०५ साक्षि-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

साक्षिप्रकरणम् । (५।

अधुना साक्षिणम् आह

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८ ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥

तपः कृच्छादि स्वधर्मवर्तित्वं वा, तद्वन्तः । दानशीलाः स्वभावाद् दातारः । कुलीनाः कल्याणवंशजाः । सत्यं यथादृष्टार्थवचनं तच्छीलाः सत्यवादिनः । धर्मप्रधाना धर्मविरुद्धार्थकामत्यागिनः । तथा श्रौतस्मार्तक्रियास्व् अनलसाः । त्र्यवरास् त्र्यवरसंख्याकाः । न्यूनसंख्याकाश् चेत् तदा त्रयो नातो न्यूना इत्य् अर्थः । एवंविधाः साक्षिणो वेदितव्याः । कर्तव्या इति तात्पर्यार्थः । ते च यथाजाति वादिप्रतिवादिजात्यनतिक्रमेण कार्याः । तज्जातीया एव कार्या इत्य् अर्थः । एतच् च वादिप्रतिवादिनोः सजातित्वे ज्ञेयम् । नानाजातित्वे तु यथावर्णं ब्राह्मणादिवर्णक्रमेणेत्य् अर्थः । सर्वे वा ब्राह्मणादयो वर्णाः सर्वेषु नानावर्णेषु व्यवहर्तृषु साक्षित्वेन ग्राह्याः । अत्र नारदः ।

समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।
श्रोत्रस्य यत्परो ब्रूते चक्षुषः कार्यकर्मकृत् ॥

यत्परो व्यवहारसमर्पकं वाक्यं ब्रूते तद्विषयं समक्षदर्शनम् । श्रोत्रस्य श्रोत्रसंबन्धीत्य् अर्थः । एवं चक्षुषः समक्षदर्शनं व्यवहाररूपशरीरव्यापारविषयम् । मनुः ।

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥

तथा ।

गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः ।
**अर्थज्ञाः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥ [६६६]

नारदः ।

श्रेणिषु श्रेणिपुरुषाः सर्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥

कात्यायनः ।

लिङ्गिनः श्रेणिपूगाश् च वणिग्व्रातास् तथा परे ।
समूहस्थाश् च ये चान्ये वर्गास् तान् अब्रवीद् गुरुः ॥
दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकं समूहानां नायका वर्गिणस् तथा ॥
तेषां वादः स्ववर्गेषु वर्गिणस् तेषु साक्षिणः ॥

प्रजापतिः ।

साक्षी द्विभेदो विज्ञेयः कृत एको ऽपरो ऽकृतः ।
लेख्यारूढः कृतो ज्ञेयो मुक्तको ऽकृत उच्यते ॥

नारदः ।

एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥
लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः ॥
अकृतः षड्विधस् तेषां सूरिभिः परिकीर्तितः ।
त्रयः पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः ॥
ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ।
कार्येष्व् अभ्यन्तरे यः स्याद् अर्थिना प्रहितश् च यः ॥
कुल्याकुल्यविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥

बृहस्पतिः ।

लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ ।
यदृच्छश् चोत्तरश् चैव कार्यमध्यगतो ऽपरः ॥
नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ॥
जातिनामादिलिखितं येन स्वं पित्र्यम् एव च ।
निवासश् च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥
संवित्क्रियां क्रियाभेदैः कार्यं कृत्वा ऋणादिकम् ।
प्रत्यक्षं लेख्यते यच् च लेखितः स उदाहृतः ॥

[६६७] कुड्यव्यवहितो यस् तु श्राव्यते ऋणभाषितम् ।

विनिह्नुतो यथाभूतं गूढः साक्षी स उच्यते ॥
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके ।
स्मार्यते च मुहुर् यश् च स्मारितः स उदाहृतः ॥
विभागदाने विपणे ज्ञातिर् यश् चोपयुज्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥
अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुर् दूतकः स उदाहृतः ॥
क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।
अत्र साक्षी त्वम् अस्माकम् उक्तो यादृच्छिकस् तु सः ॥
यत्र साक्षी दिशं गच्छेन् मुमूर्षुर् वा यथाक्रमम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥
उभाभ्यां यस्य विस्वस्तं कार्यं चापि निवेदितम् ।
गूढधारी स विज्ञेयः कर्यमध्यगतस् तथा ॥
अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥
निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥
मुषितं घातितं यत्र सीमायाश् च समन्ततः ।
अर्थतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥

कात्यायनः ।

अशक्य आगमो यत्र विदेशं प्रतिवादिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ॥

वादिनां व्यवहारिणां विदेशे विरुद्धदेश आगमनम् आगमो ऽशक्यो यत्र तत्र त्रैविद्यैः सभ्यैः प्रहितं लेख्यम् एव साक्षिणो वादयेत् । लेख्यार्थम् अवधार्य सभ्यप्रहितपुरुषसंनिधौ साक्षिणो ब्रूयुर् इत्य् अर्थः । इति साक्षिणः ॥ २.६८, ६९ ॥

अथासक्षिण आह ।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः ।

[६६८] रङ्गावतारिपाषाण्डिकूटकृद्विकलेन्द्रियाः ॥ २.७० ॥

पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसी दृष्टदोषश् च निर्धूतश् चेत्य् असाक्षिणः ॥ २.७१ ॥

स्त्रीबालाद्या असाक्षिणः । एषाम् अविहितत्वाद् एवासाक्षित्वे प्राप्ते यद्वचनं तद्विहितसाक्ष्यलाभे प्रतिषिद्धव्यतिरिक्तानां साक्षित्वज्ञापनार्थम् । अभिशस्तः पापकारित्वेनाक्षिप्तः । रङ्गावतारी नटादिः । पाषाण्डी अवेदमूलस्मृत्यनुष्ठाता । कूटकृत् कूटमानादिकर्ता । आप्तो ब्राह्मयौनसंबन्धी । साहसी हठकारी । दृष्टदोषः स्तेनादिः । निर्धूतः शिष्टैर् गर्हितः । प्रसिद्धम् अन्यत् । नारदः ।

असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः ॥
श्र्ōत्रियाद् या वचनतः स्तेनाद् या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिः स्याद् विवादे साक्षिणां यतः ॥
स्वयमुक्तिस् त्व् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।
मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुः श्राविताद् ऋते ॥
श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥
स्तेनाः साहसिकाश् चण्डाः कितवो बान्धवास् तथा ॥
असाक्षिणस् ते दृष्टत्वात् तेषु सत्यं न विद्यते ॥

तापसा वानप्रस्थाः ।

दासनैकृतिकाशुद्धवृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥

नैकृतिकाश् छाद्मिकः । चाक्रिकः कुलालः ।

महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।
युग्मैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥
नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ।
एकस्थानि सहायानि चारज्ञातिसनाभयः ॥
प्राग्दृष्टदोषशौलूषविषजीव्याहितुण्डकाः ।
गदाग्निदकीनाशशूद्रापतौपपातिकाः ॥

[६६९] क्लान्तसाहसिकश्रान्तनिर्धूतान्त्यवसायिनः ।

अन्त्यावसायिनः प्रतिलोमजाः ।

भिन्नवृत्ताः समावृत्तजडतैलिकपौपिकाः ॥

पौपिकः पक्वविक्रेता ।

भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृहीनाङ्गबक(भग)वृत्तयः ॥
कुनखश्यावदच्छ्वित्रिमित्रध्रुक्शठशौण्डिकः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥
वधकश् चित्रकृन् नग्नः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥
मनुष्यविषमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।
विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥
च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।
पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥
श्रेण्यादिषु तु वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् ।
तस्य तैश् च साक्ष्यं स्याद् द्वेष्टारः सर्व एव ते ॥

सामुद्रविअणिक्समुद्रयायी । आतुरो मुमूर्षुः । युग्मौ द्वौ । एकः प्रसिद्धः । क्लीबः षण्ढो निरुत्साहो वा । कुशीलवो नर्तकः । शौलूषो नटः । विषजीवी विषक्रयी । अहितुण्डको व्यालग्राही । गरदो विषदः । कीनाशो हालिकः । क्लान्तः खिन्नः । निर्धूतो बहिष्कृतः । अन्त्यावसायी प्रतिलोमजः । भिन्नवृत्तो दुराचारः । पौपिकः सूपादिविक्रयी । अघशंसी अभिशापकृत् । भगवृत्तिः स्ववृत्तये भार्याया वेश्यात्वकारी । शौण्डिकः सुराविक्रयी । कात्यायनः ।

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास् ते तु न साक्षिणः ॥
मातृष्वसृसुताश् चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश् च सोदर्यासुतमातुलाः ॥

[६७०] एते सनाभयः प्रोक्ताः साक्ष्यं तेषु न योजयेत् ।

कुल्याः संबन्धिनश् चैव विवाह्यो भगिनीपतिः ॥
पिता बन्धुः पितृव्यश् च श्वशुरो गुरवस् तथा ।
नगरग्रामदेशेषु नियुक्ता ये पदेषु च ॥
वल्लभाश् च न पृच्छेयुर् भक्तास् ते राजपूरुषाः ॥

तथा ।

साक्षिणां लिखितानां तु निर्दिष्टानां तु वादिना ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥

तथा ।

अन्येन हि कृतः साक्षी नैवान्यस् तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥

इत्य् असाक्षिणः ॥ २.७०, ७१ ॥

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् ।

यस् तूभाभ्याम् अर्थिप्रत्यर्थिभ्याम् अनुमतो ऽनुज्ञातः स चेद् धर्मविद् एको ऽपि साक्षी भवति । उभयानुमताभावे तूक्तलक्षणास् त्र्यवरा एव साक्षिणो भवन्ति ॥

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२ ।

संग्रहणं पारदार्यम् । चौर्यं प्रसिद्धम् । पारुष्यं वाक्पारुष्यं दण्डपारुष्यं च । साहसम् आह मनुः ।

मनुष्यमारणं चौर्यं परदाराभिमर्षण(शन)म् ।
पारुष्यम् उभयं चेति साहसं तु चतुर्विधम् ॥

चौर्यपारुष्यसाहस इत्य् अत्र साहसशब्देन म्नुष्यमारणम् एव विवक्षितम्, न चौर्यादिकम्, तस्य स्वशब्देनैवोक्तत्वात् । साहसशब्दश् च चौर्यादिमात्रवाचकः, किं तु तद्विशेषस्य । यद् आह नारदः ।

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ इति ।

तेन साहसरूपेष्व् अपि चौर्यादिषु सर्वस्य साक्षित्वविधानार्थं साहसचौर्यादीनां पृथग्ग्रहणम् । सर्वः साक्षी न तु गुणवान् एवेत्य् अर्थः । दोषवांस् तत्रापि परिहरणीय एव, वक्तृदोषाणां वचन(ना)प्रामाण्यहेतुत्वात् । कात्यायनः ।

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
**स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥ [६७१]

नृपाज्ञाया व्याघातेषु भङ्गेष्व् इत्य् अर्थः ।

अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच् च यद् भवेत् ।
एतेष्व् एवाभियोगश् चेन् न परीक्षेत साक्षिणः ॥

मनुः ।

अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि वात्यये ॥
स्त्रियो (स्तिर्या) ऽप्य् असंभवे कार्यं स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥

अनुभावी साक्षाद् द्रष्टा । स्त्रीप्रभृतीनां दुष्टाशयत्वादिदोषरहितानाम् एव साक्षित्वम् अत्र वेदितव्यम् । उशना ।

दासो ऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः ।
एते ऽप्य् अनभिसंबद्धाः साहसे साक्षिणो मताः ॥

अनभिसंबद्धा मित्रारिभावरहिता इत्य् अर्थः ।

असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।
कार्यगौरवम् आश्रित्य भवेयुस् ते ऽपि साक्षिणः ॥
तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥
बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।
विब्रूयुर् बान्धवाः स्नेहाद् वैरनिर्यातनाद् अरिः ॥

एवं च सति वचनाप्रामान्यकारणीभूतानां दोषाणां सद्भाव एव हेयाः । तदभावे तु निश्चिते बालादयो ऽप्य् उपादेया इति बालादीनां साक्षित्वविधायकेन वचनेनाविरोधः ।

साक्षिणो हि समुद्दिष्टाः सत्स्व् अदोषेषु दूषयेत् ।
अदुष्टान् दूषयन् वादि तत्समं दण्डम् अर्हति ॥

तत्समो दुष्टसाक्षिदण्डसमः । कात्यायनः ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्डः स्यात् साध्यार्थाच् चाभिहीयते ॥
प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
**गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥ [६७२]

प्रमाणस्य प्रमाणबुद्ध्या प्रयुक्तस्य गूढा दोषा विवादिना वक्तव्याः, प्रकटास् तु सभ्यैर् इत्य् अन्वयः । प्रमाणदोषोद्भावनकालम् आह बृहस्पतिः ।

लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥

व्यासः ।

सभासदां प्रसिद्धं यल् लोकसिद्धम् अथापि वा ।
साक्षिणां दूषणं ग्राह्यम् असाध्यं दोषवर्जनात् ॥

असाध्यम् असाध्यनिराकरणम्, दोषवर्जनात् । सभ्यप्रसिद्धस्य लोकप्रसिद्धस्य च दोषरहितत्वाद् इत्य् अर्थः ।

अन्यैस् तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद् दोषस् तेषाम् अप्य् अन्यसंभवात् ॥

बृहस्पतिः ।

लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न शोध्यं तु यावत् तन् न विशोधयेत् ॥
साक्षिसंदूषणे कार्यं पूर्वं साक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात् कर्यं विशोधयेत् ॥

व्यासः ।

साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे ऽभिलिखितान् सर्वान् वाच्याः प्रत्युत्तरं च ते ॥
प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कदाचन ।
अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥
असाधयन् स(न्द)मं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणो वर्ज्याः साक्षिधर्मान् निराकृताः ॥
जितः सविनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥

असाधयन् दमं दाप्य इति साक्षिणो ऽसाधयन् दोषम् अनङ्गीकारयन् प्रत्यर्थी दण्डं दाप्यः । भाविता अङ्गीकारितदोषाः साक्षिणो वर्ज्याः । एवं सति प्रतिवादी प्रमाणान्तरं प्रति निराकाङ्क्षस् तदासौ जितो दण्ड्यः । कात्यायनः ।

येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥

[६७३] उक्ते ऽर्थे साक्षिणो यस् तु दूषयेत् प्राग्दूषितान् ।

न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ २.७२ ॥

साक्षिश्रवणविधिम् आह

साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् ।

अर्थिप्रत्यर्थिनोः संनिधौ साक्षिणः प्राद्विवाकः श्रावयेत् । मनुः ।

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजः ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वा शुचिः शुचीन् ॥

किं श्रावयेद् इत्य् अपेक्षित आह

ये च पातकिनां लोका महापातकिनां तथा ॥ २.७३ ॥
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
तान् सर्वान् समवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ २.७४ ॥
सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् ।
**तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५ ॥ **

निगदव्याख्यातम् एतत् । अत्र यद्य् अपि मिथ्यावादिनः साक्षिणो जन्मशतसंचितं सुकृतं पराजितस्य व्यवहारिणो भवतीत्य् आपाततः प्रतीयते तथापि तन् न तथा ग्राह्यम् । कर्तृगामिफलप्रदं हि धर्मम् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादीनि श्रुतिवचनानि बोधयन्तीति तद्विरोधपरिहारार्थं साक्षिणाम् उत्थाप(उत्त्रस)नायैव सुकृतं यत् त्वया किंचिद् इत्याद्य् उच्यते । अत एव नारदः ।

पुराणैर् धर्मवचनैः सभ्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् अपि ॥

इतीदम् उक्तवान् । यानि पुनः श्रुतिभ्यो ऽविरुद्धानि तानि यथार्थान्य् एव स्मृतिवचनानि । तथाह नारद एव ।

अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः ।

बृहस्पतिः ।

कूटसत्यः कूटसाक्षी ब्रह्महा च समः स्म्र्तः ॥

इत्यादीनि । अत एव प्रायश्चित्तप्रकरणे ।

**उक्त्वा चैवानृतं साक्ष्ये कृत्वा च स्त्रीसुहृद्वधम् । [६७४]

इत्य् अत्र ब्रह्महत्याप्रायश्चित्तं कूटसाक्षिणां मनुर् विदधाति । शूद्रान् साक्षिणः प्रत्य् एवैतद् दूषणं न द्विजान् प्रति । अत आह मनुः ।

ब्रूहीति ब्राह्मणं ब्रूयात् सत्यं ब्रूहीति भूमिपम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस् तु पातकैः ॥
ब्रह्मघ्नां ये स्मृता लोका ये च स्त्रीबालघातिनाम् ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् वदतो मृषा ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्रं त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥
एको ऽहम् अस्मीत्य् आत्मानं यदि कल्याण मन्यसे ।
नित्यं स्थितः स हृद्य् एष पुण्यपापेक्षिता पुनः ॥
यमो वैवस्वतो देवस् तवैष हृदये स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥
अर्वाक् शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते ।
तस्मान् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥
यावता बान्धवान् यस्मिन् हन्ति साक्ष्य् अनृतं वदन् ।
तावतः संख्यया तस्मिञ् शृणु सोम्यानुपूर्वशः ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेत् ॥
एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतवादिनः ।
यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥
गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् शूद्रवद् आचरेत् ॥

नारदः ।

आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
**समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ [६७५]

तथा ।

सभान्तः साक्षिणः प्राप्तान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवादो ऽनुयुञ्जीत विधिनानेन सांत्वयन् ॥
यद् द्वयोर् ननयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥
सत्यं साक्ष्ये वदन् साक्षी लोकान् आप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्तिं वाग् एषा ब्रहपूजिता ॥
साक्ष्ये ऽनृतं वदन् साक्षी पाशैर् बध्येत दारुणैः ।
विवशः शतम् आजातीस् तस्मात् साक्ष्ये वदेद् ऋतम् ॥
आत्मैव ह्य् आत्मनः साक्षी ह्य् आत्मैव गतिर् आत्मनः ।
मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥
मन्यन्ते वै पाकऋतो न कश्चित् पशयतीति नः ।
तांश् च देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥

बृहस्पतिः ।

कूटअसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा मित्रहा चैषां नाधिकः समुदाहृतः ॥

नारदः ।

पितरस् ते ऽवलम्बन्ते त्वयि साक्षित्वम् आगते ।
तारयिष्यति किं न्व् अस्मान् किं न्व् अस्मान् पातयिष्यति ॥

कात्यायनः ।

सभान्तस्थैस् तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ऽन्यत्र स्यात् स्थावरेषु तु ॥

बृहस्पतिः ।

विहायोपानद् उष्णीषं दक्षिणं पाणिम् उद्धरेत् ।
हिरण्यं गोशकृद्दर्भान् समादाय ऋतं वदेत् ॥

कात्यायनः ।

समवेतैस् तु यद् दृष्टं वक्तव्यं तत् तथैव तु ।
विभिन्नैकैककार्यं यद् वक्तव्यं तत् पृथक् पृथक् ॥
भिन्नकाले तु यत् कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत् तत्र भिन्नकालं तु तद् भृगुः ॥
स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥
उपस्थितान् परीक्ष्याथ साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर् व्याहृतं वाक्यं सह सभ्यैः परीक्षयेत् ॥

[६७६] यदा शुद्धक्रिया न्यायात् तदा तद्वाक्यशोधनम् ।

शुद्धाद् वाक्याच् च यः शुद्धः स शुद्धो ऽर्थो ऽन्यथा न तु ॥

क्रिया लिखितादि प्रमाणम् । शुद्धिर् दोषगणादर्शनम् । नारदः ।

पुरुषाः सन्ति ये लोभाद् विब्रूयुः साक्ष्यम् अन्यथा ।
सन्ति वान्ये दुरात्मानः कूटलेख्यकृतो नराः ॥
अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥

कूटाकूटविवेको धर्म आचारः । बृहस्पतिः ।

उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ।

नारदः ।

यस् त्व् आत्मदोषदुष्टत्वाद् अस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेद् एकैकं चानुधावति ॥
कासत्यकस्माच् च भृशम् अभीक्ष्णं निःश्वसत्य् अपि ।
विलिखत्य् अवनिं पद्भ्यां बहु वासश् च धूनयेत् ॥
भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा ।
शोषम् आगच्छतश् चौष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥
त्वरमाण इवात्यर्थम् अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयस् तं पापं विअन्येद् भृशम् ॥ २.७३, ७४, ७५ ॥

यथाविधि चोदितो ऽपि यो न ब्रूते तं प्रत्य् आह

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः षट्चत्वारिंशत्तमे ऽह्नि ॥ २.७६ ॥

यो ऽभ्युपेत्य साक्षित्वं यथाविधि च पृष्टः सन्न् अपि साक्षिवाच्यं न ब्रूते तदासौ दशबन्धसहितं सर्वं सवृद्धिकम् ऋणं राज्ञा दाप्यः । अत्र च दशबन्धो राज्ञा ग्राह्यो दण्डत्वात् । ऋणं तूत्तमर्णेन, ऋणत्वाद् एव । अब्रुवता साक्षिणाधर्मर्णदेयं दातव्यम् इत्य् एतावद् अत्र वाक्ये विधीयते । षट्चत्वारिंशत्तमे ऽहनीति वचनाद् अतः प्राग् ब्रुवतो न दोषः । बृहस्पतिः ।

आहूतो यत्र नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥

रोगविवर्जितग्रहणं सामर्थ्योपलक्षणार्थम् । ऋणादिव्यवहारविषयम् एतत् । तद् आह मनुः ।

[६७७] त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।

तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वशः ॥ इति ॥ २.७६ ॥

ऋणादिव्यतिरिक्तविषये पुनर् अन्यथा दण्डम् आह

न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ २.७७ ॥

सत्यासत्यतां व्यवहारे जानन्न् अपि यो नराधमो ऽतिक्रान्तविधिनिषेधः साक्ष्यं विवादनिवर्तकं सत्यवचनं न ददाति न प्रयुङ्क्ते । सत्यवचनप्रयोगः स्वस्य परस्य चोपकारक इति दानतुल्यस् तस्माद् ददातिना व्यपदिश्यते । स मृषावादिसाक्षिणां पापैर् ब्रह्महत्यासाम्याद्युपलक्षितैर् वक्ष्यमाणेन च दण्डेन तुल्यो वेदितव्यः । अत्र कात्यायनः ।

साक्षी साक्ष्यं न चेद् ब्रूयात् समदण्डं वहेद् ऋणम् ।
अतो ऽन्येषु विवादेषु त्रिशतं दमम् अर्हति ॥

त्रिभिः शतं कार्षापणानाम् । विष्णुः ।

पारयन्तो ऽपि ये साक्ष्यं तूष्णींभूत उपासते ।
ते कूटसाक्षिणां पापैस् तुल्या दण्डेन चैव हि ॥

कात्यायनः ।

सम्यक्क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात् सध्यःपृष्टं विवादयेत् ॥ २.७७ ॥

साक्षिविप्रतिपत्तौ सत्यां यत् कार्यं तद् आह ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८ ॥

साक्षिणां द्वैधे विप्रतिपत्तौ सत्यां बहूनां वचनं प्रमाणतया ग्राह्यम् । अत्र वक्तृभूयस्त्वम् एव वचनप्रामाण्यकारणम् उक्तम् । संख्यासाम्ये तु ये तपःप्रभृतिगुणवन्तस् तद्वचनं प्रमाण्त्वेन ग्राह्यम् । गुणिनां विमतौ तु ये ऽतिशयेन गुणवन्तस् तद्वचनम् । गुणानां अतिशयो भूयस्त्वं पाटवं वा । अत्र मनुविष्णू ।

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोकृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥

नारदः ।

साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः ।
**तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये शुचिमत्तरः ॥ [६७८]

यत् तु नारदेनोक्तम्,

राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिर्णये ।
वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥

इति, तत् संख्यातो तुणतश् च साम्ये सति वेदितव्यम् । न हि तत्र श्रोतॄणां संशयनिवृत्तिर् अस्ति ॥ २.७८ ॥

यस्योचुः साक्षिणः सय्तां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः ॥ २.७९ ॥

साध्यार्थनिर्देशः प्रतिज्ञा । तत्र प्रथमवादिनः सा तावद् भवति । प्रत्यवस्कन्दनप्राङ्न्यायोत्तरयोर् अपि साद्यविषयत्वात् प्रतिज्ञाशब्देन परिग्रहः । तेन यस्य वदिनः प्रतिवादिनो वा प्रतिज्ञां साक्षिणः सत्याम् आहुः स जयी भवति, यस्य तु मिथ्याभूताम् आहुः स ध्रुवं पराजयी न पुनर् अर्थापत्तिगम्यः । एकस्य तु जयित्वा द्वितीयस्य पराजयो न साक्षिवचनात् साक्षाद् गम्यते किं त्व् अर्थात् । अत्र बृहस्पतिः ।

यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः ।
स जयी स्याद् अन्यथा तु साध्यार्थं न समाप्नुयात् ॥
पूर्वपक्षे प्रतिज्ञातम् अशेषं प्रतिभावयेत् ।
ऊनाधिकं तु यत्रोक्तं न तन् निगदितं भवेत् ॥

पूर्वपक्षग्रहणं प्रदर्शनार्थम् । निगदितं विनिर्णीतम् ।

देशं कालं दिनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद् यत्र साक्ष्ये तद् अनुक्तं विदुर् बुधाः ॥
ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥
ऊनाधिकं तु यत्र स्यात् साक्ष्यं तत्र विवर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥
साध्यैकांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्पितम् ॥ २.७९ ॥

साक्षिवचनप्रामान्यभेदहेतुम् आह

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८० ॥

[६७९]

वादिना प्रतिवादिना वा निर्दिष्टैः साक्षिभिर् उक्ते ऽपि वाक्ये प्रतियोगनिर्दिष्टाः पूर्वसाक्षिभ्यो बलवत्तमा द्वैगुण्येन वा भूयांस उक्तम् एवार्थम् अन्यथा ब्रूयुस् तदा पूर्वसाक्षिणः पूटा मिथ्यावादिनः स्युः । तथा च कात्यायनः ।

यत्रैव भावितं कार्यं साक्षिभिर् वादिनो भवेत् ।
प्रतिवादि तदा तत्र भवयेत् कार्यम् अन्यथा ॥
बहुभिस् तत्कुलीनैर् वा कूटाः स्युः पूर्वसाक्षिणः ॥

कुलीनग्रहणं गुणातिशयोपलक्षणार्थम् । ननु चैकस्मिन् व्यवहारे वादिप्रतिवादिनोः कथं साक्षिसंभवः, उक्तं हि ।

सा चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ इति ।

सत्यम्, तुल्यवद् उभयोर् नास्ति क्रियाप्राप्तिः । यदा यस्य क्रिया शास्त्रतः प्राप्ता तदा तस्य तां मिथ्याभूतां विदित्वा तस्या मिथ्यात्वख्यापनाय साक्ष्यन्तरम् उपन्यसनीयम् इत्य् एतेनोच्यते । अत्र च स्मृत्यन्तरोक्तविशेषः ।

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ इति ।

अधर्म एव विधर्मस् तस्माद् विधर्मतः । एतत् तीरितं लिखितम् । अनुशिष्टं साक्षिवचनं च यो मन्येत स द्विगुणं दण्डम् उद्धृत्य तत् कार्यं तं व्यवहारं पुनः साक्ष्यन्तरैर् उद्धरेद् इत्य् अर्थः । यत् तु व्यासेनोक्तम्,

अन्यैस् तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद् दोषस् तेषाम् अप्य् अन्यसंभवात् ॥

इति, तत् साक्षिदूषणम् एवान्यैः साक्षिभिर् न कार्यम् इत्य् एवमर्थम् । अनवस्थाप्रसङ्गश् च साक्षिणां साम्ये सति भवेति, न पुनः संख्यादिवैषम्ये । यत् तु नारदेनोक्तम्,

निर्णीते व्यवहारे तु प्रमाणम् अफलं परम् ।
लिखितं साक्षिणो वापि न चेत् पूर्वं निवेदितम् ॥

[इति,] तद् वदिनः प्रतिवादिनो वा जयपराजयावधारणरूपव्यवहारनिर्णेजने सति पूर्वोपन्यस्तात् प्रमाणान्तरस्य पूर्वम् उपन्यस्तस्य प्रतिपादनम् अफलम् इत्य् आचष्टे, न पुनः प्राग् अपि निर्णेजनात् ॥ २.८० ॥

कूटसाक्षिदण्डाम् आह ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१ ॥

[६८०]

उत्कोचादिना साक्षिणः कूटान् करोति यो वा कूटं लिखितं करोति स कूटकृत् । स च कूटसाक्षिणश् च विवादविषयीभूताद् धनाद् द्विगुणं दण्डं पृथक् पृथक् प्रत्येकं दण्डनीयाः । ब्राह्मणस् तु न दण्डनीयः किं तु देशान् निर्वासनीयः । एतच् च दण्डविधानं कूटकृत् प्रभृतीनां स्वल्पापराधे ऽनभ्यासे च वेदितव्यम् । मनुः ।

लोभात् सहस्रं दण्ड्यः स्यान् मोहात् पूर्वं तु साहसम् ।
भयादौ मध्यमो दण्डो मैत्रात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव च ॥

कार्षापणसंख्याश् चैताः । कश्चिन् मन्यते द्विविधं कूटसाक्षित्वं लोभादिनिमित्तकं तद्विपरीतं चेति । तत्र लोभादिनिमित्तके कूटसाक्षित्वे मानवो दण्डविधिः । इतरत्र तु याज्ञवल्कीय इति, तद् असत् । लोभादिनिमित्तकम् एव कूटसाक्षित्वम् ।तद् आह मनुः ।

लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥ इति ॥

तस्माद् उक्तैव व्यवस्था न्याय्या । लोभो ऽर्थपरत्वम्, मोहो भ्रमः । अज्ञानं किंचिज्ज्ञता, बालभावो ऽपरिणतत्वम् । तथा द्रव्यविशेषप्रतिबद्धं दोषश्य गौरवं लाघवं च दृष्ट्वा दण्डे ऽपि तथात्वं कल्पनीयम् इति । तद् उक्तं मनुना- “पञ्च पश्वनृते हन्ति” इत्यादिना । तथा ।

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् पालको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥

त्रीन् वर्णान् क्षत्त्रियादीन् दण्डयित्वा देशान् निर्वासयेत् । ब्राह्मणं तु न दण्डयेत्, किं तु विवासेयेद् एव । अभ्यासे विषयगौरवे वा विप्रो ऽपि दण्ड्यः । विष्णुः- “कूटसाक्षिणां सर्वस्वापहारः कार्यः” । भूम्यनृतविषयम् एतत् । नारदः ।

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगाग्निज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥
येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥ २.८१ ॥
यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः ।

[६८१] स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥

यस् तमोवृतस् तामसः सभ्यैर् यथाविधि साक्षिप्रश्नवाक्यं श्रावितः सन् वादकाले ऽन्येभ्यः साक्षिभ्यः स्वकीयं साक्ष्यं साक्षित्वं निह्नुते — नाहम् अत्र साक्षी भवामीत्य् अपलपति (?), स साक्षिदण्डम् अष्टगुणं दाप्यः । स्वकीयसाक्षित्वापह्नवम् अन्यान् साक्षिणो ज्ञापयतीति अन्येभ्य इति चतुर्थ्या अर्थः । स्वयं तावत् साक्षित्वापह्नवं करोति, परांश् च कारयितुम् इच्छतीत्य् अतिदुष्टत्वाद् अष्टगुणं दण्डं दाप्यः । ब्राह्मणश् चेद् एवंविधस् तं स्वदेशाद् विवासयेन् निर्वासयेन् न तु दण्डयेत् । श्रावित इति वचनाद् अङ्गीकृतसाक्षिभावो ऽसाव् इति गम्यते । नारदः ।

श्रावयित्वा तथान्येभ्यः साक्षित्वं यो विनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ २.८२ ॥

साक्षिभिः सत्यं वक्तव्यम् इत्य् अस्य क्वचिद् विषये ऽपवादम् आह ।

वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ २.८३ ॥

इति साक्षिप्रकरणम् ॥ ५ ॥

यत्र सत्ये कथ्यमाने ब्राह्मणादीनां वधो मारणं प्रसज्यते तत्रानृतं साक्षी ब्रूयात् । तत्पावनाय तद्दोषनिर्हरणाय सरस्वतीदैवत्यश् चतुर् निर्वाप्यो द्विजातिभिर् न शूद्रेण । ब्राह्मणस्य यद्य् अपि वधः प्रतिषिद्धः,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥
न ब्राह्मणवधाद् भूयान् अधमो विद्यते क्वचित् ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥

इत्यादिमन्वादिवाक्यैस् तथापि वधतुलयतास्ति दण्डस्य, यथाह मनुः ।

मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ इति ।

तेन पुरनिर्वासनादिर् अपि दण्डो वधसम एव । तद् उक्तं स्मृत्यन्तरे ।

ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनं तथा ।
ललाटे चाङ्ककरणं प्रयाणं गर्दभेन च ॥ इति ।

यद् वा,

गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
**प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् शूद्रवद् आचरेत् ॥ [६८२]

इति मनुवचनान् महत्य् अपराधे विप्रविशेषस्यापि वधः प्राप्नोति । न च वाच्यं “वर्णिनां हि वधः” इत्य् अत्र वर्णग्रहणं ब्राह्मणविषयम् इति । यद् आह मनुः ।

शूद्रविट्क्षत्रविप्राणां यत्र चोक्तो भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥ इति ।

अथ वातिक्रान्तनिषेधेन यत्र ब्रह्मवधः क्रियते तत्रैतत् । गौतमः- “नानृतवचने दोषो जीवितं चेत् तदधीनम् । न तु पापीयसो जीवनम्” । विष्णुः- “तत्पावनाय कूष्माण्डीभिर् द्विजो ऽग्निं जुहुयात् । शूद्रश् चैकाग्नि(ह्नि)कं गोदशकस्य ग्रासं दद्यात्” । मनुः ।

वाग्दैवतैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥

चरुभिर् इति वचनं कर्तृबहुत्वाभिप्रायम् ।

कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उदित्य् ऋचा वा वारुण्या त्र्यृचेनाब्दैवतेन वा ॥

उद् इति “उद् उत्तमं वरुणपाशम् अस्मत्” इत्य् अस्याः प्रतीकम् । बौधायनस्मृतौ- “प्रधानतः प्रतिपत्तिर् अतो ऽन्यथा । कर्ता द्वादशरात्रं पयः पिबन् कूष्माण्डैर् जुहुयात्” ॥ २.८३ ॥

इति साक्षिप्रकरणं समाप्तम् ॥ ५ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्क

**साक्षिप्रकरणम् ॥ ५ ॥ **