१२ दत्ताप्रदानिक-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

दत्ताप्रदानिकप्रकरणम् । (१२)

इदं दत्तं संप्रदानाद् अनपहार्यम् इदं चापहार्यम् इति विवेकार्थं देयम् अदेयं चाह

स्वं कुटुम्बाविरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ २.१७५ ॥

स्वं स्वकीयं पुत्रकलत्रव्यतिरिक्तं यत्र च कुटुम्बाशनाच्छादनविनाशरूपो विरोधो नास्ति तद् देयम् । अर्थाद् अनेवंविधं न देयम् । तथान्वये स्वसंताने च सति सर्वस्वम् अदेयम् । एतच् च प्राग्दायविभागात् । विभक्तदायेषु तु पुत्रेषु सर्वस्वदानम् अनिषिद्धम् । तथा यद् धनम् अन्यस्मै देयत्वेन प्रतिश्रुतम् अङ्गीकृतं तत् ततो ऽन्यस्मै न देयम् । एवं च सति यद् देयं तद् दत्तं सन् नापहार्यम् । अदेयं त्व् अपहार्यम् इति । स्वम् इतिपदेनास्वं याचितकादि व्युदस्यते । कात्यायनः ।

विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छतः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥
आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥

बृहस्पतिः ।

एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः ।
अदेयदेयदत्तानाम् अदत्तस्य च कथ्यते ॥
सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।
प्रतिश्रुतं तथान्यस्य न देयं त्व् अष्टधा स्मृतम् ॥

सामान्यम् अनेकस्वामिकम् । [७८०] तथा ।

कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते ।
मध्वास्वादो विषं पश्चाद् दातुर् धर्मो ऽन्यथा भवेत् ॥

भक्तं भोजनम् । वसनम् आच्छादनम् ।

सप्तारामाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रचीयते ।
पित्रा वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥

सप्तभ्य आरामादिभ्यो यद् यत् प्रचीयते ऽधिकं भवति तद् दातव्यं विवक्षितम् इत्य् अर्थः । सप्तागमाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रदीयत इति च पाठे सप्तविधशौर्याद्यागमप्रकारलब्धाद् गृहक्षेत्राद् उद्धृत्य दातव्यम् । न त्व् अनागमम् इत्य् अर्थः ।

स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् ।
वैवाहिके क्रमायाते सर्वदानं न विद्यते ।

बन्धकम् आधिस् तद् बन्धाचारेणाधिरूपेण देयम् । तद् विवाहलब्धं चेत् तस्यां भार्यायां सत्यां सर्वम् अदेयम् । तथा पितामहादिक्रमायातं पुत्रसद्भावे ।

सौदायिकक्रमायातं शौर्यप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥

यत् सौदायिकं विवाहलब्धं तत् तया भार्ययानुज्ञातं देयम् । क्रमायातं चाविभक्तधनैर् ज्ञातिभिः । भृत्येन सता युद्धे लब्धं स्वामिनानुज्ञातम् इत्य् अर्थः ।

विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानादापनविक्रये ॥

क्रमायाताविभक्तस्थावरविषयम् एतत् । विभक्ता अपि समाः किं पुनर् अविभक्ता इत्य् व्याख्येयम् । अन्यथा विभागो ऽनर्थकः स्यात् । एवं च सति विभक्तानां साम्याभिधानेनैतद् गमयति — दानादियोग्येषु विभक्तेषु दायादेषु सत्सु तेभ्य एव स्थावरम् अर्पणीयम् अयोग्येषु निरपेक्षेषु वान्येभ्य इति । आपदादौ तु स्थावरविषयं दानादिकम् अविभक्तधनैर् दायादैर् अनुज्ञात एको ऽपि कुर्यात् । तथा च स्मृत्यन्तरे ।

एको ऽपि स्थावरे कुर्याद् दानादापनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥ इति ।

नारदः ।

दत्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति ।
दत्ताप्रदानिकं नाम तद् विवादपदं विदुः ॥

[७८१] अथ देयम् अदेयं च दत्तं चादत्तम् एव च ।

व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥
अत्रेहाष्टाव् अदेयानि देयम् एकविधं स्मृतम् ।
दत्तं सप्तविधं विद्याद् अदत्तं षोडशात्मकम् ॥
अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदाराश् च सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि च कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचर्या यच् चान्यस्मै प्रतिश्रुतम् ॥
कुटुम्बभरणाद् द्रव्यं यत् किंचिद् अतिरिच्यते ।
तद् देयम् उपहन्यान्यद् ददद् दोषम् अवाप्नुयात् ॥
पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं तु दत्तं दानविदो विदुः ॥

पण्यस्य गवदेः क्रयणीयस्य मूल्यतया यच् च कर्मकरेभ्यो वृत्तित्वेन यच् च तुष्ट्याद्युपाधिकं पुत्रजन्मादिश्रावकेभ्यो यच् च स्नेहान् मित्रादिभ्यो यच् च प्रत्युपकारतो भयत्राणाद्यर्थं यच् च शुल्कादिनिमित्तं राजकृताधिकारिपुरुषादिभ्यो यच् च स्त्रीभ्यो भार्यादिभ्यो यच् चानुग्रहार्थं दीनानाथादिभ्यस् तद् दानं दानविदो विदुः । अत्र कात्यायनः ।

अविज्ञातोपलब्ध्यर्थं दानम् यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥
भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात् प्रत्युपकारकम् ॥

नारदः ।

अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितैः ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च तत् ॥

कात्यायनः ।

प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्वं ते प्रदास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥
कामक्रोधास्वतन्त्रार्तमत्तोन्मत्तप्रमोहितैः ।
व्यत्यासात् परिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥

[७८२] या तु काम्यप्रसिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।

तस्मिन्न् अपि प्रसिद्ध्यर्थे न देया स्यात् कथंचन ॥
अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यः स तां बलात् ।
दण्डं चैकादशगुणं प्राहुर् गार्गीयमानवाः ॥

बृहस्पतिः ।

क्रुद्धहृष्टप्रमत्तार्तबालोन्मत्तभयातुरैः ।
मत्तातिवृद्धनिर्धूतैः संमूढैः शोकवेगिभिः ॥
नन्दत्तं (मन्दैर् दत्तं?) तथैतैर् यत् तद् अदत्तं प्रकीर्तितम् ।
प्रतिलाभेच्छया दत्तम् अपात्रे पात्रशङ्कया ॥
कार्ये वा धर्मसंयुक्ते स्वामी तत् पुनर् आप्नुयात् ॥

मनुः ।

कस्मैचिद् याचमानाय दत्तं धर्माय यद् भवेत् ।
पश्चाच् च न तथा तस्मान् न देयं तस्य तद् भवेत् ॥

धर्मं कर्तुं याचमानाय यद् दत्तं तेन चेद् असौ धर्मं न कुर्यात् तदा तस्मै न देयम् इत्य् अर्थः ।

यदि संसाधयेत् तत् तु दर्पाल् लाभेन वा पुनः।
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥

अस्यार्थः — यदि तदपहारे क्रियमाणे स दर्पाल् लोभेन वा न ददाति किं तु संसाधयेद् राजसंनिधौ तस्य धनस्यानपहार्यतां साधयितुम् इच्छेत् स राज्ञा तद् धनं दाप्य इति । कात्यायनः ।

स्वस्थेनार्तेन वा देयं श्रावितं धर्मकारणात् ।
अदत्वा तन्मृते दाप्यस् तत्सुतो नात्र संशयः ॥

स्वस्थेन व्याध्यार्तेन वा यद् दानं संप्रदानं ब्राह्मणं प्रत्य् एतावन् मया तुभ्यं देयम् इति श्रावयित्वा यदि दानम् अकृत्वैव मृतस् तदा तद्दायादैस् तद् दयेम् । अप्रयच्छन्तो राज्ञा दाप्याः । एतच् च धर्मार्थं प्रतिश्रवणे सति द्रष्टव्यम् ।

स्तेनसाहसिकोद्वृत्तपारजापिकशंसनात् ।
दर्शनाद् धृतनष्टस्य तथासत्यप्रवर्तनात् ॥
प्राप्तम् एतैस् तु यत् किंचित् तद् उत्कोचाख्यम् उच्यते ।
न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् ॥

स्तेनादीनां शंसनात् कथनाद् धेतोर् यदि मह्यं त्वं न प्रयच्छसि त्वं स्तेन [७८३] इत्यादि[काद् इति या]वत् । तथा धृतनष्टस्य गृहीतपालयितस्य (?) दर्शनाद् धेतोस् त्वां चाधारकस्य दर्शयामीति यावत् (?) । असत्यस्य सत्यतया तद्विपर्ययेण वा प्रवर्तनात् कारणाद् धेतोर् यद् धनम् उत्कोचाख्यं लब्धं तद्दात्रे राज्ञा दाप्यम् उत्कोचकस्य संपादकग्राहकौ च दण्डनीयाव् इत्य् अर्थः ॥ २.१७५ ॥

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः ॥ २.१७६ ॥

इति दत्ताप्रदानिकं प्रकरणम् ॥ १२ ॥

सर्वस्यैव द्रव्यस्य प्रतिग्रहः प्रकाशः प्रकटः ससाक्षिकः कार्यः । स्थावरस्य विशेषतो महता यत्नेन । तथा — इदं ते दास्यामीति यत् प्रतिश्रुतम् अङ्गीकृतं तद् दातव्यं दत्तं च नापहार्यम् । कात्यायनः ।

स्वेच्छया यः प्रतिज्ञाय ब्राह्मणाय प्रतिग्रहम् ।
न दद्याद् ऋणवद् दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥

गौतमः- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” । कात्यायनः ।

योगाधापनविक्रीतं योगे दानप्रतिग्रहम् ।
यस्य वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

योग उपाधिः । इति दत्ताप्रदानिकं प्रकरणम् ॥ २.१७६ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**दत्ताप्रदानिकं प्रकरणम् ॥ १२ ॥ **