०९ सीमा-विवाद-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

सीमाविवादप्रकरणम् । (९)

अथ सीमाविवादे निर्णयहेतून् आह ।

सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणाश् च ये चान्ये वनगोचराः ॥ २.१५० ॥
नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥ २.१५१ ॥

क्षेत्रस्य स्थावरस्य ग्रामारामादेः सीम्नो मर्यादाया विवादे सामन्ताः समन्तात् परितो ऽनन्तरग्रामादिभोक्तारः, स्थविरा वृद्धाः । आदिशब्देन शास्त्रान्तरोक्ता अन्ये ऽपि सीमानिर्णायकाः कथ्यन्ते । गोपाः पशुपालाः । सीमाकृषाणाः सीमायाः कर्षकाः । आकारान्तो ऽपि सीमाशब्दो ऽस्ति । वनगोचरा वनोपजीविनः । एते सर्वे स्थलादिभिर् लिङ्गैर् उपलक्षिताम् अवधृतां सीमानं तद्विवादे नयेयुर् निर्णयेयुः । स्थलम् उन्नता भूः । निम्नः परिखा । चैत्यः संप्रतिपन्नक्षेत्रद्वयस्वामिकल्पितौ लिङ्गविशेषः । प्रसिद्धम् अन्यत् । सीम्नो भेदान् आह नारदः ।

ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥

द्वजिनी वृक्षादिलक्षिता । मत्स्यिनी मत्स्याधारजललक्षिता । नैधानी भूमध्यनिहिततुषाङ्गारादिकुम्भोपलक्षिता । भयवर्जितार्थिप्रथ्यर्थिकृतलिङ्गगम्या । नृपेण सर्वाभावे स्वयंकृतेति वा । राजशासननीता राजाज्ञाकृता । मनुः ।

सीमां प्रति समुत्पन्ने विवाहे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासि नयेद् एतां सुप्रकाशेषु सेतुषु ॥

ग्रामशब्दः प्रदर्शनार्थः । तेन जनपदयोः क्षेत्रयोर् गृहयोश् च मर्यादाविवादसंग्रहः । एवं चतुर्विध एव सीमाविवादो भवति । ज्येष्ठमासग्रहणं न नियमार्थं किं तु सौकर्यप्राप्तम्, सुकरं हि तदा सीमालिङ्गप्रदर्शनम् । सेतवः सेत्वादयः सीमाहेतवः ।

[७५९] निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः ।

प्रकाशोपांशुचिह्नैश् च लक्षितः संशयापहः ॥

निवेशो ग्रामादिप्रवेशारम्भः । सीमाबन्धः सीमायाह् निबन्धनं नियामकम् । उपांशु(श्व) प्रकाशम् । बृहस्पतिः ।

कूपवापितडाकानि चैत्यारामसुरालयाः ।
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ॥
निहितानि तथान्यानि यानि भूभिर् न भक्षयेत् ॥

नारदः ।

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिभावयेत् ॥

ग्रामादिशब्दैर् ग्रामादिभोक्तार उपलक्षिताः । समन्ततो य उपलक्ष्यन्ते तांश् च सामन्तान् विवादविषयस्य ग्रामस्य समन्तात् सर्वतः स्थितान् परिभावयेत् । नन्वे(नत्वे)कस्याम् एव दिशि । स्थविरा वृद्धास् तान् अप्य् आह स एव ।

निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धा वृद्धास् ते परिकीर्तिताः ॥

स्थविरादय इत्यादिशब्देनान्ये ऽपि शास्त्रान्तरोक्ता उच्यन्ते ।

आधिक्यं न्यूनता चांशे अस्तिनातित्वम् एव च ।
अभोगभुक्तिः सीमा च षट् तु वादस्य हेतवः ॥

इति स्थावरस्य षट्प्रकारता । कात्यायनः ।

तेषाम् अभावे सामन्ता मूलवृद्धोद्धृतादयः ।
स्थावरे षट्पर्कारे ऽपि नात्र कार्या विचारणा ॥

तेषाम् इति साक्षिनिर्देशः । अत एव मनुः ।

यदि संशय एवास्माल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्याद् विवादे सीमनिर्णयः ॥

कात्यायनः ।

तस्मिन् भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।
लेख्यारूधश् चेतरश् च साक्षी मार्गद्वयान्वितः ॥

मनुः ।

ग्रामीय(ण)ककुलानां तु समक्षं सीमसाक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥

[७६०] ते पृष्टास् तु यथा ब्रूयुः सामन्ताह् सीमनिर्णयम् ।

तथा तां च निबध्नीयात् समस्तां तांश् च साक्षिणः ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सीमान्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥

मौलान् आह कात्यायनः ।

ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥

उद्धृतान् अपि स एवाह ।

उपश्रवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृताः ॥

उपश्रवणं परस्परप्रसिद्धिः । कार्यं तत्करग्रहणम् । आख्यानं वार्ता । उद्धृतादय इत्यादिशब्देन येषां परिग्रहस् तेषां निर्देशं स्वयम् एव करोति ।

संसक्तास् त्व् अथ शामन्तास् तत्संसक्तास् त्व् अथोत्तराः ।
संसक्तसक्तसक्तान्ताः पद्माकाराः प्रकीर्तिताः ॥

क्षेत्रादिर् विप्रतिपन्नसीमकस्य सर्वासु दिक्षु ये ऽनन्तरं क्षेत्रादिभोक्तारस् ते संसक्ताः । ये तु तदनन्तरास् ते सामन्ताः । ये ऽपि तदनन्तरास् ते संसक्तसंसक्ताः । तेषाम् अपि ये ऽनन्तरास् ते संसक्तसक्तसक्ताः । एवं पद्माकाराः षोडशसंख्यका भवन्ति । तथा ।

सामन्ताभावे ऽसामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन् नगरदेशयोः ॥
स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तेषु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदुष्टेषु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञां धर्मं विजानता ॥
त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्रां कारयेत् सीमाम् एवं धर्मविदो विदुः ॥

मौलादिमिश्रान् अन्यान् सीमां प्रति निर्णायकान् कारयेद् इत्य् अर्थः । तथा ।

सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥

प्रतिवादिना सामन्तान् प्रत्य् अनिष्टोक्तौ दोषोद्भावन इत्य् अर्थः । उत्तराः [७६१] संसक्तादयः । सामन्तादीनाम् असाक्षित्वे ऽपि सीमालिङ्गानि वृक्षतुषादीनि प्रदर्शयतां सीमानिर्णायकत्वम् उपपद्यत एव । त एव हि तदभिज्ञाः । यद्य् अपि वृक्षादिस्वरूपम् अन्ये ऽपि जानीयुस् तथाप्य् अयं वृक्षः सीमलिङ्गम् अयं नेति विवेको ऽन्येषां नास्ति । तथात्र प्रदेशे तुषाङ्गारकादि निखातं विद्यत इति सामन्तादीनाम् एव शक्यं ज्ञातुम् । अत एव बृहस्पतिः ।

करीषास्थितुषाङ्गारशर्कराश्मकपालिकाः ।
सिकतेष्टकगोवालकर्पासास्थीनि भस्म च ॥
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ।
ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ॥
वार्धके च शिशूनां ते दर्शयेयुस् तथैव च ।
एवं परम्पराज्ञाने सीमाभ्रान्तिर् न जायते ॥

यत् एवैषां लिङ्गप्रदर्शकत्वेन निश्चायकत्वम् अत एव पापनिरततया व्याधशकुनिकव्यालग्राहिप्रभृतीनां साक्षिभावानर्हाणाम् अपीह परिग्रहः । केचित् पठन्ति सामन्ताः स्थविराद्या गणा इति । तस्मिन् पक्षे गणशब्देन ब्राह्मणादिसमूहवाचिनो गणिनो लक्ष्यन्ते । अस्ति च तेषां सीम्नि प्रामाण्यम् । यद् आह नारदः ।

क्षेत्रसीमाविवादेषु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥
ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः ॥

नयेयुः सीमानम् इत्य् अनुवृत्तौ नारद एव ।

निम्नगापहृतोन्मृष्टन्ष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानैश् च प्रमाणैर् भोगदर्शनैः ॥

बृहस्पतिः ।

अन्यग्रामात् समाहृत्य दत्तान्यस्य यदा मही ।
अन्यथा तु भवेल् लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् ।
तस्मात् सर्वेषु कालेषु तत्कृतं न विचालयेत् ॥
ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी ।
क्षयोदयेन चाल्पा सा चालयन् दण्डम् अर्हति ॥
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ।
एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितिः ॥

[७६२] नदीतीरं प्रकुरुते तस्यैतां न विचालयेत् ।

क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिश् छिन्ना यदा भवेत् ॥
नदीस्रोतःप्रवाहेण क्षेत्रस्वामी लभेत ताम् ॥

पूर्वस्वामी सस्यवापको लभेत । यावत् सस्यम् इति शेषः ।

या राज्ञा क्रोधलोभेन बलान् न्यायेन वा हृता ।
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥
प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।
गुणाधिकस्य दत्ता वा तस्य तां नैव चालयेत् ॥

बृहस्पतिः ।

शपथैः शापिताः स्वैः स्वैर् ब्रूयुः सीम्नि विनिश्चयम् ।
दर्शयेयुर् निधानानि तत्प्रमाणम् इति स्थितिः ॥

निधानानि निहितानि तुषाङ्गारादीनि सीमलिङ्गानीत्य् अर्थः ॥ २.१५०, १५१ ॥

यत्र न सन्ति सीमनिर्णयसमर्थाः साक्षिणः, सामन्ताश् च नैव शक्नुवन्ति लिङ्गानि प्रदर्शयितुम्, तत्र किं कार्यम् इत्य् अपेक्षित आह

सामन्ता वा समा ग्रामाश् चत्वारो ऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५२ ॥

विवादविषयीभूतस्य ग्रामादेः समन्तात् सर्वतो वर्तमाना ग्रामादयो ग्रामादिस्थाः पुरुषाः सामन्तास् ते च समाः समसंख्याकाः । ताम् एव समसंख्यां दर्शयति “चत्वारो ऽष्टौ दशापि वा” । अनेन द्वयोः षण्णां च व्यावृत्तिः । ते च लोहितकुसुमस्रग्विणो लोहितवसनाः क्षितिं लोष्टं च शिरसा धारयन्तश् चङ्क्रम्यमाणाः सीमां नयेयुर् निर्णयेयुः । मनुः ।

शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
स्वकृतैः शापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥

नारदः ।

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥
एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् \

कात्यायनः ।

एको यद्वन् नयेत् सीमाम् उभयोर् ईप्सितः क्वचित् ।
मस्तके क्षितिम् आरोप्य रक्तवासः समाहितः ॥

बृहस्पतिः ।

ज्ञातृचिह्नैर् विना साधुर् एको ऽप्य् उभयसंमतः ।
रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥
**सत्यव्रतः सोपवासः सीमान्तं दर्शयेन् नरः ॥ [७६३]

ज्ञातृचिह्नैर् विना ज्ञातुश् चिह्नस्य चाभाव इत्य् अर्थः ॥ २.१५२ ॥

मिथ्याकारिणां दण्डम् आह

अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ।

सामन्तादयो यद्य् अनृतं मिथ्याभूतं सीमानिर्णयं कुर्युस् तदा मध्यमसाहसं कार्षापणानां चत्वारिंशदधिकानि पञ्च शतानि दण्डनीयाः । यत् तु कात्यायनेनोक्तम्,

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दाप्याश् तूत्तमसाहसम् ॥

इत्यादि, तद् आशयदोषगौरवे सति द्रष्टव्यम् । यद् अप्य् अपरं तेनैवोक्तम्,

न ज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ॥
कीर्तिते यदि भेदः स्याद् दण्डस् तूत्तमसाहसम् ॥

इति, तद् अपि कथितविषयम् । नारदः ।

शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।
जघन्यास् ते ऽपि प्रत्येकं विनेयाः पूर्वसाहसम् ॥

शेषाः सामन्तेभ्यो ऽन्ये । जघन्या मौलसंसक्तादयः । पूर्वसाहसं प्रथमसाहसम् । तथा ।

गणवृद्धादयस् त्व् अन्ये दण्डनीयाः पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते तथा ॥

गणाश् च वृद्धादयश् च ते गणवृद्धादयः । आदिशब्देन मौलोद्धृतनगरग्रामा गृह्यन्ते । एते च साक्षिधर्मम् अतिक्रामन्तः प्रथमसाहसं दण्डनीयाः । अनृतत्वं मिथ्यात्वं च तेषां सीमलिङ्गानां निखातानाम् अप्रदर्शने स्थलवृक्षादीनां चान्यथादर्शने वेदितव्यम् । सीमाचङ्क्रमणं तु मिथ्यात्वं व्यसनोदयाद् वेदितव्यम् । कात्यायनः ।

सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥

लिङ्गानां ज्ञातॄणां चाभावे यत् कार्यं तद् आह

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तकः ॥ २.१५३ ॥

ज्ञातॄणां साक्षिसामन्तादीनां चिह्नानां च स्थलवृक्षादीनां चासंभवे राजैव स्वातन्त्र्येण सीमानं प्रवर्तयेत् । [७६४]

नारदः ।

यदा च न स्युर् ज्ञातरः सीमायां न च लक्षणम् ।
तदा राजा द्वयोः सीमाम् उन्नयेद् इष्टतः स्वयम् ॥

इष्टम् इच्छया । यदा पुनर् विवादविषयीभूता सीमा भूमिर् एकस्य ग्रमस्य क्षेत्रादेर् अत्यन्तोपकारिका, तया विना तद्ग्रामादि न भवत्य् एव । इतरस्य तु न तथा । तत्राह मनुः ।

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रविशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥

अविषह्या ज्ञातृज्ञापकशून्या । प्रविशेत् प्रवेशयेद् इत्य् अर्थः । उपकाराद् उपकारहेतुओः ॥ २.१५३॥

उक्तं क्षेत्रसीम्नो निर्णयकारणं तद् एवान्येषाम् अप्य् आरामादीनां सीमनिर्णयकारणम् आह ।

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ २.१५४ ॥

आरामादिषु सीमाविवादविषयेष्व् अयम् एव साक्षिसामन्तादिको विधिर् निर्णयविधायको ज्ञेयः । वर्षाप्रभवजलप्रवाहमर्यादाविवादे चैष एव विधिः । आराम आम्रादिवनम् । आयतनं देवालयः । निपानं जलाशयः । उद्यानं क्रीडावनम् । प्रसिद्धम् अन्यत् । आदिशब्दः सर्वेषाम् एव भूमर्यादाविवादानाम् उपसंग्रहार्थः । अत एव बृहस्पतिः ।

सर्वस्मिन् स्थावरे वादे विधिर् एष प्रकीर्तितः ॥

तथा ।

निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।
येन यावद् यथाभुक्तं तस्य तन् न विचालयेत् ॥
वातायनप्रणालीस् तु तथा निर्यूहवेदिकाः ।
चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥

वातायनं गवाक्षः । काष्ठादिमयो जलनिर्गमोपायः प्रणाली । निर्यूहो द्वारनिर्गमः काष्ठविशेषः । गृहघोणीति यावत् । वेदिका प्राङ्गना(णा)दिभूः । चतुःशालं चतुर्द्वारं गृहम् । स्यन्दनिका पटलप्रान्तः । कात्यायनः ।

मेखलाभ्रमनिष्कासगवाक्षान् नोपधारयेत् ।
प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग् भवेत् ॥

[७६५] निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन ।

दृष्टिपाते प्रणालं च न कुर्यात् परवेश्मसु ॥

मेखला कुड्यमूलबन्धः । भ्रमो जलनिर्गमः । निष्कामो हर्म्यादिभित्तिनिर्गतं काष्ठादिनिर्मितम् अस्पृष्टभूमिकम् उपवेशनस्थानम् । नोपधारयेन् न निरुन्ध्यात् । गृहवास्तुर् वासभूमिः । दृष्टिपातो गवाक्षः । बृहस्पतिः ।

वर्चस्थानं वह्निमयं गर्तोच्चिष्टाबुसेचनम् ।
अत्यारात् परकुड्यस्य न कर्तव्यं कदाचन ॥

वर्चः पुरीषम् । गर्तः श्वभ्रम् । अत्याराद् अतिसमीपे । कात्यायनः ।

विण्मूत्रोदकचक्रं च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥

बृहस्पतिः ।

यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।
तद् उच्यते संसरणं न रोद्धव्यं तु केनचित् ॥
यस् तत्र संकरं श्वभ्रं वृक्षारोपणम् एव च ।
कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु माषकः ॥

संकरो द्रव्यान्तरेण संकीर्णता । कार्षापणस्य विंशो भागो माषकः । मनुः ।

समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ॥
आपद्गतस् तथा वृद्धो गर्भिणी बाल एव वा ।
परिभाषणम् अर्हन्ति न तु शोध्यम् इति स्थितिः ॥

परिभाषणं धिग्दण्डः । कात्यायनः ।

तडाकोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥
दूषयेत् सर्वतीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि दण्डयेत् पूर्वसाहसम् ॥ २.१५४ ॥
मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ २.१५५ ॥

क्षेत्रादिसीम्नो ज्ञापकं सेत्वादिकं मर्यादा, तस्याः प्रभेदे विनाशे सीम्नश् चातिक्रमणे क्षेत्रस्य चापहारे यथाक्रमं प्रथमोत्तममध्यमा दण्डा भवन्ति । एतच् च प्रदर्शनार्थम् । तेनापराधभूयस्त्वापेक्षया,

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।

इत्यादि शास्त्रान्तरं पर्यालोच्य दण्डान्तरम् अपि कार्यं भवति । [७६६] मनुः ।

गृहं तडाकम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥

वृद्धमनुः ।

स्थापितां चैव मर्यादाम् उभयोर् ग्रामयोस् तथा ।
अतिक्रामन्ति ये पापास् ते दण्ड्या द्विशतं दमम् ॥

कात्यायनः ।

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥
अन्यक्षेत्रेषु जातानां शाखा यत्रान्य्संस्थिताः ।
स्वामिनं तं विजानीयाद् यस्य क्षेत्रेषु संस्थिताः ॥

संस्थिता उत्पन्नाः ॥ २.१५५ ॥

किं च

न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ २.१५६ ॥

स्वक्षेत्रे परेण क्रियमाणः सेतुर् अल्पस्यापकारस्य महतश् चोपकारस्य हेतुर् न निवार्यः । तथा यस्य भूमिं स्वल्पक्षेत्रः स्वल्पायनो बहूदकश् च कूपो ऽपाहरेत् सो ऽपि तेन न निषेध्यः । विपरीतौ तु सेतुकूपौ निषेध्याव् एव ॥ २.१५६ ॥

किं च

स्वामिने ऽविनिवेध्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ २.१५७ ॥

यस् तु क्षेत्रस्वामिनम् अ[न]नुज्ञाप्य तत्क्षेत्रे सेत्वादि करोति, स तस्य फलोपभोगं दृष्टम् अदृष्टं वा न लभते । किं तु क्षेत्रस्वाम्य् एव लभते । तदभावे तु राजा । नारदः ।

सेतुस् तु द्विविधो ज्ञेयः खेयो बध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बध्यः स्याद् विनिवर्तनात् ॥

क्षेत्रात् तोयं पर्वर्तयितुं निर्गमयितुं यः सेतुः स खेयः । यस् तु क्षेत्र एव तोयं धारयितुं क्रियते स बध्यः ।

नान्तरेणोदकं सस्यं नाशश् चात्युदके सति ।
य एवानुदके दोषः स एवात्युदके भवेत् ॥
पूर्वप्रवृत्तम् उत्त्पन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥

[७६७] मृते तु स्वामिनि पुनस् तद्वंश्ये चापि मानवे ।

राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥
अतो ऽन्यथा क्लेशभाक् स्यान् मृगव्याधानुदर्शनात् ।
इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥

अनुदर्शनं निदर्शनम् । तस्य मृगव्याधस्येत्य् अर्थः । कात्यायनः ।

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतडाकानां संस्कर्ता लभते न तु ॥
देयं स्वामिनि चायाते न निवेद्य नृपं यदि ।
अथावेद्य प्रयुक्तस् तु तद्गतं लभते फलम् ॥ २.१५७ ॥

प्रसङ्गात् क्षेत्रविषयं किंचिद् आह

फालाहतम् अपि क्षेत्रं यो न कुर्यान् न कारयेत् ।
तं प्रदाप्याकृष्टशदं क्षेत्रम् अन्येन कारयेत् ॥ २.१५७ ॥

[इति सीमाविवादप्रकरणम् ॥ ९ ॥]

यः क्षेत्रं फालाहतं कृष्टम् अपि न कुर्यात् तत्र क्षेत्रे बीजवापादि न कुर्यात् । नापि कारयेत् । तं कृषीवलम् अकृष्टशदं प्रदाप्यान्येन कृषीवलेन क्षेत्रं कारयेत् । शदः क्षेत्रस्य फलम् । अकृष्टस्य क्षेत्रस्य शदो ऽकृष्टशदः । अकृष्टे ऽपि क्षेत्रे तं प्रदाप्य क्षेत्रम् अन्यस्यार्पयेद् इत्य् अर्थः । व्यासः ।

क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञा दण्डं च तत्समम् ॥

तत्समं तस्य क्षेत्रशदस्यानुरूपम् इत्य् अर्थः । तद् एव सारूप्यं दर्शयति ।

चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते ऽपि षष्ठं स्यात् परिकल्प्यं यथास्थिति ॥

चिरावसन्ने चिरकालम् अकृष्टे क्षेत्रे पूर्वोक्ते निमित्ते सति क्षेत्रफलस्य दशमं भागं दण्डनीयः । कृष्यमाणे वर्तमानविलेखने तु क्षेत्रे ऽष्टमम्, सुसंस्कृते तु षष्ठम् इति । नारदः ।

अशक्तप्रेतनष्टेषु क्षेत्रिकेषु निवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥
विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनर् आव्रजेत् ।
**खिलोपचारं तत् सर्वं दत्वा क्षेत्रम् अवाप्नुयात् ॥ [७६८]

खिलं दुष्कर्षं क्षेत्रम् ।

तदष्टभागापचयाद् यावद् अष्ट गताः समाः ।
समाप्ते त्व् अष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥

अस्यार्थं कात्यायन आह ।

अशक्तितो न दद्याच् चेत् खिलार्थे च कृतं व्ययम् ।
तदष्टभागहीनं तु का(क)र्षकात् फलम् आप्नुयात् ॥
वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ॥

क्षेत्रस्वामी का(क)र्षकाय खिलव्ययं निर्धन इति कृत्वा न ददाति, तदा का(क)र्षकः क्षेत्रफलस्याष्टमं भागम् अष्टौ वर्षाणि यावत् स्वामिने दद्यात् । तत ऊर्ध्वं स्वाम्य् एव क्षेत्रं लभत इत्य् अर्थः । नारदः ।

संवत्सरेणार्ध्खिलं खिलं स्याद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु क्षेत्रं स्याद् अटवीसमम् ॥

कृषिं विना संवत्सरेणार्धखिलं भवति, यत्नसाध्यं भवतीत्य् अर्थः । एवं त्रिभिर् वर्षैः खिलं महायत्नसाध्यं भवतीत्य् अर्थः । पञ्चवर्षोपेक्षितं क्षेत्रम् अटवीतुल्यं स्यात् । ततश् चैवं कुर्वतः का(क)र्षकस्यापराधानुरूपं राज्ञे स्वामिने च तेन देयम् ।

क्षेत्रं त्रिपुरुषं यस्य गृहं वा स्यात् क्रमागतम् ।
राजप्रसादाद् अन्यत्र न तद्भोगः परं नयेत् ॥

त्रिपुरुषायातो भोगो राजप्रसादकृताद् अन्यो गृहादेः परभोग्यतां निवारयति । इति सीमाविवादप्रकरणम् ॥ २.१५८ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**सीमाविवादप्रकरणम् ॥ ८ ॥ **