१४ अभ्युपेत्याशुश्रूषा-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

अभ्युपेत्याशुश्रूषाप्रकरणम् । (१४)

अधुना दासविषयम् आह

[७८६] बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते ।

स्वामिप्राणप्रदो भक्तस् त्यागात् तन्निष्क्रयाद् अपि ॥ २.१८२ ॥

बलाद् धठाद् अदासो ऽपि दासः कृतो यश् च चौरैर् विक्रीतः स मुच्यते मोचनीय इत्य् अर्थः । यदि न मुञ्चति तदा राज्ञा मोचनीयः । तद् आह नारदः ।

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दासत्वं तेषु नेष्यते ॥

यश् च दासः स्न्न् आत्मनो मृत्युम् अभ्युपेत्य भक्त्या स्वामिनंमृत्योर् मोचयति, यश् च स्वामिना दास्यान् मोचितः, यश् चात्मनो दास्यविमोक्षार्थं निष्क्रयं धनं ददाति, सर्व एते स्वामिना मोच्याः । अथ वा तन्निष्क्रयाद् इत्य् अस्यायम् अर्थः — उत्तमर्णायाधित्वेन यो दासो दत्तः स निष्क्रयाद् ऋणापाकरणाद् आध्यन्तरप्रदानाद् वा मोच्यत इति । मनुः ।

न स्वामिनातिसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते ।
निसर्गजं हि तत् तस्य कस् तस्मात् तं व्यपोहति ॥

नारदः ।

गृहे जातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धे प्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ।
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ॥
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥

स्वदास्यां जातो गृहदासः । मूल्यप्राप्तः क्रीतः । प्रतिग्रहादिना प्राप्तो लब्धः । दायाद् उपागतो रिक्थलब्धः । दुर्भिक्षयोषितो ऽनाकालभृतः । स्वामिनोत्तमर्णं प्रत्य् आधिः कृत आहितः । पणे जितो द्यूतजितः । प्रव्रज्यावसितः प्रव्रज्याच्युतः । एतावन्तं कालं तवाहं दासो भवामीत्य् उपगमितः कृतः । भक्षयितुं भ्क्तं यावन् मे ददाशि तावद् अहं ते दास इत्य् एवंरूपो भक्तदासः । वडवा गृहदासी, तया हृतः । तल्लाभेन ताम् उद्वाह्य दासत्वेन प्रविष्टो वडवाहृतः । इतरे प्रसिद्धाः ।

तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥

[७८७] विक्रीणीते स्वतन्त्रः सन् य आत्मानं नरो ऽधमः ।

स जघन्यतरश् चैषां सो ऽपि दास्यान् न मुच्यते ॥
यश् चैषां स्वामिनं कश्चिन् मोक्षयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥
अनाकाले भृतो दास्यान् मुच्यते गोयुगं ददत् ।
संभक्षीतं च यद् दुर्गे न तच् छुध्यति कर्मणा ॥
आहितो ऽपि धनं दत्वा स्वामी यद्य् एनम् उद्धरेत् ।
अथोपगमयेद् एनं सो ऽपि क्रीताद् अनन्तरः ॥

अथ तु साम्ना दासम् उपागमयेद् दासो ऽस्मीत्य् अङ्गीकारयेत् ततः स क्रीताद् अनन्तरः क्रीततुल्य इत्य् अर्थः । ऋणदासविषयं स एवाह ।

ऋणं च सोदयं दत्वा ऋणी दास्याद् विमुच्यते ।
कृतर्णालब्ध्युपरमात् कृतको ऽपि विमुच्यते ॥
तवाहम् इत्य् उपगतो ध्वजप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥

ध्वजप्राप्तो युद्धलब्धः । प्रतिशीर्षप्रदानं दासान्तरप्रदानम् । प्रतिशीर्षविशेषणं तुल्यकर्मणेति । पूर्वदासकर्मणा तुल्यं कर्म यः करोति तं दासं दत्वा पूर्वदासो दासत्वान् मुच्यत इत्य् अर्थः ॥ २.१८२ ॥

प्रव्रज्यावसितं प्रत्य् आह

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।

प्रव्रज्यातो निवृत्तो यावज्जीवं राज्ञ एव दासः । नारदः ।

राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥
द्वाव् एव कर्मचण्डालौ लोके दूरबहिष्कृतौ ।
प्रव्रज्यानिवृत्तश् च वृथा प्रव्रजितश् च यः ॥

कात्यायनः ।

प्रव्रज्यावस्ता यत्र त्रयो वर्णा द्विजातयः ।
निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविण्नृपः ॥

दक्षः ।

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपादेनाङ्कितं तं तु राजा शीघ्रं विवासयेत् ॥

प्रव्रज्यावसिताद् अन्यस्य दासस्य विप्रमोक्षणप्रकारम् आह ।

[७८८] स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।

स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अवासृजेत् ॥

भक्तदासवडवाहृतयोर् अपरो विशेषः ।

भक्तस्योत्क्षेपणात् सद्यो भक्तदासो विमुच्यते ।
वडवाया निग्रहेण मुच्यते वडवाहृतः ॥

भक्तम् अन्नं तस्योपयुक्तस्य प्रतिपादनम् उत्क्षेपणम् । वडवा दासी । निग्रहो निरोधः । असंभोग इति यावत् । तथा ।

स्वां दासीं यस् तु संगच्छेत् प्रसूता च भवेत् ततः ।
अवीक्ष्य बीजं कार्या स्याद् अदासी सान्वया तु सा ॥
दासस्य तु धनं यत् स्यात् स्वामी तत्र प्रभुः स्मृतः ।
प्रकाशं विक्रयाद् ये तु न स्वामी धनम् अर्हति ॥
दासेनोढा त्व् अदासी या सा दासात् स्वत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनपतिर् यतः ॥

दासात् सत्त्वम् इति पाठे सत्त्वं प्राणी, तद् अदास्याः सत्या वोढुर् दासाच् चेद् अवाप्तं तदा तद्दासस्वामिनो दासतां यातीति वेदितव्यम् इत्य् अर्थः ।

वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८३ ॥

उत्तमवर्णं प्रति हीनवर्णो दासो भवति । न तु विपरीतम् इत्य् अर्थः । नारदः ।

वर्णानां प्रातिलोम्येन न दासत्वं विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥

स्वधर्मत्यागी प्रव्रज्यावसितः, तस्य ब्राह्मणत्वे सति श्वपादाङ्कनं प्रवासनं चोक्तम् । क्षत्रियवैश्ये तु नृपं प्रति दासत्वम् इत्य् उक्तम् । अनेन तु शूद्रं राजानं प्रति राजन्यवैश्ययोर् दास्यं विधीयते । कात्यायनः ।

स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥

[७८९] समवर्णो ऽपि विप्रं तु दासत्वं नैव कारयेत् ।

शीलाध्ययनसंपन्नं तदूनं कर्म कामतः ॥
तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ।
ब्राह्मणस्य तु दासत्वा नृपतेजो विहन्यते ॥

नारदः ।

कर्मापि द्विविधं प्रोक्तम् अशुभं शुभम् एव च ।
अशुभं दासकरोक्तं शुभं कर्मकृतां स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोत्करम् ॥
इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥

मनुः ।

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैतृको दण्डदासस् तु सप्तैता दासयोनयः ॥

उपलक्षणार्थम् एतत् । नारदादिभिर् उक्तव्यतिरिक्तानाम् अपि दासत्वाभिधानात् । दण्डनिष्क्रयार्थो दासो दण्डदासः । तथा ।

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षि(शि)तौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥
दास्यं तु कारयेन् मोहाद् ब्राह्मणः संस्कृआन् द्विजान् ।
अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥

प्रभवतो भावः प्राभवत्यम् । प्रभुत्वम् इति यावत् । षट्शतानि पणानाम् ।

शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयंभुवा ॥

विष्णुः- “यस् तूत्तमवर्णं दास्ये नियोजयति तस्योत्तमसाहसो दण्डः” । कात्यायनः ।

आदद्याद् ब्राह्मणीं यस् तु विक्रीणीत तथैव च ।
राज्ञा तद् अकृतं कार्यं दण्ड्याः स्युः सर्व एव ते ॥
कामात् तु संश्रितां यस् तु दासीं कुर्यात् कुलस्त्रियम् ।
संक्रामयेत वान्यत्र दण्ड्यस् तच् चाकृतं भवेत् ॥
बालधात्रीं महादासीं दासीम् इव भुनक्ति यः ।
परिचारकपत्नीं वा प्राप्नुयात् पूर्वसाहसम् ॥
विक्रोशमानां यो भक्तदासीं विक्रेतुम् इच्छति ।
अनापदिस्थः शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥ २.१८३ ॥

[७९०]

कृतशिल्पो ऽपि निवसेत् कृतकालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ २.१८४ ॥

[इत्य् अभ्युपेत्याशुश्रूषाप्रकरणम् }} १४ ॥ ]

अन्तेवासी शिल्पविद्यार्थी गुरुतः प्राप्तभोजनः स्वयंकृतस्य शिक्पकर्मणः फलं गुरवे प्रयच्छेद् यावान् कालो गुरुं प्रति तद्गृहनिवासायाङ्गीकृतस् तावन्तं कालं गृहीतशिल्पो ऽपि गुरुकुल एव वसेत् । अभ्युपेत्याशुश्रूषालक्षणव्यवहारपदविष्यं चैतत् । तत्रैव तद्विषयाणि स्मृत्यन्तराणि प्रदर्श्यन्ते । नारदः ।

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥

अभ्युपेत्याशुश्रूषेत्य् अर्थः ।

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः शेषा दादास् त्रिपञ्चकाः ॥

तथा ।

शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ।
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तितस् तथा ॥
आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥
समावृत्तस् तु गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥

प्रतीयात् प्रतिगच्छेत् ।

स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥
आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥

चतुर्दशभ्यो विद्यास्थानेभ्यो ऽन्या विद्या शिल्पविद्या, तद् उक्तं कर्म शिल्पम्, तद् अपेक्षमाणः शिष्य आचार्येण सह संवसेत् । एतावन्तं कालं तवान्तिके निवसिष्यामीति । कात्यायनः ।

यस् तु न ग्राहयेच् छिल्पं कर्माण्य् अन्यानि करयेत् ।
**प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥ [७९१]

शिप्लम् अशिक्षयतः स्वकीयानि च कर्माणि कारयतो गुरोः शिष्येण त्यागो राज्ञा च प्रथमसाहसो दण्डः कार्य इत्य् अर्थः । नारदः ।

शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥

वधो ऽत्र ताडनं न प्राणच्छेदः ।

शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥

कृतम् अङ्गीकृतं कालं तत्र वसन् समापयेद् इत्य् अर्थः । तत्र वसता शिष्येण कृतस्य कर्मणः फलं लाभ आचार्यस्य ।

गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥
भृतकस् त्रिविधो ज्ञेय उत्तमाधममध्यमः ।
शक्तितश् चानुरूपा स्याद् एषां वत्साश्रया भृतिः ॥
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाहः स्याद् इत्य् एवं त्रिविधो भृतः ॥
सर्वेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽपि कर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥
शुभकर्मकरा ह्य् एते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥

सर्वेषु भृतकेष्व् अधिकृत उपरिकृतो ऽधिष्ठायक इति यावत् । बृहस्पतिः ।

द्विप्रकारो भगभृतः कृषिगोजीविनां स्मृतः ।
जातसस्यात् तथा क्षीरात् स लभेत न संशयः ॥

इति क्रयविक्रयानुशय(अभ्युपेत्याशुश्रूषा)प्रकरणम् ॥ २.१८४ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**ऽभ्युपेत्याशुश्रूषाप्रकरणम् ॥ १४ ॥ **