११ अस्वामि-विक्रय-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

अस्वामिविक्रयप्रकरणम् । (११)

अथास्वामिविक्रयविवादं प्रत्य् आह ।

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २.१६८ ॥
अस्वामिना गोभूम्यादिकं क्रीतं तद् यस्य स्वं स क्रेतुः सकाशाल् लभेत । क्रेतुश् च विक्रेतारम् अप्रकाशयतो दोषश् चौर्यं स्यात् । ततश् चौरवद् अस्य दण्डो भवति । तथा हीनात् पण्यसंभवहीनाद् रहो रहसि विजनदेशे हीनमूल्ये ऽत्यल्पमूल्ये च [७७५] पण्ये वेलाहीने विक्रयवेलारहिते पण्य एव क्रेता तस्करः स्यात् तस्करदण्डभाक् स्याद् इत्य् अर्थः । जानाति ह्य् असौ क्रयात् प्राग् एव चोरयित्वायम् इदं विक्रीणीत इति । नारदः ।
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥

व्यासः ।

याचितान्वाहितं न्यासं कृत्वान्यस्य यद् धनम् ।
विक्रीयते स्वाम्यभावे स ज्ञेयो ऽस्वामिविक्रयः ॥
निक्षिप्तान्वाहितं न्यासं हृतयाचितबन्धकम् ।
उपांशु येन विक्रीतम् अस्वामी सो ऽभिधीयते ॥
पूर्वस्वामी तु तद् द्रव्यं यदागत्य विधारयेत् ।
तत्र मूलं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥

नारदः ।

अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥

बृहस्पतिः ।

अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ।
स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वयं धनम् ॥
अर्धं द्वयोर् अपि हृतं तत्र स्याद् व्यवहारतः ।
अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ॥
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ॥

अविज्ञाताश्रयाद् अविज्ञातस्थानाद् विक्रेतुर् यत् क्रीतम्, यद् वा ज्ञातस्थानो ऽपि विक्रेता यदि मृतस् तदा स्वामिना मूल्याद् अर्धं क्षेत्रे दत्वा स्वधनं ग्राह्यम् । अस्मिन् विषये क्रेतुश् चार्धहानिर् द्वयोर् अप्य् अपराधित्वाद् इति । अत्र मरीचिः ।

वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
दिवा गृहीतं यत् क्रेता स शुद्धो लभते धनम् ॥
अविज्ञातनिवेशत्वाद् यत्र मूल्यं न लभ्यते ।
हानिस् तत्र समा कल्प्या क्रेतृनास्तिकयोर् द्वयोः ॥ २.१६८ ॥
नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥ २.१६९ ॥

[७७६]

स्वकीयं द्रव्यं नष्टम् अपहृतं वासाद्योपलभ्य तस्य हर्तारं राज्ञा ग्राहयेद् विधारयेत् । देशकालातिपत्तौ राज्ञा ग्रहणे क्रियमाणे यदि देशम् अतीत्यापहर्ता न याति कालात्यये वापहृतं द्रव्यं व्यपैति तदा स्वयम् अपहर्तारं गृहीत्वा राज्ञे ऽर्पयेत् ॥ २.१६९ ॥

गृहीतेन यत् कार्यं तद् आह

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ २.१७० ॥

विक्रेतृप्रदर्शने तु शुद्धिर् अदुष्टता स्यात् । तत्र वास्वामिविक्रीतं धनं स्वामी लभेत, तथा विक्रेतुः सकाशान् नृपो दण्डं क्रेता च मूल्यम् अवाप्नोति । कात्यायनः ।

प्रकाशं वा क्रयं कुर्यान् मूल्यं वापि समर्पयेत् ।
मूलानयनकालश् च देयो योजनसंख्यया ॥

देशविप्रकर्षापेक्षयेत्य् अर्थः । तथा ।

यदा मूलम् उपन्यस्य पूर्ववादी क्रयं वदेत् ।
आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥

क्रयं वदेत् प्रकाशक्रयं वदेद् इत्य् अर्थः । मनुः ।

अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितम् ।
अदण्डो मुच्यते राज्ञा नास्तिको लभते धनम् ॥

मूलं विक्रेता स चाज्ञायमानदेशत्वाद् अनाहार्यः । व्यासः ।

मूले समाहृते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नास्तिकस्य तदा भवेत् ॥

नास्तिको नष्टद्रव्यस्वामी ॥ २.१७० ॥

तत्र स्वामिविक्रेतृविवादे स्वामिना स्वधनप्राप्तये यत् कर्तव्यं तद् आह

आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तत्र राज्ञे तेनाविभाविते ॥ २.१७१ ॥

नास्तिकेन विवादास्पदं धनं क्रयादिनागमेण भुक्त्या वात्मीयतया भाव्यम् । न मयैतद् दानविक्रयादिनान्यस्य स्वं कृतं किं तु नष्टम् एवैतद् इति भाव्यम् । अतो ऽन्यथा यद्य् उक्तप्रकारेण नास्तिकेनाविभाविते तत्र राज्ञे [७७७] पञ्चपन्धो दमस् तेन देयः । विवादास्पदधनपञ्चमभागसंमितो धनभागो यत्र बध्यते स पञ्चबन्धः । आगमोपभोगो नाशश् च ज्ञातृभिः साध्यः । यद् आह कात्यायनः ।

नास्तिकस् तु प्रकुर्वीत तद् धनं ज्ञातृभिः स्वकम् ।
अदत्तं त्यक्तविक्रीतं कृत्वा सुलभते धनम् ॥
यदि स्वं नैव कुर्वीत ज्ञातृभिर् नास्तिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चौरवद् दण्डम् अर्हति ॥

प्रसङ्गो ऽभिप्रायः । तथा ।

अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातृभिः स्वकम् ।
पश्चाद् आत्मविशुद्ध्यर्थं क्रयं क्रेता स्वबन्धुभिः ॥

अभियोक्ता नास्तिकः । तेन ज्ञातिभिः स्वकीयत्वं धनस्य साध्यम् । न चेत् स शक्नुयात् तथा कर्तुम्, तदा क्रेतात्मनो दोषपरिहारार्थं स्वबन्धुभिः साक्षिभूतैः क्रयं साधयेत् ।

तथा ।

असमाहार्यमूलैस् तु क्र्यम् एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ॥

तथा ।

प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।
न तत्रान्यक्रिया प्रोक्ता दैविकी न च मानुषी ॥

प्रकाशं लोकविदितं प्राक्श्रुतं क्रयं कुर्याद् भावयेद् इत्य् अर्थः ।

वादी चेन् मार्गितं द्रव्यं साक्षिभिर् नैव भावयेत् ।
दाप्यः स्याद् द्विगुणं राज्ञा क्रेता तद् द्रव्यम् अर्हति ॥

महापराधविषयम् एतत् । बृहस्पतिः ।

येन क्रीतं तु मूलेन प्राग् अध्यक्षनिवेदितम् ।
न विद्यते तत्र दोषः स्तेनः स्याद् उपधिक्रयात् ॥

उपधिक्रयश् छद्मक्रयः । यदा तु नास्तिकस्य स्वत्वे प्रमाणं नास्ति, क्रेतुश् च क्रयशुद्धौ तदा स एवाह ।

प्रमाणहीने वादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥
वणिग्वीथीपरिगतं तच् च स्याद् व्यवहारतः ।
अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ॥

[७७८] एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ।

अविज्ञातविशेषत्वाद् यत्र मूल्यं न लभ्यते ॥
हानिस् तत्र समा कल्प्या क्रेतृनास्तिकयोर् द्वयोः ॥

अयम् अर्थः — यद् वा वणिग्वीथ्याम् आपणे क्रीतं तस्य विक्रेता यदि न शक्यश् चानेतुं तदा क्रेतुर् नास्तिकस्य च तुल्यहानिः कल्प्या यतो द्वयोर् अपि द्रव्यहानिकारणम् अस्ति । क्रेतुस् तावच् चौराहृतं न वेति ज्ञानरहितत्वेन क्रयकारणम् । नास्तिकस्य चापरिपालनम् इति ॥ २.१७१ ॥

अत्रैव विषये क्रेतुर् दण्डविशेषम् आह

हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२ ॥

यः स्वकीयं धनं हृतं प्रनष्टं वा राजन्य् अनिवेद्यैव तस्य हस्ताद् गृह्णीयात् स राज्ञा षडधिकान् नवतिपणान् दण्डनीयाः ॥ २.१७२ ॥

प्रसङ्गाद् अन्यद् अप्य् आह

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत् परतो नृपः ॥ २.१७३ ॥

नष्टम् अपहृतं वा धनं राजानं प्रति शुल्काधिकृतैर् ग्रामादिस्थानरक्षकैर् वा यद् आनीतं तत् संवत्सराद् अर्वाक् स्वामी लभेत । ऊर्ध्वं तु संवत्सराद् राजा । गौतमः- “प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञः प्रब्रूयुर् विख्याप्य संवत्सरं राज्ञा रक्ष्यम्” । मनुः ।

प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥

उत्कृष्टगुणब्राह्मणे स्वामिन्य् एतत् । अत्रापरो विशेषः ।

आददीताथ षड्भागं प्रनष्टाधितान् नृपः ।
दशमं द्वादशमं वापि सतां धर्मम् अनुस्मरन् ॥

रक्षणप्रयत्नस्य गौरवलाघवानुसारेण भागाल्पत्वमहत्त्वे कल्पनीये ॥ २.१७३ ॥

द्रव्यविशेषं प्रति यावद् अधिगमे देयं तद् आह

पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादम् पादम् अजाविके ॥ २.१७४ ॥

[७७९]

अश्वाद्येकशफं तस्मिन्न् अधिगते ऽधिगन्त्रे स्वामी चतुरः कार्षापणान् दत्वा तद् आददीत । एवं मानुषे पञ्च । महिषोष्ट्रगोषु द्वौ द्वौ । अजास्व् अविकेषु च प्रत्येकं कार्षापणस्य पादम् । एतच् च प्रतिव्यक्ति देयम् । न तु प्रतिजाति । इत्य् अस्वामिविक्रयप्रकरणम् ॥ २.१७४ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**ऽस्वामिविक्रयप्रकरणम् ॥ ११ ॥ **