१३ क्रीतानुशय-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

क्रीतानुशयप्रकरणम् । (१३)

द्रव्यविशेषपरीक्षकाणां कालविशेषम् आह

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसाम् परीक्षणम् ॥ २.१७७ ॥

मासशब्दात् प्राक्तनो ऽहःशब्दो दशादिशब्दैः प्रत्येकम् अभिसंबध्यते । दशाहादिकालेषु सप्तसु सप्तानां बीजादिद्रव्याणां यथासंख्यं परीक्षणं कार्यम् । तत्र बीजस्य दशाहे । अयस एकाहे । वाह्यस्य बलीवर्दादेः पञ्चाहे । रत्नस्य [७८४] पद्मरागादेः सप्ताहे । स्त्रिया दास्या मासे । दोह्यस्य गवादेस् त्र्यहे । पुंसो दासस्यार्धमासे । एवं परीक्षितस्य बीजादेः क्रयं कृत्वा नानुशयः कार्य इत्य् अर्थः ॥ २.१७७ ॥

प्रसङ्गाद् द्रव्यान्तरपरीक्षोपायम् आह

अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ २.१७८ ॥

सुवर्णस्य दह्यमानस्य नैवास्त्य् अपक्षयः । यत् क्षीयते तद् द्रव्यान्तरविमिश्रम्, शुद्धं तु न क्षीयत एव । रजतस्य पलशतपरिमाणस्य रसीभावे क्रियमाणे पलद्वयं क्षीयते । त्रपुविषये तु पलशते रसीकृते ऽष्टौ पलाः(नि) क्षीयन्ते । एवं सीसके । ताम्रविषये तु पलशते ध्मायमाने पञ्च पलानि क्षीयन्ते । एवम् अयसि दश ॥ २.१७८ ॥

तान्तवं प्रत्य् आह

शते दशपला वृद्धिर् और्णे कार्पासिके तथा ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९ ॥

सूत्रे कार्पासिक ऊर्णामये वा शते शतपलपरिमिते सति यत् तन्मयं वस्त्रं भवति तत्र दश पलानि वर्धन्ते । एतच् च स्थूलसूत्रमये वस्त्रे द्रष्टव्यम् । ततः सूक्ष्मातिसूक्ष्मसूत्रमये तु यथासंख्यं पञ्चपला त्रिपला च वृद्धिः स्यात् ॥ २.१७९ ॥

वृद्धिम् उक्त्वा क्षयम् आह

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिः स्यात् कौशेये वाल्कलेषु च ॥ २.१८० ॥

यत्र तान्तवे कर्मवशाद् वस्त्रे स्त्रीपुरुषादीनि रूपाणि संपद्यन्ते तत् कार्मिकम् । यत्र रोमाणि बध्यन्ते तद् रोमबद्धम् । तस्मिन्न् उभयविधे वस्त्रे प्रमाणस्य त्रिंशो भागः क्षीयते । कौशेयम् अतसीमयम्, वाल्कलं क्षौमादि, तत्रोभयत्र क्षयवृद्धी न स्तः । तत्र नारदः ।

तान्तवस्य तु संस्कारे क्षयवृद्धी उदाहृते ।
तत्र कार्पासिकोर्णानां वृद्धिर् दशपला शते ॥
स्थूलसूत्रवताम् एषां मध्यानां पञ्चकं शते ।
त्रिपला तु सुसूक्ष्माणाम् अतः क्षय उदाहृतः ॥

[७८५] त्रिंशांशो रोमबद्धस्य क्षयः कर्मकृतस्य च ।

कौशेयवल्कलादीनां नैव वृद्धिर् न च क्षयः ॥

उक्ताद् अधिकक्षये शिल्पी दण्ड्यः ॥ २.१८० ॥

तत्र दण्डपरिमाणम् आह ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यआ असंशयम् ॥ २.१८१ ॥

[इति क्रीतानुशयप्रकरणम् ॥ १३ ॥ ]

सुवर्णताम्रसीमादीनां पत्रोर्णकार्पासादीनां वा निर्माणदशायां तत्कर्तृभिः सुवर्णकारादिभिर् यावत् सुवर्णं सूत्रं वापह्रियमाणं स्वामिनो नष्टं तत्र देशकालौ तस्य चोपभोगं सारासारतां च पर्यालोच्य द्रव्यमूल्यतत्त्वज्ञा यावन् मूल्यं कर्तुम् इच्छन्ति तावन् निःशङ्केन राज्ञा शिल्पिनः सुवर्णकारादयो दापनीयाः । मनुः ।

तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।
ततो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥

द्वादशकार्षापणपरिमाणो दण्डो द्वादशकः । नारदः ।

मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विः पादस् त्रिस् त्रिभागस् तु चतुष्कृत्वो ऽर्धम् एव तु ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं वस्त्रं जीर्णस्यानियमः क्षयः ॥ २.१८१ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**क्रीतानुशयप्रकरणम् ॥ १३ ॥ **