०७ दिव्य-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

दिव्यप्रकरणम् । (७)

उक्तं त्रिविधम् अपि लिखितादि प्रमाणं तदसंभवे च दिव्यानि विहितानि, तेषां स्वरूपम् इदानीम् आह ।

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।

यानि विशुद्धये ऽभियोगे विहितानि दिव्यानि तानि तुलादीनि वेदितव्यानि । न च कोशादीन्य् एव वेदितव्यानीति वाच्यम् । पितामहः ।

[६९४] धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।

षष्ठं च तण्डुलः प्रोक्तं सप्तमं तप्तमाषकम् ॥
अष्टमं फलम् इत्य् उक्तं नवमं धर्मजं भवेत् ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥

नारदः ।

यदा साक्षी न विद्येत विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश् च पृथक् पृथक् ॥
सत्यवाहनशस्त्राणि गोबीजकनकानि च ।
देवता पितृपादाश् च दत्तानि सुकृतानि च ॥

एतानि दिव्यशब्दवाच्यानि, एषु दिव्यशब्दप्रयोगात् । एवं च शपथवाच्यान्य् अपि । तथा च नारद एव ।

युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अन्वियात् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥
घटो ऽगिनिर् उदकं चैव विषं कोशश् च पञ्चमः ।
उक्तान्य् एतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः ॥

शङ्खः- “दिव्यं नाम तुलारोहणं विषाशनम् अप्सु प्रवेशो लोहधारम् इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत्” । मनुः ।

असाक्षिकेषु त्व् अर्थेषु मिथो विवदमानयोः ।
विवदंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥
अग्निं वाहारयेद् एनम् अप्सु वैनं निमज्जयेत् ।
पुत्रदारस्य वाप्य् एनं शिरसि स्पर्शयेद् दृढम् ॥
यस्माद् देवैः प्रयुक्तानि दुष्करे ऽर्थे मनीषिभिः ।
परस्परविशुद्ध्यर्थं तस्माद् दिव्यानि नामतः ॥

(असाक्षिकेष्व् इति मानुषप्रमाणरहितेष्व् इत्य् अर्थः ।) यत् तु पितामहेनोक्तम्,

अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एव न संशयः ॥

तथा ।

घटो ऽग्निविषम् आपश् च प्रमाणं हि चतुर्विधम् ।
**दैवकस्य प्रभेदो ऽयं कोशाशङ्कासु पञ्चमः ॥ [६९५]

इति, तद् अल्पाभियोगे शङ्कायां च कोशविधायकम् । महाभियोगे त्व(गे ऽ)वष्टम्भाभियोगे च शीर्षकस्थे ऽभियोक्तर्य् एव कोश इत्य् अविरोधः । तथा ।

चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ।
शङ्काविश्वाससंधाने विभागेष्व् ऋक्थिनां तथा ॥
किर्यासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ।
विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च ।
एष कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥

उक्तानां तु तुलादिदिव्यानां विषयविशेषम् अभियोक्तुश् च क्रियाविशेषं विधातुम् इदानीम् आह

महाभियोगे त्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥ २.९५ ॥

यान्य् एतानि तुलादीनि कोशान्तानि दिव्यानि विशुद्ध्यर्थम् उक्तानि, तानि महाभियोगविषये भवन्ति, नान्यथेत्य् एकं वाक्यम् । तथा “शीर्षकस्थे ऽभियोक्तरि” इति द्वितीयम् । अनयोश् च वाकययोर् एतानीति साधारणः शेषः । सहस्रादिपरिमाणद्रव्यविषयो महापातकविषयो वाक्षेपो महाभियोगः । अभियुक्तस्य दिव्यतो दोषाभावे ऽहं दोषवान् दोषानुरूपस्य दण्डस्य दातेत्य् अभ्युपगम इत्य् (इह) शीर्षम् । एवं चाभोयोक्तरि शीर्षकस्थितिं विदधाने ऽर्थाद् अभियुक्तस्य दिव्यकारित्वं नियम्यत इति संभाव्यम् । यद् आह पितामहः ।

अभियोक्ता शिरःस्थाने दिव्येषु परिकल्पते ।
अभियुक्ताय दातव्यं श्रुतिनिर्देशनाद् अपि ॥

ननु चाभियोक्तैव साध्यार्थवक्ता यश् च साध्यनिर्देशकः स एव साधनवादीति तेनैव दिव्यं कर्यम् इति न्याय्यम् । अत्रोत्तरम् “श्रुतिनिर्देशनात्” इति । अयम् अर्थः — यच् च (यथा) मानुषं प्रमाणम् अभियोक्त्रा मिथ्योत्तरे कार्यं तथैव दिव्यस्य प्राप्तिर् न्यायसिद्धा वचनेनान्यथा क्रियत इति । कात्यायनो ऽपि ।

न कश्चिद् अभियोक्तारं द्वियेषु विनियोजयेत् ।
अभिशंस्याय दातव्यं दिव्यं दिव्यविशारदैः ॥ इति ॥ २.९५ ॥

इदानीम् अभियोक्तृकर्तृकशीर्षकावस्थाननियमस्य क्वचिन् निमित्ते ऽपवादम् आह ।

रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ।

रुच्येच्छयान्यतरो ऽभियोक्ता वा दिव्यं कुर्यात् । इतरो दिव्यकर्तुर् अन्यः [६९६] शिरसि तिष्ठेत् । अभियोक्तुर् दिव्यकर्तृतानेन तात्पर्यतो विधीयते । अवश्यं च शिरो वर्तयेद् धटादिषु । यद् आह पितामहः ।

शिरःस्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
धटादीनि विषान्तानि कोश एवाशिराः स्मृतः ॥ इति ।

शङ्काभियोगकोशविषयम् एतत् । अत्र विशेषम् आह कात्यायनः ।

महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥

भृगुः ।

येषु पापेषु दिव्यानि प्रतिशुद्धानि यत्नतः ।
कारयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् मनुः ॥

अयम् अर्थः — यः पूर्वं कृतमहापातकादिः स पुनर् विषयान्तरे जातमहापातकाभियोगः सन् न स्वयं दिव्यं कुर्यात् । ऋत्विक्स्थानीयैस् तु सज्जनैः करयेत् । न पुनर् अभिशस्तस्य दिव्यम् अकुर्वतो ऽस्ति मोक्ष इति मनुर् मन्यत इति ॥

घटाद्य् अपि दिव्यं शीर्षकम् अन्तरेणापि क्वचिद् विषये भवतीय् आह ।

विनापि शीर्षकात् कुर्यान् नृपद्रोहे ऽथ पातके ॥ २.९६ ॥

राजद्रोहाभियोगे पातकाभियोगे वाभियोक्ता यद्य् अपि न शिरःस्थायी भवति, तथापि दिव्यम् अभियुक्तः कुर्यात् । द्रोहो जिघांसा, धनवनितापहारः शत्रुपक्षपातो मन्त्रभेदो वा । नृपद्रोहपातकाभियोगविषयम् एतत् । विष्णुः- “राजद्रोहसाहसेषु विनापि शीर्षकवर्तनात्” । दिव्यं कुर्याद् इत्य् अर्थः । पितामहः ।

अथ चेद् आत्मशुद्ध्यर्थं दिव्यं प्रक्रमते नरः ।
अशिरस् तस्य दातव्यम् इति शास्त्रविनिश्चयः ॥
राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना॥

चोरयताम् अस्माकम् एते संघातिन इत्य् एवं दस्युभिर् निर्दिष्टानां दिव्यम् अशिरः । कात्यायनः ।

लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि विषान्तानि न शिरस् तत्र वै भृगुः ॥
**न शङ्कासु शिरः कोशे कल्पयेत कदाचन ॥ २.९६ ॥ [६९७]

दिव्यविधिम् आह

सचैलस्नानम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.९७ ॥

दिव्यकर्तारं सूर्योदयसमये सचैलस्नानं पूवेद्युः कृतोपवासं चाहूय राज्ञो ब्राह्मणानां च संनिधौ दिव्यानि सर्वाणि प्राड्विवाकः कारयेत् । नारदः ।

पूर्वाह्णे ऽग्निपरीक्षा स्यात् पूर्वाह्णे चोद्वहेद् धटम् ।
मध्याह्ने तु जलं देयं मध्याह्नात् परतो विषम् ॥
दिवसस्यैव पूर्वाह्णे कोशशुद्धिर् विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सुशीतले ॥

तथा ।

अहोरात्रोषितं स्नाते सार्द्रवाससि मानवे ।
पूर्वाह्णे सर्वदिव्यानां प्रदानम् उपकीर्तितम् ॥
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥

घटकोशाग्नीनां पूर्वाह्णो नियतः । अन्येषां वैकल्पिकः । पितामहः ।

त्रिरात्रोपोषितायैव एकरात्रोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥
दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥

कात्यायनः ।

साधयेत् तत् पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्य् अपि यथोक्तानि राजा दिव्यानि वर्जयेत् ॥
मूर्खैर् लुब्धैश् च दुष्टैश् च पुनर् देयानि तानि वै ॥

साधनस्य हि दिव्यस्य व्याघाते निर्णायकत्वाभावे पुनः साध्यं दिव्येन साधयेत् । अयथाशास्त्रं च दत्तान्य् अपि दिव्यानि राजा व्यावर्त्य यथोक्तानि दद्याद् इत्य् अर्थः । मूर्खादिग्रहणम् अयथाशास्त्रदानोपलक्षणार्थम् । तथा ।

अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥

वासो निवासो ग्राम इत्य् एको ऽर्थः ।

तस्माद् यथोक्तविधिना दिव्यं देयं विशारदैः ।
**अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ॥ [६९८]

पितामहः ।

चैत्रो मार्गशिराश् चैव वैशाखश् च तथैव हि ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् ।
अग्निं शिशिरहेमन्ते वर्षास्व् अपि च दापयेत् ॥
ग्रीष्मे सलिलम् इत्य् उक्तं विषं काले हिमावहे ।
न शीते जलशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ॥
न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृपः ॥ २.९७ ॥

दिव्येषु कर्तृनियमम् आह

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ ॥

निगदव्याख्यातम् एतत् । अत्र तुलासंबन्धित्वेन स्त्रीबालादयो विधीयन्ते । तेन स्त्रीप्रमुखाणाम् एव तुलेतिनियमोपपत्तिः । सर्वत्र हि विधिना विधेयं नियम्यते । न चात्र तुला विधेया, किं त्व् अनूद्या प्राथम्यात् । तद् उक्तम् ।

यच् छब्दयोगः प्राथम्यम् इत्याद्युद्देश्यलक्षणम्" इति ।

अतश् च प्रवातादिकारिते स्त्रीप्रभृतीनां धटासंभवे दिव्यान्तरम् अपि देयम् । संभवे तु तुलैव । तथा च कात्यायनः ।

राजन्ये ऽग्निं धटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वं दिव्यं वा विषवर्जं द्विजोत्तमे ॥
गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव ग्राहयेच् छूद्रवद् द्विजान् ॥

नारदः ।

ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥

पितामहः ।

साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ।
विषवर्जं ब्राह्मणस्य सर्वाण्य् एतेषु च त्रिषु ॥
तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् ।
बालवृद्धस्त्रियश् चैव प्रीक्षेत धटे सदा ॥

यत् तु तेनैवोक्तम्,

ब्राह्मणानां कृशाङ्गानां बालवृद्धतपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥

इति, एतत् तुलाव्यतिरिक्तदिव्यविषयम् । रोगविशेषे दिव्यविशेषनिषेधं स एवाह ।

[६९९] कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।

पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥

नारदः ।

न मज्जनीयं स्त्रीबालं धर्मशास्त्रविचक्षणैः ।
रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः ॥

कात्यायनः ।

न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव नाग्निदिव्यं विधीयते ॥
तण्डुलैर् न नियुञ्जीत क्षतिनं मुखरोगिणम् ॥

पितामहः ।

मद्यपस्त्रीव्यस्निनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥

नारदः ।

महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥ २.९८ ॥

महाभियोगेष्व् एतानीत्य् उक्तं तत्र ऋणादानादौ कियति धने महत्त्वम् अभियोगस्य भवतीत्य् आह

नासहस्राद् धरेत् पालं न विषं न तुलां तथा ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ २.९९ ॥

ताम्रिकपणसहस्रप्रभृतिविवादे दिव्यानि कारयितव्यानि । न पुनः सहस्राद् ऊनसंख्याकपणविषयविवादे । अत्रापवादो नृपार्थेष्व् इत्यादिः । नृपार्थेषु राजकार्येष्व् आक्षिप्तास् तथाभिशापे ब्राह्मणवधे शुचयः परमार्थतो निर्दोषा वहेयुः, पणसहस्रविषयं विना दिव्यानि धारयेयुर् इत्य् अर्थः । कोशो ऽल्पविषये ऽपि भवतीति ज्ञापयितुम् इह तस्यानुपादानम् । अत एव नारदः- “कोशम् अल्पे ऽपि दापयेत्” इति । बृहस्पतिः ।

संख्या रश्मिर् अजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनयेत् तथा ॥
विषं सहस्त्रे ऽपहृते पादोने च हुताशनः ।
त्रिपादोने च सलिलम् अर्धे देयो धटः सदा ॥
चतुःशताभियोगे च दातव्यस् तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोशश् चैव तदर्धिके ॥

[७००] शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।

गोचौरस्य प्रदातव्यः सभ्यैः फालः प्रयत्नतः ॥
एका संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥

सर्वेषां वर्णानाम् अव्यवस्थायां सर्वदिव्यकरणपक्षम् आश्रित्य गुणवत्तारतम्येनैषा संख्याव्यवस्थोक्ता वेदितव्या । यदा तु यथावर्णं धटादीनि भवन्ति कर्तारश् च गुणवन्तस् तत्राह पितामहः ।

सहस्रे तु धटं दद्यात् सहस्रार्धे तथायसम् ।
अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥

अत्यन्तोत्तमगुणवत्पुरुषविषये तु कात्यायनः ।

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दशविनाशे तु स्पृशेत् पुत्रादिमस्तकम् ॥
ततो वार्धविनाशे तु लौकिक्यश् च क्रियाः स्मृताः ॥

सुवर्णः ष्ōडशमाषात्मकः । विष्णुः- “सर्वेष्व् एवार्थजातेषु मूल्यं कनकं कल्पयेत् । तत्र सुवर्णार्धेन कोशो देयः शूद्रस्य, ततः परं यथार्हं धटाग्न्युदकविषाणाम् अन्यतमम्, द्विगुणे ऽर्थे यथाभिहिता समयक्रिया । वैश्यस्य त्रिगुणे ऽर्थे राजन्यस्य कोशवर्जम् । चतुर्गुणे ऽर्थे ब्राह्मणस्य् कोशं दद्यात् । प्राग्दृष्टदोषं स्वल्पे स्वल्पे ऽप्य् अर्थे दिव्यानाम् अन्यतमम् एव कारयेत् । सत्सु प्रथितं सच्चारित्रं न महत्य् अर्थे ऽपि” ॥ २.९९ ॥

तुलाप्रयोगविधिम् आह ।

तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखाः कृत्वावतारितः ॥ २.१०० ॥

[७०१] त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।

तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ २.१०१ ॥
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ २.१०२ ॥

अभियुक्तो दिव्यकर्ता तुलाम् आश्रितस् तुलाम् आरूधस् तुलामानकुशलैः सुवर्णकारादिभिः प्रतिमानेन मृदादिना समीकृतस् तुल्यताम् आपादितस् तुलाशिक्योद्यामाः प्रतिमानसमीकरणसमयेषु येष्व् अवयवेषु संयुक्ता आसंस् तत्र रेखाः कृत्वा तुलातो ऽवतारितस् तुलेत्यादिना गमयोर्ध्वं माम् इत्यन्तेन मन्त्रेण तुलाम् अभिमन्त्रयेत् । तुलाभिमुखो भूत्वेमं मन्त्रम् उच्चारयेद् इत्य् अर्थः । पितामहः ।

छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥
मन्त्रः सौम्यो वानस्पत्यश् छेदने जप्य एव च ॥

नारदः ।

खादिरीं कारयेत् तत्र निर्व्रणां शुक्लवर्जिताम् ।
शांसपीं तदलाभे तु सालाद् वा कोटरैर् विना ॥
एवंविधानि काष्ठानि धटार्थे परिकल्पयेत् ।
ऋज्वी धटतुला कार्या खादिरी तैन्दुकी तथा ॥
चतुरश्रा त्रिभिः स्थानैर् धटकर्कटकादिभिः ॥

धटो मध्यं[कर्कटकौ] कर्कटकावर्तौ । पितामहः ।

प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा धर्मस्थाने चतुष्पथे ॥

उदगग्रो ऽपि भवति, तद् आह नारदः ।

धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।

औचित्याद् उदगग्रम् उत्तरतः ।

सभाराजकुलद्वारि सुरायतनचत्वरे ॥
निश्चेयो निश्चलः पूज्यो गन्धमाल्यानुलेपनैः ॥
दध्यक्षतहविर्गन्धकृताध्ययनमङ्गलः ।
**धर्मो रक्षार्थम् आहूतो लोकपालैर् अधिष्ठितः ॥ [७०२]

पितामहः ।

तत्रैव लोकपालांस् तु सर्वदिक्षु निवेशयेत् ।
त्रिसंध्यं पूजयेच् चैनं धूपमाल्यानुलेपनैः ॥
लोकपालांस् तथादित्यान् रुद्रांश् चैव वसूंस् तथा ।
पूज्याः प्रभावयुक्ताश् च सांनिध्यं कल्पयन्ति ते ॥
विशालाम् उच्छ्रितां शुभ्रां धटशालां तु कारयेत् ।
यत्रस्थो नोपहन्येत श्वभिश् चण्डालवायसैः ॥
कवाटबीजसंयुक्तां परिवारकरक्षिताम् ।
पानीयाग्निसमायुक्ताम् अशून्यां कारयेन् नृपः ॥
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ।
वादित्रतूर्यघोषैश् च धूपमाल्यानुलेपनैः ॥

तथा ।

चतुरश्रा तुला कार्या दृष्टा ऋज्वी तथैव च ।
कटकानि च देयानि त्रिषु स्थानेषु यत्नतः ॥
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ।
अन्तरे तु तयोर् हस्तौ भवेद् अध्यर्ध एव वा ॥

कटकानि लोहवलयानि । अध्यर्धः सार्धः । व्यासः ।

हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ।
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि ॥
धटादुच्चतरे स्यायां नित्यं दशभिर् अङ्गुलैः ।
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ॥
मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बकौ ।
शिक्यद्वयं समासज्ज्य पार्श्वयोर् उभयोर् अपि ॥
प्राङ्मुखान् कल्पयेद् अन्ताञ् शिक्ययोर् उभयोर् अपि ।
पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ॥
पिटिकां कारयेत् तस्मिन्न् इष्टकायां सलोष्टकैः ।
परीक्षका नियोक्तव्यास् तुलामानविशारदाः ॥
वणिजो हेमकाराश् च कांश्यकारास् तथैव च ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥

[७०३] उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ।

यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतारयेत् ।
धटं तु कारयेन् नित्यं पताकाधवजशोभितम् ॥
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपनैः ॥
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ।
एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
तस्यार्थम् अभियुक्तस्य लेखयित्वा तु पत्रके ॥
मन्त्रेणानेन सहितं कुर्यात् तस्य् शिरोगतम् ।
आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥
इमं धर्मविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानाम् अथैनं परिकल्पयेत् ॥
धटं त्वं ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलो नृणाम् ॥
धटो धारयसे यस्माद् धटस् तेनाभिधीयते ॥

विष्णुः ।

त्वेम् एव धट जानीषे न विदुर् यानि देवताः ।
व्यवहाराभिशतो ऽयं मानुषस् तुल्यते त्वयि ॥
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ।
ब्रह्मघ्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः ॥
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥

श्रीनारदः ।

समयैः परिगृह्याथ पुनर् आरोपयेन् नरम् ।
निवाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् ॥
तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ।
समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥

तुलितस् तोलितो यदि वर्धेतोर्ध्वं गच्छेद् धर्मतो न तु कुहकतस् तदा शुद्धः सत्यप्रतिज्ञो भवति । यदि समो ऽघोगामी वा भवति, तदानीम् अविशुद्धो ऽसत्यप्रतिज्ञः । यत् तु पितामनेनोक्तम्,

[७०४] अल्पपापः समो ज्ञेयो बहुपापस् तु हीयते ।

धर्मगौरवमाहात्म्याद् अतिरिक्तो विशुध्यति ॥

इति, तद् दण्डप्रायश्चित्तयोर् अल्पत्वपरम् । व्यवहारे तु समस्यापि पराजय एव । न हि दोषाल्पत्वेन दातव्यधनस्य संख्याल्पत्वविशेषः शक्यो व्यवस्थातुम्, येन व्यवहारे ऽपि दोषाल्पत्वं प्रवृत्तिविशेषकारिताम् उपेयात् । बृहस्पतिः ।

धटे ऽभियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।
तत्समस् तु पुनस् तुल्यो वर्धितो विजयी भवेत् ॥

एवं च सति प्रथमतोलने पर्याये समस्य पुनस् तोल्यमानस्य यदि समतैव भवति तदानीम् अविशुद्धिर् अवधारणीया, न प्रथम एव पर्याये । शिक्यादीनां दृष्टकारणम् अन्तरेण छेदादौ जयो ऽवधार्यः, तद् आह नारदः ।

कक्षाछेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे च मूर्छितः शुद्धिम् आप्नुयात् ॥

कक्षा शिक्यम् । शिक्याधाराव् अयोमयाव् अङ्कुशौ कर्कटौ । तुला प्रसिद्धा । अक्षः स्तम्भद्वयोपरि स्थितं तुलाधारभूतं काष्ठम् । तुलादीनां समुदायो धटः । यदा तु दृष्टाद् एव हेतोः शिक्यच्छेदादि भवति, तदा पुनः क्रिया । तद् आह कात्यायनः ।

शिक्यच्छेदे तुलाभङ्गे तथा चापि गुणस्य वा ।
शुद्धेस् तु संशये चैव परीक्षेत पुनर् नरम् ॥

नारदः ।

तुलाशिरोभ्याम् उद्भ्रान्तं विचलं व्यस्तलक्षणम् ।
यदा वायुप्रणुन्नो वा चलत्य् ऊर्ध्वम् अधो ऽपि वा ॥
निर्मुक्तः सहसा वापि तदा नैकतरं व्रजेत् ।
शिक्यच्छेदे ऽक्षभङ्गे वा दद्याच् छुद्धिं पुनर् नृपः ॥

अयम् अर्थः — तुलायाः शिरोभ्याम् अन्ताभ्याम् उद्भ्रान्तं चलितं यदा भवति, यदा च तुलासाम्यज्ञानार्थं यज् जलादिलक्षणं न्यस्तं तद् विचलति, यदा च वायुना प्रेरितो धट ऊर्ध्वम् अधो वा कम्पते, यदा च तुलाधारकेण सहसैव धटो विमुच्यते, तदा जयं पराजयं वा न वदेत् । किं तु पुनस् तोलयेत् । एवं शिक्यच्छेदादाव् अपि । इत् धटविधिः ॥ २.१००, १०१, १०२ ॥

क्रमप्राप्तम् इदानीम् अग्निदिव्यप्रयोगम् आह ।

[७०५] करौ विमृदितव्रीही लक्षयित्वा ततो न्यसेत् ।

सप्त चाश्वत्थपत्राणि तावत् सूत्रेण वेष्टयेत् ॥ २.१०३ ॥

उपवासादि साध्यार्थलिखितं धारणान्तं कृत्वा ततः करौ विमृदितव्रीही विमृदिता विमर्दिता व्रीहयो याभ्यां तौ विमृदितव्रीही लक्षयित्वा तयोर् यत् क्षतादिकम् उपलब्धं तल् लक्षयेद् अङ्कयेद् अग्निधारणात् प्राक्तनम् एतद् इति ज्ञपनार्थम् । ततस् तयोर् अञ्जलीभूतयोर् अश्वत्थस्य सप्त पत्राणि न्यसेत् । ततस् तावद्भिर् एव सूत्रैः सप्तभिर् वेष्टयेत् । हारीतः ।

प्राङ्मुखस् तु ततस् तिष्ठेत् प्रसारितकराङ्गुलिः ।
आर्द्रवासाः शुचिश् चैव शिरस्य् आरोप्य पत्रकम् ॥

पितामहः ।

पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिः शुचिः ।
लक्षयेयुः क्षतादीनि हस्तयोस् तस्य कारिणः ॥
करौ विमृदितव्रीही तस्यादाव् एव लक्षयेत् ॥

नारदः ।

लक्षयेत् तस्य चिह्नानि हस्तयोर् उभयोर् अपि ।
प्राकृतानि च गूढानि सव्रणान्य् अव्रणानि च ॥
कृत्वैवम् अभियुक्तस्य प्रथमं हस्तलक्षणम् ।
शान्त्यर्थं जुहुयात् तत्र घृतम् अग्नौ यथाविधि ॥

तथा ।

हस्तक्षतेषु सर्वेषु कुर्याद् बिन्दुपदानि च ।
तान्य् एव पुनर् आलक्षयेद् धस्तौ बिदुविचित्रितौ ॥
सप्ताश्वत्थस्य पत्राणि त्व् अभियुक्तस्य हस्तयोः ।
कृत्वा वेष्ट्यानि यत्नेन सपत्भिस् तत्र तन्तुभिः ॥

पितामहः ।

सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
हस्तयोर् निक्षिपेत् तत्र तन्तून् सूत्रस्य सप्त च ॥

वृद्धः ।

अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरञ् शुच्छस् त्व् अदग्धः सप्तमे पदे ॥ २.१०३ ॥

किं च

त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०४ ॥

[७०६] तस्येत्य् उक्तवतो लो(लौ)हं पञ्चाशत्पलिकं समम् ।

अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ २.१०५ ॥

त्वम् अग्न इत्यादिकं कवे ममेत्य् अन्तं मन्त्रम् उक्तवतो ऽभियुक्तस्य हस्तयोर् लोहमयं पञ्चाशत्पलपरिमाणम् अग्निवर्णम् अश्रिरहितं पिण्डं प्राड्विवाको विन्यसेत् । समम् अनिम्नोन्नतम् । पितामहः ।

तापयित्वा ततः पश्चाद् अग्निम् आवाहयेच् छुचिः ।
त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ।
उदरस्थो ऽसि भूतानां ततो वेत्सि शुभाशुभम् ॥
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यसे ।
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ॥
अथ वा शुद्धभावेषु शीतो भव महाबल ।
आयसं लेलिहानस्य जिह्वयापि समादिशेत् ॥

तथा ।

अश्रिहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥

समं तापयेत् सर्वत इत्य् अर्थः । नारदः ।

जात्यैव लोहकारो यः कुशलश् चाग्निकर्मणि ।
दृष्टप्रयोगश् चान्यत्र तेनायो ऽग्नौ तु तापयेत् ॥
अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गं सुयन्त्रितम् ।
पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर् द्विजः ॥
तृतीयतापे तप्तं तं ब्रूयात् सत्यपुरस्कृतः ।
शृण्विमं मानवं धर्मं लोकपालैर् अधिष्ठितम् ॥
त्वम् अग्ने सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ।
सत्यानृते च जिह्वायास् त्वत्तः समुपलभ्यते ॥
वेदादिभिर् इदं प्रोक्तं नान्यथा कर्तुम् अर्हसि ।
अनेनादाव् इदं प्रोक्तं मिथ्या चेदम् असौ वदेत् ॥
सर्वथा च यथा मिथ्या तथाग्निं धारयाम्य् अहम् ।
स एष त्वां दारयति सत्येनानेन मानवः ॥
सत्यवाक्यस्य वाक्यत्वं शीतो भव हुताशन ।

[७०७] मृषावाक्यस्य पापस्य दह हस्तौ च पापिनः ॥

अमुम् अर्थं च पत्रस्थम् अभियुक्तं यथार्थतः ।
संश्राव्यम् ऊर्जितस्यैव न्यस्य देयो यथाक्रियम् ॥

त्वं देवानां जिह्वेत्य् अन्वयः । देयः शपथो देय इत्य् अर्थः ॥ २.१०४, १०५ ॥

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् ।
षोडशाङ्गुलिकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ २.१०६ ॥

सो ऽभियुक्तस् तम् अयःपिण्डकम् अग्निवर्णं कराभ्याम् आदाय शनैर् अत्वरमाणः सप्तसु मण्डलेषु सप्त क्रमान् कृत्वा व्रजेत् । मण्डलानि च प्रत्येकं षोडशाङ्गुलप्रमाणानि । मण्डलानां चान्तराण्य् अपि प्रत्येकं षोडशाङ्गुलान्य् एव । पितामहः ।

अग्नेर् विधिं प्रवक्ष्यामि यथावच् छास्त्रचोदितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥
आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं तथा ।
तृतीयं वायुदै(दे)वत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्व् इन्द्रदै(दे)वत्यं षष्ठं कौबेरम् उच्यते ।
सप्तमं सोमदै(दे)वत्यम् अष्टमं शर्वदैवतम् ॥
पुरस्तान् नवमं यत् तु तन् महत्पार्थिवं विदुः ।
गोमयेन कृतानि स्युर् अद्भिः पर्युषितानि च ॥
द्वात्रिंशदङ्गुलान्य् आहुर् मण्डलान् मण्डलान्तरम् ॥

अथ प्राक्संस्था मण्डलपङ्क्तिर् आर्जववती कार्या । तत्र पश्चिमं मण्डलं दिव्यकर्तुर् अवस्थानार्थम्, तत्र स्थितो ह्य् अग्निम् अभिमन्त्र्य गृह्णाति । यस्माद् आह स एव ।

पश्चिमे मण्डले तिष्ठेत् प्राक्मुखः प्राञ्जलिः शुचिः । इति ।

नवमं तु मण्डलम् अग्निक्षेपर्थम्, यस्मात् स एवाह ।

त्वरमाणो न गच्छेत् तु स्वस्थो गच्छेच् छनैः शनैः।
न मण्डलम् अतिक्रामेन् नान्तरा स्थापयेत् पदम् ॥
अष्टमं मण्डलं गत्वा नवमं निक्षिपेद् बुधः ॥

यत् तु एकस्मान् मण्डलाद् द्वितीयं द्वात्रिंशदङ्गुलानीत्य् उक्तं तदन्तरालस्य मण्डलसंमिलितस्य परिमाणम् इत् वेदितव्यम् । न तु केवलस्यान्तरालस्य [७०८] मण्डलस्य वा । एवं षोडशाङ्गुलिकम् इत्यादिवचनाविरोधः । तत्र यदि षोडशाङ्गुलं मण्डलं तदन्तरालम् अपि षोडशाङ्गुलकम् एव । यदा तु कर्तृपादेन परिमितं मण्डलं तदा तदन्तरालं सप्तदशाङ्गुलं कार्यम्, नान्यथा सान्तरालस्य मण्डलस्य द्वात्रिंशदङ्गुलता स्यात् । नारदः ।

अतः परं प्रवक्ष्यामि विधिम् अग्नेस् तथोत्तरम् ।
द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ॥
सप्तभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ।
चतुर्विंशत्समाख्याता भूमेस् तु परिकल्पना ॥
मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् ॥

पितामहः ।

मण्डले मण्ड्ले देयाः कुशाः शास्त्रप्रचोदिताः ।
विन्यसेत् तु पदं कर्ता तेषु नित्यम् इति स्थितिः ॥

नारदः ।

स्थित्वैकस्मिंस् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिह्मगः ।
असंभ्रान्तः स तैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ॥
न प्रापयेत् तम् अप्राप्य या भूमिः परिकल्पिता ॥ २.१०६ ॥
मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ २.१०७ ॥

सप्त मण्डलानि गत्वाग्निं विमुच्य कराभ्यां विमर्दितव्रीहिर् अदग्धहस्तः शुद्धो ऽन्यथा त्व् अशुद्धः । यदि पुनर् मध्य एवायःपिण्डः पतति कारणान्तराद् वा संदेहे जाते पुनस् तं हरेत् । पितामहः ।

ततस् तद्वत् तयोः प्रास्येद् व्रीहीन् वा यदि वा यवान् ।
निर्विशङ्केन तेषां तु हस्ताभ्यां मर्दने कृते ॥
निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ॥

नारदः ।

तस्यैवं मुक्तपिण्डस्य कुर्यात् करनिरीक्षणम् ।
पूर्वदृष्टेषु चिह्नेषु ततो ऽन्यत्रापि लक्षयेत् ॥
मण्डलं रक्तसंकाशं यत्रान्यद् वाग्निसंभवम् ।
सो ऽविशुद्धस् तु विज्ञेयो ऽसत्यधर्मव्यवस्थितः ॥
यदा तु न विभाव्येन दग्धाव् इति करौ तदा ।
व्रीहीन् अतिप्रयत्नेन सप्तवारं तु मर्दयेत् ॥

[७०९] मर्दितैर् एव नो दग्धः सभ्यैर् एव विनिश्चितः ।

मोच्यः शुद्धः स संस्कृत्य दग्धो दण्ड्यो यथाक्रमम् ॥

नारदः ।

यस् त्व् अन्तरा पातयति दग्धश् च न विभाव्यते ।
पुनस् तं हारयेद् अग्निं स्थितिर् एषा दृडीकृता ॥

कात्यायनः ।

प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
न दग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥

दाहस्य स्थानं हस्तौ, ततो ऽन्यत्रावयवे दग्धस्य पुनर् दापयेद् इत्य् अर्थः । इत्य् अग्निदिव्यविधिः ॥ २.१०७ ॥

अथ जलपरीक्षाप्रयोगम् आह

सत्येन माभिरक्षस्व वरुणेत्य् अभिशास्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ २.१०८ ॥
समकालम् इषुं सुक्तम् आनयेद् यो जवी नरः ।
गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्दिम् आप्नुयात् ॥ २.१०९ ॥

सत्येन माभिरक्षस्व वरुणेति मन्त्रेण कं जलम् अभिमन्त्रयेत् । अस्मिन्न् एव काले जलप्रदेशाद् विमुक्तः शरो यत्र निपतति तत्र बलवन्तं पुरुषं स्थापयेत् । ततो नाभिमात्रे जले ऽवस्थितस्य पुरुषस्योरू गृहीत्वा शुद्धिमाको निमज्जेत् । अस्मिन्न् एव काले ऽतिकुशलेन धन्विना विमुक्त इषुर् यत्र् देशे निपतितः, तं देशं यो ऽतिवेगवान् पुरुषः स वेगेन गच्छेत् । ततस् तत्र देशे यः प्राग् अवस्थितः, तं शरं गृहीत्वा निपातवेगेनागत्य यदि निमग्नः सर्वाङ्गं शोध्यं पश्येत्, ततो निमग्नः शुद्धिम् आप्नुयात् । अशुद्धिम् अन्यथा । पितामहः ।

तोयस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।
मण्डलं पुष्पधूपाभ्यां कारयेत विचक्षणः ॥
शरान् संपूजयेद् भक्त्या वैणवं च धनुस् तथा ।
मण्डयेत् पुष्पधूपैश् च ततः कर्म समाचरेत् ॥

कात्यायनः ।

शरांस् तु नायसैर् अग्रैः प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता च सुदृढः(ढं) क्षिपेत् ॥

पितामहः ।

क्षेप्ता तु क्षत्रियः कार्यस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासः शरान् क्षिपेत् ॥

[७१०] इषूंश् च प्रक्षिपेद् विद्वान् मारुते वाति वा भृशम् ।

विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥

नारदः ।

क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर् विधिः ॥

सप्ताधिकं शतं सप्तशतम् । एवं षट्शतम्, पञ्चशतम् । अङ्गुलसंख्या चैषा । पितामहः ।

मध्यमेन च चापेन प्रक्षिपेच् च शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
तेषां च प्रेषितानां तु शराणां शास्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥
शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।
सर्पन् सर्पन् सदा याति दूराद् दूरतरं तु सः ॥

नारदः ।

नातिक्रूरेण धनुषा क्षेपयित्वा शरत्रयम् ।
पानीयमज्जनं कार्यं शङ्का यत्र न जायते ॥

उशना ।

शराणां प्रेषितानां स्यात् समग्राङ्गनिमज्जनम् ।

कात्यायनः ।

क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्व् आगमे(मः?) कार्यः पुमान् अन्यो जले विशेत् ॥

पितामहः ।

स्थिरे तोये निमज्जेत् तु न ग्राहिणी न चाल्पके ।
तृणशैवालरहिते जलौकोमत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेन् नित्यं शीघ्रवेगं नदीषु च ॥
नदीषु नातिवेगासु तडागेषु सरःसु च ।
ह्रदेषु स्थिरतोयेषु कुर्यात् पुंसां निमज्जनम् ॥

पितामहः ।

स्थापयेत् पुरुषं तोये स्तम्भवत् प्रथमं दृढम् ।
आश्रित्य तं मज्जयेयुः पुरुषाः शुद्धिकाङ्क्षिणः ॥

नारदः ।

ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।
नाभिमात्रे जले स्थाप्यः पुरुषः स्तम्भवद् बली ॥
तस्योरू प्रतिसंगृह्य निमज्जेद् अभिशापवान् ।
शरप्रक्षेपणस्थानाद् युवा जवसमन्वितः ॥

[७११] गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ।

मध्यमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ॥
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ।
आगतस् तु शरग्राही न पश्यति यदा जले ॥
अन्तर्जलगतं सम्यक् तदा शुद्धं विनिर्दिशेत् ॥

बृहस्पतिः ।

आनीते मध्यमे बाणे मग्नाङ्गः शुचिताम् इयात् ॥

नारदः ।

अन्यथा न विशुद्धिः स्याद् एकाङ्गस्यापि दर्शने ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥

कात्यायनः ।

शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ।
निमज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिना नरः ।
पुनस् तत्र निमज्जेत् स देशचिह्नविभावितः ॥

इति जलदिव्यविधिः ॥ २.१०८, १०९ ॥

अथ विषदिव्यप्रयोगम् आह

त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः ।
त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥ २.११० ॥
एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमसैलजम् ।
यस्य वेगैर् विना जीर्णं तस्य शुद्धिं विनिर्दिशेत् ॥ २.१११ ॥

सर्वदिव्यसाधारणे साध्ये ऽर्थे लेख्यधारणपर्यन्ते धर्मजाते कृते वक्ष्यमाणप्राड्विवाकमन्त्रे प्रयुक्ते वक्ष्यमाणेन वाभिशस्तप्रयोज्यमन्त्रेण विषे ऽभिमन्त्रिते “स्वं विष ब्रह्मण पुत्रः” इत्य् अनेन मन्त्रेण विषं शार्ङ्गं हिमवत्य् उत्पन्नं सप्तयवपरिमाणम् अभिशस्तो भक्षयेत् । यस्य तद् भक्षितं वेगैर् विना जीर्णं भवति परिणामं याति स शुद्धः, विपरीतो ऽशुद्धः । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । एतेष्व् एकस्मिन् धातौ वर्तमानस्य विषस्य शीघ्रं धात्वन्तरप्राप्तिः । तत्र त्वचि वर्तमानं विषं रोमाञ्चनं जनयति, तद् एव लोहितं प्राप्य स्वेदं वक्त्रशोषं च, मांसं प्राप्य वैवर्ण्यम्, मेदः प्राप्य कम्पं, तद् एवास्थिगतं नेत्रपारवश्यम्, मज्जागतं तु विषादं मोहम्, तद् एव शुक्रगतं मरणं जनयति । [७१२] नारदः ।

अतः परं प्रवक्ष्यामि विषस्य विधिम् उत्तमम् ।
यस्मिन् काले यदा देयं यादृशं च प्रकीर्तितम् ॥
यवमात्रा मदुद्दिष्टा धर्मतत्त्वार्थवेदिभिः ।
तुलयित्वेच्छतः काले देयम् एतद् धिमागमे ॥
नापराह्णे न मध्याह्ने न संध्यायां च धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ॥
भग्नं च धारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥
वर्षासु षड्यवा मात्रा ग्रीष्मे पञ्च यवाः स्मृताः ।
हेमन्ते च यवाः सप्त शरद्य् अल्पास् ततो ऽपि हि ॥

पितामहः ।

वारिजान्य् अतिशीर्णानि कृत्रिमाणि तथैव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥
ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहान् ।
कर्तुः शरीरसंस्थांश् च गूढान् अन्यान् परीक्षयेत् ॥

कात्यायनः ।

अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेर् आभं ख्यातं तच्छृङ्गिणां विषम् ॥
रक्तं तद् असितं कुर्यात् कठिनं चैव तत्क्षणात् ।
अनेन विधिना ज्ञेयं विषं दिव्यविशारदैः ॥
वत्सनाभनिभं पीतं वर्णज्ञानेन विश्चयः ।
शुक्तिशङ्खाकृतिर् भङ्गे विद्यात् तद्वत् सनाभकम् ॥
मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यम् एवं समाख्यातं लक्षणं धर्मसाधकैः ॥

रक्तम् असृक् तद् येन संसृष्टं कृष्णं कठिनं च तत्क्षणाद् भवति तच्छृङ्गिविषं ज्ञेयम् इत्य् अर्थः । पितामहः ।

यवाः सप्त प्रदातव्याः शुद्धिहेतोर् असंशयम् ।
शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥

कात्यायनः ।

पूर्वाह्णे शीतले देशे विषं दद्यात् तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥

त्रिंशद्गुणेन घृतेनेत्य् अन्वयः । [७१३] नारदः ।

दद्याद् धि सोपवासाय देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेर्श्वरम् ॥
द्विजानां संनिधाने च दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा दद्याद् विप्रः समाहितः ॥

कात्यायनः ।

विषस्य पलषड्भागाद् भागो विंशतिम् अस्तु यः ।
तम् अष्टभागहीनं तु शोध्ये देयं घृताप्लुतम् ॥

पितामहः ।

दीयमानं करे कृत्वा विषं तु परिशापयेत् ।
विष त्वं ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ॥
पापेषु दर्शयात्मानं शुद्धानाम् अमृतं भव ॥

विष्णुः ।

विषत्वाद् विषमत्वाच् च क्रूरस् त्वं सर्वदेहिनाम् ।
त्वम् एव विष जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषः सिद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

अयं च मन्त्रः प्राड्विवाकेन सामर्थाद् वाच्यः । पितामहः ।

भक्षीते यदि स स्वस्थो मूर्छाछर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् इति निर्दिशेत् ॥

नारदः ।

छायानिवेशितो रक्ष्यो दिनशेषम् अभोजनः ।
विषवेगक्लमापेतः शुद्धो ऽसौ मनुर् अब्रवीत् ॥

बृहस्पतिः ।

विधिदत्तं विषं येन जीर्णं मन्त्रौषधं विना ।
स शुद्धः स्याद् अन्यथा तु दण्ड्यो दाप्यश् च तद् धनम् ॥

पितामहः ।

त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्ठितम् ।
कुहिकाशङ्कया राजा दारयेद् दिव्यधारणम् ॥

इति विषदिव्यविधिः ॥ २.११०, १११ ॥

अथ कोशविधिम् आह

देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संश्राव्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥ २.११२ ॥

सर्वदिव्यसाधारणे धर्मवर्गे कृत उग्रान् आदित्यादिदेवान् सम्यग् गन्धपुष्पादिनाभ्यर्च्य तत्स्नानोदकम् आहृत्य तस्माज् जलात् सत्येन माभिरक्षस्व वरुणेत्य् अभिमन्त्रितात् प्रसृतित्रयं दिव्यकर्तारं पाययेत् । प्राड्विवाक इति शेषः । [७१४] पितामहः ।

भक्तो यो यस्य देवस्य पाययेत् तस्य तं नरम् ।
समभावे तु देवानाम् आदित्यस्य तु पाययेत् ॥

बृहस्पतिः ।

यद्भक्तः सो ऽभियुक्तः स्यात् तद् एवायुधमण्डलम् ।
प्रक्षाल्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥

नारदः ।

पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशपानं विधीयते ॥
इच्छतः श्रद्दधानस्य देवब्राह्मणसंनिधौ ।
यद्भक्तः सो ऽभियुक्तः स्यात् तद्दै(दे)वत्यं प्रदापयेत् ॥

सशूक आस्तिकः । कात्यायनः ।

स्वल्पे ऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥

पाय्यः पाययितव्यः । कोशम् इति शेषः । विकारो ऽनिष्टम् । नियम्यो दण्ड्यः । पितामहः ।

दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तत् तु पाययेत् ॥
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य च मण्डलम् ।
इतरेषां तु देवानां स्नापयित्वायुधानि च ॥
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥

नारदः ।

महापराधे निर्धर्मे कितवे क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् ॥
तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥ २.११२ ॥

जयपराजयावधारणकारणम् आह ।

अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ २.११३ ॥

कोशपानदिनप्रभृति चतुर्दश् दिनानि यस्य राजदैवकृतं घोरं तीव्रं व्यसनं दुःखकारणं न जायते स शुद्ध एवेति वेदितव्यम् । तदुत्तरकाले तु व्यसनोदये ऽप्य् अशुद्धिर् नाशङ्कनीया । [७१५] नारदः ।

ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं तु महद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥

विष्णुः ।

यस्य पश्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्निर् ज्ञातिमरणं राजदण्डम् अथापि वा ॥
तम् अशुद्धं विजानीयात् तथा शुद्धं विपर्यये ॥

पितामहः ।

त्रिरात्रात् सप्तरात्राद् वा द्विसप्ताहाद् अथापि वा ।
वैकृतं यस्य दृश्येत पापकृत् स तु मानवः ॥
तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं सैव तस्य विभावना ॥

कात्यायनः ।

अथ दैवविसंवादस् त्रिसप्ताहात् तु दापयेत् ।
अभियुक्तं तु यत्नेन तम् अर्थं दण्डम् एव च ॥

अत्र दिनसंख्याल्पत्वमहत्त्वे अभियोगविषयस्याल्पत्वमहत्त्वानुसारेण वेदितव्ये । तत्रात्यन्त्महाभियोगे त्रिसप्ताहो महाभियोगमात्रे तु चतुर्दशाह इत्यादि कल्प्यम् ।

इति कोशविधिः ।

पितामहः ।

तण्डुलानां प्रवक्ष्यामि विधिं भक्षणवर्जने ।
चौर्ये तु तण्डुला ज्ञेया नान्यस्मिन्न् इति निश्चयः ॥
तण्डुलान् कारयेच् छुक्लाञ् शालेर् नान्यस्य कस्यचित् ।
मृन्मये भाजने कुर्याद् आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
प्रभाते कारिणो देया आदित्याभिमुखस्य च ॥

कारणः शपथकारिणः । आदित्यस्याभिमुखस्य प्राङ्मुखस्येत्य् अर्थः ।

तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् तदा ।
भूर्जस्यैव तु नान्यस्य अलाभे पिप्पलस्य तु ॥
शोणितं दृश्यते यत्र हनुस् तालुश् च शीर्यते ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥
सरक्तास् तण्डुला यस्य यत्र न स्युः सुचर्विताः ।
विकृतं ष्ठीवनं यस्य तम् अशुद्धं विनिर्दिशेत् ॥
उपजिह्वातालुपाती मुखरोगी तथैव च ।
**न तेषां तण्डुला देयाः शङ्कया शोणितस्य च ॥ [७१६]

सर्वदिव्यसाधारणं धर्मजातम् इहापि कर्तव्यम् । तथा ।

तप्तमाषस्य वक्ष्यामि विधिम् उद्धरणे शुभम् ।
कारयेद् आयसं पात्रं ताम्रं वाथ हिरण्मयम् ॥
चतुरङ्गुलम् उत्सेधं मृन्मयं वापि वर्तुलम् ।
पूरयेद् घृततैलाभ्यां पलैर् विंशतिभिस् तु तत् ॥
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ।
अङ्गुष्ठाङ्गुलियोगेन चोद्धरेत् तप्तमाषकम् ॥
कराग्रं यो न धुनुयाद् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥

अथ पालविधिः । तत्र बृहस्पतिः ।

आयसं द्वादशपलं घटितं फालम् उच्यते ।
अदग्धश् चेच् छुद्धिम् इयाद् अन्यथा त्व् अपहीयते ॥

अथ धर्मविधिः ।

पत्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिभिर् मन्त्रैर् गायत्र्याद्यैश् च सामभिः ॥
आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
समौ कृत्वा तु तौ कुम्भे स्थाप्यौ चानुपलक्षितौ ।
ततः कुम्भात् पिण्डम् एकं प्रगृह्णीताविलम्बितः ॥
धर्मे गृहीते शुद्धः स्यात् स पूज्यश् च परीक्षकैः ॥ २.११३ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

**दिव्यप्रकरणम् ॥ ७ ॥ **