१० स्वामि-पाल-विवाद-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

स्वामिपालविवादप्रकरणम् । (१०)

क्षेत्रापराधिदण्डप्रसङ्गात् सस्यापराधिदण्डम् आह ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ २.१५९ ॥

[२.७६९]

भक्षणमर्दनाभ्यां परसस्योपघातिनी महिषी महिषो वा माषान् अष्टौ दण्ड्यः स्यात् । गौश् चतुरो माषान् । अजाविकं द्वौ द्वौ माषौ । पशूनां निर्धनत्वेन धनदण्डायोग्यत्वात् तत्स्वामिनाम् अयं लक्षणया दण्डविधिः । कार्षापणस्य विंशो भागो माषः ॥ २.१५९ ॥

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६० ॥

ये पशवः सस्यं भक्षयित्वा तत्रोपविशन्ति, तेषां प्रातिस्विकाद् दण्डाद् द्विगुणो दण्डो भवति । यः सस्योपघाते महिषादीनां दण्ड उक्तः स एव विवीतोपघाते ऽपि वेदितव्यः । तृणाद्यर्थम् आवृतो भूभागो विवीतम् । खर उष्ट्रश् च महिष्या तुलदण्डः । मनुः ।

क्षेत्रेष्व् अन्येषु तु पशुः सपादं दण्डम् अर्हति ।
सर्वत्र तु शदो देयः क्षेत्रिकायेति धारणा ॥

अस्यार्थः — येषु क्षेत्रेषु कृतापराधा अप् पशवो न दण्डनीया इति मनुनोक्तास् ततो ऽन्येषु क्षेत्रेषु कृतापराधः पशुः सपादं कार्षापणं दण्डम् अर्हतीति । एतद् अतिपूर्वके महति चापराधे द्रष्टव्यम् । सर्वेषु पश्वपराधेषु शदः क्षेत्रफलं यावद् विहितं तावत् क्षेत्रिकाय देयम् । दण्डं पाप्नुयाद् इत्य् अनुवृत्तौ शाङ्खलिखितौ- “रात्रौ चरतां गौः पञ्च माषान् दिवा त्रीन् मुहूर्ते माषं ग्रासे त्व् अदण्डः सर्वेषाम् एव वत्सो माषं महिषी दश खरोष्ट्रौ षोडशाजाविकं चतुरः” । नारदः ।

गावः पादं प्रदाप्यास् तु महिष्यो द्विगुणं ततः ।
अजाविके सवत्से तु माषो दण्डः परः स्मृतः ॥
सन्नानां द्विगुणो दण्डो वसतां च चतुर्गुणः ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृतो बुधैः ॥

विष्णुः- “महिषी चेत् सस्यनाशं कुर्यात् तत्पालकस् त्व् अष्टौ माषान् दण्ड्यः । अपालकायाः स्वामी । अश्वस् तूष्ट्रो गर्दभो वा गौश् चेत् तदर्धं तदर्धम् अजाविक उक्तो दण्डः” ॥ २.१६० ॥

क्षेत्रस्वामिने तद् देयं पशुपालकस्य च यत् कार्यं तद् इदानीम् आह

[७७०]

यावत् सस्यं विनश्येत तावत् क्षेत्री फलं लभेत् ।
पालस् ताड्यो ऽथ गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥ २.१६१ ॥

अपक्षपातिनः प्राज्ञाः सामन्ता यावत् सस्यं विनष्टं परिभाव्य ब्रूयुस् तावत् क्षेत्रिणे गोमी दद्यात् । राज्ञे च पूर्वोक्तं दण्डम् । गोमी गोस्वामी । गोशब्दः पशुमात्रोपलक्षणार्थः । पशुपालश् च राज्ञा कषा(शा)दिना ताडनीयः । नारदः ।

गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत्र तु वापितम् ॥
गोजग्धं गोमिना देयं दान्यं वै कार्षि(कर्ष)कस्य तु ।
एवं हि विनयः प्रोक्तो गवाम् सस्यावमर्दने ॥

यत् तु उशनसोक्तम्,

गोभिर् विनाशितं धान्यं यो नरः प्रतियाचते ।
पितरस् तस्य नाश्नन्ति नाश्नति त्रिदिवौकसः ॥

इति, तत् स्त्रीगवीविहितविषयम् ॥ २.१६१ ॥

उक्तस्य दण्डस्य पिषयविशेषे ऽपवादम् आह

पथिग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद् दण्डम् अर्हति ॥ २.१६२ ॥

पथो ग्रामस्य विवीतस्यान्ते समीपे यत् क्षेत्रं तत्र पशुभिर् अकामतः सस्ये विहन्यमाने पशुस्वामिपालयोर् दोषो न विद्यते । ततश् च शददण्डयोर् दानं गोपस्य च ताडनं नास्ति । कामतस् तु पशुचारेण चौरवद् दण्डः । दोषाभावश् चावृतावसत्याम् । नारदः ।

ग्रामोपान्ते तु यत् क्षेत्रं विवीतान्ते महापथि ।
अनावृतं चेत् नाशे न पालस्य व्यतिक्रमः ॥
वृतिं तत्र प्रकुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं च वारयेत् तत्र श्वसूकरमुखानुगम् ॥

नारदः ।

पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् नाश्वो न भिन्द्याद् यां न सूकरैः (रः) ॥

कात्यायनः ।

अजातेष्व् एव सस्येषु कुर्याद् आवरणं महत् ।
**दुःखितेन हि निवार्यन्ते लब्धस्वादुरसा मृगाः ॥ [७७२]

मनुः ।

पथिक्षेत्रे परिवृते ग्रामान्ते यो ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालं वारयेत् पशुम् ॥

पथ्यादिक्षेत्रं यदि परिवृतं गोपालसहितः पशुर् उपहन्यात् तदा शतदण्डार्हः पशुः । अपालश् चेद् वारयितव्य इत्य् अर्थः । नारदः ।

उत्क्रम्य तु वृतिंयः स्यात् सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या विनारयेत् ॥ २.१६२ ॥

पशुविशेषे ऽपवादम् आह ।

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां च ते मोच्या राजदेवपरिप्लुताः ॥ २.१६३ ॥

महोक्षादयः सस्यापराधे ऽपि न दण्ड्याः । महांश् चासाव् उक्षा च महोक्षः । यः सर्वासां गवां गर्भाधानाय घृतः । उत्सृष्टा देवताद्यर्थं यथाविधि स्वामिना परित्यक्ताः पशवो गवादयः । सूतिका नवप्रसूता दशरात्रं यावत् । आगन्तुकः पाररहितो ग्रामान्तराद् आगतः । ये पशवो राज्ञा परराष्ट्रग्राहिणा दैवेन व्याध्यादिना वा परिप्लुता उपद्रुतास् ते सगोपा अपि मोच्याः । आदिशब्दः शाखान्तरोक्तसंग्रहार्थः । उशना ।

अदण्ड्या हस्तिनो ऽश्वाश् च प्रजापाला हि ते स्मृताः ।
अदण्ड्याः काणकुण्ठाश् च पृथक् च कृतलक्षणः ॥
अदण्ड्यागन्तुकी गौश् च सूतिका चाभिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥

प्रजापाला हीतिवचनाद् राजकीनाम् एव हस्त्यादीनाम् अदण्डता । गोमण्डलात् प्रच्युता तदभिगामिन्य् अभिसारिणी । मनुः ।

अनिर्दशाहाम् गां सूतां वृषान् देवपशूंस् तथा ।
अपानान् वा विपालान् सा अदण्ड्यान् मनुर् अब्रवीत् ॥

नारदः ।

गौः प्रसूता दशाहे तु महोक्षो वाजिकञ्जराः ।
निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥

तथा ।

राजग्राहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण वा दष्टो वृक्षाद् वा पतितो भवेत् ॥
व्याघ्रादिभिर् हतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।
**न तत्र दोषः पालस्य न च दण्डो ऽस्ति गोमिनाम् ॥ [७७२]

कात्यायनः ।

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद् यत्र दण्डं तत्र विकल्पयेत् ॥ २.१६३ ॥

पशूनां स्वामिपालयोर् विवादं प्रत्याह

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ २.१६४ ॥

यथा प्रातःकाले स्वामिना परिगणिताः पशवः पशुपालायार्प्यन्ते तथैव तेन ते सायं प्रत्यर्पणीयाः । तत्र यदि गोपस्योपेक्षया यावन्तो म्रियन्ते नश्यन्ति वा तदा तावतो गवादीन् पशून् कृतवेतनः कृतभृतिर् गोपालकः स्वामिने राज्ञा प्रदाप्यः । तद्वेतनम् मनुर् आह ।

गोपः क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् ।
गोस्वाम्यनुमतो भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥

यः पशूनां गोपो गोप्ता क्षीरभृतः क्षीरमूल्यः स दशतो दशानां गवादीनां दोग्ध्रीणां मध्याद् वराम् उत्कृष्टाम् एकां गोस्वाम्यनुमतो भृत्य इति कृत्वात्मार्थं दुह्यात् । सैव पशुपाले प्रकारान्तरेणाभृते भृतिर् मूल्यं स्यात् । नारदः ।

गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहश् चाष्टमे ऽहनि ॥

संदोहः सर्वदोहः । बृहस्पतिः ।

तथा धेनुभृतः क्षीरं लभते दशमे ऽखिलम् ।

मनुः ।

विघुष्य तु हृतं चौरैर् न पालस् तत्र किल्बिषी ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥

तथा ।

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमो ऽन्यथा चेत् तु पालो वक्तव्यताम् इयात् ॥

किल्बिषम् अपराधः । वक्तव्यताप्य् अपराध एव । व्यासः ।

पालग्राहे ग्रामघाते तथा राष्ट्रस्य विभमे ।
यत् प्रनष्टं हृतं वा स्यात् पालस् तत्र न किल्बिषी ॥ २.१६४ ॥
पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने द्रव्यम् एव च ॥ २.१६५ ॥

[७७३]

पालस्य शक्यरक्षणे ऽप्य् उपेक्षणं चेत् तेन दोषेण पशुविनाशे च सत्य् अर्धत्रयोदशपणः पालविषये दण्डो विधेयः । विनष्टपशुमूल्यं द्रव्यस्वामिने दापनीयः । त्रयोदशानां पूरणस् त्रयोदशः सार्धो येषां ते ऽर्धत्रयोदशाः पणा यस्मिन् दण्डे सो ऽर्धत्रयोदशपणो दण्डः । सार्धत्रयोदशपण इति यावत् । नारदः ।

स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।
अशक्तस् तूर्णम् आगत्य स्वामिने तन् निवेदयेत् ॥
अव्यायच्छन्न् अविक्रोशन् स्वामिने चानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयं चैव राजनि ॥

व्यायच्छेद् व्यसननिरासाय प्रयतेत । व्यसननिरासासमर्थस् तु स्वामिने निवेदयेत् । आक्रोशेद् वा । मनुः ।

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तत् ॥

मूल्यद्वारेणेति शेषः । नाशो ऽदर्शनम् । तथा ।

अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।
यत् प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उपेत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥

नारदः ।

अनेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु च विशुद्धिः स्याद् वालशृङ्गादिदर्शनात् ॥ २.१६५ ॥
ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस् तृणैधःपुष्पाणि सर्वतः समुपाहरेत् ॥ २.१६६ ॥

ग्रामवर्तिजनेच्छया भूमेश् चाल्पत्वमहत्त्ववशाद् राजवशाद् वा गवादीनां पशूनां प्रचारार्था भूः स्यात् । तृणाद्यभ्यवहारो वा प्रचारः । तथा द्विजातिस् तृणादीन् धनानि पुष्पाणि च सर्वतः परिगृहीताद् अपि भूभागाद् उपाहरेत् । गौतमः- “गोऽग्न्यर्थी तृणम् एधान् वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम्” । स्ववद् इति वचनाद् उपाददानः स्वामिना न निषेध्यः । एतच् चापदि । [७७४] यत् तु स्मृत्यन्तरम्,

तृणं वा यदि वा काष्टं पुष्पं वा यदि वा फलम् ।
अनापृष्टं तु गृह्णानो हस्तच्छेदनम् अर्हति ॥

इति, तद् अनापद्गतशूद्रादिविषयम् ॥ २.१६६ ॥

भूमिवर्त्मना गोप्रचारो भवतीति यद् उक्तं तद् व्यवस्थापयति ।

धनुःशतं परीहारो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ २.१६७ ॥

इति स्वामिपालविवादप्रकरणम् ॥ १० ॥

ग्रामो ऽगृहीतवनभूस् तस्य संबन्धिक्षेत्राणां चान्तरं धनुःशतपरिमाणं परिहारः परिहृतं कृष्यादिकं भवेद् इत्य् अर्थः । खर्वटपरिहारस् तु धनुःशतद्वयम् । नगरस्य पुनर् धनुषां चतुःशतम् । ग्रामाद् अधिको नगरान् न्यूनो गृहसमूहः खर्वटः । मनुः ।

धनुःशतपरीहारो ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥

युगे वर्तमानस्य बलीवर्दस्य नियामकः काष्टकीलकः शम्या, सा प्रास्ता यावन्तं भूभागं व्यतीत्य पतति स शम्यापातः । इति स्वामिपालप्रकरणम् ॥ २.१६७ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**स्वामिपालविवादप्रकरणम् ॥ १० ॥ **