०३ ऋणादान-प्रकरणम्

अथ सटीकयाज्ञवल्क्यस्मृतौ

ऋणादानप्रकरणम् । (३)

अस्ति तावद् ऋणादानं नाम व्यवहारपदं तस्य स्वरूपम् आह नारदः ।

ऋणं देयम् अदेयं च येन यस्य यदा च यत् ।
दानग्रहणधर्माच् च तद् ऋणादानम् उच्यते ॥ इति ।

[६४२]

तत्र वृद्दिम् आह ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा ॥ २.३७ ॥

सबन्धक आधिसहिते प्रयोगे यावद् धनं प्रयुक्तं तस्याशीतितमो भागः प्रतिमासं वृद्धिः स्यात् । अन्यथा तु बन्धरहिते प्रयोगे ब्राह्मणादिवर्णानाम् अधर्मर्णत्वं यथावर्णक्रमं द्विकं त्रिकं चतुष्कं पञ्चकं शतं वृद्धिः स्यात् । द्वौ च त्रयः चत्वारश् पञ्च च वृद्धिर् दीयते ऽस्मिन्न् इति द्वित्रिचतुष्पञ्चकं शतम् । वसिष्ठः ।

द्विकं त्रिकं चतुष्कं च पञ्चकं शतं स्मृतम् ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥

बृहस्पतिः ।

वृद्दिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधान्यैः समाख्याता। तत्त्वतस् ता निबोधत ॥
कायिका कालिका चैव चक्रवृद्धिर् अतो ऽपरा ।
कारिता च शिखावृद्धिर् भोगलाभस् तथैव च ॥
कायिका कर्मसंयुक्ता मासाद् ग्राह्या च कालिका ।
वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता ऋणिना कृता ॥
प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।
शिखेव वर्धते नित्यं शिरश् छेदान् निवर्तते ॥
मूलं दत्ते तथैवैषा शिखावृद्धिस् तु सा स्मृता ।
गृहीतस्तो(हात् स्तो)मः शदश् क्षेत्राद् भोगलाभः प्रकीर्तितः ॥
शिखावृद्धिं कायिकां च भोगलाभं तथैव च ।
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥

स्तोमो निवासनिमित्तः । शदः क्षेत्रफलम् ।

वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।
पञ्च माषास् तु विंशत्या एवं धर्मो न हीयते ॥

कात्यायनः ।

कृतोद्धारम् अदत्वा यो याचितस् तु दिशं व्रजेत् ।
ऋतुत्रयस्योपरिष्टात् तद् धनम् ऋद्धिम् आप्नुयात् ॥
स्वदेशस्थो ऽपि वा यस् तु न दद्याद् याचितो ऽसकृत् ।
**स भर्त्राकारितो वृद्धिम् अनिच्छन्न् अपि चावहेत् ॥। [६४३]

नारदः ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारितं क्वचित् ।
अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥

अनाकार्तिअम् अयचितम् इति क्रियाविशेषनत्वान् नपुंसकलिङ्गत्वम् । तथा ।

प्रीतिदत्तं तु यत् किंचित् तन् न वर्धत्य् अयाचितम् ।
याच्यमानम् अयच्छंस् तु वर्धयेत् पञ्चकं शतम् ॥

संवत्सरार्धात् पूर्वम् एतत् ॥ २.३७ ॥

अधर्मर्णविशेषवशाद् वृद्धिविशेषम् आह

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.३८ ॥

कान्तारं महावनं तद् गच्छतीति कान्तारगा वस्त्रादिविक्रयकारिणस् ते दशकं शतं दद्युः । समुद्रं तरन्तीति सामुदास् ते तु विंशकं शतं दद्युः । निष्कादिशते गृहीते निष्कादिविंशतिं प्रतिमासं दद्युः । एवं दशके ऽपि शते । अथ वोत्तमर्णसंमतां स्वकृतां सर्वे वर्णा ब्राह्मणादयो वर्णजातिषूत्तमवर्णेषु वृद्धिं दद्युः । एतच् च बन्धकाभावे ऽधमर्णानां कान्तारसमुद्रगमनौत्सुक्ये च वेदितव्यम् ॥ २.३८ ॥

द्रव्यविशेषं प्रति वृद्धिविशेषम् आह

संततिस् तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ २.३९ ॥

पशुस्त्रीणां महिषीप्रभृतीनां वृद्ध्यर्थं प्रयुक्तानां तदीया संततिर् एव वृद्दिः । रसस्य घृतादेर् अष्टगुणा । वस्त्राणां चतुर्गुणा । धान्यानां त्रिगुणा । हिरण्यस्य द्विगुणा । परेति प्रत्येकं संबध्यते । परा परमा । अतः परम् अधिका वृद्धिर् नास्तीत्य् अर्थः । एतच् च स्वकृतवृद्धौ चिरकालम् अदत्तायां वेदितव्यम् । गौतमः- “चिरस्थाने द्विगुण्यं प्रयोगस्य” । प्रयुक्तस्य धनस्येत्य् अर्थः । मनुः ।

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृदाहिता ।

द्विगुणापि वृद्धिर् अधमर्णसंप्रतिपत्त्या मूले निवेशिता पुनर् वर्धत इति सकृद्ग्रहणात् सिध्यति । सुवर्णविषयं चैतत् । कात्यायनः ।

ग्राह्यं स्याद् द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।
**लभते चेन् न द्विगुणं पुनर् वृद्धिं प्रकल्पयेत् ॥। [६४४]

बृहस्पतिः ।

हिरण्ये द्विगुणीभूते नष्टे चैवाधर्मणके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपं परतो गृहीत्वान्यं तु वर्जयेत् ॥
स्वधनं च स्थिरीकृत्य गणनाकुशलैर् नृभिः ।
तद्बन्धुज्ञातिविदितं प्रगृह्णन् नापराध्नुयात् ॥

मनुः ।

धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् ।

धान्यादाव् अदत्ते तद्वृद्धिश् चिरकालम् अदीयमानान् मूलात् पञ्चगुणत्वं नातिक्रामति । शदः पुष्पमूलफलादिकं क्षेत्रफलम् । लवो मेषलोमानि चरमीकेश इत्यादि । वाह्यो ऽश्वबलीवर्दादिः । वसिष्ठस् तु रसानां त्रिगुण्यम् आह । द्विगुणं हिरण्यम् । त्रिगुणं धान्यम् । दान्येनैव रसा व्याख्याताः । पुष्पफलानि च तुलाधृतम् अष्टगुणम् अधमर्णशक्त्यनुसारेण नाधिकवृद्धिसंख्यावचनानि व्यवस्थाप्यानि । बृहस्पतिः ।

हिरण्य द्विगुणा वृद्धिस् त्रिगुणा वस्त्रकुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता शदे वाह्ये लवेषु च ॥

कुप्यं त्रपुसीसम् ।

उक्ता पञ्चगुणा शाके बीजेष्व् अष्टगुणा स्मृता ।
लवणस्नेगमद्येषु वृद्धिर् अष्टगुणा स्मृता ॥
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ।
तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् ॥
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥

किण्वं सुराद्रव्योपादानकारणम् । चर्म फलकः । वर्म कवचम्, हेतिः शस्त्रम् । विष्णुः- “किण्वकर्पाससूत्रचर्मवर्मायुधेष्टकाङ्गारकाणाम् अक्षया । अनुक्तानां हि द्विगुणा” ॥ २.३९ ॥

किं च

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश् च तद् धनम् ॥ २.४० ॥

[६४५]

प्रपन्नम् अङ्गीकृतम् अधमर्णेनार्थं विमतौ सत्यां साधयन्न् उत्तमर्णो नृपतेर् न वाच्यो न निषेध्यो भवति । सो ऽधमर्णः साध्यमानो यदि नृपं गच्छेत् तदासौ राज्ञा दण्ड्यः । तच् च धनम् उत्तमर्णाय दाप्यः । मनुः ।

धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥

धर्मः सत्यम् । व्यवहारो लिखितसाक्ष्यादिप्रमाणजातम् । छलं छद्म । आचरितं देशाचारः । बलं भोजननिषेधादिना पीडनम् । न्यायवादी तु न पीडनीयः । तद् आह कात्यायनः ।

पीडयेद् यो धनी कश्चिद् ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥
राजा तु स्वामिनो विप्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥
रिक्थिनं सुहृदं वापि छलेन न च दापयेत् ॥ २.४० ॥

युगपद् अनेकोत्तमर्णेषु दानप्राप्तौ क्रमम् आह

गृहीतानुक्रमाद् दाप्यो धैनाम् अधमर्णिकः ।
दत्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ २.४१ ॥

समानजातीयेषूत्तमर्णेषु ग्रहणक्रमानुसारेण दानक्रमो ज्ञेयः । भिन्नजातीयेषु तु वर्णक्रमानुसारेण । विप्रनृपग्रहणम् वैश्यशूद्रयोः प्रदर्शनार्थम् । कात्यायनः ।

एकाहे लिखितं यत् तु तत् तु कुर्याद् ऋणं समम् ।
ग्रहणं रक्षणं लाभम् अन्यथा तु यथाक्रमम् ॥

अनेकेषाम् उत्तमर्णानाम् एकस्मिन्न् अहनि यद् ऋणं लिहितं तत् सर्वोत्तमर्णान् प्रति समं तुल्यं राजा कुर्यात् । तथा ग्रहणम् आधिस् तद्रक्षणं लाभसा(मा)ध्युत्तमर्णलाभं च समम् एव कुर्यात् । लिखितस्याहर्भेदे तु यथालिखितक्रमम् ऋणादिकं कुर्यात् ।

यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् ।
**तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नान्यथा ॥। [६४६]

यस्योत्तमर्णस्य द्रव्येण वाणिज्यार्थम् अधमर्णेन यत् पण्यं गृहीतं तत् पण्यक्रियावाप्तं धनं स एवोत्तमर्णो लभते । न तत्र पूर्वोक्तम् आश्रयणीयम् ॥ २.४१ ॥

राज्ञाधर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ २.४२ ॥

न्यायसाधितम् अर्थम् अपेक्ष्य दशकं शतम् अधमर्णिको दाप्यः । साधितार्थस्य यावान् दशमो भागस् तावन्तम् अर्थम् अधमर्णिकाद् राजा गृह्णीयाद् इत्य् अर्थः । तथा लब्धार्थ उत्तमर्णिकः पञ्चकं शतं वृद्ध्यर्थं दाप्यः । राजा गृह्णीयाद् इत्य् अर्थः । अत्र विष्णुः- “उत्तमर्णश् चेद् राजानम् इयात् तद्विभावितो ऽधर्मर्णो राज्ञे धनदशभागसमं दण्डं दद्यात् । प्राप्तार्थश् चोत्तमर्णो विंशतिततमम् अंशम्” । नारदः ।

ऋणिकः सधनो यस् तु दौरात्य्मान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥

स्वल्पयत्नसाध्यत्वे च सति द्रष्टव्यम् ॥ २.४२ ॥

ऋणापाकरणासमर्थम् अधमर्णं प्रति वर्णव्यवस्थया तदपाकरणोपायम् आह

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ २.४३ ॥

ब्राह्मणादिर् उत्तमर्णः स्वजात्यपेक्षया हीनजातिं क्षत्रियादिम् अधमर्णं परिक्षीणं निर्धनम् ऋणार्थम् ऋणनिवृत्तये कर्म तृणेन्धनोदकाहरणादिकं कारयेत् । हीनजातिग्रहणं प्रदर्शनार्थम् । तेन समानजातिर् अपि गृह्यते । ब्राह्मणश् चेद् अधमर्णः परिक्षीणस् तदा यथोदयं यथाधनागमं शनैर् अप्रकर्षेण दाप्यः । ब्राह्मणग्रहणम् उत्तमर्णजात्यपेक्षयोत्कृष्टजात्युपलक्षणार्थम् । ततश् च क्षत्रियो वैश्याय, वैश्यः शूद्राय, यथोदयं धनम् एव दाप्यो न कर्म कारणीयः । तथा च मनुः ।

कर्मणापि समं कुर्याद् धनिकस्याधमर्णिकः ।
समो ऽवकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥

धनिकापेक्षितं कर्मापि कृत्वा धनिकस्य समं सदृशम् अनृणत्वेनात्मानम् अधमर्णः कुर्यात् । बृहस्पतिः ।

ऋणिनं निर्धनं कर्म गृहम् आनीय कारयेत् ।
शौण्डिकाद्यं ब्राह्मणस् तु दापनीयः शनैः शनैः ॥

शौण्डिकः सुराकर्ता । [६४७] कात्यायनः ।

यदि ह्य् आदाव् अनादिष्टम् अशुभं कर्म कारयेत् ।
प्राप्नुयात् साहसं पूर्वम् ऋञान् मुच्येत चर्णिकः ॥

अशुभं विहीनं मलापनयनादिकं कर्मोत्तमर्णः पूर्वम् अनादिष्टम् अकथितम् एव यद्य् अधमर्णं कारयेत्, तदासौ पूर्वसाहसं दण्ड्यो ऽधमर्णश् च तदृणान् मुच्यते ॥ २.४३ ॥

यो वृद्धिलोभादिनोत्तमर्णो ऽधमर्णेन दीयमानं धनं न गृह्णाति तं प्रत्य् आह

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं तत् स्याद् वर्धते न ततः परम् ॥ २.४४ ॥

अधमर्णेन दीयमानं यद्य् उत्तमर्णो धनं प्रयुक्तं वृद्ध्यादिहेतोर् न गृह्णाति तदा तद् अधमर्णेन मध्यस्थपुरुषहस्ते स्थापनीयम् । तत ऊर्ध्वं न वर्धते ॥ २.४४ ॥

अधमर्णे मृते प्रोषिते वा यैर् ऋणम् अपाकरणीयं तान् आह

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४५ ॥

कुटुम्बिनि गृहपतौ प्रोषिते मृते वा तत्कुटुम्बभरणार्थम् अविभक्तधनैर् भ्रात्रादिभिर् यत् कृतम् ऋणं तद् रिक्थिनः सर्वे दद्युः । अविभक्तैर् इति बहुवचनम् अविवक्षितार्थम् । तद् आह मनुः ।

ग्रहीता यदि नष्टः स्यात् कुटुम्बे च कृतव्ययः ।
दातव्यं बान्धवैश् तस्मात् प्रविभक्तधनैः स्वतः ॥

नारदः ।

पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।
मात्रा वा यत् कुटुम्बार्थे दद्युस् तत् सर्वम् ऋक्थिनः ॥

बृहस्पतिः ।

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।
यद् गृहीतं कुट्म्बार्थे तद् गृही दातुम् अर्हति ॥

कत्यायनः ।

कुटुम्बार्थम् अशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्ते च दद्याद् आपत्कृते तु तत् ॥
कन्यावैवाहिकं चैव प्रेतकार्ये च यत् कृतम् ।
एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥

प्रभोः प्रभुना दातव्यम् इत्य् अर्थः ॥ २.४५ ॥

तत्रापवादं प्रतिप्रसवसहितम् आह ।

[६४८]

न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ २.४६ ॥

कुटुम्बार्थाद् ऋणाद् यद् अन्यद् ऋणं पत्या पुत्रेण वा कृतं तत् स्त्री न दद्यात् । तथा पुत्रेण कृतं पिता । भार्यया च कृतं न भर्त्रा । बृहस्पतिः ।

ऋणं पुत्रकृतं पित्रा शोध्यं यद् अनुमोदितम् ।
सुतस्नेहेन वा दद्यान् नान्यथा दातुम् अर्हति ॥

कात्यायनः ।

योषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।
दासस्त्र्यमात्यशिष्यैर् वा दद्यात् पुत्रेण वा भृगुः ॥

नारदः ।

पितुर् एव नियोगाद् वा कुटुम्बभरणाय वा ।
कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥ २.४६ ॥

पुत्रपौत्रैर् ऋणं देयम् इति वक्ष्यति तस्यापवादम् आह

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ २.४७ ॥

सुरापानस्त्रीसंभोगद्यूतार्थं यद् ऋणं कृतं यच् च दण्डस्य शुल्कस्य च देयम् अवशिष्टं यच् च वृथादानं तत् पैतृकं पुत्रो न दद्यात् । अत्र कात्यायनः ।

लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत् तु विद्यात् कामकृतं नृणाम् ॥

अवशिष्टम् इत्य् अविवक्षितम् । तथाह उशना ।

दण्डो वा दण्डशेषो वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥

न व्यावहारिकं न न्यय्यम् इत्य् अर्थः । निष्फलं दानम् उक्तं स्मृत्यन्तरे ।

धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥

नारदः ।

न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस् तु पैतृकम् ।
कामक्रोधसुराद्यूतप्रातिभाव्यकृतं विना ॥

कात्यायनः ।

यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा ।
**उक्तं तुष्टिकरं यत् तु विद्यात् क्रोधकृतं तु तत् ॥। [६४९]

अयम् अर्थः — परस्य हिंसां धनविनाशं कृत्वा तत्तुष्टये यद् द्रव्यं दातव्यत्वेनाङ्गीकृतं तद् ऋणं क्रोधजितम् इति ॥ २.४७ ॥

न पतिः स्त्रीकृतं तथेत्य् अस्यापवादम् आह ।

गोपशौण्डिकशौलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ २.४८ ॥

आभीरसुराकारनटरजकलुब्धकानां स्त्रीभिः कृतम् ऋणं तासां पतिर् अपाकुर्यात् । यस्माद् एषां गोपादीनां वृत्तिः स्थितिस् तदधीना योषिदधीना । गोपादिस्त्रीकृतम् ऋणं यद्य् अपि न कुटुम्बार्थं तथापि तत्पतिभिर् अपनेयम् इत्य् एतदर्थम् इदं वाक्यम् । अन्यथा तु कुटुम्बार्थान् न पतिः स्त्रीकृतं तथेत्य् अनेनैव सिद्धत्वाद् वचनम् इदम् अपार्थकं स्यात् । तथा च नारदः ।

न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् ।
आपत्कृताद् ऋते पुंसः कुटुम्बार्थो हि दुस्तरः ॥
अन्यत्र रजकव्याधगोपशौण्दिकयोषिताम् ।
तेषां तत्प्रत्ययावृत्तिः कुटुम्बं च तदाश्रयम् ॥ २.४८ ॥

ऋणविशेषाद् अन्यद् ऋणं स्त्री न दद्याद् इत्य् आह ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।
स्वयंकृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥ २.४९ ॥

कुटुम्बानुपयोग्य् अपि यत् पतिपुत्रकृतम् ऋणं प्रतिपन्नम् अङ्गीकृतं पत्या सह च यत् कृतं यच् च स्वयंकृतं तत् स्त्रिया देयम् । अन्यद् ऋणं स्त्री न दद्यात् । स्वयंकृतम् इति वचनं कुटुम्बानुपयोगिमातृकम् ऋणं पुत्रेण देयम् इत्य् एतदर्थम् । अन्यथा हि वचनम् अनर्थकं स्यात् । ज्ञातम् एवैतद् ऋते ऽपि वचनात् स्वयंकृतम् ऋणं स्वयं देयम् इति । कात्यायनः ।

भर्त्रा पुत्रेण वा सार्धं केवनेनात्मना कृतम् ।
ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥

तत्कृतं पतिपुत्रकृतम् ।

भर्तुकामेन या भर्त्रा प्रोक्ता देयम् ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यत् संश्रितं स्त्रियाम् ॥

धनं भर्तृधनम् ॥ २.४९ ॥

[६५०]

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ २.५० ॥

ऋणम् अनपाकृत्य पितरि प्रोषिते मृते वापि पानादिव्यसनासक्ते वा तदृणं पुत्रपौत्रैर् देयम् । यदि पुत्रादयो ब्रूयुर् न वयं विद्मो ऽस्मत्पिता पितामहो वा किं तुभ्यं धारयत इति तदा प्रत्यर्थिना साक्ष्यादीनाम् अन्यतमेन प्रमाणेन भावितं सद् देयम् । अत्र च प्रवासादिषु निमित्तेषु ऋणदानविधानात् पैतृकधनाभावे ऽपि पुत्रैर् ऋणं देयं तदभावे च पौत्रैः । अत्र नारदः ।

नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य् अथापि वा ॥

कात्यायनः ।

विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते ऽपि वा ।
विंशात् संवत्सराद् देयम् ऋणं पितृकृतं सुतैः ॥
व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणम् एवंविधं पुत्राञ् जीवताम् अपि दापयेत् ॥
सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥

बृहस्पतिः ।

पित्र्यम् एवागर्तो देयं पश्चाद् आत्मीयम् एव च ।
तयोः पैतामहं पूर्वां देयम् एवम् ऋणं सदा ॥
अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥

एतच् च प्राप्तव्यवहारपुत्रविषयम् । अप्राप्तव्यवहारस्य तु जातस्यापि नाधिकारो ऽसमर्थत्वात् । तथा च कात्यायनः ।

नाप्राप्तव्यवहारेण पितर्य् उपरते क्वचित् ।
काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥

पौत्रेण च पैतामहम् ऋणं वृद्धिरहितम् एवापाकरणीयम् । यद् आह बृहस्पतिः ।

ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।
पैतामहं समं देयं न देयं तत्सुतस्य तत् ॥

समं वृद्धिरहितम् । तत्सुतस्येति कर्तरि षष्ठी । ततश् च तत्सुतेन न देयम् इत्य् अर्थः । कात्यायनः ।

यद् दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
**सदोषं व्याहतं पित्रा नैव देयम् ऋणं क्वचित् ॥। [६५१]

यत् पित्रा दृष्टं यच् च तेन दत्तावशेषितं तत् पैतामहं पौत्रेण देयम् । यत् तु तेन व्याहतं निराकृतं यच् च सुरादिव्यसननिमित्तत्वेन दोषयुक्तं न तत् पैतामहं देयम् इत्य् अर्थः ।

पित्रा दृष्टम् ऋणं यत् तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर् देयं पौत्रैस् तु तद् भृगुः ॥

तथा ।

ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।
द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥

द्रविणार्हः पितृधनार्हः । धुर्यः पितृधुरो वोधा ॥ २.५० ॥

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ॥ २.५१ ॥

अत्र प्रतिपदं वाक्यसमाप्तिः । प्रतिवाक्यम् ऋणं दाप्य इति संबध्यते । रिक्थग्राह्य ऋणं दाप्यः । पितृधनं रिक्थम्, ततश् च पुत्रो रिक्थग्राहः प्रथमतः । तदभावे क्षेत्रजादिः पुत्रप्रतिनिधिः । तदभावे पत्नीदुहित्रादिः । अत्र च न पुत्रपरो रिक्थग्राहशब्दः, “पुत्रपौत्रैर् ऋणं देयम्” इत्य् अनेनैव पित्र्यं धनं पुत्रेणापाकरणीयम् इति विहितत्वात् । ततश् चायम् अर्थः — क्षेत्रजादिको रिक्थग्राहो यदीयं रिक्थं गृह्णाति तदीयम् ऋणम् उत्तमर्णाय राज्ञा दाप्य इति । परस्य योषितं भार्यां यो गृह्णाति स योषिद्ग्राहः । सो ऽपि तस्याः पाणिग्राहस्य यद् ऋणं तद् दाप्यः । अत्र च विवक्षितः पाठक्रमः । ततश् च रिक्थग्राहाभावे योषिद्ग्राह ऋणप्रदः । नारदः ।

अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ते समश्नुते ॥

ताश् च स एव निरूपयति ।

परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी च चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणि ॥
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या पर्दीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥

उत्पन्नसाहसोत्पन्नपुरुषसंबन्धा ।। [६५२]

असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्रीप्रसूताप्रसूता वा पत्याव् एव च जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् गृहं यायात् सा द्वितीया प्रकीर्तिता ॥
मृते भर्तरि तत्प्राप्तान् देवरादीन् अपास्य या ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा तु या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥

तथा ।

अधनस्य ह्य् अपुत्रस्य मृतस्योपैत् यः स्त्रियम् ।
ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥

तद् एव भार्यैव । योषिद्ग्राहस् तथैव चेति शौण्डिकादिविषयं वा । यथाह कात्यायनः ।

निर्धनैर् अनपत्यैस् तु यत् कृतं शौण्डिकदिभिः ।
तत् स्त्रीणाम् उपभोक्ता तु दद्यात् तदृणम् एव हि ॥

पुत्रैः पैतृकम् ऋणम् अपाकरणीयम् इत्य् उक्तम्, तत्र विशेषम् आह — पुत्रो ऽनन्याश्रितद्रव्य इति । यः पुत्रो ऽनन्याश्रितद्रव्यः स्वाधीनधनः स पित्र्यम् ऋणं दाप्यः । अन्याश्रितम् अन्याधीनं द्रव्यं धनं यस्य सो ऽन्याश्रितद्रव्यः स न भवतीत्य् अनन्याश्रितद्रव्यः । ततश् च ये भ्रातरो भ्रातृविशेषाधीनधना न ते दाप्याः । किं तु यस् तेषु स्वातन्त्र्येण वर्तते स एव दाप्यः । अत्र पाठक्रमो न विवक्षितः । न ह्य् अत्र दानरूपो धात्वर्थो विधीयते । किं तु तदीयो ऽनन्याश्रितद्रव्यत्वलक्षणो धर्मः । स (न) च धर्म ऽनुष्ठेयः । किं तु धर्मवान् धात्वर्थः । ततश् च यत्र धात्वर्थो विधीयते क्रमेण तत्र क्रमनियमो विवक्ष्यते नान्यत्र । अतो नात्र क्रमो विवक्षितः । यत् तु नारदेनोक्तम्,

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥

इति, तत् पितृधनविभागानर्हपुत्रविषयम् । “सवर्णापुत्रो ऽप्य् अन्यायवृत्तौ न लभेतैकेषाम्” इति गौतमवचनात् पुत्रस्यापि भागानर्हत्वं प्रतीयते । तथान्धादीनां तदनर्हत्वं विभागप्रकरणे वक्ष्यति । विभागार्हैस् तु पितृधनाभावे ऽपि [६५३] पितुर् आनृण्यं कार्यम् इत्य् उक्त- “पुत्रपौत्रैर् ऋणं देयम्” इति । यत् तु स्त्रीहारिणो ऽसंभवे पुत्रो दाप्य इत्य् अभिधाय पुनर् उक्तम् — पुत्राभावे स्त्रीहारी दाप्य इति, तद् उक्तविशेषपुनर्भूस्वैरिणीभ्याम् अन्यां स्त्रियं यो हरति तद्विषयम् । पुत्रहीनस्य रिक्थिन इति पौत्ररूपरिक्थिविषयम् । तेषां हि पुत्रवतो ऽपि पितामहस्य रिक्थग्रहणयोग्यतास्ति नान्येषां भ्रात्रादीनाम् । यद् आह मनुः ।

न भ्रातरो न पितरः पुत्रो रिक्थहरः पितुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ॥

वक्ष्यति हि ।

प्रमीतपितृकाणां तु पितृतो भागकल्पना । इति ।

तत्र पुत्रपौत्रैर् ऋणं देयम् इत् पुत्रवतो ऽपि पितामहस्य पौत्रैर् ऋणम् अपाकरणीयम् इति अतिप्रसङ्गं निवारयितुम् इदम् उच्यते — पुत्रहीनस्य रिक्थिन इति । अत्र रिक्थिशब्दो रिक्थग्रहणयोगे वर्तते न गृहीतरिक्थ एव । तेन निर्धनस्य पितामहस्य पुत्राभाव एव पौत्रा ऋणापकरणे ऽधिक्रियन्ते न पुत्रसद्भावे । गृहीतरिक्थास् तु पुत्रसद्भावे ऽपि । पैतामहम् ऋणं देयं यथांशम् अपाकुर्युः । अत एव नारदः ।

अत ऊर्ध्वं पितुः पुत्रा ऋणं दद्युर् यथांशतः ।
विभक्ता वाविभक्ता वा यस् तां चोद्वहते धुरम् ॥
अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपि हि नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे झैष्ठ्यं गुणवयःकृतम् ॥

तथा ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुअर्थान् निवर्तते ॥

पुत्रो ऽनन्याश्रितद्रव्य इत्य् अस्यापरा व्याख्या — अन्यशब्देनात्र प्रकृतत्वात् पितोच्यते । तेनान्याश्रितद्रव्यशब्देन पितृधनम् उच्यते । तन् न विद्यते यस्य सो ऽनन्याश्रितद्रव्यः पुत्रः । अतो रिक्थग्राहयोषिद्ग्राहयोर् अभाव ऋणं दाप्यः । तत्सद्भावे तु ताव् एव यथाक्रमं दाप्यौ । सन्ति दायानर्हा अपि केचन पुत्राः । यथा द्वादशविधेषु पुत्रेषूच्यमानेषु षाट्पुत्रान् अभिधायाह वसिष्ठः- “दायादबान्धवाः” इति । तथा- “यस्य पूर्वेषां षण्णाम् न कश्चिद् दायहरः स्याद् एते तस्य दानं हरन्तु” इति । तथा- “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च” इति । एषाम् अयम् अर्थः सिद्धः — रिक्थग्राहः पुत्रादिर् दाप्यस् तदभावे योषिद्ग्राहस् तस्याप्य् अभावे दायानर्हः पुत्र इति । तथाह नारदः । [६५४]

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥

अत्र स्त्रीहारिधनहारिणोर् अभावे पुत्र ऋणप्रद इत्य् अभिधायोक्तं धनिपुत्रयोर् अभावे स्त्रीहारी ऋणप्रद इति । तत्र पूर्वोक्तस्त्रीहारी पुत्रसद्बाव ऋणभाक् । अन्यस्त्रीहारी तु पुत्राभाव इति व्यव्स्था । नारद एव ।

पुत्रिणी च समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् ।
तस्या ऋणी हरेद् सर्वं निःस्वायाः पुत्र एव तु ॥

ऋणी स्त्रीहारी । तथा च स एवाह ।

अधनस्य ह्य् अपुत्रस्य मृतस्योपैति य स्त्रियम् ।
ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥ इति ।
या तु सप्रधनैव स्त्री सापत्या चान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥

प्रकृष्टं धनं प्रधनं तत्सहिता सप्रधना । कात्यायनः ।

बालपुत्राधिकार्था च भर्तारं यान्यम् आश्रिता ।
आश्रितस् तद् ऋणं दद्याद् बालपुत्राविधिः स्मृतः ॥
दीर्घप्रवासिनिर्बन्धजडोन्मत्तार्तलिङ्गिनाम् ।
जीवताम् अपि दातव्यं तत्स्त्रीद्रव्यं समाश्रितैः ॥ २.५१ ॥

विषयविशेषे सप्रसङ्गम् ऋणप्रतिषेधम् आह

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ २.५२ ॥

भ्रात्रादीनाम् अविभक्ते धने परस्परं प्रातिभाव्यादिकं कर्तव्यतया न स्मृतम् । किं तु प्रतिषिद्धम् एव । दम्पती जायापती । प्रतिभुवो भावः प्रातिभाव्यम् । दर्शनविश्वासदानाङ्गीकारकर्ता प्र्तिभूः । ऋणं प्रसिद्धम् । साक्षिणो भावय साक्ष्यम् । अत्राविभक्तग्रहणं भ्रातृविषयम् । पितापुत्रविषय वा । न जायापतिविषयम् । न हि तयोर् धनविभागो ऽस्ति, पतिधने हि जाया स्वामिणी जायात्वाद् एव । अतो दम्पत्योः साधारणं धनम् अशक्यं विभक्तुम् । अत एव आपस्तम्बः- [६५५] “जायापत्योर् न विभागो पाणिग्रहणाद् धि सहत्वं कर्मसु । तथा पुण्यफलेषु द्रव्यपरिग्रहेषु च” इति । नारदः ।

साक्षित्वं प्रातिभाव्यं च दानग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥
एषां चैताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तान् अवगच्छेयुर् लिख्यम् अप्य् अन्तरेण तान् ॥ २.५२ ॥

प्रातिभाव्यविशेषांस् तत्फलविशेषांश् चाह

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ २.५३ ॥

दर्शनविश्वासदानेषु प्रतिभूत्वं विधीयते । तत्र दर्शनविश्वासप्रतिभुवो वितथत्वे मिथ्याभावे सति ताव् एव विवादास्पदीभूतं धनं धनिने दाप्यौ । यस् तु दानप्रतिभूस् तस्य मिथ्यात्वे मिथ्याभावे स दाप्यस् तदभावे तत्पुत्राः । बृहस्पतिः ।

दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥
आहैको दर्शयामीति साधुर् एषो ऽपरो ऽब्रवीत् ।
आदौ तु वितथे दाप्यौ तत्कावावेदितं धनम् ॥
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥

कात्यायनः ।

दानोपस्थानविश्वासविवादशपथाय च ।
लग्नकं दापयेद् एव यथायोगं विपर्यये ॥

उपस्थानं दर्शनम् । विवादो व्यवहारः । शपथं दिव्यम् । दानविश्वासौ प्रसिद्धौ । एष्व् अर्थेषु लग्नकं प्रतिभुवं विवादधनं दापयेत् । तथा ।

दर्शनप्रतिभूर् यस् तं देशे काले न दर्शयेत् ।
निबन्धम् आवहेत् तत्र चैवं राजकृताद् ऋते ॥

निबन्धं देयं द्रव्यम् । [६५६] तथा ।

नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥

तथा ।

गृहीत्वा बन्धकं यस् तु दर्शनस्य स्थितो भवेत् ।
विभाव्य वादिना तत्र दाप्यः स्यात् तद् ऋणं सुतः ॥

यो ऽधमर्णाद् बन्धकं गृहीत्वा दर्शनप्रतिभूत्वम् अङ्गीकृत्य मृतस् तस्य सुतस् तव पिता बन्धकग्रहणपूर्वकं प्रातिभाव्यं कृतवान् इति साधयित्वा विवादास्पदं धनं वादिना दाप्यः । असौ यथा ददाति तथा कार्यम् इत्य् अर्थः । बृहस्पतिः ।

नष्टस्यान्वेषणं कालं दद्यात् प्रतिभुवे धनी ।
देशाध्वरूपतः पक्षं मासं सार्धम् अथापि वा ॥
नात्यन्तं पीडनीयाः स्युर् ऋणं दाप्याः शनैः शनैः ।
स्वसाक्ष्येण नियोज्याः स्युर् विधिः प्रतिभुवाम् अयम् ॥
साधुत्वाच् चेन् मन्दधिय ऋणं दद्युर् अभाविताः ।
यद् अर्थं दापितास् तस्मान् न लभेरन् कथंचन ॥ २.५३ ॥
दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय ये स्थिताः ॥ २.५४ ॥

प्रात्ययिको विश्वासप्रतिभूः । पौत्रनिवृत्त्यर्थो ऽयम् अनुवादः । तेन दानप्रतिभुवः पौत्रा न दापनीयाः । आह च व्यासः ।

ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥

पैतामहम् ऋणं समं वृद्धिरहितं दद्यात् । एवं प्रातिभाव्यनिमित्तं प्रतिभूपुत्रः । तयोर् अधमर्णपौत्रप्रतिभूपौत्रयोः पुत्राव् ऋणं प्रातिभाव्यागतं च न दाप्यौ । कात्यायनः ।

प्रातिभाव्यागतं पौत्रैर् दातव्यं न तु तत् क्वचित् ।
पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ॥

प्रातिभाव्यागतम् ऋणं सर्वत्र पुत्रेण समं देयम् । पौत्रैर् न देयम् इत्य् अर्थः ॥ २.५४ ॥

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥ २.५५ ॥

बहवः पुरुषा एकं प्रतिभूत्वां यदावलम्बन्ते तदा ते यथांशम् उत्तमर्णाय धनं दद्युः । यदा त एकच्छायाश्रिताः प्रत्येकं विकल्पेन सकलधनदायकत्वम् [६५७] आश्रितास् तदा धनिकेछानुसारेण देयम् । तेषां मध्ये धनिको यं याचते स दद्याद् इत्य् अर्थः । एकाम् अधमर्णस्य छायां सादृश्यं प्रत्येकं श्रिता एकच्छायाश्रिताः ॥ २.५५ ॥

अधमर्णैः प्रतिभुवि यत् कर्तव्यं तद् आह

प्रतिभूर् दापितो यत्र प्रकाशं धनिने धनम् ।
द्विगुणं तत्र दातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ २.५६ ॥

यत्र व्यवहारे प्रकाशं जनसमक्षं प्रतिभूर् अधमर्णदेयधनम् उत्तमर्णाय दापितो ददाति तत्र व्यवहारे तद् धनं द्विगुणम् अधमर्णैर् देयम् । अधमर्णैर् इति बहुवचनम् विवक्षितम् । नारदः ।

याम् चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिदापयेत् ॥

पीडित इति वचनाद् अपीडिताय समम् एव देयम् । तद् आह कात्यायनः ।

यस्यार्थे येन यद् दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर् भावितेनैव प्रतिभूस् तत् समाप्नुयात् ॥

तथा ।

प्रातिभाव्यं तु यो दद्यात् पीडितैः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥ २.५६ ॥

सर्वत्र द्वैगुण्ये प्राप्ते कालात्यये सति यस्य द्रव्यस्य या परा वृद्धिर् उक्ता तां प्रतिभुवे दद्याद् इत्य् आह

संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणः स्मृतः ॥ २.५७ ॥

याः पशुस्त्रियो गोमहिष्यादयः उत्तमर्णाय प्रतिभुवा दत्ताः सत्यो यावत् संततिमत्यो जातास् तावत् संतितिकास् ता अध्मर्णेन प्रतिभुवे देयाः । स्पष्टम् अन्यत् ॥ २.५७ ॥

धनिकस्य विस्रम्भहेतुः प्रतिभूर् आधिश् चेति प्रतिभूप्रकरणानन्तरं प्रसक्तम् आधिकरणम् आरभते । तत्राधिस्वरूपं तावन् नारद आह ।

_ अधिक्रियत् इत्य् आधिः स विज्ञेयो द्विलक्षणः ।_

_ कृतकालापनेयश् च यावद् देयोद्यतस् तथा ॥_

_ स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ॥ इति ।_

तत्रैतावति काले गते धनं दत्वायं मया मोक्ष्यते न चेत् तवैव भवतीति [६५८] कृत आधिः कृतकालापनेयः, यावद् धनं ते ददामि तावद् अयम् आधिर् इत्य् एवं कृतो यावद् देयोद्यतः । सो ऽपि प्रत्येकं गो ऽप्य् अभोग्यतया द्विविध इति । तत्र यस्याधेर् यस्मिन् निमित्ते सत्याधित्वनाश उत्तमर्णं प्रति च स्वत्वापत्तिर् यस्य न भवति तद् उभयम् आह

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ २.५८ ॥

आधिर् उक्तलक्षणो वृद्धिदानाभावे निमित्ते मूलधनद्वैगुण्ये जाते तावद् धनं दत्वाधमर्णेन यदि न मोक्ष्यते तदासौ नश्येद् अधमर्णस्य स्वं न भवेत्, किं तूत्तमर्णस्यैव भवेद् इत्य् अर्थः । यस् तु कालकृतः कृतकालापनेयः स यदि संप्रतिपन्ने काले न मोक्ष्यते ऽधमर्णेन स पूर्ववन् नश्येत् । फलभोग्यस् त्व् आधिर् न कदाचिन् नश्येत् । किं तूत्तमर्णेन यावत् स्वधनं प्राप्यते तावद् उत्पन्नं फलम् एव भोक्तव्यम् । अत्र व्यासः ।

हिरण्ये द्विगुणीभूते पूर्णे काले कृते ऽवधौ ।
बन्धकस्य धनी स्वामी द्विसप्ताहं परीक्ष्य तु ॥
अतो ऽन्तरा धनं दत्वा ऋणी बन्धकम् आप्नुयात् ॥

बृहस्पतिः।

गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालो यथाविधि ।
श्रावयित्वा ऋणिकुले भोक्तव्यः समनन्तरम् ॥
तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ॥

कात्यायनः ।

आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।
राज्ञा ततः स विख्यातो विक्रेय इति धारणा ॥
सवृद्धिकं गृहीत्वा तु शेषं राजन्य् अथार्पयेत् ॥ २.५८ ॥
गोप्याधिभोगे नो वृद्धिः सोपकारे ऽथ हापिते ।
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ २.५९ ॥

गोप्यस्याधेर् गोमहिषीवस्त्रहिरण्यरजतादेर् उत्तमर्णेन वाहनदोहनभूषणादौ भोगे कृते नो वृद्धिर् भवति प्रयुक्तं धनं न वर्धत इत्य् अर्थः । तथा सोपकारे फलभोग्यभूम्यादाव् उपेक्षया हापिते हानिं नीते नो वृद्धिर् इति संबन्धः । हानिर् अत्र कार्याक्षमत्वम् । यत्राधमर्ण आधेर् उपभोगं वृद्धिदानं वाभ्युपगच्छति तद्विषयम् एतत् । दैवराजव्यापारं विनोभयविधो ऽप्य् आधि नष्टो विनष्टो [६५९] वाधमर्णायोत्तमर्णेन देयः । नष्टो विकृतः । विनष्टः प्रध्वस्तो ऽपहृतो वा । बृहस्पतिः ।

भुक्ते चासारतां प्राप्ते मूलहानिः प्रजायते ।
बहुमूल्यं यत्र नष्टम् ऋणिकं तत्र तोषयेत् ॥

व्यासः ।

ग्रहीतृदोषान् नष्टश् चेद् बन्धो हेमादिको भवेत् ।
ऋणं सलाभं संशोध्यं तन्मूल्यं दाप्यते धनी ॥

ग्रहीता धनिकः । बन्धो बन्धक आधिर् इत्य् एको ऽर्थः । कात्यायनः ।

अकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा न लभेत सः ॥

चेतनरूपाधिविषयम् एतत् । नारदः ।

विनष्टे मूलहानिः स्याद् दैवराजकृताद् ऋते ।

मनुः ।

न एव् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।
यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते विचक्षणः ॥
तेनार्धवृद्धिर् भोक्तव्या तस्य भोगस्य निष्कृतिः ॥

अल्पभोगविषयम् एतत् । महोपभोगे तु गोप्याधिभोगे न वृद्धिर् इत्य् उक्तम् । ततश् च भोगानुसारेण वृद्धिहान्यनुसारः कार्यः ॥ २.५९ ॥

आधिसाधनम् आह

आधेः स्वीकरणात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् ।
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ २.६० ॥

आधेः स्वीकरणात् परिग्रहाद् आधित्वसिद्धिः । स्वीकरणं च भोग्यादौ भोगपर्यन्तम्, गोप्याधौ तु भाण्डागारप्रवेशपर्यन्तम् । तथा च नारदः ।

आधिश् च द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥

बृहस्पतिः ।

क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।
येन भुक्तं भवेत् पूर्वं तस्य सिद्धिम् अवाप्नुयात् ।
तुल्यकालोपस्थितयोर् द्वयोर् अपि समं भवेत् ॥

विष्णुः- “गोचर्ममात्राधिकां भुवम् अन्यस्याधीकृतां तस्माद् अनिर्मोच्यान्यस्य यः प्रयच्छेत् स वध्यः । ऊनां चेत् षोडश सुवर्णान् दाप्यः ।

एको ऽश्नीयाद् यद् उत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥

[६६०] ययोर् निक्षिप्त आधिस् तौ विवदेतां यदा नरौ ।

यस्य भुक्तिर् जयस् तस्य बलात्कारविना कृता ॥

यद्य् असाव् आधिर् धनिना रक्ष्यमाणो ऽप्य् असारताम् अवलम्बते यात्य् एकया संवत्सरवृद्ध्या सहितं मूलधनम् अपाकर्तव्यम् । न शक्नोति चेत् तदाधर्मर्णेनान्य आधिर् आधेयः । धनं वा स्वप्रयुक्तं धनी लभते ॥ २.६० ॥

आधिः प्रणश्येद् द्विगुणम् इत्य् अस्यापवादम् आह ।

चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ॥ १.६१ ॥

चरित्रधर्मः स एव बन्धकम् आधिस् तेन यत् कृतम् ऋणं तद् वृद्धिसहितम् उत्तमर्णायाधमर्णं दापयेत् । न तत्राधिनाशो ऽस्तीत्य् अभिप्रायः । तेन धनम् अप्रयच्छतो ऽधमर्णस्य नास्त्य् आनृण्यांशता । इदम् अपाकर्तव्यम् इति संविदं कृत्वा यद् द्रव्यं प्रथमम् अर्प्यते तत् सत्यंकारकृतम् । तद्द्विगुणं विक्रेता स्वकीयदोषवशेन क्रयासिद्धौ क्रेत्रे दद्यात् । एतच् च प्रसङ्गाद् उक्तम् ॥ २.६१ ॥

उपस्थितस्य मोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् ।
प्रयोजके ऽसति धनं कुले न्यस्याधिम् आप्नुयात् ॥ २.६२ ॥

अधमर्णस्य धनप्रदानपूर्वकम् आधिमोक्षायोद्यतस्योत्तमर्णेन धनम् आदायाधिः प्रत्यर्पणीयः, अन्यथोत्तमर्णश् चौरदण्डभाग् भवेत् । प्रयोजक उत्तमर्णः । तस्मिन्न् असति मृते प्रोषिते वाधर्मणस् तदीयं धनं तत्कुटुम्बे न्यस्य निक्षिप्य स्वकीयम् आधिं लभेत ॥ २.६२ ॥

प्रकारान्तरम् आह

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः ।

तस्मिन्न् ऋणापाकरणकाले कृतमूल्यो ऽवधारितमूल्यो वृद्धिरहित एवाधिः प्रयोक्तृकुले तिष्ठेत् । यावत् प्रयोक्तुर् आगमनम् । आगते च तस्मिन्न् आधिं तन्मूल्यं वाधमर्णो गृह्णीयात् । प्रोषितप्रयोक्तृविषयं चैतत् ।

उत्तमर्णेन मूलधनं द्विगुणं फलभोग्याधेर् उपजीव्याधमर्णाय स आधिः प्रत्यर्पणीय इत्य् अनन्तरं वक्ष्यति । तत्र विषये यद्य् अधमर्णस् तदीयो वा स्वजनः को ऽप्य् असंनिहितो विद्यते तदोत्तमर्णेन साक्षिसमक्षं स आधिर् विक्रेतव्य इतीदानीम् आह —
विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ २.६३ ॥

[६६१]

धारणकाद् अधमर्णाद् विना तदस्ंनिधानाद् इति यावत् । वाशब्दस् तत्स्वजनासंनिधिसमुच्चयार्थः ॥ २.६३ ॥

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६४ ॥

इति ऋणादानम् ॥ ३ ॥

यदा खलु मूलधनं द्विगुणीभूतं प्रत्याधिः क्रियते । तस्मात् फलभोग्यआद् आधेर् उत्पन्नं धनं त्वया तावद् उपजीव्यं यावन् मूलधनं द्विगुणम् उपजीवितं भवति तदनन्तरम् आधिर् मां प्रत्यर्पणीय इति यावत् । तदा तस्मिन् विषये तत आधेर् द्विगुणे धने प्रविष्टे सत्य् आधिर् उत्तमर्णेनाधमर्णाय देयः । एवं च सति,

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।}

इत्य् अनेन वाक्येन यदा तु द्विगुणीभूतम् इत्य् असैव विरोधो नैवाशङ्कनीयो भिन्नविषयत्वात् । तथा हि — द्विगुणे मूलधने प्रविष्टे आधिर् मोच्यत इति उत्तमर्णाधमर्णयोः संप्रतिपत्तिविषयं यदा तु द्विगुणीभूतम् इत्यदिकं वाक्यम् । प्रयुक्तस्य धनस्य प्रतिपादनावधि य आधिः कृतस् तद्विषयम् आधिः प्रणश्येद् द्विगुण इत्यादिकम् । यदा तु द्विगुणीभूतम् इत्यादिवचनप्रतिपादित आधिः क्षयाधिर् इति कथ्यते । स च ऋणव्यवहारारम्भे मध्ये वा कृतो भवत्य् एव क्षयावधिः । इति ऋणादानम् ॥ २.६४ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदपरादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्क

ऋणादानप्रकरणम् ॥ ३ ॥ ]