०८ दाय-विभाग-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

दायविभागप्रकरणम् । (८)

[७१७]

उक्तम् ऋणादानाख्यं निक्षेपाख्यं च व्यवहारपदम्, तदङ्गतया च प्रमाणान्य् अपि मानुषाणि दिव्यानि च । अथेदानीं विभागाख्यं व्यवहारपदम् आरम्भते ।

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११४ ॥

पित्रादिधनस्य पुत्रादीन् उद्दिश्य विविच्य भागकरणं विभागः । तत्र पितृधनं पिता विभजेद् इत्य् उत्सर्गः । हेतुविशेषे तु पुत्रा अपि विभजन्ते, तद् उपरिष्टाद् वक्ष्यते । तत्र यदि पिता विभजेत् तदिच्छया न्यूनाधिकविभागविषयान् सुतान् उद्दिश्य धनं विभजेत् । अस्मद्धनस्यायम् अंशस् तवायम् अंशस् तवेति व्यवस्थापयेद् इति यावत् । शङ्खः- “यद्य् एकपुत्रः स्यात् तदा द्वौ भागौ वात्मनः कुर्यात्” । नन्व् इच्छयेति न वक्तव्यम्, विभागकर्तृत्वाद् एव तत्प्राप्तेः । न हि चेतनो ऽनिच्छन् क्रियासु स्वतन्तो भवति, स्वतन्त्र एव कर्तोच्यते । सत्यम् । विभागकर्तृत्वाद् एव विभागविषयेच्छा प्राप्ता । अत एवासाव् इच्छया विभजेद् इत्य् अनेन [न] विधीयते किं त्व् अन्यैव । तस्याश् च कस्यचित् पुत्रस्य न्यूनो धनांशः कस्यचिद् अधिक इत्य् एवं विषमो भागो विषयः । ततश् चेच्छया न्यूनाधिकविभागैः सुतान् विभजेद् इत्य् अर्थः । यद्य् अपि विभजेद् इत्य् अस्माद् विभाग एव प्रतीयते, न वैषम्यविशिष्टस् तथापि,

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्थं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥

इत्यादिभिर् उद्धारशास्त्रैर् यावन्त उद्धारप्रकारा विहितास् ते सर्वे ऽत्रोपलक्षिता भवन्ति । ततश् च पारिशेष्याद् विभागकर्तुर् इच्छया विभागवैषम्यम् “इच्छ्यया विभजेत् सुतान्” इत्य् अत्र विधीयत इत्य् सिद्धम् । अत्र नारदः ।

पित्रैव तु विभक्ता य समन्यूनाधिकैर् धनैः ।
तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ॥ इति ।

न चैतद् उद्धारवाकार्थविषयम् इति वाच्यम्, पिता प्रभुर् इति वचनात् । न ह्य् उद्धारे पितुः प्रभुत्वं किं तु शास्त्रस्य । बृहस्पतिः ।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनयास् ते स्युर् अन्यथा ॥

अथ चेच्छया विभजेत् सुतान् इत्य् अनेन विभागकर्तृतयाइव पितुर् इच्छया विभागप्रयोजकत्वं प्राप्तम् उच्यत इति वाक्यार्थानर्थक्यप्रसङ्गपरिहारार्थं पुत्रेच्छा विभागं न प्रयुङ्क्त इति परिसंख्यायत इत्य् आश्रीयते । तथा च मनुः ।

[७१८] ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।

भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥

देवलः ।

पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।
अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ॥

अस्वाम्यम् अस्वातन्त्र्यम् । शङ्खलिखितौ- “अत ऊर्ध्वं रिक्थविभागः । न जीवति पितरि पुत्रा रिक्थं विभजेरन् । यद्य् अपि स्यात् पश्चाद् अधिगतम् एतैर् अनर्हा एव पुत्रा अर्थधर्मयोर् अस्वातन्त्र्यात्” । नारदः ।

विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥

अत्र च पित्र्यस्य पुत्रैर् इति च प्रदर्शनार्थम् । “विभागं चेद् पिता कुर्यात्” इति पितुः स्वार्जितधनविषयम् । तत् पित्राद्यर्जितधनविषये तु समम् एव पितापुत्रयोर् विभागकर्तृत्वम् । अत एवाह विष्णुः- “पिता चेत् पुत्रान् विभजेत् तस्य स्वेच्छा स्वयम् उपार्जिते ऽर्थे पित्रर्जिते ऽपि धने कदाचित् पुत्रा एव विभागकर्तारो भवन्ति” । अत एव नारदः,

अत ऊर्ध्वं पितुः पुत्रा विभजेरन् धनं समम् ।

समम् इति पित्रोर् ऊर्ध्वं विभागकर्तृत्वं पुत्राणां प्रतिपाद्य,

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥

इत्य् उक्तवान् । पुत्राः समं धनं विभजेयुर् इत्य् अनुषज्जते । शङ्खः- “अकामे पितरि रिक्थविभागो वृद्धो विपरीतचेतसि दीर्घरोगिणि वा” । नारदः ।

व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥

अन्यथाशास्त्रकारी विधिनिषेधातिक्रमकारी । पित्रर्जिते ऽपि धने पुत्राणां विभागे स्वातन्त्र्यं पितुर् अकामत्वादौ निमित्ते भवति । मातरि त्व् अम्रियमाणायाम् अस्वतन्त्रा एव पुत्राः । यद् आह शङ्खः- “ज्येष्ठ एव पितृवद् अर्थान् पालयेद् इतरेषां तु रिक्थमूलम् एव कुटुम्बम् अस्वतन्त्राः पितृमन्तो मातर्य् एवम् अविस्थितायाम्” । [७१९] मातुः कुटुम्बभरणसामर्थ्ये सत्य् एतत् । ज्येष्ठस्य यद् अनुजैः सहाविभक्तधनत्वम् उच्यते, तत् तेषां मध्ये कैश्चिद् अध्येतव्ये वेदे सति द्रष्टव्यम् । अधीतवेदेष्व् अधिगतवेदार्थेषु चाग्निहोत्राद्यनुष्ठानसमर्थेषु च विभाग एव श्रेयान् । यद् आह मनुः ।

एवं स्ह वसेयुर् वा पृथग् वा धर्मकाङ्क्षया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्याः पृथक्क्रियाः ॥

व्यासः ।

भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।
तदभावे विभक्तानां धर्मस् तेषां विवर्धते ॥

यदा त्व् अप्रगल्भतया ज्येष्ठेन सह विभक्तधनाः कनीयांसो भवन्ति, तदा तेषाम् आवश्यकं वैश्वदेवाद्य् अपि न विभज्यते । तद् आह बृहस्पतिः ।

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥

उक्ते पितृकर्तृके विभागे पुत्राणां विषयो ऽपि विभागो भवतीति तस्य विशेषापवादम् आह मनुः ।

भ्रातॄणाम् विभक्तानां यद्य् उत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथंचन ॥ २.११४ ॥

किं च

यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११५ ॥

यदि पिता पुत्राणां कृते समं धनविभागं कुर्यात् तदा याभ्यः स्त्रीभ्य्ः स्त्रीधनं भर्त्रा वा श्वशुरेण पित्रा वा न दत्तं ताः स्वपत्न्यः पुत्रसमांशाः कार्याः । एकस्य पुत्रस्य यावान् अंशस् तावदंशम् एकैकां पत्नीं कुर्याद् इत्य् अर्थः ॥ २.११५ ॥

विभागवैषम्ये कारणान्तरम् आह

शक्तस्यानीहमानस्य किंचिद् दत्वा पृथक्क्रिया ।

यः पुत्रो धनार्जनसमर्थतया पितृधनं नेच्छति, यो वा धनार्जनसमर्थो ऽपि शठतया धनस्यार्जनरक्षणानुकूलां चेष्टां न कुरुते, तस्मै किंचिद् असारम् अल्पकं धनं दत्वा पित्रा पृथक्क्रिया कार्या । अन्यथा तेन तत्संतत्या वा [७२०] विवादः स्यात् । पुत्रैः संभूयार्जिते धन एतत् । पित्रादिधने तु समम् अंशं लभत एव । मनुः ।

भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स विभाज्यः स्वकाद् अंशात् किंचिद् दत्वोपजीवनम् ॥

स्वकाद् अंशाद् भ्रातृभिः स्वयम् अर्जिताद् इत्य् अर्थः । प्रसङ्गाद् अन्यद् उच्यते । अत्र नारदः ।

कुटुम्बार्थेषु चेद् युक्तस् तत् कार्यं कुरुते च यः ।
स भ्रातृभिर् बृंहणीयो ग्रासाच् छादनवाहनैः ॥

आपस्तम्बः- “सर्वे हि धर्मसंयुक्ता भागिनो यस् त्व् अधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो ऽपि तम् अभागं कुर्वीत” । अधर्मेण द्यूतादिना द्रव्याणि सुवर्णगोवस्त्रादीनि प्रतिपादयति विनाशयति अन्यत्र नयति वा । गौतमः- “सवर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभेतेत्य् एकेषाम्” । मनुः ।

सर्व एव विकर्मस्था नाहर्हन्ति भ्रातरो धनम् ।

शङ्खलिखितौ- “अपपात्रितस्य रिक्थपिण्डोदकानि निवर्तन्ते” । पतितत्वाज् ज्ञातिभिर् बहिष्कृतो ऽपपात्रितः । रिक्थं पितृधनम् । पुत्रस्थानीयस्य ज्ञातिधनम् अपि ॥

उक्तो विषमविभागः स धर्मत्वाद् अनतिक्रमणीय इत्य् आह

न्यूनाधिकविभक्तानां धर्मः पितृकृतः स्मृतः ॥ २.११६ ॥

पुत्रैर् वार्जितधनस्य न्यूनाधिकांशदानेन पुत्राणां विभक्तधनानां स एव धर्मो यः पित्रा कृतो ऽतो ऽसौ नातिक्रमणीयः । बृहस्पतिः ।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥ २.११६ ॥

अधुना कर्तृकर्मकालप्रकारैर् विशिष्टं विभागान्तरम् आह

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ॥ २.११७ ॥

मातापित्रोर् मरणाद् ऊर्ध्वं तयोर् एव रिक्थम् ऋणं च पुत्राः समं यावन्तो भ्रातरस् तावतो भागान् प्रत्येकम् अन्यूनाधिकान् ऋणस्य धनस्य च कृत्वा भजेरन् । ततश् च [७२१] यो यावन्तं धनस्य विभागं भजते तावन्तम् ऋणस्यापि भजते । एवं च सति यस् चतुस्त्रिद्व्येकभागाः स्युर् इति तथा येन चैषां स्वयम् उत्पादितं स्याद् इत्यादिषु विषमविभागविधिषु ऋणस्यापि धनानुसारेण विभागविधिर् अवसेयः । मातुस् तु धनम् ऋणापाकरणे कृते यद् अवशिष्टं तत् तस्या दुहितरो विभजेतंस् ताभ्य ऋते दुहितॄणाम् अभावे तदन्वयो दुहित्रन्वयः । दुहितॄणां तदन्वयस्य वा(चा)भावे पुत्रा एव मातृधनं विभजेरन् । तद् आह कात्यायनः ।

दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।
बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् ॥
भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः ।
स्त्रीधनस्येति धर्मो ऽयं विभागस् तु प्रकल्पितः ॥ इति ।

मनुः ।

जनन्यां सम्स्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ इति ।

अत्र चशब्दो विकल्पार्थो न समुच्चयार्थः । विकल्पे च दुहितरः कुमार्यः पूर्वम् अधिक्रियन्ते । यद् आह मनुर् एव ।

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । इति ।

गौतमस् तु (त्व)प्रत्तानाम् अपि दुहितॄणाम् अप्रतिष्ठितानां मातृधनग्राहित्वम् आह- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्थितानां च” इति । अप्रतिष्ठितानपत्या निर्धना दुर्भगा वा । बृहस्पतिः ।

स्त्रीधनं स्याद् अपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समूढा तु लभते मानमात्रकम् ॥

यौतकं पृथग्धनम् । मानमात्रकं स्वल्पम् इत्य् अर्थः । वसिष्ठः- “मातुः परीणाह्यं स्त्रियो विभजेरन्” । परीणाह्यम् अलकारादि । अनपत्यस्त्रीधनविषये मनुर् आह ।

स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

पित्रेत्य् उपलक्षणम् । कन्या सापत्नी, ब्राह्मणीति विशेषणोपरोधात् । एवं च सति प्रत्तासु प्रतिष्ठितासु दुहितृषु पुत्राणाम् अपि मातृधने ऽधिकारो भवति । अस्मिन्न् एव विषये विशेषान्तरम् आह मनुः । [७२२]

यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥

विभजेरन् सुताः पित्रोर् ऊर्ध्वम् इत्य् अस्यायम् अर्थः — यदि पित्रोर् मरणाद् ऊर्ध्वं विभजेरंस् तदा रिक्थादि समं विभजेरन्न् इति । एतद् भ्रातृकर्तृकविभागपरम्, तेन जीवत्य् अपि पितरि भ्रातरः समम् एव विभजेरन् । पितुस् तु विभजमानस्य नायं नियम इत्य् अर्थाद् गम्यते । न च पितोर् ऊर्ध्वं विभजेरन्न् एवेति व्याख्येयम् । तद् आह मनुः ।

एवं सह वसेयुर् वा पृथग् वा धर्मकाङ्क्षया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥

यत् तु तेनैवोक्तम्,

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥

इति, असमाप्तवेदाध्ययनेषु कनिष्ठेषून्मत्तत्वादिना निरंशेष्व् अप्राप्तव्यवहारेषु वा वेदितव्यम् । अत्र कात्यायनः ।

संप्राप्तव्यवहाराणां विभागश् च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता ॥

अप्राप्तव्यवहारत्वं च प्रदर्शनार्थम् । अगृहीतवेदत्वम् अपि ह्य् अविभागे कारणम् । यद् आह हारीतः- “यद्य् असमाप्तवेदाः कनीयांसस् तदा सह वसेयुः” इति । नारदः ।

बिभृयाद् वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥

नारदस् तु पैतृकम् ऋणम् अपाकृत्यैव रिक्थं विभजनीयम् इति स एवा(एवमा)ह ।

यच् छिष्टं पितृदायेभ्यो दत्वर्णं पैतृकं च यत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी स्याद् अन्यथा पिता ॥

पितृदायो नवश्राद्धानि । तथाह गौतमः- “नवश्राद्धं सह दद्युः” । कात्यायनः ।

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वम् एव तु ॥
तद् ऋणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत् प्रमाणेन विरोधात् परतो यदा ॥

विरोधाद् विवादात् परत ऊर्ध्वम् । [७२३] तथा ।

पित्र्यं पित्र्यर्णसंशुद्धम् आत्मीयं चात्मना कृतम् ।
ऋणम् एवंविधं शोध्यं विभागे बन्धुभिः सह ॥
धर्मर्थं प्रीतिदत्तं च यद् ऋणं स्वनियोजितम् ।
तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥

अस्यार्थः — धर्मार्थं यत् संकल्पितं यच् च प्रीतेन वाचा दत्तं च यद् ऋणम्, तदा(था) स्वस्मिन् पुत्रे त्वयैतद् अपाकरणीयम् ऋणम् इति पित्रा नियोजितम्, तद् दृश्यमानम् उपलभ्यमानं विभजेत्, न तु पैतृकाद् धनात् तद् अपाकृत्य धनविभागः कार्य इति ।

दृश्यमानं विभाज्यं तु गृहक्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस् तत्र कीर्तितः ॥
गृहोपस्करवाह्याश् च दोह्याभरणकर्मणः ।
दृश्यमानं विभाज्यं तु कोशं गूढे ऽब्रवीद् भृगुः ॥

प्रत्ययो दिव्यम् । कोशग्रहणं दिव्यमात्रोपलक्षणार्थम् । मनुः ।

अजाविकं त्व् एकशफं न जातु विषमं भजेत् ।
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥

विषमं भ्रातृसंख्यापेक्षयान्यसंख्यम् ॥ २.११७ ॥

अविभाज्यम् आह ।

पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ २.११८ ॥

अविभक्तधनानां मध्ये येन पितृधनस्याविरोधेनानुपघातेनानुपजीवनेन स्वयम् एकाकिनैव यद् अन्यद् अधिकं धनम् अर्जितम्, यच् च मैत्रं मित्राद् अवाप्तम्, यच् चौद्वाहिकम् उद्वाहे श्वशुरादिभ्यो लब्धम्, न तद् दायादसंबन्धि भवेत् । न तद् विभजनीयम् । किं तूपार्जकस्यैव तद् इत्य् अर्थः । मनुः ।

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं च नाकामो दातुम् अर्हति ॥

श्रमो युद्धकृष्यादिः । ईहात्र श्रमरहिता चेष्टा । कात्यायनः ।

यल् लब्धं लाभकाले तु सजात्या कन्यया सह ।
कन्यागतं तु तद् वित्तं शुद्धं वृत्तिकरं स्मृतम् ॥

[७२४] वैवाहिकं तु तद् विद्याद् भार्यया यत् सहागतम् ।

धनम् एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥ २.११८ ॥

तथा

क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ २.११९ ॥

यत् पूर्वपुरुषक्रमायातं क्षेत्रारामादिकं द्रव्यं कथम् अपि परेणापहृतं यो दायादानुमत्याभ्युद्धरेत् तद् असौ दायादेभ्यो न दद्यात् । यत् पुनर् दायादानुमतिम् अन्तरेणोद्धृतं तस्य चतुर्थम् अंशम् उद्धर्ता गृह्णीयात् । शेषम् उद्धारकेण सह सर्वे विभजेरन् । यद् आह ऋष्यशृङ्गः ।

पूर्वनष्टां तु यो भूमिम् एकश् चाभ्युद्धरेत् क्रमात् ।
यथांशं तु लभन्ते ऽन्ये दत्वांसं तु तुरीयकम् ॥

यच् च विद्यया निमित्तभूतया लब्धं तद् अपि दायादेभ्यो न दद्यात् । मनुः ।

विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥

कात्यायनः ।

परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।
तया प्राप्तं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥

भक्तम् अन्नम् । अन्यतः पितुर् अन्यत इत्य् अर्थः ।

उपन्य्स्तेन लब्धं यद् विद्यया पणपूर्वकम् ।
विध्याधनं तु तद् विद्याद् विभागे न वियुज्यते ॥
शिष्याद् आर्त्व्ज्यतः प्रश्नात् संदिघप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् ॥
विद्याधनं तु तत् प्राहुर् विभागे न विभज्यते ।
शिल्पेष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥
विद्यापणकृताव् एव याज्यतः शिष्यतस् तथा ।
एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥
परं निरस्य यल् लब्धं विद्यातो द्यूतपूर्वकम् ।
विध्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥
विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् ।
ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं भृगुः ॥

[७२५] आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।

तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ॥
तत्र लब्धं तु यत् किंचिद् धनं शौर्येण यद् भवेत् ॥

व्यासः ।

विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नान्वेष्टव्यं स्वरिक्थिभिः ॥

कात्यायनः ।

ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तद् भवेत् ।
सङ्ग्रामाद् आहृतं यत् तु विद्राव्य द्विपतां बलम् ॥
स्वाम्यर्थ्ये जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥

मैत्रादीनां धनानां पितृद्रव्यानुपयोगेनार्जितानां न विभागः । तदुपयोगार्जितविषये तु व्यास आह ।

साभारणं समाश्रित्य यत् किंचिद् वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास् तु समभागिनः ॥

कात्यायनः ।

नाविद्यानां तु वैद्येन देयं विद्याधनं क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥

नारदः ।

वैद्यो वैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पित्र्यं द्रव्यं समाश्रित्य न चेत् तेन तद् आहृतम् ॥
कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥
यत् किंचित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥

विद्यानुपालिनो विद्याभ्यासवन्तः कनीयांसः । अपरम् अप्य् अविभाज्यम् आह मनुः ।

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च विभाज्यं न प्रचक्षते ॥

अत्र पत्रशब्देन यानम् उच्यत इति केषांचिद् व्याख्यानं तत् कात्यायनवचनविरुद्धम् । तथा हि ।

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दाराश् च निबन्धो यः क्रमागतः ॥

[७२६] घृतं वस्त्रम् अलंकारो नानुरूपं तु यद् भवेत् ।

यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥
गोप्रचारश् रक्षा च वस्त्रं यच् चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥

नानुरूपं विभागाननुरूपं विभक्तृभिः सह विषमसंख्याकं तद् यथाकालं विभक्तृसंख्यानुरूपेण कालोपयुक्तं कार्यम् । यच् च वस्त्रादीनाम् अवुभाज्यत्वम् उक्तं तत्स्वरूपतः, मूल्यतस् तु विभजनीयम् एव । यद् आह बृहस्पतिः ।

वस्त्रादयो ऽविभाज्या यैर् उक्तं तैर् न विचारितम् ।
धनं भवेत् समृद्धानां वस्त्रालंकारसंश्रितम् ॥
मध्यस्थितम् अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥
विक्रीय वस्त्राभरणं धनम् उद्ग्राह्य लेखितम् ।
कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते ।
तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ॥
एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ॥
योगक्षेमवतो लाभः समत्वेन विभज्यते ।
प्रचारश् च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥

एकां स्त्रीम् इत्य् अनुपभुक्तदासीविषयम् । उपभुक्तायां गौतम आह- “उदकयोगक्षेमकृतान्नेष्व् अविभागः स्त्रीषु च संयुक्तासु” इति । योगक्षेमवतो लाभम् इति योगक्षेमवान् राजादिर् ईश्वरो यः पित्रादिभिः स्वकुटुम्बनिर्वाहकत्वेनोपार्जितस् ततो यो लाभो लब्धं धनं तत्समं विभाज्यम् इत्य् अर्थः । प्रचारः प्रेवेशनिर्गमभूः । शङ्खलिखिताउ- “न चास्ति विभागो ऽन्नोदपात्रालंकारसंयुक्तस्त्रीवाससाम् उपचारार्थ्यानां विभागश् चेति प्रजापतिः” ॥ २.११९ ॥

सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः ।
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२० ॥

[७२७]

अर्थसमुत्तानम् अर्थार्जनम् । सर्वेषां परस्परसापेक्षाणाम् अर्थार्जने सति समो विभागः कार्यः । एतस्मिन् विषये पितापि समम् एव विभजेत् । तद् आह मनुः ।

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथंचन ॥

एवं च सति विषयान्तरे पितृकर्तृको विभागो विषमो ऽपि स्याद् इति गम्यते । तथा ।

अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥

अविभक्तधना एव ये भ्रातरः परेतास् तेषां कस्यचिद् एकः कस्यचिद् द्वौ कस्य्चिद् बहवः पुत्राः स्युः । तत्र तेषां पितृतो भागकल्पना, पितुर् एव यावान् भागस् तावन्तम् एव द्वौ वा बहवो वा गृह्णीयुर् न तेषां समो विभाग इत्य् अर्थः । बृहस्पतिः ।

समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥

कात्यायनः ।

अविभक्ते जिजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन न लब्धं वै पितामहात् ॥
लभते ऽंशं हि पित्र्यं तु पितृव्यात् तस्य वा सुतात् ।
स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ॥
लभते तत्सुतो वापि निवृत्तिः परतो भवेत् ॥

अविभक्तधने भ्रातरि मृते तत्पुत्रः पितामहाद् अनवाप्तविभागः पितृव्यात् तत्पुत्राद् वा निजपितृभागं गृह्णीयात् । एवं च तत्पुत्रस् तत्पौत्रस् तु न लभेतेत्य् अर्थः । अत्र देवलोक्तो विशेषः ।

अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥
तावत् कुल्याः सपिण्डाः स्युः पिण्डभेदस् ततः परम् ।
समम् इच्छन्ति पिण्डानां दायार्थस्य विभाजनम् ॥
विधिर् एव सवर्णानां बहूनां समुदाहृतः ।
**एक एव सवर्णः स्याद् दायो ऽत्र न विभज्यते ॥ [७२८]

विष्णुः- “अथ भ्रातॄणां दायविभागो याश् चानपत्याः स्त्रियः स्युस् तासां चापुत्रलाबाद् विभागो भ्रातॄणां स्त्रियो भार्याः” । अनुत्पन्नापत्या गृहीतगर्भा मृतभर्तृकास् तासाम् अपि दायो देय आ पुत्रलाभात् । पुत्रानुत्पत्तौ तु भागो व्यावर्तते । आ पुत्रलाभाद् इति वचनात् ॥ २.१२० ॥

यद् उक्तम् “विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान्” इत् तस्यापवादम् आह ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ २.१२१ ॥

पितामहधने पौत्रस्य स्वपित्रा तुल्यं स्वाम्यम्, तेन विभागम् अनिच्छन्न् अपि पिता स्वपितृधनं पुत्रविभागेच्छया विभजेत् । समश् च विभागे न स्वार्जितधनवद् विषमः कार्यः । निबन्धो नामास्मिन् भागे प्रतिक्षेत्रं प्रतिगृहं चैतावद् धनम् अमुष्मै देयम् इति । कात्यायनः ।

पैतामहं समानं स्यात् पितुः पुत्रस्य चोभयोः ।
स्वयं तूपार्जिते पित्रा न पुत्रः साम्यम् अर्हति ॥

एतत् पितामहधनानुपजीवनेन पितर्य् उपार्जिते द्रष्टव्यम् । व्यासः ।

क्रमागते गृहे क्षेत्रे पितृपुत्राः समांशिनः ।
पैतृकेण विभागार्हाः पुत्राः पितुर् अनिच्छतः ॥

बृहस्पतिः ।

द्रव्ये पितामहोपात्ते स्थावरे जङ्गमे ऽपि वा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥
पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥

यत् पैतामहं धनं परैर् अपहृतं पित्रा पुनः स्वसामर्थ्येनोपार्जितम्, विद्यादिना च तेनैव यद् अवाप्तम्, तत्र पितुर् एव स्वाम्यं न पुत्राणाम् । अत एवाह ।

प्रदानं स्वेच्छया कुर्याद् भोगं चैव ततो धनात् ।
तदभावे तु तनयाः समांशाः परिकीर्तिताः ॥

कात्यायनः ।

स्वशक्त्यापहृतं नष्टं स्वयम् आप्तं च यद् भवेत् ।
एतत् सर्वं पिता पुत्रैर् विभागे नैव दाप्यते ॥

यद् अपहृतं नष्टं च पिता स्वशक्त्यार्जयेत् । एतद् विभागकाले पिता पुत्रैर् न [७२९] दाप्यत इत्य् अर्थः । एवं तावत् पैतामहे धने पौत्रस्य स्वपित्रा सह सदृशं स्वाम्यं स्मृतयो वदन्ति । न चैतावता “अग्नीन् आदधीत” इत्यदिश्रुतिर् विरुध्यते, येन तद्विरोधपरिहाराय सति पुत्रे पिता स्वपितृधनं न सर्वं दद्याद् भुञ्जीत वा किं तु पुत्रार्थम् अवशेषयेद् इत्य् औपचारिकार्थपरतया व्याख्यायेरन् । न हि जातपुत्रस्य धने स्वाम्यम् अपैति, येन स्वधनसाध्यार्थाः श्रुतयो विरुध्येतन् । यद्य् अपि तद्धनं स्वस्य पुत्रस्य च साधारणं तथापि पुत्रानुमत्या पुत्रविभागपृथक्करणेन द्रव्यान्तरार्जनेन वा न स्वामी स्यात् । संविभागो हि साधारणधनानां स्वामिनाम् एकैकत्र भागे स्वामिन एकैकस्य स्वाम्यं व्यवस्थापयति, नापूर्वम् उत्पदयति । यथा लोके संभूय समुत्थायिनां वेदे च सत्त्रिणां स्वाम्य् उत्थाने । यदि च विभागः स्वामित्वे हेतुस् तदा हठादिना किर्यमाणो ऽपि तज् जनयेत् । यद् अपि गौतमेनोक्तम्- “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु” इति, तत् संविभागस्य व्यवस्थितस्य स्वामिभावजनकत्वपरम् ॥ २.१२१ ॥

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ॥
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥ २.१२२ ॥

विभक्तधनेषु पुत्रेषु यः सवर्णायां पुत्रो जातः स पितृविभागभाग् भवति, पितृविभागाभावे तु यदि विभक्तं क्षेत्रादिकं कृते विभागे पश्चाद् दृश्यते तदुत्पन्नाद् विशोधितायव्ययादिविभागः कार्यः । मनुः ।

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥

विभक्तेषु जातः पितृधनम् एव हरेन् न भ्रातृधनं पितुर् भातॄणां चाभावे पित्रा सह ये संसृष्टास् तैः सह पितृभागं विभजेत । जात इत्य् एकवचनम् अविवक्षितम् । यद् आह बृहस्पतिः ।

पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्याश् चैव ये तेषां पितृभागहरास् तु ते ॥

तत्र यदि पूर्वं विभक्तानां महान् भागो जघन्यानां तु पितृभागम् एव विभज्य गृह्णताम् अल्पस् तथापि पूर्वविभक्तभ्रातृभागान् न तैर् ग्राह्यम् इति स एवाह ।

[७३०] अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ।

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ॥
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥

यदा तु न विभक्तजः कुतश्चित् पूर्वोक्तेन प्रकारेणाल्पम् अपि विभागं लभते,तदा भ्रातृभागेभ्यो गृह्णीयद् इत्य् अर्थः । विष्णुः- “पितृविभक्तविभागानत्रोत्पन्नस्य विभागं दद्युः” ॥ २.१२२ ॥

प्रकारान्तरेणाविभाज्यविशेषम् आह ।

पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।

प्राग् ऊर्ध्वं वा विभागान् मात्रा पित्रा वा यस्मै पुत्राय यत् पारितोषिकं दत्तं तत् तस्यैव, न पुत्रान्तरैर् विभाज्यम् इत्य् अर्थः । नारदः ।

शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥
मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एष विधिर् दृष्टो मातापीष्टे यथा पिता ॥

व्यासः ।

पितामहेन यद् दत्तं पित्रा वा प्रीतिपूर्वकम् ।
तस्य तन् नापहर्तव्यं मात्रा दत्तं च यद् भवेत् ॥

स्थावरे पर्युदासम् आह नारदः ।

मणिमुक्ताप्रवालाणां सर्वस्य हि पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥
पितृप्रसादाद् भुज्यन्ते वस्त्राण्य् आभरणानि च ।
स्थावरं तु न भुज्येत प्रसादे पैतृके सति ॥

किं तु

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ॥ २.१२३ ॥

पितुर् मरणाद् ऊर्ध्वं रिक्थं विभजतां पुत्राणां विभागे समं भागं मातापि लभेत । बहुवचनम् अविवक्षितम् । तेनैकस्य सुतस्य यावान् भागस् तावान् एव मातुर् भवतीत्य् अर्थः । मातृग्रहणं तत्सपत्न्यादिप्रदर्शनार्थम् । व्यासः ।

असुतास् तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
**पितामह्यश् च सर्वास् ता मातृतुल्याः प्रकीर्तिताः ॥ [६३१]

अदत्तस्त्रीधनविषयम् एतत् ॥ २.१२३ ॥

पुत्राणां विभजतां कार्यान्तरम् आह

असंस्कृताश् च संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्वांशं तु तुरीयकम् ॥ २.१२४ ॥

ये कनीयांसो भ्रातरः पित्रा जातकर्मादिना न संस्कृतास् ते ज्येष्ठैः संस्कृतैः संस्कार्याः । भगिन्यश् चाकृतविवाहसंस्कारा एकस्य पुत्रस्य यावान् निजो ऽंशस् तस्माच् चतुर्थम् अंशं प्रत्येकं प्रदाय संस्कार्या विवाहयितव्याः । नारदः ।

येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव ते धनात् ॥
अविद्यमाने पित्र्यंशे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥

व्यासः ।

असंस्कृतास् तु ये तत्र पैऋकाद् एव ते धनात् ।
संस्कार्या भ्रातृभिर् ज्येष्ठैः कन्यकाश् च यथाविधि ॥

मनुः ।

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥

अत्रापि स्वेभ्यो ऽंशेभ्य इति पदद्वयं पुत्रांशमात्रविवक्षया । बहुवचनं कन्याबहुत्वाभिप्रायम् । स्वात् स्वाद् इति वीप्सानेकजातीयकन्याभिप्राया । एतद् उक्तं भवति — यदा ब्राह्मणस्य सर्ववर्णा भार्या भवन्ति, तासां च प्रत्येकं कन्यकाः सन्ति, तत्र ब्राह्मणी या कन्यका सा ब्राह्मणस्य पुत्रस्य यावान् अंशो भवति ततश् चतुर्थांशं लभते । एवं ब्राह्मणस्येव पितुः क्षत्रियादिकन्यकाः क्षत्रियादिसुतांशचतुर्थभागग्राहिण्य इति । न चयं दायः । ततश् चार्हति स्त्रीत्य् अनुवृत्तौ यद् उक्तं बौधायनेन- “न दायं निरिन्द्रियाणां ता ह्य् अदायाः स्त्रियो मता इति श्रुतिः” इति, तेन सहास्याविरोधः । इति सवर्णदायविभागविधिः ॥ २.१२४ ॥

असवर्णानां दायविभागम् आह

चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाह् ।
क्षत्रजास् त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ॥ २.१२५ ॥

ब्राह्मणस्य ब्राह्मण्यादिशूद्रान्तासु चतसृषु भार्यासूत्पन्नानां पुत्राणां मध्ये पितृधनस्य दशधा विभक्तस्य चतुरो भागान् ब्राह्मन्याः गृह्णीयुः । त्रीन् क्षत्रियाया [७३२] द्वौ वैश्याया एकं शूद्रायाः । एवं क्षत्रियस्य पितुर् वित्तस्य षोढाविभक्तस्य त्रीन् भागान् क्षत्रियायाः पुत्रा गृह्णीयुर् द्वौ वैश्याया एकं शूद्रायाः । वैश्यस्य पितुर् धनं त्रिधा विभाज्यम्, तत्र द्वौ भागौ वैश्यायाः पुत्राणाम् एकः शूद्रायाः । शूद्रस्य तु नासवरास्ति भार्या । अत्र विशेषम् आह बृहस्पतिः ।

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥

प्रतिग्रहग्रहणाद् उपायान्तरप्राप्ता तु देयैव सापि न शूद्रापुत्राय । तथा च स्मृत्यन्तरम् ।

शूद्रो द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।

यत् तु स्मरन्ति,

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥

इति, तत् पितृप्रसादलब्धे धने सति विभागं प्रति निषेधति । अन्यथा शूद्रापुत्रं प्रति विभागविधिर् अनर्थकः स्यात् ॥ २.१२५ ॥

विभजनीये धने भ्रात्रपहृत् दृष्टे यत् कार्यं तद् आह ।

अन्योन्यापहृतं द्रव्यं विभक्ते यदि दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ २.१२६ ॥

विभजनीयं धनं केनचिद् भ्रात्रापहृतं सद् विभागाद् ऊर्ध्वं यद्य् उपलभ्यते तदा तत् सर्वैः समैर् अंशैर् विभजनीयम् । न तूद्धारापेक्षया विषमैः । एतावत्य् अर्थे प्रमिते वचनम् इदम् उपपन्नम् इति नापहर्तुर् दोषाभावं प्रति प्रमाणताम् उपैति । अथोच्यते — विभक्तारो ब्राह्मणा विभजनीयं सुवर्णम्, ततश् च ब्राह्मणसुवर्नापहारे ऽपहर्तुः पातित्ये सति तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति वचनम् अनुपपन्नं स्यात् । पतितस्यानंशत्वाद् इति । तन् न । द्रव्यान्तरविषयत्वेनापि वचनोपपत्तेः । न च सामान्यविषयत्वे वचनस्य विशेषोपसंहारो विरुध्यते । भवतु वा ब्राह्मणसुवर्णविषयम् अप्य् एतद् वाक्यम्, तथापि नापहर्तुर् दोषाभावं गमयति, प्रायश्चित्तेन व्यवहार्यस्य सतः समांशविभागविधानोपपत्तेः । अथ वापहर्तृव्यतिरिक्तविषयं तत् पुनस् ते समैर् अंशैर् इत्य् अस्तु वचनम् । न च वाच्यं प्राग् विभागात् तन् न कस्यापीति, यत उक्तम् — स्वम् एव साधारणं सद् विभज्यते न विभागात् सत्त्वम् उत्पद्यत इति । कात्यायनः ।

प्रच्छादितं तु यद् द्रव्यं पुनर् असाद्य तत् समम् ।
**भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥ [७३३]

तथा ।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् ।
हृतं नष्टं च् यल् लब्धं प्राग् उक्तं च पुनर् भजेत् ॥

प्राग् उक्तं दुर्विभक्तम् अपहृतं वा ॥ २.१२६ ॥

औरसपुत्रविषयो धनविभाग् उक्तो ऽधुना क्षेत्रविशेषविषयम् आह

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ २.१२७ ॥

प्रथमे ऽध्याये प्रतिपादितो नियोगोत्पादितः सुतो गुर्वनुज्ञात इत्य् अत्रत्येन नियोगविधिना यो ऽअपुत्रेण देवरादिना परस्यापुत्रस्य क्षेत्रे भायायाम् उत्पादितः स्वार्थं परार्थं व्यामुष्यायणसंज्ञकः स उभ्योर् बीज्ज(जि)क्षेत्रयोः(त्रिण्योः) पित्रोर् दायहरः पिण्डदश् च धर्मशास्त्रतो वेदितव्यः । यत् तु नारदेनोक्तम्,

द्व्यामुष्यायणको दद्याद् द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थाद् अर्धांशग्राही स्याद् बीजिक्षेत्रिकयोर् अपि ॥

इति, तत् क्षेत्रजे जाते पश्चाच् चौरसोत्पत्तौ सत्यां वेदितव्यम् । कात्यायनः ।

उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥

ततश् चौरसे ऽनुत्पन्ने क्षेत्रज उभयोः पित्रोः सकलम् एव रिक्थं गृह्णाति । उत्पन्ने चतुर्थांशं पितृधनस्येति स्थितिः । यत् तु मनुनोक्तम्,

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनम् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥

तत्र षष्ठपञ्चमांशदानम् अल्पगुणक्षेत्रजविषयम्, तथा,

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥

तद् औरसस्य निर्गुणत्वे क्षेत्रजस्य साद्गुण्ये वेदितव्यम् । समं विभागाभिधानात् । औरसक्षेत्रजपुत्रिकापुत्रव्यतिरिक्तेषु दशसु पुत्रेषु जातेष्व् औरसोत्पत्तिर् यदि स्यात् तद् औरसस्यैव सकलं रिक्थम् इतरेषां तदंशहरत्वम् एव । गोत्रं तु तेषाम् औरसस्य च समानम् । नारदः ।

क्षेत्रिकानुमते बीजं यस्य क्षेत्रे प्रसिध्यति ।
**तद् अपत्यं द्वयोर् एव क्षेत्रिबीजिकयोः समम् ॥ [७३४]

हारीतः- “जीवति क्षेत्रजम् आहुर् अस्वातन्त्र्याद् ऋते द्व्यामुष्यायणम् अनुप्तबीजत्वान् नाबीजं क्षेत्रं फलति नाक्षेत्रं बीजं रोहति उभयदर्शनाद् उभयोर् अपत्यम्” । अनुप्तबीजत्वाद् इति क्षेत्रिकानुप्तबीजत्वाद् इत्य् अर्थः ॥ २.१२७ ॥

मुख्यानां पुत्राणां दायविभागम् अभिधाय गौणानाम् अभिधास्यंस् तेषां लक्षणानि मुख्यलक्षणपुरःसराण्य् आह

औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ २.१२८ ॥
गृहे प्रच्छन्न उत्पन्नो गूढजस् तु ततः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१२९ ॥
अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तकः स्मृतः ॥ २.१३० ॥
क्रीतश् च ताभ्यां विक्रीतः कृत्त्रिमश् च स्वयंकृतः ।
दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ २.१३१ ॥
उत्सृष्टो गृह्यते यस् तु सो ऽपविद्धः सुतो भवेत् ।

यो धर्मपत्नीजः स औरसो ज्ञेयः । यय सह धर्मश् चर्यते सा धर्मपत्नी । यद्य् अपि पत्नीशब्देनैव सहधर्मचारिणी कथ्यते, तथापि धर्मशब्दोपादानाद् अत्र पत्नीशब्दो भार्यामात्रपरः । धर्मपत्नीशब्देन च शूद्रा व्यावर्त्यते, तस्याः सहधर्मचारित्वाभावात् । यद् आह वसिष्ठः- “कृष्णवर्णा वै रामा रमणायैव न धर्माय” इति । एवं च तत्पुत्रो नौरसः । अत एव पुत्रप्रतिनिधिषु च तम् आह मनुः ।

पुत्रान् द्वादश् यान् आह नृणां स्वायंभुवो मनुः ।
तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ॥
औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयं दत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥

[७३५] क्षेत्रजादिसुतान् एतान् एकादश यथोदितान् ।

पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥

औरसाभावे तत्कार्यक्रियालोपाद् बिभ्यतो मनीषिणः क्षेत्रजादीन् एकादश पुत्रप्रतिनिधीन् आहुर् इत्य् अर्थः । यद्य् अपि शौद्रेयः प्रतिनिधिस् तथाप्य् औरसेषु सत्स्व् अपि तस्य दायभागो ऽस्तीति पूर्वम् एव तद्भाग उक्तम् । अत एव योगीश्वरः प्रतिनिधिषु तं नोक्तवान् । न च वक्तव्यं कथं तर्ह्य् अदायादः शूद्रापुत्र इति पित्रा प्रसाददत्ते ऽस्य धने सति दायविभागरहितत्वम् उक्तं मनुनैव ।

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ॥ इति ।

अथ वा पितृधनस्य दशमाद् अंशाद् अधिकं दायं न लभत इत्य् एवंपरं तस्यादायादत्ववचनम् । उक्तं मनुनैव ।

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ इति ।

अधिकं तु दशमाद् अंशात् । अनपत्यस्य धनं सपिण्डानाम् एवेत्य् आह बृहस्पतिः ।

अनपत्यस्य शुश्रूषुर् गुणवाञ् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥

प्रकृतम् उच्यते — यथाशास्त्रं परिणीतायां द्विजातिस्त्रियाम् उत्पन्न औरसः पुत्रः । अन्वर्थसंज्ञा चैषा, तेनोरसि भव औरसः । तेन स्वोत्पादितत्वम् औरसस्य लक्षणम् । अत एवाह वसिष्ठः- “स्वयम् उत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः” । प्रथमो मुख्यः । तेन स एव पुत्रशब्दस्य मुख्यो ऽर्थः । क्षेत्रजादिषु गौणः । ततः परिपूर्णम् इदम् औरसस्य लक्षणम् । औरसो धर्मपत्नीज इति पदद्वयेनोक्तः(अम्) । तत्समस्तेनौरसेन समस् तुल्यः पुत्रिकासुतः । पुत्रिकैव पुत्रः पुत्रिकापुत्रः । सा हि पुंस्त्वातिरिक्तौरसलक्षणयुक्तत्वाद् भवत्य् औरससमा । अत एव बृहस्पतिः ।

पुत्रास् त्रयोदश् प्रोक्ता मनुना येन पूर्वशः ।
संतानकारणं तेषां औरसः पुत्रिका तथा ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।
तथैकादश पुत्रास् तु पुत्रिकौरसयोर् विना ॥

पुत्रिकायाः पुत्रो ऽपि पुत्रिकापुत्रशब्देनात्रोच्यते । अत एव वसिष्ठः ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
**अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥ [७३६]

गौतमः- “पितोत्सृजेत् पुत्रिकाम् अनपत्यो ऽग्निं प्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्याभिसंधिमात्रात् पुत्रिकेत्य् एकेषां तत्संशयान् नोपयच्छेताभ्रातृकाम्” । जाबालिः ।

पुत्रिकायाः प्रदाने तु स्थालीपाकेन धर्मवित् ।
अग्निं प्रजापतिं चेष्ट्वा पुत्रदाने तथैव च ॥

यस्य क्षेत्रे कलत्रे क्षेत्रस्वामिना समानगोत्रेणेतरेण वा संबन्धिनोत्पादितः क्षेत्रजसंज्ञकः पुत्रः क्षेत्रस्वामिनो भवति । यस्य गृहे भार्यायां प्रच्छन्नो ऽप्रज्ञायमानजनकविशेष उत्पन्नः स तज्जननीस्वामिनो गूढोत्पन्ननामा पुत्रो भवति । अयं च स्वभार्यायाम् अन्योत्पादितत्वेन क्षेत्रजतुल्य इति तदनन्तरम् उक्तः । यस् तु कन्यायाम् अनूढायां जातः स कानीनसंज्ञको मातामहपुत्रो मन्वादिसंमतः । अयम् अपि कथंचित् स्वसंबन्धिनि दुहितृरूपो क्षेत्रे जात इति गूढोत्पन्नसादृश्यात् तदनन्तरम् उक्तः । वसिष्ठः ।

अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पुत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥

या वाग्दत्ता न भवति सात्राप्रत्ता । अप्रत्तेतिविशेषणात् प्रदानात् ऊर्ध्वं प्राग् विवाहाद् उप्तन्नः कानीनो वोढुर् एव भवति । तदभिप्रायेणाह मनुः ।

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति ।

अक्षतायां क्लीबादिभार्यायां विधवायाम् अविधवायां वा भार्यायां तु क्षतायां परैर् उपभुक्तायां पुनः परिगृह्य संस्कृतायां यो जातः स पौनर्भवसंज्ञकः । पुनर्भूः प्रथमे ऽध्याये कथिता । एते च स्वसंबन्धिक्षेत्रोत्पन्नत्वात् प्रत्यासन्नतया पूर्वम् उक्ताः । क्षेत्रतो ऽपि नास्ति येषां संबन्धस् ते जघन्या इति पश्चाद् उच्यन्ते । तत्र यो मातापितृभ्यां पित्रेव वा मात्रा वा भर्त्रनुमतया यस्मै दत्तः स तस्य दत्तको नाम पुत्रो भवति । मनुः ।

माता पिता वा दद्याताम् यद् अद्भिः पुत्रम् आपदि ।
सदृशां प्रीतिसंयुक्तौ स ज्ञेयो दत्त्रिमः सुतः ॥

अद्भिर् इति सकलदानधर्मोपलक्षणार्थम् । आपदि दुर्भिक्षादौ । अथ वा ग्रहीतुर् आपदि । सुताभावे सदृशं दातुर् ग्रहीतुश् च सवर्णम् । प्रीतिसंयुक्तौ न भयादिसंयुक्ताव् इत्य् अर्थः । [७३७] तथा ।

गोत्ररिक्थे जनयितुर् न हरेद् दत्त्रिमः सुतः ।
गोररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥

ततश् दत्तकः पूर्वस्य पितुर् गोत्रं रिक्थं च न गृह्णीयात् । पिण्डं च तस्मै न दद्यात् । किं तु द्वितीयस्यैव पितुर् गोत्रादिग्राहकः पिण्डदश् च भवेत् । पिण्डशब्दो ऽत्र सकलौर्ध्वदैहिकोपलक्षणार्थः । एवं कृत्रिमदत्तात्मापविद्धन्यायसाम्यात् त्रयोदशविधं पुत्रं निरूप्य तद्व्यवस्थां वर्णक्रमेणाह ब्रह्मपुराणे ।

दत्तकश् च स्वयंदत्तः कृत्रिमः क्रीत एव च ।
अपविद्धश् च ये पुत्रा भरणीयाः सदैव हि ॥
भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकरास् तथा ।
सूतके मृतके चापि त्र्यहाशौचस्य भागिनः ॥
अथ वस्त्रान्नदातॄणां बीजक्षेत्रवतां तथा ।
शूद्रो दासः पारशवो विप्राणां विद्यते क्वचित् ॥
राज्ञां तु शापदग्धानां नित्यं क्षयवतां तथा ।
अथ सङ्ग्रामशीलानां न कदाचिद् भवन्ति ते ।
औरसो यदि वा पुत्रस् त्व् अथ वा पुत्रिकासुतः ॥
विद्यते न हि तेषां तु विज्ञेयाः क्षेत्रजादयः ।
एकादश् पृथग्गोत्रा वंशमात्रकरास् तु ते ॥
श्राद्धादि दासवत् सर्वे तेषां कुर्वन्ति नित्यशह् ।
गूढोत्पन्नश् च कानीनः सहोड्ःअः क्षेत्रजस् तथा ॥
पौनर्भवश् च वैश्यानां राजदण्डभयाद् अपि ।
वर्जिताः पञ्च बलिनः शेषाः सर्वे भवन्ति हि ॥
शूद्राणां दासवृत्तीनां परपिण्डोपजीविनाम् ।
परायत्तशरीराणां न क्वचित् पुत्र इष्यते ॥
तस्माद् दासस्य दास्याश् च जायते दास एव हि ॥

वसिष्ठः- “शोणितशुक्रसंभवः पुरुषो मातापितृनिमित्तकस् तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः । न त्व् एकं पुत्रं दद्यात् । स हि संतानाय पूर्वेषाम्, न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानाद् भर्तुः, पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृतिभिर् हुत्वादुरेबान्धवम् असंनिकृष्टम् एव [७३८] प्रतिगृह्णीयात् । संदेहे चोत्पन्ने दूरेबान्धवं शूद्रम् एव स्थापयेद् विज्ञायते ह्य् एकेन बहूंस् त्रायते” इति । न त्व् एकं दद्याद् इति ददातिः प्रदर्शनार्थः । तेन विक्रयादाव् अप्य् अयं निषेधो भवति । तथा पुत्रं प्रतिग्रहीष्यन्न् इत्य् अस्यापि प्रदर्शनार्थत्वाद् बन्धून् आहूयेत्यादि धर्मजातं क्रयादाव् अपि कार्यं न्यायसाम्यात् । अदूरेबान्धवा यस्य सो ऽदूरेबान्धवः । बान्धवानाम् अदूरदेशत्वेन तस्य कुलीनता शक्या ज्ञातुम् । तेनादूरेबान्धवं विदिताभिजनं पुत्रं प्रतिगृह्णीयाद् इत्य् अर्थः । न पुनर् बन्धुसंनिधौ गृह्णीयाद् इति, बन्धून् आहूयेत्य् अनेनैव तत्सिद्देः । असंनिकृष्टम् असंबन्धिनम् एव प्रतिगृह्णीयात् । जातिसंदेहे चोत्पन्ने दूरेबान्धवं व्यवहितदेशवर्तिबान्धवं शूद्रम् इव स्थापयेद् आ निश्चयात् । महता यत्नेन निश्षयं कुर्याद् इति तात्पर्यार्थः । अत्र हेतुत्वेन श्रुतिम् उपन्यस्यति — विज्ञायते ह्य् एकेन बहूंस् त्रायत इति, एकेन पुत्रेण बहून् पूर्वजांस् त्रयत इति । तस्माज् जाताभिजनम् एव गृह्णीयान् नेतरम् इति तात्पर्यार्थः । क्रीतनामा पुत्रो भवति, यो मातापितृभ्यां विक्रीतः प्राप्यते । कृत्रिमसंज्ञकस् तु पुत्रो भवति, यः स्वयम् एव त्वं मे पुत्रो भवेति पुत्रः क्रियते । यस् त्व् अहं ते पुत्रो भवामीत्य् आत्मानम् अप्रार्थित एव ददाति स स्वयंदत्तसंज्ञकः पुत्रो भवति । यस् तु परिणीयमानाया गर्भे विन्नो लब्धः स पुत्रः सहोढज उच्यते । मनुः ।

क्रीणीयाद् यद् त्व अपत्यार्थे मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥

सदृशो ऽसदृश इति गुणापेक्षं वचनं न जात्यपेक्षम् ।

सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥

अत्र सदृशग्रहणं जात्यपेक्षम् ।

मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥

त्यागकारणं पातित्यम्, स्पर्शयेद् दद्यात् ।

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥

मातापितृभ्याम् उत्सृष्टः पातित्यादिकारणम् अन्तरेण त्यक्तो येन गृह्यते, स तस्यापविद्धसंञ्जकः पुत्रो भवति । [७३९] मनुः ।

मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयाद् अपविद्धः स उच्यते ॥ २.१२८, १२९, १३०, १३१ ॥
पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥ २.१३२ ॥

एषाम् उक्तानाम् औरसादीनां मुख्यामुख्यपुत्राणां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरः श्राद्धदाने धनादाने चाधिक्रियते । पुत्रप्रतिनिधीनां मध्ये दत्तक एव कलियुगे ग्राह्यः । अत एव कलौ निवर्तन्त इत्य् अनुवृत्तौ शौनकेनोक्तम् ।

दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ॥ इति ।

यदा तु पुत्रिकायां कृतायाम् औरसो जायते तदाह मनुः ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनु जायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥

क्षेत्रजं प्रति विशेषम् आह मनुर् एव ।

यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ ।
यद् यस्य पैतृकं रिक्तं तत् स गृह्णीयात् नेतरः ॥

एतत् क्षेत्रजस्य द्व्यामुष्यायणस्य बीजिधने ऽधिकारित्वं विधत्ते । वसिष्ठस् तु दत्तके पुत्रे सत्य् औरसोत्पत्तौ विशेषम् आह- “तस्मिंश् चेत् प्रतिगृहीत औरसः पुत्र उत्पद्यते चतुर्थभागभागी स्यात्” इति । सर्वे च न्यूनाधिकभागविकल्पाः सगुणनिर्गुणापेक्षया व्यवस्थापनीयाः । सर्वेषां च पुत्रप्रतिनिधीनां पूर्वाभावे परेषां दायहरत्वे सत्य् अपि केचिद् दायादाः केचिच् च नेति यद् उच्यते मन्द्वादिभिस् तत्रायम् अभिप्रायः — पितृसपिण्डस्यापुत्रदायहारिणस् त एव पुत्रप्रतिनिधयो भवन्ति, ये दायादत्वेन निर्दिष्टा नेतर इति ॥ २.१३२ ॥

सर्वेषाम् एव पूर्वोक्तानां पुत्रप्रतिनिधिलक्षणानां विशेषम् आह

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः ।

गूढोत्पन्नादय आत्मनः सजातीया एव सवर्णा एव पुत्रत्वेन ग्राह्या नेतर इति तात्पर्यार्थः । शूद्रापुत्रः स्वे क्षेत्रे स्वयम् उत्पादितश् चेति न प्रतिनिधिः किं त्व् औरसः, तथापि प्रतिनिधिषु मनुना पठितः । तत्रायम् अभिप्रायः — [७४०] अन्येष्व् अनुलोमजेष्व् औरसेषु सत्सु न प्रतिनिधिर् अस्ति, शूद्रापुत्रस् त्व् औरसे सत्य् अपि पुत्रप्रतिनिधिः कार्य एवेति । मनुः ।

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥

अपुत्रस्य दशमाद् अंशाद् अधिकं पत्न्यादयो गृह्णन्तीत्य् अर्थसिद्धम्

जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ॥ २.१३३ ॥
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ २.१३४ ॥

शूद्रेण दास्याम् उत्पन्नः पितुर् इच्छातो ऽंशहरो भवेत् । पिता यावन्तम् अंशं दातुम् इच्छति तस्मै तावांस् तस्य भवतीत्य् अर्थः । मृते पितरि परिणीताः पुत्रास् तदीया भ्रातर एकस्य यावान् भागो भवति, तदर्धं तस्मै दद्युः । अभ्रातृकस् तु पितृपरिणीतोत्पन्नभ्रातृरहितो दौहित्रेष्व् असत्सु सर्वं पित्र्यं हरेत् । सत्सु तु भागार्धम् एव । अत्र शूद्रग्रहणाद् द्विजोत्पन्नस्य दासीपुत्रस्य पितृधनांशहरत्वं नास्तीति गम्यते ॥ २.१३३, १३४ ॥

पुत्रतत्प्रतिनिधिरहितस्य मृतस्य धनभाजां क्रमम् आह ।

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुता गोत्रजो बन्धुशिष्यसब्रह्मचारिणः ॥ २.१३५ ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ २.१३६ ॥

अपुत्रस्याविद्यमानमुख्यगौणपुत्रस्य स्वर्यातस्य मृतस्य धनभाग् धनहारी पत्न्यादीनां क्रमेण निर्दिष्टानां पूर्वस्य पूर्वसाभाव उत्तर उत्तरो वेदितव्यः । एष विधिः सर्ववर्णसाधारणः । बृहस्पतिः ।

आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयात् ॥
सकुल्यैर् विद्यमानैस् तु पितृभ्रातृसनाभिभिः ।
असुतस्य प्रमीतस्य पत्नी तद्बागहारिणी ॥

[७४१] पूर्वं मृता त्व् अग्निहोत्रं मृते भर्तरि तद्धनम् ।

विन्देत् पतिव्रता नारी धर्म एव सनातनः ॥
जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धं मासषाण्मासिकादिकम् ॥
पितृव्यगुरुदौहित्रान् स्वसृभर्त्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥
तत्सपिण्डा बान्धवाश् च ये तस्याः परिपन्थिनः ।
हिंस्युर् धनानि तान् राजा चौरदण्डेन शासयेत् ॥

विष्णुः- “अपुत्रस्य धनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातृपुत्रगामि, तदभावे बन्धुगामि, तदभावे सकुल्यगामि, तदभावे सहाध्यायगामि, तदभावे ब्राह्मणधनवर्जं राजगामि” । बृहस्पतिः ।

मृतो ऽनपत्यो ऽभार्यश् चेद् अभ्रातृपितृमातृकः ।
सर्वे सपिण्डास् तद् दायं विभजेरन् यथांशतः ॥

शङ्खः पुनर् अन्यथा क्रमम् आह- “अथापुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम्, तदभावे मातापितरौ लेभेताम् पत्नी वा ज्येष्ठा” इति । देवलः ।

ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
तुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ इति ।

नारदो ऽपि ।

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुस् चेद् आच्छिन्द्युर् इततासु तत् ॥

तथा ।

अन्यत्र ब्राह्मण्त् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ इति ।

एवम् एषां वाक्यानाम् आपाततः प्रतिभासमानविरोधानां विरोधपरिहारेण प्रामाण्यसिद्धये भिन्नविषयता वाच्या । अत्र केचिद् आहुः — या देवराद् अन्यस्माद् वापि सपिण्डाद् गुरुश्वशुरादिवचनात् पुत्रम् इच्छति, तद्विषयं पत्नीदुहितर [७४२] इत्यादिवचनम् इति । तद् अयुक्तम्, दुष्परिहारो हि बहुतरस्मृत्यन्तरविरोधो ऽत्र पक्षे । तथा हि — “रिक्थलोभान् नास्ति नियोगः” इति वसिष्ठः । अनेन हि रिक्थग्राहिण्या नियोगानधिकार उच्यते । ननु मा भूत् तस्मान् नियोगः, पूर्वम् एव नियुक्तायाः पश्चाद् धनभाक्त्वम् “पत्नी दुहितरः” इत्य् अनेन विधीयताम्, तद् असत् । तथा हि सति तेनैव जनिष्यमाणेन क्षेत्रजेन पुत्रेण धनस्वामिनो ऽतीतस्य पुत्रवत्त्वं स्यात् । अपुत्रस्य धनं पत्नी भजत इति पत्नी दुहितर इत्य् अनेन विधीयते । अत एव मनुः ।

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव वा ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद् धनम् ॥ इति ।

तस्यैव तन् न तु जनन्या इत्य् अर्थः ।

संस्थितस्यानपत्यस्य गोत्रात् तन्तुं समाहरेत् ।
तत्र यो रिक्थभागः स्यात् तं तस्मै प्रतिपादयेत् ॥

तस्यै तन्तवे ऽपत्यायेत्य् अर्थः । तच् च नियोगार्थित्वं रिक्थग्राहित्वे विरुद्धत्वात् कथम् इव हेतुः । विरोधम् एव गौतमः स्पष्टयति- “पिण्डगोत्रार्थसंबद्धा रिक्थं विभजेरन् स्त्री वानपत्यस्य बीजं वा लिप्सेत” इति । अनेन ह्य् अनपत्यभर्तृधनग्राहित्वस्य बीजलिप्सासुचितनियोगार्थित्वस्य च विकल्पः प्रतिपाद्यते । अतः स्पष्टो विरोधः । वृद्धमनुर् अपि,

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥

इति वदन् नियोगार्थिन्या नास्ति रिक्थग्राहित्वम् इति स्पष्टयति । तथा हि सति भर्तुः शयनं पालयन्तीति न वाच्यं स्यात् । तस्मान् नेयं व्यवस्था युज्यते । कथं तर्हि विरोधपरिहारः । उच्यते — “अपुत्रा शयनं भर्तुः” इत्यादिमनुवाक्योक्तगुणा पत्नी पितृभ्रातृसद्भावे ऽपि स्वयम् एव पतिधनं समग्रं गृह्णाति, पत्युश् च श्राद्धादि करोति । अनेनैवाभिप्रायेण बृहस्पतिनाप्य् उक्तम् ।

पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।
पुत्राभावे तु पत्नी स्यात् तदभावे सहोदरः ॥ इति ।

तथा या पितृधनानुपघातेन स्वयम् अर्जयितुर् भर्तुः परिचर्यां यथावत् कृतवती संयतेन्द्रिया च सा भर्तुः सकलम् एव धनं देवरेषु विद्यमानेष्व् अपि गृह्णाति । या तु तारुण्यादिना संभावितव्यभिचारा तस्यां विद्यमानायाम् अपि मृतकस्य [७४३] भर्तुर् भ्रातृगाम्य् एव वित्तम्, न तु पत्नीगामि । तत्रापि चैषा व्यवस्था — यदि तद्भ्रातृभिः स्वपितृधनानुपघातेन संभूय समुत्थानेन धनम् अर्जितम्, तदा पित्रोः सद्भावे ऽपि भ्रातर एव धनग्राहिणः । यदा तु पितृपितामहाद्युपार्जितं धनम्, तदा न भ्रातॄणां धनभागित्वं किं तु पित्रोर् इति । एवं विषयव्यवस्थायां सर्ववाक्याविरोधः । न च वाच्यम् एकाकिनी स्त्री यज्ञे ऽनधिकृता कथं यज्ञार्थतयोत्पन्नं गृह्णीयाद् इति । सर्वस्या एव धनोत्पत्तेर् यज्ञार्थत्वे प्रमाणाभावात् । यैव हि “द्वादश रात्रीर् दीक्षितो भृतिं बध्नीत” इत्य् एवमादिवचनविहिता सैव धनोत्पत्तिः क्रत्वर्था । अन्यथा तु पुरुषार्थैव । यद् अपि चार्थवादवचनम् “तस्मात् स्त्रियो निरिन्द्रिया अदायादाः” इति, तद् अपि यथाप्राप्ति वर्णनीयम् अनुवादकत्वाद् इति पुत्रसद्भावविषयत्वेन व्याख्येयम् । अस्ति च स्त्रीणाम् एकादिनीनाम् अपि पूर्तधर्माधिकारः । तेन तत्र धनं ता उपयोक्ष्यन्ते । यत् तु नारदेन “भ्रातॄणाम् अपजाः प्रेयात्” इत्य् अभिधायोक्तम्, “तस्मात् स्त्रियो निरिन्द्रिया अदायादाः” इति, तद् अपि यथाप्राप्ति वर्णनीयम् अनुवादकत्वाद् इति पुत्रसद्भावविषयत्वेन व्याख्येयम् । अस्ति च स्त्रीणाम् एकाकिनीनाम् अपि पूर्तधर्माधिकारः । तेन तत्र धनं ता उपयोक्ष्यन्ते । यत् तु नारदेन “भ्रातॄणाम् अप्रजाः प्रेयात्” इत्य् अभिधायोक्तम्,

भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।

इत्यादि, तत् पुनर्भूस्वैरिण्यदिविषयं वेदितव्यम् । स्त्रीशब्दमात्रप्रयोगाट् । पत्नीशब्दस् तु विवाहयज्ञसंयोगिन्याम् एव वर्तते “पत्युर् नो यज्ञसंयोगे” इति शब्दस्मृतेः । एवं पत्न्याम् असत्यां पितृसमानवर्णा दुहितरो ऽपुत्रधनस्वामिन्यः । नारदः ।

पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् ।
पुत्रश् च दुहिता चौभौ पितुः संतानकारकौ ॥

तथा ।

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥

बृहस्पतिः ।

अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ।
तस्यां पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥
सदृशी सदृशेनोड्ःआ शाध्वी शुश्रूषणे रता ।
कृताकृता वा पुत्रस्य पितुर् धनहरी तु सा ॥

सदृशी सवर्णा । अतो ऽसवर्णाया दुहितुर् अनधिकारो दायहरत्वे । [७४४] कृताकृता पुत्रिकेत्यर्थः । अत्र च कृताकृता वेत्य् अनेन पुत्रिका दृष्टान्ततयोपादीयते, न पुनस् तस्या अपुत्रपितृधनग्राहित्वं विधीयते । न हि पुत्रिकापितापुत्र इति शक्यते वक्तुम्, पुत्रिकाया अपि पुत्रत्वात् । तथा च वसिष्ठः- “तृतीयः पुत्रिका विज्ञायते” इति । एतेन यद् उक्तं केनचित् पत्नी दुहितर इत्य् अत्र दुहितृशब्देन पुत्रिकोच्यते इति तन् निरस्तं वेदितव्यम् । माता च पिता च पतरौ तौ पुत्रस्य पत्न्या दुहितृभिश् च रहितस्य धनग्राहिणौ । बृहस्पतिः ।

भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥

मनुः ।

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता धनं हरेत् ॥

पित्रोर् अभावे भ्रातरस् ते तु सोदरा एव प्रत्यासन्नतरत्वात् । ते हि मृतभ्रात्रपेक्षयैकस्यैव मातृवर्गस्य श्राद्धकारिणो न तु शपत्नाः । यत् तु शङ्खलिखितपैटीनसिवचः- “अपुत्रस्य स्वर्यातस्य भ्रातृगामि धनं तदभावे मातापितरौ लभेतां पत्नी वा ज्येष्ठा” इत्यादि, तत् पितृधनानुघातेनार्जितविभक्तधनेषु भ्रातृषु द्रष्टव्यम् । अतादृशभ्रातृभावे च पितरौ ज्येष्ठा वा पत्नी । उक्तलक्षणभ्रातृविलक्षणास् तु भ्रातरो याज्ञवल्क्योक्तक्रमातिक्रमेण रिक्थभाजो मन्तव्या इति सर्वम् अविरुद्धम् । यद् अपि देवलेनोक्तम्,

ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
तुल्या दुहितरो वापि म्रियमाणः पितापि वा ॥
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥

इति, तत्रापि शङ्खवचनव्यवस्थाप्रकारेण सोदराणां पूर्वं दायग्राहित्वं ज्ञातव्यम् । भ्रात्रभावे तत्सुतास् तदभावे गोत्रजाः । तत्र प्रत्यासन्नः पूर्वं धनभाक् । यद् आह मनुः ।

अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् । इति ।

अनन्तरता च तेनैवोक्ता ।

त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
**चतुर्थः संप्रदस् तेषां पञ्चमो नोपपद्यते ॥ [७४५]

संप्रदानकारकीभूतानां पित्रादीनां त्रयाणां चोदकादिदाता, यश् च तत्संततिजो ऽन्यो ऽपि तेषाम् एवोदकादिदाता स तस्य प्रत्यासन्नः सपिण्डः । तद् अत्र तु सोदरो भ्रातातिशयेन प्रत्यासन्नः, समानसंप्रदानोदकादिदातृत्वात् । तत्पुत्रः पुनर् ईषद्व्यवहितः पितृपिण्डे संप्रदानत्वात् । तत्पौत्रस् तु ततो ऽपि व्यवहितः पितृपितामहपिण्डयोर् भिन्नसंप्रदानकत्वात् । तत्पौत्रस् त्व् अत्यन्तव्यवहितः पिण्डत्रये ऽपि संप्रदानभेदात् । एवं भ्राता तत्पुत्रस् तत्पौत्र इति पितृसंततौ त्रयः प्रत्यासन्नाः सपिण्डाः । एवं पितामहसंततौ प्रपितामहसंततौ च । एषाम् अभावे पित्रादित्रयस्य ये प्रपौत्रास् तेषां पुत्रादित्रयं सापिण्ड्याद् धनग्राहकम् । गोत्रजाभावे बन्धुः पितृष्वसा मातृष्वसा मतुलसुतादिः । तदभावे शिष्य उपनीय वेदम् अध्यापितो धनभाग् भवति । तदभावे सब्रह्मचारी, एकाचार्यकः । यत् तु कात्यायनेनोक्तम्,

विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥

इति, तत्र पुत्राभाव इत्य् एतत्प्रदर्शनाऋथम् । तेन पत्न्या दुहितॄणाम् अभाव इति द्रष्टव्यम् । पितुर् अभावे माता, मात्रानुमतो वा मा(भ्रा)तैव,

माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ।

इति वचनात् । एषाम् अभावे मृतस्य पितामही, दुहितृदौहित्रानन्तरम् । बृहस्पतिः ।

तदभावे भ्रातरस् तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश् च धनार्हकाः ॥

नारदः ।

अभावे च दुहितॄणां सकुल्या बान्धवास् तथा ।
ततः सजात्याः सर्वेषाम् अभावे राजगामि तत् ॥
अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥

अत्राभावे दुहितॄणाम् इति पित्रोर् अप्य् अभाव उपलक्ष्यते । तत्स्त्रीणाम् अपरिणितानां स्वैरिणीनां वा पुनर्भ्वा वा ।

सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥
अहर्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।
**इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥ [७४६]

नृपो जनपदस्य त्राता । बृहस्पतिः ।

ये पुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृवर्जिताः ।
तेषां धनहरो राजा सर्वस्याधिपतिर् हि सः ॥

पैठीनसिः- “परिषद्गामि (?) वा श्रोत्रियद्रव्यं न राजगामि, न हाऋयं राज्ञा देवतागणसंस्थितं न निक्षेपोपनिधिक्रियाक्रमागतं न बालस्त्रीधनान्य् एवं ह्य् आह —

न हार्यं स्त्रीधनं राज्ञा तथा बालधनानि च ।
नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥

स्मृतिः- “यो यत आददीत स तस्मै श्राद्धं कुर्यात् पिण्डं त्रिपुरुषं दद्यात्” इति । त्रिपुषम् इत्य् अमावास्याश्राद्धाभिप्रायम् । विष्णुः- “अतः पितृवित्तालाभे ऽपि पिण्डं दद्यात्” ।

पत्नी दुहितर इत्य् अत्र वाक्ये केचित् पर्यनुयुञ्जते, यथा — स्त्रियाः सभर्तृकाया एवेष्टापूर्तयोर् अधिकारो न तु केवलायास् तस्या भर्तृरहितत्वाद् एव च तया न कामः सेवनीयः कीम् तु तपस् तीव्रम् । न च धर्मकामयोर् अनुपयुज्यमानो ऽर्थो भवति पुरुषार्थः । तस्मात् पित्रादिषु धर्मकामोपयोगिधनभाजनेषु सत्सु न पत्न्या धनभाक्त्वम्, तस्माद् अपुत्रस्य मृतकस्य धनं पत्नी निर्वाहमात्रसमर्थम् आदद्यान् नाधिकम्, तद्विषयं पत्न्या धनभाक्त्ववचनम् । यस्य तु पत्नीरहितस्य धनं दुहितृविवाहमात्रपर्याप्तं तद्विषयं दुहितॄणां धनग्राहित्वम् अनेनोच्यते । अतो ऽधिकस्य मृतकधनस्य पत्नीदुहितृसद्भावे ऽपि सपिण्डाः पित्रादय एव ग्राहकाः शङ्खादिवाक्यसार्थ्याद् भवन्तीति मन्तव्यम् इति ।

  • तद् अयुक्तम्, धनस्वामिनः प्रमये सति तद्धने ऽन्यस्य स्वामित्वोत्पत्तौ विधेयायां तथाह भगवान् — पत्न्या दुहितॄणां स्वामितोत्पन्नैव न तूत्पाद्या । “पाणिग्रहणाद् धि सहत्वम्” इत्यादिना आपस्तम्बवाक्येन भर्तृधने स्त्रीणां स्वामित्वं पाणिग्रहणम् एव साधयतीति विधीयते । दुहितॄणां पुत्रवज् जन्मनैव पितृधने स्वामिभावसिद्धिर् इति वेदितव्यम् । ततश् च पत्न्यां दुहितरि सत्यां तयोः स्वामित्वं बाधित्वा पित्रादिस्वामित्वविधिर् अनेन वाक्येन न कार्यः । अभावे तु पत्नीदुहित्रोर् बाधनिरपेक्षं विधायकत्वम् अस्येति वैरूप्यम् आपद्यते, ततस् तत्परिहारार्थं पत्न्याद्यभाव एव पित्रादीनां धनभाक्त्वम् इह प्रमेयम् । यत् तु शङ्खादिभिः [७४७] पित्राद्यभावे पत्न्या धनग्राहकत्वम् उच्यते, तत् कारणान्तरेण भर्तृधने यस्या अधिकारादिपदास्पदं स्वामित्वम् अपेतं द्रष्टव्यम् । उक्तं च कारणान्तरम् — “हृताधिकारां मलिनाम्” इत्य् अत्र भर्तृधने पत्न्याः स्वामित्वभ्रंशं प्रति । तस्माद् उक्तैव व्यवस्था उक्तम् । उक्तं हि स्त्रीणाम् अभर्तृकाणां मन्त्राग्निसाध्यधर्माद् अन्यत्र धर्मे दानादाव् अस्त्य् अधिकार इति । तेन स्वतन्त्रोपयुज्यमाने ऽर्थे तासाम् उपयोगः ॥ २.१३५, १३६ ॥

अथ गृहस्थव्यतिरिक्तानाम् आश्रमिणां परेतानां धनग्राहकान् सक्रमकान् आह ।

वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ २.१३७ ॥

वानप्रस्थादीनाम् अन्यतमस्य मृतस्य रिक्थम् आचार्यादयः क्रमेण गृह्णीयुः । पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो गृह्णीयाद् इत्य् अर्थः । सद्गुणवाञ् शिष्यः सच्छिष्यः । धर्मभ्राता समानाचार्यः । एकतीर्थी एकसिद्धान्तः । एकवाराणसीप्रभृतितीर्थनिवासी वा । वानप्रस्थस्य धनम् अस्तीति वचनात्,

त्यजेद् आश्वयुजे मासि उत्पन्नं पूर्वसंचितम् ।

इत्य् अस्माद् गम्यते । यतिब्रह्मचारिणोर् अपि कन्थादि किंचिद् अस्त्य् एव ॥ २.१३७ ॥

अपुत्रस्य भ्रातुः पत्नीदुहितॄणां पित्रोश् चाभावे भ्रातॄणां भवतीत्य् उक्तं तत्र विशेषम् आह ।

संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥ २.१३८ ॥
अन्योदर्यस् तु संसृष्टी नान्योदर्यधनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् सोदर्यो नान्यमातृकः ॥ २.१३९ ॥

विभक्तस्य धनस विभक्तेनैव धनान्तरेण मिश्रणं संसृष्टं तद्वान् संसृष्टी, तस्य मृतस्य धनं संसृष्ट्य् एव भ्राता हरेत् । भ्रातात्र सोदर एव न पुनर् अन्योदर्यः संसृष्ट्य् अपि । संसृष्टिनस् तु जातस्य तन्मरणोत्तरकालम् उत्पन्नस्य पुत्रस्य तद्भागं तत्पुत्राय जीवन्संसृष्टी दद्यात् । एतच् चात्र प्रसङ्गाद् उक्तम् । अत्र बृहस्पतिः ।

[७४८] विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।

पितृव्येणाथ वा प्रीत्या तत्संसृष्टः स उच्यते ॥

अनेन त्रिविधा संसृष्टिनो भवन्तीत्य् अनूद्यते । तेषां मध्याद् अपुत्रस्य संसृष्टिनो ऽंशः सोदरेण संसृष्टिना ग्राह्य इति यद् उच्यते तत् किं मृतस्य पत्न्यादिसद्भावे तद्विपर्यते चेति जिज्ञासायाम् आह ।

यदा कश्चित् प्रमीयेत प्रव्रजेद् वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यपितृकस्य च ॥ इति ।

अतश् च संसृष्टिनो ऽपि यदि पत्न्यादयः सन्ति तदा पत्नी दुहितर इत्य् अयम् एव क्रमः । यत्र भ्रातॄणां रिक्थग्राहित्वे प्राप्ते संसृष्टिसोदरत्वसंभवे तद्विशिष्टस्यैव भ्रातुर् धनभाक्त्वं नियम्यते । भगिन्याः सोदरभ्रात्रभावे ऽधिकारिता मन्तव्या । अन्यथा “तस्मान् निरिन्दिर्याः स्त्रिओ ऽदायादाः” इति श्रुतिविरोधः स्याद् इति । उक्तम् एतत् संसृष्टिनो मृतकस्यांशं सोदर्यः संसृष्टी हरेद् इति । एतद् एव व्यतिरेकतः स्पष्टयितुम् आह ।

अन्योदर्यस् तु संसृष्टी नान्योदर्याद् धनं (-दर्यधनं) हरेत् ।

निगदव्याख्यातम् एतत् । यदा पुनर् अन्योदर्यः संसृष्टी न सोदरश् चेत् तदा को ऽंशहर इत्य् अपेक्षायाम् आह ।

असंसृष्ट्य् अपि चादद्यात् सोदर्यो नान्यमातृज- (कः) ।

सोदर्यो यद्य् अप्य् असंसृष्टी तथापि स एवाददीत न पुनर् अन्योदर्यः संसृष्ट्य् अपि । अन्योदर्यस्य संसृष्टितं विशेषणम् असंसृष्ट्य् अपीत्य् अपिशब्दाद् गम्यते, तेनायम् अर्थः सिद्धाह् — यदि सोदरत्वं संसर्गित्वं च विद्यते तदा स एव तादृशस्यांशं हरति । यदा पुनः संसृष्टित्वम् अन्योदर्यस्य तदा सोदरत्वम् एवांशहरत्वे निमित्तं नेतर्द् इति । मनुः ।

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥

अनेन ज्यैष्ठ्यनिमित्तं विभागवैषम्यं निषिध्यते नान्यनिमित्तम्, तेन संसर्गसमये म(त)दीयं यावद् धनं संसृष्टं विभागसमये तदनुसारेणैव भागं लभते । अत्रैव विशेषान्तरम् आह बृहस्पतिः ।

[७४९] संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिना धनम् ।

प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्याश् च सनाभयः ॥

अंशप्रदानं विभागस् ततो हानिः पारिव्राज्यपातित्यादिनानधिकारः । तस्य भागो न लुप्यते कल्पनीय इत्य् अर्थः । तं भागं सोदरा यदि संसृष्टिनस् तदा त एव गृह्णीयुः । नासंसृष्टिनः सोदर्या अपि । संसृष्टिनां सोदराणाम् अभावे सर्वे सोदराः समेत्य मिलित्वा सहिताः समं प्रधानाभावेन समं न्यूनाधिकं न विभजेरन् । सोदराणाम् अभावे भगिन्यः सनाभयः सोदर्या विभजेरन्न् इति शेषः । तासाम् अप्य् अभावे ऽन्योदर्या भगिन्यो भ्रातरश् च ॥ २.१३८, १३९ ॥

सर्वत्र विभागे ऽनधिकृतान् आह

क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्यास् तु निरंशकाः ॥ २.१४० ॥

क्लीबाद्या निरंशकाः । अंशो भागस् तद्रहिताः कार्याः । भर्तव्यास् तु ते भवन्ति । क्लीबः षण्डः । पतितो वक्ष्यते । तज्जः पतितोत्पन्नः । तस्य यद्य् अपि पतितग्रहणेनैव ग्रहणं सिद्धम्, उक्तं वसिष्ठेन “पतितोत्पन्नः पतितो भवतीत्य् आहुः” इति, तथापि तस्य पृथग्ग्रहणं कार्यम् । अन्यथा “औरसक्षेत्रजास् तेषाम्” इति वाक्यबलाद् भागार्हता स्यात् । पङ्गुश् चरणरहितः । उन्मत्तक उन्मादी । उन्मादो रोगविशेषः जडो मूढः । अन्धो ऽअकषुः । अचिकित्स्यरोगो ऽप्रतिसमाधेयव्याधिः । आद्यशब्दः शास्त्रान्तरोक्तानां भागानर्हाणां संग्रहार्थः । तत्र नारदः ।

पितृद्विट् पतितः षण्ढो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥

पितृद्विट् पितृद्वेषी । उपपातकम् उपपातः । तद् युक्त औपपातिकः । मनुः ।

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः ॥

[७५०] अनंशौ क्लीबपतितौ जात्यन्धबधिराव् अपि ।

उन्मत्ता जडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥

वसिष्ठः- “अनंशास् त्व् आश्रमान्तरगताः” । गृहस्थाश्रमापक्षम् आश्रमान्तरत्वम् । कात्यायनः ।

अक्रमोढासुतश् चैव सगोत्राद्यश् च जायते ।
प्रव्रज्यावसितश् चैव न रिक्थं तेषु चार्हति ॥

अक्रमेण वर्णक्रमजन्मक्रमातिक्रमेण योढा तस्याः सुतो ऽक्रमोढासुतः । सगोत्रात् स्त्र्यपेक्षया समानगोत्रात् परिणेतुर् यो जायते । एतेषां च वाचनिकम् अंशानर्हत्वम्, न पुनर् धर्मानधिकारित्वहेतुकम्, धर्मानधिकारिताया हेत्वभावात् । यद्य् अपि पतितस्य धर्मानधिकारस् तथापि नान्धपङ्ग्वादीनाम्, तेषां ह्य् आज्यावेक्षणाद्यङ्गवत्य् एव धर्मविशेषे ऽनधिकारो न सामान्यतो धर्ममात्रे । अस्ति हि तेषाम् इष्टे धर्मे गृह्याद्युक्तो ऽधिकारः । कृतदारा हि ते । तथा हि मनुः ।

यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथंचन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥
अतः क्लीबादीनां दारवत्त्ववचनात् तेषाम् उपनयनम् अस्तीति गम्यते । न च वाच्यं दारपरिग्रहे सति पश्चाद् अन्धत्वादिदोषोदये विषये यद्य् अर्थितेति वचनम् इति । तथा सति पूर्ववाक्ये जात्यन्धग्रहणं न क्रियेत । भवतु वा जात्यन्धादीनाम् उपनयनदारपरिग्रहाभावादिष्टे धर्मे तेषाम् अनधिकारः, पूर्ते तु शूद्रादिवद् अस्त्य् एव । तस्मान् न धर्मानधिकारित्वहेतुकं तेषाम् अनंशत्वम्, किं तु वाचनिकम् एव । यत् तु बौधायन आह- “अतीतव्यवहारान् ग्रासाच्छादनैर् बिभृयुर् अन्धजडक्लीबव्यसनिव्याधितादींश् चाकर्मिणः पतिततज्जातवर्जम्” इति, अकर्म कृष्यादिकं जीविकात्मकं येषां न विद्यते त इति, पतिततज्जातवर्जम् इति पतितं तज्जातं च वर्जयित्वान्यान् बिभृयाद् इत्य् अर्थः ॥ २.१४० ॥

क्लीबादीनाम् अनंशत्वेन तत्पुत्राणाम् अनंशत्वं प्राप्तं तद् अपवादम् आह ।

औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ २.१४१ ॥
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
**निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ २.१४२ **

[७५१]

एषां क्लीबादीनाम् औरसाः क्षेत्रजाश् च पातित्यादिदोषरहिता अंशं लभन्ते । क्लीबस्यापत्यं चिकित्सादिवशाद् भवति, तेषां (एषां) च कन्यका आ विवाहाद् भर्तव्याः । एषाम् एव च योषितो ऽपुत्राः परिणीता भर्तव्या यदि साध्व्यः । व्यभिचारिण्यो देवरादिप्रतिकूलाश् च निर्वास्या गृहाद् बहिष्कार्याः । कन्यकास् तु पतितोत्पन्ना अपि पोष्या विवाहयितव्याश् च । तद् आह वसिष्ठः- “पतितोत्पन्नः पतितो भवतीत्य् आहुर् अन्यत्र स्त्रियाः सा हि परगामिनी” इति ॥ २.१४१, १४२ ॥

स्त्रियाम् अंशहरत्वाभावे स्त्रीधनहर्तॄन् अग्रे विवक्षुः स्त्रीधनस्वरूपं तावद् आह ।

पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकं चैव स्त्रीधनं परिकीर्तितम् ॥ २.१४३ ॥

पित्रादिभिर् यद् दत्तम् अध्यग्नि विवाहकाले ऽग्निम् अधिकृत्य यल् लभ्यते, तद् अध्यग्नि । अधिवेदननिमित्तम् आधिवेदनिकम् । विद्यमानायां भार्यायां भार्यान्तरपरिणयनम् अधिवेदनम् । चशब्द आद्यर्थः । तेन च स्त्रीधनान्तरपरिग्रहः । तद् यथा — कार्याः पत्न्यः समांशिकाः । माताप्य् अंशं समं हरेत् । स्वस्माद् अंशाच् चतुर्भागं मातुः परिनाह्यं स्त्रियो विभजेतन् । अन्यद् अपि यत् स्त्रीस्वामिकं तत् स्त्रीधनम् इति मन्वदिभिः परिकीर्तितम् । कात्यायनः ।

विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं नाम स्त्रीधनं परिकीर्तितम् ॥
प्रीत्या दत्तं तु यत् किंचिच् छ्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं तत् तु लावण्यार्जितम् उच्यते ॥
ऊधायाः कन्यकाया वा पतियुः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥

वृद्धव्यासः ।

यत् कन्यया विवाहे च विवाहात् परतश् च यत् ।
पितृभ्रातृगृहात् प्राप्तं तत् तु सौदायिकं स्मृतम् ॥

तथा ।

विवाहकाले यत् किंचिद् वरायोद्दिश्य दीयते ।
**कन्यायास् तद् धनं सर्वम् अविभाज्यं च बन्धुभिः ॥ [७५२]

कात्यायनः ।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते ।
यस्मात् तद् आनृशंस्यार्थं तैर् दत्तम् उपजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥

यत् पुनर् आह नारदः-

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥

इति, तत् प्रीतिदत्तस्थावरविषयम् । कात्यायनः ।

विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥
गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यलब्धं तु यत् किंचिच् छुल्कं तत् परिकीर्तितम् ॥

व्यासः ।

द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य च ।
यच् च भर्त्रा धनं दत्तं सा यथाकामम् आप्नुयात् ॥

प्रत्यब्दं कार्षापणसहस्रद्वयपरिमितो धनस्यैकदेशः परो दायः स्त्रियै देयः । परः परमः । दीयत इति दायः । तम् इमं दायं भर्तृदत्तं वानिषिद्धेन मार्गेण यथाकामं देवरादेर् अनुमितम् अन्तरेणाप्य् आप्नुयात् । अतो ऽधिके तु देवराद्यनुमतिर् अपेक्षणीयेत्य् अर्थाद् गम्यते । मनुः ।

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानः पतन्ति ते ॥

सततधृतालंकारविषयम् एतत् ।

न भर्ता नैव च पिता न सुतो भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि ह्य् एकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिं(द्धि) प्रतिदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥

कात्यायनः ।

जीवन्त्याः पतिपुत्रास् तु देवराः पितृबान्धवाः ।
अनीशाः स्त्रीधनस्योक्ता दण्ड्यास् त्व् अपहरन्ति ये ॥

मनुः ।

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
**ताञ् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ [७५३]

मृतानां स्त्रीणां धने बान्धवानाम् अप्य् अधिकारो विवाहविशेषोपाधौ विद्यत इत्य् अभिप्रायेणोक्तम् — जीवन्तीनाम् इति ॥ २.१४३ ॥

यद् अर्थं स्त्रीधनलक्षणम् उक्तं तद् इदानीम् आह

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥ २.१४४ ॥

बन्धुभिः पितृव्यमातुलादिभिर् यद् दत्तं यच् च शुल्कं यच् चान्वाधेयकम् इत्य् अनेन सर्वम् एव स्त्रीधनम् उपलक्षितं तत् स्त्रियाम् अनपत्यायाम् अतीतायां बान्धवा अवाप्नुयुः । बान्धवसंबन्धि तद् भवतीति अर्थः ॥ २.१४४ ॥

उक्तं सामान्येन बान्धवा अवाप्नुयुर् इति, इदानीं यस्मिन् विषये बान्धवा ये ऽधिक्रियन्ते तद् आह

अप्रजस् स्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ २.१४५ ॥

अनपत्यायाः स्त्रिया ब्राह्मदैवार्षप्राजापत्यविवाहप्राप्ताया धनं तद् भर्तुर् भवति । आसुरगान्धर्मराक्षसपैशाचविवाहलब्धायास् तु तदीयं धनं पितृगामि भवति । प्रसूतापत्यवती चेद् दुहितॄणाम् एव । एतच् च सर्वविवाहविषयम् । पुत्रसद्भावे ऽपि दुहितृगामि मातृधनम् इत्य् एतदर्थम् इदम् इति । अतो मातुर् दुहितर इत्य् अनेन गतार्थम् । न हि तत्राधिकारक्रम उक्तः । अत एव कात्यायनः ।

दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् ।
बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् ॥

उत्तरार्धम् आसुरादिविवाहचतुष्टयोढाविषयम् । मनुः ।

स्त्रियास् तु यद् भवेद् दत्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

यच् च तेनैवोक्तम्,

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् भवेत् ।
अतीतायाम् अप्रजसि भर्तुर् एव तद् इष्यते ॥

इति, तत्र गान्धर्वविवाहोढाया धनस्य भर्तृगामितया विकल्प इति मन्तव्यम् । तथा स एवाह ।

यत् तस्यै स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
**अतीतायाम् अप्रजसि मातापित्रोस् तद् इष्यते ॥ [७५४]

आसुरविवाहकन्याशुल्कभाक्त्वं सोदरभ्रातॄणां तदभावे मातुः । यद् आह गौतमः- “भगिनीशुल्कः सोदर्याणाम् मूर्वं मातुः” । बौधायनः ।

रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराः स्वयम् ।
तदभावे भवेन् मातुस् तदभावे पितुर् भवेत् ॥

मनुः ।

अप्रजायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत् पुत्रिकाभर्ता हरेद् एवाविचारयन् ॥

अस्यां यो जायते पुत्रः स मे पुत्र इत्य् एवं कृतायां पुत्रिकायाम् एतत् । या पुनर् इयं मे पुत्र इति क्रियते तद्विषयम् आहतुः शङ्खलिखितौ- “प्रेतायाः पुत्रिकाया न भर्ता धनम् हरत्य् अपुत्रायाः” । पैठीनसिः- “प्रेतायां पुत्रिकायां न भर्ता धनम् हरति । अपुत्राया मात्रा श्वश्र्वा वा तद् ग्राह्यम्” । बृहस्पतिः ।

मातुः स्वसा मातुलानी पितृव्यस्त्री पितृश्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यदासाम् औरसो न स्यात् पुत्रो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्त्रीयाद् याः समाप्नुयुः ॥

पूर्वजस्य ज्येष्ठस्य पत्नी पूर्वजपत्नी ॥ २.१४५ ॥

स्त्रीधनविभागप्रसङ्गाद् वाग्दत्ताविषयं किंचिद् आह

दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्यात् सहोदयम् ।
मृतायां सर्वम् आदद्यात् परिशोध्योभयव्ययम् ॥ २.१४६ ॥

वाचा वराय क्लैब्यादिदोषरहिताय कन्यां दत्वान्यस्य श्रेयसो वरस्य लाभे यस् तस्माद् धरति न ददाति, स राज्ञा दण्ड्यः । यावतो धनस्य वरेण व्ययः कृतस् तावत् सवृद्धिकं धनं वराय च दद्यात् । राज्ञा दाप्य इत्य् अर्थः । तथा प्राग् विवाहात् कन्यायां मृतायां च धनं विवाहनिमित्तं कन्यापित्रे वरेण दत्तं तेन कन्यापितुर् वरस्य च विवाहनिमित्तं धनव्ययं परिशोध्य शेषं वर आददीत ॥ २.१४६ ॥

उक्तं मृताया धनविषयविशेषे भर्ता गृह्णीयाद् इति, इदानीं दुर्भिक्षादौ गृहीतं स्त्रीधनं न भर्ता स्त्रियै दद्याद् इत्य् आह

[७५५] दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।

गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ २.१४७ ॥

दुर्भिक्षम् अन्नाभावः । धर्मकार्ये यद् आवश्यकं न तु काम्यम् । व्याधिस् तीव्रो दीर्घश् च तत्प्रतिक्रियार्थम् । संप्रतिरोधो निगडादिबन्धः । एतेषु निमित्तेषु स्वकीयधनाभावे स्त्रीधनं गृहीत्वैता आपदस् तरेत् । प्रतिदानसमर्थधनाभावे च तत् तस्यै न दद्यात् । ऋणाद्यलाभरूपापद्विषयम् एतत् । अत एव देवलः ।

वृत्तिर् आभरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।
भोक्त्री तत् स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥
वृथामोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम् ।
पुत्रार्तिहरणे वापि स्त्रीधनं भोक्तुम् अर्हति ॥

द्यूतगीतादिप्रयोजनो धनव्ययो वृथामोक्षः । भोगस् तु स्त्र्यन्नपानाद्युपयोगः । पुत्रार्तिहरणे स्त्रीधनम् उपभोज्यं ग्राह्यम् इत्य् अर्थः । कात्यायनः ।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि ह्य् एकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिं(द्धि) प्रतिदाप्यः स्याद् दड्णाअं चैव समाप्नुयात् ॥
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूलम् एव प्रदाप्यः स्याद् यदासौ धनवान् भवेत् ॥
व्याधितं व्यसनस्थं च धनिकैर् वापि पीडितम् ।
ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया तु सः ॥

यत् स्त्रिया भर्तारं व्याध्यादिव्यसनेभ्यो मोचयितुं धनं विसृष्टं दत्तं तद् आत्मेच्छया तस्यै दद्यात् ।

अथ चेत् स द्विभार्यः स्यान् नैव तां भजते पुनः ।
प्रीत्या निसृष्टम् अपि चेत् प्रतिदाप्यः स तद् बलात् ॥
ग्रासाच्छादनवासनाम् आच्छेदो यत्र योषितः ।
तत्र स्वम् आधधीत स्त्री विभागं रिक्थिनां तथा ॥
लिखितस्येति धर्मो ऽयं प्राप्ते भर्तृकुले वसेत् ॥

लिखितस्य महर्षेर् मतो ऽयं धर्मः । यद् वा भर्तृदेयस्य स्त्रीधनस्य पुत्रनिविष्टस्यायं धर्मः । प्राप्ते च धने स्त्री भर्तृकुले वसेन् नान्यत्र ।

[७५६] व्याधिता प्रेतकार्ये च गच्छेद् बन्धुकुलं ततः ।

अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका ॥
व्यभिचाररता या च स्त्रीधनं सा च नार्हति ।
यज्ञार्थं द्रव्यम् उत्पन्नं तस्माद् द्रव्यं नियोजयेत् ॥
स्थानेषु धर्मनिष्ठेषु न स्त्रीमूर्खविधर्मसु ।
भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः ॥
तिष्ठेद् भर्तृकुले या तु तथा पितृकुले वसेत् ॥ २.१४७ ॥

अधिवेदनविषयम् आह

अधिविन्नस्त्रियै देयम् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकीर्तितम् ॥ २.१४८ ॥

यस्यां भार्यायां सत्याम् अन्या परिणीयते साधिविन्ना, सा चासौ स्त्री — अधिविन्नस्त्री तस्यै, आधिवेदनिकम् अधिवेदननिमित्तम् अधिविन्नेति कृत्वा यद् दीयते तद् इत्य् अर्थः । तच् च समम्, केनेत्य् अपेक्षिते प्रकृतत्वाद् अधुना परिणीतायै यद् दत्तं तेनेति गम्यते । एतच् च यस्यै स्त्रीधनं न दत्तं तस्यै देयम् । दत्ते तु तस्मिन्न् अर्धम् एव देयं न समम् । अर्धशब्दो ऽयं न समत्वप्रविभागवृत्तिः । एतच् च दत्ते स्त्रीधने तावद् दद्याद् यावताधिवेदनिकसमं भवतीत्य् अर्थः ॥ २.१४८ ॥

विभागसदसद्भावविवादे तत्सद्भावनिर्णयकारणान्य् आह ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ २.१४९ ॥

इति दायविभागप्रकरणम् ॥ ८ ॥

नास्त्य् आवयोर् धने विभाग इति विभागस्य निह्नवे ऽपलापे [ज्ञात्यादिभिर् विभागभावना] ज्ञेया । तथा यौतकैः पृथग्भूतैर् गृहक्षेत्रादिभिर् विभागभावना ज्ञेया । ज्ञात्यादयः साक्ष्यादयो विभागे ज्ञातीनाम् साक्षित्वात् । गृहक्षेत्रग्रहणं च शास्त्रान्तरोक्तविभागप्रमाणप्रदर्शनार्थम् । नारदः ।

दारग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग्ज्ञेयाः पाकधर्मागमव्ययाः ॥
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥

[७५७] एषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।

विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥ इति ।

बृहस्पतिः ।

पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥

वणिक्पथो वणिज्या । नारदः ।

यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥
स्वभागान् यदि वा दद्युस् ते विक्रीयुर् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य वै ॥

अस्यार्थः — यदि भ्रातरः पृथक् परस्परानुमतिम् ऋते धनासाध्यधर्मकर्मिणो यदि च तथैव पृथग् वित्तव्ययात्मककृष्यादिक्रियाकारिणस् तथा कर्म गुणो लाभः क्षयो वा तेनोपेताः स्युः, तथा कार्यान्तरेष्व् अपि पर्षद्ग्रामादिविषयेषु विरुद्धास् ते विभक्ता इति ज्ञेयम् । अत ते स्वभागविक्रयादिकं यथेष्टं कुर्युः । बृहस्पतिः ।

येनांशो यादृशो भुक्तस् तस्य तं न विचालयेत् ।

तथा ।

स्वेच्छाकृतविभागो यः पुनर् एव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयो ऽनुबन्धकृत् ॥

अनुबन्धः आग्रहः । कात्यायनः ।

वसेयुर् ये दशाब्दानि पृथग्धर्माः प्र्थक्क्रियाः
विभक्ता भ्रातरस् ते च विज्ञेयाः पैतृके धने ॥
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानादापनविक्रये ॥

विभक्तधना अविभक्तधना वा दायादाः स्थावरे समा भवन्ति । तेषां मध्य एकैको दानादौ समर्थो न भवतीत्य् अर्थः ॥ २.१४९ ॥

इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्क

**दायविभागप्रकरणम् ॥ ८ ॥ **