०६ लेख्य-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

लेख्यप्रकरणम् । (६)

भुक्तिसाक्षिणाव् अभिहितौ । इदानीं लिखितम् अभिधत्ते ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४ ॥

यः कश्चिद् ऋणादिर् अर्थ उत्तमर्णाधमर्णाभ्यां परस्परं स्वेच्छया निष्णातः स्वरूपसंख्यावृद्धिरूपेण संप्रतिपन्नस् तस्मिन् विषये धनिकनामपूर्वकं साक्षिनामभिर् युक्तं लेख्यं करणीयम् । [६८३] बृहस्पतिः ।

राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।
लेख्यं तत् त्रिविधं प्रोक्तं भिन्नं तद् बहुधा पुनः ॥
भागदानक्रयाधीनां संविद् दासऋणादिभिः ।
सप्तधालौकिकं लेख्यं त्रिविधं राजशासनम् ॥
भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तद् उच्यते ॥
भूमिं दत्वा यस् तु पत्रं कुर्याच् चन्द्रार्ककालिकम् ।
अनाच्छेद्यम् अनाहार्यं दानलेख्यं तु तद् विदुः ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत् तु क्रयलेख्यं तद् उच्यते ॥
जङ्गमं स्थावरं बन्धं दत्वा लेख्यं करोति यत् ।
गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तु तत् स्मृतम् ॥
ग्रामो देशश् च यत् कुर्यान् मतलेख्यं परस्परम् ।
राजाविरोधि धर्मार्थे संवित्पत्रं वदन्ति तत् ॥
वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यते ।
कर्माहं ते करिष्यामि दासपत्रं तद् इष्यते ॥
धनं वृद्ध्या गृहीवा तु स्वयं कुर्याच् च कारयेत् ।
उद्धारपत्रं तत् प्रोक्तम् ऋणलेख्यं मनीषिभिः ॥

वसिष्ठः ।

लौकिकं राजकीयं च लेख्यं विद्याद् द्विलक्षणम् ।
राजकीयं चतुर्भेदम् अष्टभेदं तु लौकिकम् ॥
शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् ।
आज्ञाप्रज्ञापनं पत्रं राजकीयं चतुर्विधम् ॥
चीरकं च स्वहअस्तश् च तथोपगतसंज्ञकम् ।
आधिपत्रं चतुर्थं तु पञ्चमं क्रयपत्रकम् ॥
षष्ठं तु स्मृतिपत्राख्यं सप्तमं षटिपत्रकम् ।
विशुद्धिपत्रकं चैवम् अष्टधा लौकिकं स्मृतम् ॥
दत्वा भोगान् द्विजातिभ्यो रत्नानि विविधानि च ।
राजा भूमिं च कुर्वीत तेषां तस्याश् च शासनम् ॥
क्रियाकारकसंबद्धं समासार्थकिर्यान्वितम् ।
समामासतदर्धाहर्नृपनामोपलक्षितम् ॥

[६८४] प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् ।

संनिवेशप्रमाणं च स्वहस्तं तु लिखेत् स्वयम् ॥
संधिविग्रहकारी च भवेद् यस् तत्र लेखकः ।
स्वयं राज्ञा समादिष्टः स लिखेद् राजशासनम् ॥
स्वनाम विलिखेत् पश्चान् मुद्रितं राजमुद्रया ।
ग्रामक्षेत्रगृहदीनाम् ईदृक् स्याद् राजशासनम् ॥

कात्यायनः ।

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।
राजस्वहस्तसंशुद्धं शुद्धिम् आयाति शासनम् ॥

नारदः ।

सकलं पूर्वपादं च सोत्तरं सक्रियं तथा ।
सावधारणकं वैव तज् ज्ञेयं जयपत्रकम् ॥
नृपानुज्ञातलिखितः संश्राव्यो ऽर्थश् च पक्षयोः ।
सभ्यैर् निर्धारितः पश्चाद् राज्ञा शास्यः स शास्त्रतः ॥
प्राप्तं द्विगुणदण्डं तु दण्डयित्वा पुनस् ततः ।
जयिने वापि देयं स्याद् यथावज् जयपत्रकम् ॥
मध्ये यत् स्थापितं द्रव्यं चरं वा यदि वा स्थिरम् ।
पश्चात् तत् सोदयं दाप्यं जयिने जयपत्रकम् ॥

कात्यायनः ।

सिद्धे चार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्माद् दद्यात् तु पार्थिवः ॥

वृद्धवसिष्ठः ।

यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रं तद् इष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धे ऽर्थे वादिने दद्याज् जयिने जयपत्रकम् ॥ २.८४ ॥

किं च

समामासतदर्थाहर्नामजातिसगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ २.८५ ॥

तल् लेख्यं समामासादिचिह्नितं कुर्यत् । समा संवत्सरः । मासश् चैत्रादिः । तदर्धं शुक्लपक्षकृष्णपक्षौ । अहः प्रतिपदादितिथिः । नाम संज्ञा । जातिर् ब्राह्मणत्वादिः । कश्यपादिना समानं गोत्रं तद् एव सगोत्रकम् । कठादिना समानम् अभिन्नं ब्रह्म वेदशाखां चरत्य् अधीत इत्य् एवंशीलः सब्रह्मचारी, तस्य भावः सब्रह्मचारिकम् । [६८५] आत्मीयपितृनामादि उत्तमर्णाधर्मर्णसाक्षिनां पितृनामादि । आदिशब्देन च धनस्य जातिसंख्यापरिमाणादीनां ग्रहणम् । नामजातिसगोत्रब्रह्मचारित्वादीन्य् अत्र धनिकादीनाम् एव । व्यासः ।

जातिः संज्ञा निवासो ऽर्थः संख्या वृद्धिश् च वत्सरः ।
मासः पक्षो दिनं चैषां लिखितं व्यक्तिकारकम् ॥ २.८५ ॥

अपि च

समाप्ते ऽर्थ ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ २.८६ ॥

धनिकाधर्मर्णयोर् यो ऽर्थः संप्रतिपन्नस् तल् लेख्ये समाप्ते चर्णिको ममामुकपुत्रस्यैतन् मतं यद् अत्र पत्र उपरितनपङ्क्त्यादौ लिखितम् इति स्वहस्तेन निवेशयेल् लिखेद् इत्य् अर्थः ॥ २.८६ ॥

किं च ।

साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते ऽसमाः ॥ २.८७ ॥

न केवलम् ऋणी साक्षिणो ऽप्य् अत्रार्थे ऽमुकपुत्रो ऽहम् अमुकनामा साक्षीति पितृनामपूर्वकं स्वनाम स्वहस्तेन प्रत्येकं लिखेयुः । ते नासमा विषमसंख्याका भवन्तीत्य् अर्थः । समा इति नृपं प्रति वादिप्रतिवादिनोः संआस् तुल्या भवन्तीत्य् अर्थः । यद्य् अधमर्णः साक्षी वा लिपिज्ञो न भवति तदान्येन लिपिज्ञेन सर्वसाक्षिसमक्षं स्वमतं लेखयेत् । तद् आह नारदः ।

अलिपिज्ञ ऋणी यः स्याल् लेखयेत् स्वमतं तु सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥

साक्षिणान्येनेति लिपिज्ञमात्रप्रदर्शनार्थम् । अन्यथा त्व् अदृष्टार्थं स्यात् ॥ २.८७ ॥

किं च ।

उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥ २.८८ ॥

उभाभ्याम् उत्तमर्णाधमर्णाभ्याम् अर्थितेन मयामुकपुत्रेणामुकेनैतल् लेख्यं लिखितम् इति लेख्यान्ते लेखको निवेशयेत् ॥ २.८८ ॥

[६८६]

साक्षिमल् लेख्यं कार्यम् इत्य् उक्तं तस्य क्वचिद् विषये ऽपवादम् आह ।

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपाधिकृताद् ऋते ॥ २.८९ ॥

यद् अधमर्णः स्वहस्तेन लिखति, तद्विनापि साक्षिभिर् लेख्यं प्रमाणं भवति । यदि न बलेनोपाधिना वा कृतं स्यात् । बलं हठात् । उपाधिश् छद्म । अपिशब्दात् ससाक्षिकम् अपि । यत् पुनर् न स्वहस्तलिखितं तत् साक्षिमद् एव सत्प्रमाणम् ।

लेख्यं तु द्विविधं विद्यात् स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितस् तयोः ॥

तथा ।

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं तु यत् ।
तद् अप्रमाणं लिखितं भयोपाधिकृतं तथा ॥

भयादिकृतत्वम् एवात्राप्रामाण्ये कारणम्, न स्त्र्यादिकृतत्वम् अपि । तथा हि सति स्त्रीबालादिभिर् यथार्थम् अपि क्रियमाणं लिखितम् अप्रमाणं स्यात् । न च यथार्थम् अप्रमाणं भवितुम् अर्हति । यत् तु स्त्र्यादीनां पृथगुपादानं तत् तेषां बाहुल्येन भयादिसंभवख्यापनार्थम् । कात्यायनः ।

साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात् तथा धारणकस्य च ॥

आशयदोषत एव बृहस्पतिः ।

मुमूर्षुशिशुभीतार्तस्त्रीमत्तव्यसनातुरैः ।
निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥

कात्यायनः ।

धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत् कूटं न चेत् कर्त्रा कृतं हीति विभावयेत् ॥

यद्य् उत्तमर्णो भवदनुमतेन मयैतल् लिखितम् इति प्रतिवादिनं न भावयेन् नाङ्गीकारयेद् इत्य् अर्थः ।

देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥

बृहस्पतिः ।

दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।
कूटलेख्यं तु तत् प्राह लेखको वापि तादृशः ॥
यद् उज्जवलं चिरकृतं मलिनं स्वल्पकालिकम् ।
भग्नं म्लिष्टाक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥

[६८७] स्थानभ्रष्टास् त्व् अकान्तिस्थाः संदिग्धा लक्षणच्युताः ।

यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ॥ २.८९ ॥

अपि च

ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु ।
आधिस् तु मुच्यते तावद् यावत् तन् न प्रदीयते ॥ २.९० ॥

लेख्यगतं लिखितम् ऋणं त्रिभिः पुरुषैर् ऋणग्राहकेण तत्पुत्रपौत्राभ्यां च देयम् । पुत्रपौत्रैर् ऋणं देयम् इत्य् उक्तत्वात् । अत एवायम् अनुवादः । आधिस् तु भुज्यते तावद् इत्यादि विधानार्थम् । न ह्य् आधिगतम् ऋणं पुरुषसंख्यानियमविषयं भवति । एवं च यद् हारीतेन,

लेख्यं यस्य भवेद् धस्ते भोगं तस्य विनिर्दिशेत् ।

इति निरवधिकम् उक्तम्, तद् आधिविषयं ग्राह्यम् । एतद् वचनम् अन्तरेण हि फ्लभोग्यो न नश्यतीति वाक्यं पुरुषत्रयविषयं स्याद् इति तन्निवृत्त्यर्थो ऽर्थवान् एष वाक्यारम्भः ॥ २.९० ॥

किं च

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धे तथा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ २.९१ ॥

दुर्गमदेशस्थे दुरवबोधाक्षरे प्रध्वस्ते, उत्पुं(द्ध्वं)सिताक्षरे ऽपहृते विदीर्णे दग्धे द्विधाकृते लेख्ये लेख्यान्तरं कारयेत् । नारदः ।

लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो द्रष्टृदर्शनम् ॥

अयम् अर्थः — सतो देशान्तरस्थस्यानयनार्थं कालकरणम् इयता कालेन त्वया तद् आहरणीयम् इति कालावधिकरणम् । असति तु पूर्वलिखिते लिखितान्तरं कृत्वा तस्य दर्शयितव्यम्, येन तत् पूर्वं लिखितं दृष्टं द्वितीयस्य लेख्यस्यान्यथाभावनिराकरणाय । कात्यायनः ।

मलैर् यद् भेदितं दग्धं छिद्रितं वीतम् एव च ।
तदन्यत् कारयेल् लेख्यं स्वेदेनोल्लिखितं तथा ॥

वीतं विगतम् ॥ २.९१ ॥

अपि च

संदिग्धलेख्ये शुद्धिः स्यात् स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ २.९२ ॥

लेख्ये प्रमाणतया संदिघे स्वहस्तलिखितादिभिः प्रामाण्यलिङ्गैर् युक्त्यादिभिश् च कारणैः शुद्धिः संशयनिवृत्तिः प्रामाण्यावधारणलक्षणा स्यात् । एतच् चाधर्मर्णेन साक्षिरहितं स्वहस्तेन कृतं यल् लेख्यं तद्विषयवचनम् । तत्र ह्य् अधमर्णस्य न मयैतल् लिखितम् इति प्रत्यवस्थानसंभवः । तत्र तेनैव यद् अन्य लेख्यं कृतं तत् स्वहस्तलिखितं तेनैव निर्णयः । आदिशब्देन च पितृनामगोत्रसब्रह्मचारित्वानां ग्रहणम् । युक्त्यादीनाम् अपि तत्रैव पत्रके स्वयं प्रमाणतया प्रमाणान्तरानुग्राहकतया वा निर्णायकत्वम् । युक्तिर् अर्थापत्तिः । प्राप्तिर् एकत्र देशे काले च वादिप्रतिवादिनोः स्थितिः । एतच् च प्रमाणान्तरानुग्राहकतया शुद्धिहेतुर् न स्वातन्त्र्येण । यदि हि नैकत्र देशादौ तयोः स्थितिस् तदा लिखितम् अप्रमाणम् एवेति निश्चिते स्वहस्तलिखितादिषु लेख्यप्रामाण्यावधारकेषु विचारकाणां जिज्ञासैव न जायते । क्रिया संव्यवहारः । ययोः खलु नास्त्य् आर्यद्रविडयोर् इव संव्यवहारस् तत्र लेख्यं प्रति प्रामाण्यम् असंभवनिरस्तम् । चिह्नं मुद्रा । संबन्धो वादिप्रतिवदिनोः प्राग्विवादात् परस्परं विश्वासपूर्व आदानप्रतिदानादिः । आगमो विवादास्पदीभूतस्यार्थस्य स्वस्वामिसंबन्धोपायः क्रयादिः । अस्यार्थिन एतावद् धनं क्रयादिनोपायेनास्य संभवत्य् एतद्बुद्धिर् इति । हेतुर् अनुमानम् । स्वहस्तलिखितादिकं न लेख्यस्य शुद्धौ युक्त्यादिनिरपेक्षं कारणं भवितुम् अर्हति । अनैकान्तिकत्वात् । सन्ति खलु पुरुषाः कुशला ये पुरुषान्तरलिखिततुल्यं लेख्यम् आपादयन्ति । पितृनामादीनां वाभेदः संभवति । व्यासः ।

लेख्यम् आलेख्यवत् केचिल् लिखन्ति कुशला नराः ।
तस्मात् तल् लेख्यसामर्थात् सिद्धिर् नैकान्तिकी मता ॥
ज्ञात्वा कालं देशकार्ये कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं तद् यत्नेन विचारयेत् ॥
स्त्रीबालान् अलिपिज्ञानान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस् तु तत् ॥

नारदः ।

लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
**विप्रत्यये परीक्ष्यं तत् संबन्धागमहेतुभिः ॥ [६८९]

विप्रत्ययो विमतिः । एवम् अधर्मर्णलिखितस्य साक्षिरहितस्य प्रामाण्यसंशये स्वहस्तलिखितादयः प्रामाण्यशुद्ध्युपायाः कथिताः । साक्षिमतो ऽपि लेख्यस्य संशये निर्णयोपायम् आह कात्यायनः ।

न लेखकेन लिखितं न दृष्टं सक्षिभिस् तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥
एवं दुष्टं नृपस्थाने यस्मिंस् तद् धि विचार्यते ।
विमृश्य ब्राह्मणैः सार्धं पत्रदोषान् निरूपयेत् ॥
कृताकृतविचारे तु साक्षिभिः पत्रनिर्णयः ।
प्रत्यक्षम् अनुमानेन न कदाचित् प्रबाध्यते ॥
तस्माल् लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ।
निर्णयः स्वधनार्थं हि पत्रं दूषयते स्वयम् ॥

स्वयं लिखितं पत्रं स्वयं दूषयते प्रतिवादी, साक्षिमत् तु न शक्यं दूषयितुं साक्षिवचनेन सकलदोषोद्धारात् । तथा ।

लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् ।

प्रत्यर्थिलिखितं साक्षिरहितं लिखितान्तरेण तत्कृतेन, साक्षिमत् तु साक्षिभिर् उद्धरेत् । तथा ।

कूटोक्तौ साक्षिणां वाक्याल् लेखकस्य च पत्रकम् ।
नयेच् छुद्धिं न यः कूटं स दाप्यो दमम् उत्तमम् ॥

अस्यार्थः — लेखकं प्रति कूटोक्तौ साक्षिणां वचनात् पत्रकं यो वादी शुद्धिं न नयेत् स उत्तमसाहसं दण्ड्यः ।

अथ पञ्चत्वम् आपन्नो लेखकः सह साक्xइभिः ।
तत् स्वहस्तादिभिस् तेषां विशुध्येत न संशयः ॥

तथा ।

समुद्रे ऽपि तथा लेख्ये मृताः सर्वे ऽपि तत्स्थिताः ।
लिखितं तत्प्रमाणे तु मृतेष्व् अपि हि तेषु वै ॥

समुद्रे राजमुद्रासहिते शासन इत्य् अर्थः । नारदः ।

दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥

एतच् च लेख्यसिद्धिसंभावनामात्रप्रतिपादकं न पुनः परीक्षानिवारकम् । यथोक्तम् ।

[६९०] ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।

तत् स्वहस्तकृतैर् अन्यैः पत्रैस् तल् लेख्यनिर्णयः ॥

तथा ।

लिखितं लिखितेनैव सक्षिमत् साक्षिभिर् नयेत् ।
साक्षिभ्यो लिखितं श्रेयो लिखितान् न तु साक्षिणः ॥

लिखितानारूढसाक्षिविषयम् एतत् । कात्यायनः ।

क्रिया न दैविकी देया विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥

यदा तु साक्षिरहितं लिखितं न मयैतत् कृतम् इत्य् अधर्मणो ब्रूते, न च स्वहस्तलिखितादि तदुद्धारकरणम् अस्ति, तद् दिव्येनोद्धार्यम् इत्य् आह हारीतः ।

न मयैतत् कृतं लेख्यं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयः ॥

प्रजापतिः ।

यन्नामगोत्रैस् तत्तुल्यरूपसंख्या क्वचिद् भवेत् ।
प्रगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥

साक्षिणां स्वहस्तलिखिताद्यभावे चैतत् । नारदः ।

दुष्टे पत्रे स्फुटे दोषं नोक्तवान् ऋणिको यदि ।
ततो विंशतिवर्षाणि कान्तं पत्रं स्थिरं भवेत् ॥

यदि सदोषं पत्रं कथं विंशद्व(तिव)र्षपर्यन्तं पत्रवतो भुक्तिर् इत्य् एवं संदिग्धप्रामाण्यं लेख्यं दिव्यप्रतिसाधनार्थं स्थिरी भवतीत्य् अर्थः । व्यासः ।

यच् चान्यस्य कृतं लेख्यम् अन्यहस्ते प्रदृश्यते ।
अवश्यं तेन वक्तव्यं पत्रस्यागमनं ततः ॥

अमुकस्यैतल् लेख्यं ततो मां प्रत्य् अनेनोपायेनागतम् इति यस्य हस्ते दृश्यते तेन वक्तव्यं साधनीयम् इत्य् अर्थः । कात्यायनः ।

शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत् पत्रं दोषवर्जितम् ॥

विना दिव्येनेत्य् अर्थः । पूर्वत्र तु वाक्ये दुष्टस्य लेख्यस्यानुद्भावितदोषस्य विंशतिवर्षायां भुक्तौ दिव्यसाध्यतोक्ता । इह त्व् अदुष्टस्याविद्यमानसाक्षिस्वहस्तलिखितादेर् भुक्त्यैवोक्तकालया प्रामाण्यसिद्धिर् उच्यत इत्य् अविरोधः ।

[६९१] तथा विंशतिवर्षाणि आधिर् भुक्तः सुनिश्चितः ।

येन लेख्येन तत् सिद्धं लेख्यं दोषविवर्जितम् ॥

पूर्वेणैतत् तुल्यविषयम् ।

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रयोक्तव्या यावद् वर्षाणि विंशतिः ॥
आधानसहितं यत्र ऋणलेख्यं निवेशितम् ।
मृतसाक्षि प्रमाणं तु स्वल्पभोगे ऽपि तद् विदुः ॥

आधानम् आधिः । मृतसाक्षि मृतसाक्षिकम् । नारदः ।

यदि लब्धं भवेत् किंचित् प्रज्ञप्तिर् वा कृता भवेत् ।
प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥

यदि लिखितबलाद् उत्तमर्णेनाधमर्णात् किंचिद् लब्धं यद् वा लिखितं ममैतद्धस्ते विद्यते ऽत्र विषय इति प्रज्ञप्तिर् अधर्मर्णं प्रति कृता भवति तदा लेख्यारुढसाक्षिनाम् अभावे ऽपि लेख्यं प्रमाणम् इत्य् अर्थः । लेख्यानाम् अन्योन्यविरोधे यत् प्रमाणान्तरं तद् आह व्यासः ।

स्वहस्तकाज् जानपदं तस्माच् च नृपशासनम् ।
प्रमाणतरम् इष्टं हि व्यवहारार्थम् आगतम् ॥

अत्रोपपत्तिम् आह ।

द्वित्रिलिपिज्ञः स्वकृतेन सलेख्येन युक्तिभिः ।
कुर्याद् धि सदृशं लेख्यं तस्माज् जानपदं शुभम् ॥

सलेख्येन समनेन लेख्येन युक्तिभिश् चानेकलिपिज्ञेन कृतं स्वलेख्यं शुद्धिं न यातीत्य् अध्याहार्यम् । यतो ऽसौ सदृशम् अपि कर्तुं शक्नोति । तस्माच् जानपदं वरम् इत्य् अर्थः ।

अप्रकाशात् साक्षियुतं लेखकाक्षरमुद्रितम् ।
लोकप्रसिद्धं सुकृताद् वरम् अन्यकृतं शुभम् ॥
देशाध्यक्षादिना लेख्यं यत्र जानपदं कृतम् ।
समकालं पश्चिमं वा तत्र राजकृतं शुभम् ॥

समकालपश्चिमाभ्यां राजकृतम् एव विशिष्यते । संवर्तः ।

लेख्ये लेख्यक्रिया प्रोक्ता वाचिके वाचिकी मता ।
वाचिके तु न सिध्येत् सा लेख्यस्योपरि या क्रिया ॥

[६९२] लेख्यस्योपरि यत् साक्ष्यं कूटं तद् अभिधीयते ।

अधर्मस्य हि तद् द्वारम् अतो राजा विवर्जयेत् ॥
वाचिकैर् यदि सामर्थ्यम् अक्षराणां विहन्यते ।
क्रियाणां सर्वनाशः स्याद् अनवस्था च जायते ॥

लेख्यस्योपरि यत् साक्ष्यं लेख्यविरुद्धं तद् वर्ज्यम् इत्य् अर्थः । क्रियाणां लेख्यक्रियाणाम् । कात्यायनः ।

न दिव्यैः साक्षिभिर् वापि हीयते लिखितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्य् अतो नान्येन हीयते ॥
तद्युक्तिप्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत न साक्षिशपथैः क्वचित् ॥

बृहस्पतिः ।

आढ्यस्य निकटस्थस्य यच् छक्तेन न याचितम् ।
शुद्धर्णाशङ्कया तत्र लेख्यं दुर्बलताम् इयात् ॥

शुद्धं दत्तम् ।

लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् ।
न तत् सिद्धिम् अवाप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥
प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
न याचते च ऋणिकं तत् संदेहम् अवाप्नुयात् ॥

प्रयुक्ते धने शान्तलाभे लिखितम् उपरते लाभे यो न पत्रं दर्शयति न चाधमर्णं याचते, तल् लेख्यं संदेहं प्रामाण्यविषयं अवाप्नुयाद् इत्य् अर्थः । नारदः ।

मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तद् अप्य् अनर्थं लिखितं न चेद् आधिः स्थिराश्रयः ॥

आश्रयो भुक्तिर् अप्रमाणतयानपेक्ष्यमाणत्वात् । व्यासः ।

अदृष्टाश्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥

बहुकालं बहुकालीनम् । बृहस्पतिः ।

उन्मत्तजडबालानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥ २.९३ ॥

शनैर् यथोदयादानविषये पत्रे यत् कार्यं तद् आह ।

[६९३] लेख्यस्य पृष्ठे ऽभिलिखेद् दत्वा दत्वर्णिको धनम् ।

धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ २.९३ ॥

यदाधमर्णः स्वशक्त्यनुरोधेनाल्पम् अल्पं प्रतिददाति तदा यावद् दत्तं तावल् लेख्यस्य पृष्ठे ऽभिलिखेत् । यद् वोत्तमर्णः स्वहस्तचिह्नितम् उपगतम् अधर्मर्णाय दद्यात् । एतावद् अनेन प्रतिदत्तम् इति लिखितानन्तरम् उपगतम् इत्य् उच्यते । नारदः ।

गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी ।
अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥

उदयः शनैर् दाप्यो यथोदयम् इत्य् अनेन यो विहितः ॥ २.९३ ॥

दर्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।
साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षितम् ॥ २.९४ ॥

सवृद्धिकं धनम् उत्तमर्णायाधमर्णो दत्वा लेख्यं पत्रं पाटयेद् भिन्द्यात् । यदि पुनर् नष्टं विप्रकृष्टं चेति न शक्यं पाटयितुं तदा शुद्ध्यर्थम् अनृणत्वप्रसिद्ध्यर्थम् उत्तमर्णात् ससाक्षिकं लेख्यं गृह्णीयात् । यथा बहुभिर् अवशिष्टतरसाक्षिसमक्षम् ऋणम् अपाकुर्यात् । अत्र नारदः ।

लेख्यं दद्याद् ऋणे शुद्धे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥

प्रतिश्रवशब्देन साक्षिश्रवणं विवक्षितम् ॥ २.९४ ॥

इति लेख्यलक्षणम् ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्क

**लेख्यप्रकरणम् ॥ ५ ॥ **