०४ उपनिधि-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

उपनिधिप्रकरणम् । (४)

अन्योन्यसंप्रतिपत्तिमात्रनिबन्धनत्वात् तस्य निक्षेपाख्यं विवादपदम् उपक्रमते ।

वासनस्थम् अनाख्याय हस्ते न्यस्य यद् अर्प्यते ।
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥ २.६५ ॥

यत्र पात्रे हिरण्यादिकं निक्षिप्यते तद् वासनं तत्र व्यवस्थितं हिरण्यादि [६६२] द्रव्यं स्वरूपसंख्यापरिमाणादि विशिष्टत्वेनाकथयित्वा प्रस्य हस्तादौ यद् अर्प्यते तदौपनिधिकम् इति वेदितव्यम् । उपनिधिर् एवौपनिधिकम् । तत् तथैवाभिन्नमुद्रम् एव स्थापकाय प्रतिपादयेत् । अत्र नारदः ।

अन्यद्रव्यव्यवहितं द्रव्यम् अव्याकृतं च यत् ।
निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ॥

तथा ।

असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तं जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥

बृहस्पतिः ।

राजचौरारातिभयाद् दायादानां च वञ्चनात् ।
स्थाप्यते ऽन्यगृहे द्रव्यं न्यासस् तत्परिकीर्तितम् ॥
अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् दत्तं तथौपनिधिकं स्मृतम् ॥

कात्यायनः ।

क्रयः प्रोषितनिक्षिप्तं बन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितश् चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥

क्रयः क्रधनम्, प्रोषितनिक्षिप्तम् इत्य् अत्र प्रोषितत्वग्रहणम् उपलक्षणार्थम् । अन्यस्मै दातुं यद् अर्पितं तद् अन्वाहितम् । अलंकाराद्यर्थं प्रकीयम् आनीतं याचितम् । कुसीदादिर् वैश्यवृत्तिः, तअर्थं यश् च परस्यार्पितो ऽर्थः सो ऽप्य् उपनिधिः । नारदः ।

स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥

प्रत्ययो दिव्यम् । बृहस्पतिः ।

ददतो यद् भवेत् पुण्यं हेमकुप्याम्बरादिकम् ।
तत् स्यात् पालयतो न्यासं तथा च शरणागतम् ॥
भर्तुर् द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥ २.६५ ॥

प्रतिदेयं तथैव तदितरस्यापवादम् आह ।

न दाप्यो ऽपहृतं तत् तु राजदैविकतस्करैः ।

तद् औपनिधिकं द्रव्यं राजादिभिर् अपहृतं नाशितं वा तत् स्थापकायेतरो न दाप्यः । दैविकम् अग्न्यादिकार्यम् । नारदः ।

ग्रहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः।
**दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ [६६३]

जिह्मं कौटिल्यम् । कात्यायनः ।

अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर् नष्टं तद् उच्यते ॥

मनुः ।

चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव च ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥

तस्माद् धनाद् यदि स्तोकं स्वल्पम् अपि न संहरति न गृह्णातीत्य् अर्थः । कात्यायनः ।

यस्य दोषेण यत् किंचिद् विनश्येत ह्रियेत वा ।
तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥

सोदयं सवृद्धिकम् । बृहस्पतिः ।

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥
भ्रंशश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६६ ॥

स्थापकेन मार्गिते याचित उपनिधाव् इतरेणादत्ते यद्य् अपि दैवादिवशाद् भ्रंशो नाशो भवति तथापि तत्समं धनं धनिने तत्समम् एव च दण्डं राज्ञा दाप्यः ॥ २.६६ ॥

आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् ।

स्वेच्छया स्थापकानुज्ञां विनोपनिधिम् आजीवन्न् उपजीवन् रक्षको राज्ञा दण्ड्यस् तं चार्थं स्थापकाय सोदयं दाप्यः । कात्यायनः ।

ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद् दण्डं द्विगुणं च प्रदाप्यते ॥

यद्भयाद् उपनिधिर् निक्षिप्तस् तस्मिन्न् अतीते ग्राह्यो वर्तमाने तु तस्मिन् दानं कालहीनम् ॥

याचितान्वाहितन्यासनिक्षेपादिष्व् अयम् विधिः ॥ २.६७ ॥

[इत्य् उपनिधिप्रकरणम् ॥ ४ ॥]

अयं पूर्वोक्तो विधिर् याचितादिषु वेदितव्यः । याचितादिस्वरूपम् उक्तम् । मनुः ।

यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।
**ताव् उभौ चौरवच् छास्यौ दाप्यौ दण्डं च तत्समम् ॥। [६६४]

बृहस्पतिः ।

गृहीत्वापह्नुते यश् च साक्षिभिः शपथेन वा ।
विभाव्य दापयेन् न्यासं तत्समं विनयं तथा ॥

मनुः ।

निक्षेपो यत्कृतो येन यावान् वा कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥

विब्रुवन् वितथं ब्रुवन् ।

यो निक्षेपं याच्यमानं निक्षेप्त्रे न प्रयच्छति ।
स याच्यः प्राड्विवाकेन तन्निक्षेप्तुर् असंनिधौ ॥
स यदि प्रतिपद्येत यथान्यस्तं यथाक्रमम् ।
न तत्र विद्यते किंचिद् यत् परैर् अभियुज्यते ॥
तेषां न दद्याद् यदि तु तद्धिरण्यं यथाविधि ।
स्वयं निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ॥

तद्धिरण्यं तन्मूल्यं हिरण्यद्वयं द्विगुणं निगृह्य दण्डयित्वा दाप्यः । बृहस्पतिः ।

रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥

उभयोर् मध्य एकस्येत्य् अर्थः ।

अन्वाहिते यचितके शिल्पित्यागे सबन्धके ।
एष एवोदितो धर्मस् तथा च शरणागते ॥

कात्यायनः ।

यो याचितकम् आदाय नो दद्यात् प्रतियाचितः ।
स निगृह्य बलाद् दाप्यो दण्डेन च ददाति यः ॥

निगृह्य बलाद् उपवासादि कारयित्वा स्थापकेन दाप्यो ग्राह्यः । एवम् अपि यो न ददाति स राज्ञा दण्ड्य इति । मत्स्यपुराणे ।

यो हि याचितम् आदाय न दद्याद् वितथं ब्रुवन् ।
स निगृह्य तथा दाप्यो दण्ड्यो वा पूर्वसाहसम् ॥

वाशब्दः समुच्चये । भुक्तेः प्रामाण्यम् उक्तं तत्प्रसङ्गाद् अपि, प्रतुभूप्रभृत्य् उक्तम् । इति निषेपप्रकरणम् ॥ २.६७ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्क

**उपनिधिप्रकरणम् ॥ ४ ॥ **

[६६५]