातव्यम् । नो चेत् तदेकादशगुणं तस्मात् समूहेन ग्राह्यम् । बृहस्पतिः ।

ततो बलेन यत् किंचित् सर्वेषाम् एव तत् समम् ।
षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥
देयं वा निःस्ववृद्धान्धस्त्रीबालातुररोगिषु ।
सांतानिकादिषु तथा धर्म एष् सनातनः ॥
यत्नैः प्राप्तं रक्षितं वा गणार्थे वा पणं कृतम् ।
राजप्रसादलब्धं वा सर्वेषाम् एव तत् समम् ॥

यदि समूहप्रहितैर् लब्धं विभज्यमानं मासप्रभृति षण्मासान् यावद् गणिनां निर्वाहसमर्थं भवति, तदा यथाभागं विभजनीयम् । अल्पं चेन् निःस्वादिभ्यः प्रदेयम् । कात्यायनः ।

गणम् उद्दिश्य यैः कैश्चित् कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥
गणानां श्रेणिवर्गाणां गताः स्युर् ये तु मध्यतः ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥

[७९६] तथैव भोज्यं वैभाज्यं धनं धर्मक्रियासु च ।

समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाङ् न तु ॥ २.१९० ॥
वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवदिनाम् ॥ २.१९१ ॥

वेदं पठन्तो ऽर्थतश् च जानन्तीति वेदज्ञाः, शुचयः शुद्धाशयाः, अलुब्धा अलोलुपाः, एवंविधाः समूहकार्याणां साधकबाधकविचारकाः स्युः । वेदज्ञत्वादिविशिष्टानां कार्यचिन्तकत्वं विधीयते, अन्यद् अनूद्यते । बृहस्पतिः ।

द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥ २.१९१ ॥

ब्राह्मणेषूक्तस्य सामयिकधर्मस्यान्यत्रातिदेशम् आह

श्रेणिनैगमपाषण्डिगणानाम् अप्य् अयं विधिः ।
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ २.१९२ ॥

इति संविद्व्यतिक्रमप्र्करणम् ॥ १५ ॥

एकजातिनिविष्टानां समानवृत्त्युपजीविनां समूहः श्रेणिर् यथा रजकश्रेणिर् इति । सह देशान्तरवणिज्यार्थं ये नानाजातीया अधिगच्छन्ति ते नैगमा अवैदिकाः प्रव्रज्यास्थिताः पाषाण्डिनो ब्राह्मणेभ्यो ऽन्ये समानजीविका इह गणाः, एषाम[प्य]यम् एव धर्मः, यो निजधर्माविरोधेनेत्य् एवमादाव् उक्तः । तथा श्रेण्यादीनां परस्परभेदं मतिभेदं नृपो रक्षेन् निवारयेत् । प्राक्तनीं च तेषां वृत्तिं पालयेत् । इति संविद्व्यतिक्रमप्रकरणम् ॥ २.१९२ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**संविद्यतिकर्मप्रकरणम् ॥ १५ ॥ **