०२ असाधारण-व्यवहार-मातृका-प्रकरणम्

[अथ सटीकायाज्ञवल्क्यस्मृतौ

असाधारणव्यवहारमातृकाप्रकरणम् । (२) ]

सामान्यतश् चतुर्धा व्यवहारः । तस्येदानीं क्रमम् आह

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९ ॥

स्वस्याक्षेपं परेण कृतम् अनुद्धृत्यैनं क्षेप्तारं न प्रत्यभियोजयेन् नाक्षिपेत् । तत्र व्यवहारे स्वयं प्रतियोगी तं परेणार्थिना प्रक्रान्तं परिसमाप्य पश्चात् स्वयम् अर्थी भूत्वानेन सह व्यवहारान्तरम् आरभेतेत्य् अर्थः । तथान्येनार्थिनाभियुक्तं तावन् नाभियुञ्जीत । यावत् स व्यवहारो न परिसमाप्यते । तथा यत् स्वयं व्यवहाराङ्गतयोक्तं तद्विप्रकृतिं विरोधं न नयेन् न प्रापयेत् । पूर्वापरविरुद्धं न भाषेतेत्य् अर्थः ॥ २.९ ॥

अत्रापवादम् आह

कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च ।

कलहादाव् अभियुक्तो ऽभियोगम् अनिस्तीर्यापि प्रत्यभियोगं कुर्यात् । यथाहम् अनेन शप्तस् ताडितो वेत्य् अभियुक्तः परिहारम् अकृत्वैव ब्रूते — अहम् अनेन शप्तस् ताडितो वेति । अत एवात्र विषये निर्णयम् आह नारदः ।

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

आक्षारयेद् अपराध्नुयात् । युगपदपराधे ऽपि स एवाह ।

पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न लभ्येत विनयः स्यात् समस्तयोः ॥

विनयो दण्डः । कलहो वाक्पारुष्यम् । साहसो दण्डपारुष्यम् ॥

वादिप्रतिवादिकार्यम् उक्तम् । अधुना परीक्षकाणां कार्यम् आह

उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१०। ॥

[६१८]

उभ्ययोर् अर्थिप्रत्यर्थिनोः प्रतिभूर् ग्राह्यो यः समर्थः कार्यनिर्णये निर्णीतकार्यविषय इत्य् अर्थः । निर्णीते च कार्ये जितवतो धनदानं राज्ञे च दण्डदानम् । प्रतिभूग्रहणं वस्तुसामर्थ्यान् निर्णयकरणस्य पुरस्ताद् भवति । प्रतिभुवो ऽसंभवे कात्यायन आह ।

अथ चेत् प्रतिभूर् नास्ति कार्ययोग्यस् तु वादिनोः ।
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥

स पराजितो वादी ॥ २.१० ॥

पराजितं प्रत्य् आह

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ १.११ ॥

निह्नवो मिथ्योत्तरम् । तद्वादी पूर्ववादिना भावितो दैवमानुषप्रमाणबलेन प्रतिज्ञातम् अर्थम् अङ्गीकारितस् तद् अग्रवादिने तत्समं च राज्ञे दण्डं दद्यात् । यस् तु प्रमाणरहितम् अभियोगं कुरुते सो ऽभियोगाद् अभियोगविषयाद् धनाद् द्विगुणं धनं वहेद् राज्ञे प्रापयेत् । एतच् च सपणव्यवहारविषयम् । अस्ति च पणरहितो ऽपि व्यवहारः । यत् आह नारदः ।

सोत्तरो ऽनुत्तरश् चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽत्यधिको यत्र विलेखात् पूर्वकः पणः ॥

भाषालेखात् पूर्वत्र विवादविषयाद् धनाद् अधिकः पणो यत्रोपेयते स सोत्तरो व्यवहारः ॥ २.११ ॥

व्यवहारदर्शनं प्रति विषयविशेषे कालविशेषम् आह

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्म्र्तः ॥ २.१२ ॥

सहसा बलेन हठाज् जनसमक्षं यत् परहिंसादि क्रियते तत् साहसम्, स्तेयं प्रसिद्धम्, पारुष्यं वचसा कायेन वा परस्य दुःखोत्पादनम्, गोशब्द उपजीव्यद्रव्योपलक्षणार्थः । अभिशापः पापाभिशंसनम् । तस्य पारुष्यान्तर्भावे ऽपि पृथग्वचनम् आदरार्थम् । अत्ययो विनाशः । एषु विषयेषु स्त्रीविषये च सद्यस् तद् अहर् एव विवादयेद् व्यवहारं पश्येत् । उक्तविषयाद् अन्यत्र यद्य् उत्तरवादी सद्यो [६१९] नोत्तरं दातुं इच्छति किं तु कालान्तरे तदा तदिच्छातो ऽन्यो ऽप्य् उत्तरस्य कालो भवति । अत्र बृहस्पतिः ।

विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञार्थे स्थिरीभूते लेखयेद् उत्तरं ततः ॥
शालीनत्वाद् भूयात् तद्वत् प्रत्यर्थी स्मृतिविभ्रमात् ।
कालं प्रार्थयते यत्र तत्रेमं लब्धुम् अर्हति ॥

कात्यायनः ।

सद्यःकृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीते तु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥

सद्यःकृतेषु स्मृतिसंभवात् सद्य एवोत्तरदानम् इत्य् अभिप्रायः ।

श्रुत्वा लेखयतो ह्य् अर्थं प्रत्यर्थी कारणाद् यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ॥
सद्यःकृते सद्य एव समातीते दिनं क्षिपेत् ।
षडब्दिके त्रिरात्रं तु सप्ताहं द्वादशाब्दिके ॥
विंशात् परे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥
कालात् संवत्सराद् अर्वाक् त्व् अयम् एषां यथेप्सितम् ।
कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ॥
अल्पं वा बहुकालं वा दद्यात् प्रत्यर्थिने प्रभुः ।
यो वा यस्मिन् समाचारः पारम्पर्यक्रमागतः ॥
तं परीक्ष्य यथान्यायम् उत्तरं दापयेन् नृपः ।
मूलं वा साक्षिणो वाथ परदेशस्थिता यदा ॥
तत्र कालो भवेत् पुंसां स्वदेशे दातुमासमात् (स्वदेशसमागमात्?) ।

समा वर्षम्, मूलं धनम् । साक्षिग्रहणं प्रमाणोपलक्षणार्थम् । येषां देशान्तरे धनं प्रमाणं वा साक्ष्यादि विद्यते तेषां पुंसां यावता कालेन तन्मूलधनाद्य् आनीयते तावकालस् तेषां दातुम् अर्हो भवतीत्य् अर्थः ।

दिनं मासार्हमासौ वा ऋतुः संवत्सरो ऽपि वा ।
क्रियास्थित्यनुरूपस् तु देयः कालः परेण तु ॥

तथा ।

धेन्वाम् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥

[६२०] कन्याया दूषणे स्तेये कलहे साहसे निधौ ।

उपाधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥
व्यपैति गौरवं यत्र विनाशस् त्याग एव च ।
कालं तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥ २.१२ ॥

दुष्टलक्षणान्य् आह ।

देशाद् देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ २.१३ ॥
परिशुष्यत्स्कलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि ॥ २.१४ ॥
स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगे ऽथ वा साक्ष्ये दुष्टः स परिकीर्तितः ॥ २.१५ ॥

सृक्किणी गल्लयोर् अन्तर्भागौ परितः सर्वतो लेढि जिह्वया स्पृशति । परिशुष्यतास्येनोच्चार्यमाणं वाक्यं परिशुष्यत् । परिशुष्यत्स्खलद्वाक्यम् अस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धम्, वाक्चक्षुषोः पूजा प्रसन्नता । निर्भुजति वक्री करोति । स्वाभाविको धर्मः स्वभावः । तस्मात् स्वभावाद् विकृतिर् वैपरीत्यम् । तत्र मनःकर्मणो विकृतिर् अज्ञानसंशयविपर्ययाः । वाक्कर्मणस् तु गद्गदत्वादिकम् । कायकर्मणः कम्पादि । य एवंविधः सो ऽभियोगे व्यवहारे साक्षित्वे च दुष्टो वितथवादी प्रकीर्तितः । अन्यत् सुगमम् । तत्र मनुः ।

बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥
आकारेणेङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥

यदि दुष्टलक्षणानां दुष्टतायां प्रामाण्यं तदा तैर् एव वादिनः प्रतिवादिनो वा पराजये ऽवधारिते दैवमाउषप्रमाणम् अन्तरेणैव व्यवहारसमाप्तिः स्याद् इति दिव्यादिप्रमाणैर् वैयर्थ्यम् (-प्रमाणवैयर्थं?) स्यात् । दुष्टलक्षणाभावे तदर्थवद् इति यद् उच्यते, तर्हि लिखितादिप्रमाणानाम् असाक्षिकत्वेन विधानं नोपपद्यते । उक्तं हि “क्रियापादस् तृतीयः स्यात्” इति । तस्मान् नैतानि दुष्टतायां प्रमाणानि किं तु [६२१] वादिप्रतिवादिनोर् मध्ये कः प्रमाणं करोत्व् इति जिज्ञासायाम् । यत्रैतानि न सन्ति स प्रमाणार्ह इत्य् अवधारणोपयोगितयैषाम् उपन्यासः । ननूत्तरविशेषे सति वादिविशेषं प्रति प्रमाणोपन्यासे वचनतो ऽवधृते पूर्वोक्तजिज्ञासाया अनवसर एव । सत्यम् एवम् ऋणादानादौ । चौर्याद्यभिशापादौ तु दिव्ये प्राप्ते भवति जिज्ञासा । दिव्यं हि मिथ्योत्तरवादिनो ऽपि संभवति न लेख्यसाक्ष्यादिकम् । तस्मात् तर्कवद् एषां प्रमाणानुग्राहकत्वं न प्रमाणत्वम् । युक्तं चैतत् । दोषम् अन्तरेणापि भयादिना तेषाम् उपपत्तेः ॥ २.१३, १४, १५ ॥

हीनत्वे कारणान्य् आह

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ २.१६ ॥

साधकबाधकप्रमाणयोर् अपरीक्षणाद् ग्राह्याग्राह्यत्वेन संदिग्धम् अर्थं स्वतन्त्रः परीक्षकादिनिरपेक्षो यो हठेन साधयेत् परम् अङ्गी कारयेत् । यश् च शास्त्रदृष्टोपायेन साधितम् अप्य् अर्थम् अप्रदाय निष्पतेत् पलायेत । यश् च व्यवहारार्थं राज्ञाहूतः स्वपक्षसाधकं परपक्षबाधकं वा न वदेत् । स हीनः स पराजितश् च राज्ञा च दण्ड्यः । साधितं च साधकाय देयम् । हीनस्य दण्डो यत्र वचनं तत्रैवेति ज्ञापयितुं दण्ड्यश् चेति पृथग्वचनम् । नारदः ।

अनिवेद्य तु यो राज्ञे संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चास्यार्थो न सिध्यति ॥
अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते नरः ।
वादसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥
सम्यक्प्रणिहितं यो ऽर्थं पृष्टः सन् नाभिनन्दति ।
अपदिश्य यम् उद्देश्यं पुनस् तम् अनुधावति ॥

[६२२] सन्ति ज्ञातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।

धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ॥

धर्मस्थः सभ्यो राजा वा । कात्यायनः ।

श्रावयित्वा यदा कार्यं त्यजेद् अन्यद् वदेद् असौ ।
अन्यपक्षाश्रयस् तेन कृतो वादी स हीयते ॥
व्याजेनैव तु यत्रासौ दीर्घकालम् अभीप्सति ।
सापदेशं च तद् विद्याद् वादहानिकरं स्मृतम् ॥

अपदेशश् छलम् ।

लेखयित्वा तु यो वाक्यं न्यूनं वाप्य् अधिकं पुनः ।
वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥

अभियोगः पूर्ववादः । स पूर्ववादी । तथा ।

न मयाभिहितं कार्यम् अभियुज्य परं वदेत् ।
विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥

अयम् अर्थः — विगताभियोगार्थः कार्यं साध्यं प्रतिज्ञाय न मयैतत् प्रतिज्ञातम् इति पूर्वापरविरुद्धं ब्रवीति यस् तं हीनं निर्दिशेद् इति ।

साक्षिणो यस् तु निर्दिश्य कामतो न विवादयेत् ।
स वादी हीयते तस्मात् त्रिंशद्रात्रात् परेण तु ॥

बृहस्पतिः ।

आहूतप्रपलायी च मौनी साक्षिपराजितः ।
स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥
प्रपलायी त्रिपक्षेण मौनी वा सप्तभिर् दिनैः ।
साक्षिभिन्नस् तत्क्षणेन प्रतिपन्नश् च हीयते ॥

प्रतिपन्नः प्रतिवादिनः संप्रतिपन्नः । नारदः ।

आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् ।
नोपस्थितो यदा कश्चिच् छलं तत्र न कारयेत् ॥
दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥
पूर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते ।
प्रशमय्य मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥ २.१६ ॥

[६२३]

किं च

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ २.१७ ॥

उभयतः साक्षिसंभवे पूर्वपक्षवादिना निर्दिष्टाः साक्षिणः प्रमाणं भवन्तीत्य् उत्सर्गः । यदा तु पूर्वपक्षो ऽधरो जातस् तदोत्तरवादिनिर्दिष्टाः साक्षिणः प्रमाणं भवन्ति । कः पुनर् व्यवहारो ऽस्य वाक्यस्य विषयः । न तावन् मिथ्योत्तरवान् । न हि तत्र वादिद्वयस्य साक्षिणः संभवन्ति । तथा हि — [सुवर्णशतं मे धारयसीति] पूर्वपक्षवादिनाभियुक्तो नाहं धारय इत् मिथ्योत्तरवादी ब्रूते । तत्र साक्षिणाम् असंभव एव, यो ह्य् अर्थो ऽन्येषाम् उपलब्धुं योग्यस् तत्रैव तेषां साक्षित्वसंभवः । न च मिथ्यावाद्युक्तो ऽर्थः परेषाम् उपलम्भयोग्यो येन ते तत्र सक्षिणः स्युः । भुक्तिलिखितयोस् तु प्रमाणत्वम् अत्र नाशङ्कनीयम् एव । तस्मान् न मिथ्योत्तरवान् व्यवहारो ऽस्य विषयः । नापि प्रत्यवस्कन्दोत्तरवान् । तत्र पूर्वपक्षवादिनः प्रमाणोपन्यासोपयोगाभावात् । तथा हि — सुवर्णशतं धारयसीति पूर्ववादी सति प्रत्यवस्कन्दे ब्रूते — सत्यं धारितवान् अस्मि किं तु मया तत् तुभ्यं दत्तम् इति धारणस्य परेणाङ्गीकृतत्वान् न परमाणसाध्यता । सिध्य्(द्ध)साध्यताप्रसङ्गात् । किं तु प्रतिवादिन एव प्रमाणम् उत्तरवादिना वाच्यम् । एवं प्राङ्न्यायोत्तरवान् अपि व्यवहारो नास्य वाक्यस्य विशेषः । न ह्य् उत्तरवादिनिर्दिष्टैर् एव साक्षिभिः प्राङ्न्यायदर्शिभिस् तैर् दत्तेन वा जितपत्रेण पूर्ववादिनः पराजय उत्तरवादिनश् च विजयः सिध्यति । तस्मान् निर्विषयम् इवेदं वाक्यं प्रतिभाति । उच्यते — प्रत्यवस्कन्दप्राङ्न्यायोत्तरवान् न्यायो ऽस्य विषयः । सन्ति हि तत्र पूर्ववादिनो ऽपि साक्षिणः । तथा हि — प्रत्यवस्कन्दिना यद् धारितवन् अस्मि तन् मया तुभ्यम् अर्पितम् इत्य् उक्ते पूर्ववादी यदैव(वं) प्रत्युत्तरं कुरुते — सत्यं त्वयार्पितं तत् तु पुरुषान्तराय दत्तं न तु मां प्रत्य् आत्मानम् अनृणीकर्तुम् । एतच् च साक्षिभिर् अहं संभावयामीत्य् एवंविधोत्तरप्रत्युत्तरयोर् उभयतः साक्षिसद्भावः । तथा प्राङ्न्यायोत्तरे ऽपि यदैव(वं) पूर्ववाद्य् उत्तरं करोति — सत्यं प्राङ्न्याये कदचित् त्वयाहं पराजितो ऽस्मि किं तु तन्न्यायं कुदृष्टं कृत्वा न्यायान्तरे मया भवान् पराजित इति । तदोभ्यत्रापि साक्षिसद्भावः । तत्रेदं वचनम् । [६२४]

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । इति ।

यदा तु पूर्ववादिनः प्रत्युत्तरभावाद् अधरीभावस् तदेदम् उच्यते ।

पूर्व्पक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः । इति ।

अत एव नारदः ।

द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥

कात्यायनः ।

कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरत्वं प्रपद्यते ।
अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधनी ॥

क्रिया प्रत्याकलना । नारदः ।

आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवदिनः ॥ २.१७ ॥

पराजितेन व्यवहारविशेष्(षे) यद् देयं तद् आह ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ २.१८ ॥

पणसहितश् चेद् विवादो व्यवहारस् तस्मात् तत्र हीनं पराजितं वादिनं शास्त्रोक्तदण्डसहितं पणं राज्ञे, साधितं च धनं धनिने, प्राङ्विवाको दापयेत् । प्राड्विवाकाभावे राजा स्वयम् एव गृह्णीयात् । धनं च धनिने दापयेत् । जितेन मयैतावद् देयम् इत्य् अभ्युपेतं धनं पणः ॥ २.१८ ॥

व्यवहारे द्रष्टव्ये नृपं प्रति हेयम् उपादेयम् आह ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥ २.१९ ॥

वादिना प्रतिवादिना वाभिधीयमानं छलं प्रमादं वा परित्यज्य भूतेन तात्त्विकेनार्थेन विशिष्टान् व्यवहारान् नयेन् निर्णयेत् । यतो भूतम् अपि वस्तु वादिप्रतिवादिभ्याम् अनुपन्यस्तम् अनिवेदितं व्यवहारतो व्यवहारेण हीयते त्यज्यते । व्यवहारे खलु लिखितादीनि प्रमाणानि भवन्ति । न च तेषां भूनानुसारित्वनियमो ऽस्ति, भवति हि कदाचिद् ऋणापकरणे कृते लिखिते च देशान्तरदौ स्थिते तद्बलात् पुनरभियोगं करोतीति । एवं साक्षिष्व् अपि देशान्तरस्थितेषु । [६२५] तस्माद् वादिप्रतिवादिनौ सामादिभिर् उपायैर् भूतवदिनौ कुर्यात् । एष व्यवहारेषु मुख्यः कल्पः । अस्यालाभे लिखितादिनिमित्ता व्यवस्थादरणीया । बृहस्पतिः ।

पूर्वोत्तरार्थे लिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः संतप्तयोः संधिः स्याद् अयःखण्डयोर् इव ॥
प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजाज्ञया संधिर् उभयोर् अपि शस्यते ॥

चरित्रम् आचारः ॥ २.१९ ॥

भूतो ऽप्य् अर्थश् छलव्यवहारेण यथा हीयते तथा दर्शयति ।

निह्नवे लिखिते ऽनेकम् एकदेशविभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ २.२० ॥

अनेकं वस्तु रत्नरुक्मरजतादिकं पूर्ववादिना लिखितं भवति । यथेदम् इदम् अयं मे धारयतीति । तस्योत्तरवादिना न किंचिद् धारये ऽहम् इति निह्नवे कृते तत्र पूर्ववादिना लिखितादिप्रमाणेन तदेकदेशम् अपि परो यदि विभावितो ऽङ्गीकारितस् तदा सर्वम् एव प्रतिज्ञातम् अर्थम् उत्तरवादी नृपेण दाप्यः । यस् तु भाषाकाले पूर्ववादिना प्रामाणिको ऽप्य् अर्थो न निवेदितः स राज्ञा दापनीयतया न ग्राह्यः । एतत् तु वचनम् अपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् । यथैतेषाम् अर्थानां मधे यद्य् एकम् अप्य् अर्थमयीं साधयति तदा सर्वान् एतान् अहं दधामीति । कुत एतत् । छलोदाहरणपरत्वाद् अस्य वाक्यस्य । अन्यथा,

अनेकार्थाभियोगे ऽपि यावत् संसाधयति धनी (-येद् धनी) ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥

इति कात्यायनवचनविरोधः स्यात् । तत्र च साक्षिसाधितावशिष्टम् अर्थं साधयितुं प्रमाणान्तरम् अर्थिनोपादेयम् । यत् तु नारदेनोक्तम्,

अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं यद् अभियुज्यते ॥

इति, तद् अपि सावष्टम्भमिथ्योत्तरविषयम् । यत् तु कात्यायन आह,

साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्पितम् ॥

इति, तस्यायम् अर्थः — स्त्रीसङ्गादिविषये साध्यस्यार्थस्यैकदेशे ऽपि तस्यैव साध्यस्यार्थस्यैकदेशान्तरेणाविनाभूते साक्षिभिर् गदिते सकलं साध्यं गदितं [६२६] भवेद् इति । यथा युवत्या परस्त्रिया भगिन्यादिव्यतिरिक्तया सहैकस्मिञ् शयने स्वयं युवा सकलां रात्रिं रहसि निरालोके प्रदेशे शयितवान् इति साक्षिभिर् गदिते तत्संभोगो विनैव साक्षिवचनं सिध्यति ॥ २.२० ॥

धर्मशास्त्रयोर् विरोधो न्यायबलेन परिहार्यः । धर्मशास्त्रार्थशास्त्रयोस् तु विरोधो ऽर्थशास्त्रं बाधत इत्य् आह

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।
अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ २.२१ ॥

स्मृत्योर् वेदमूलयोर् विरोधे तत्प्रामाण्यनिर्वाहाय भिन्नविषयव्यवस्थापको ऽनुमानार्थापत्त्यात्मको न्यायो ऽपेक्षणीयत्वाद् बलवान् । तस्मिन् सति स्मृतेः प्रामान्यात् । धर्मशास्त्रार्थशास्त्रयोस् तु विरोधे धर्मशास्त्रं बलवत्, अर्थशास्त्रं दुर्बलम् अतस् तद्बाध्यं तद्वशेन तु धर्मशास्त्रं बाधमानस्य ब्रह्महत्याप्रायश्चित्तम् । तद् उक्तम् आपस्तम्बेन- “धर्मार्थसंनिपाते ऽर्थग्राहिण्य् एतद् एव” इति । पञ्चलक्षणकाल् लिङ्गाल् लिङ्गिनि ज्ञानम् अनुमानम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्तिर् अबाधितविषयत्वम् असत्प्रतिपक्षत्वम् इति पञ्च लक्षणानि । तदभावे त्व् असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमा हेत्वाभासाः । दृष्टः(ष्ट)श्रुतोवाक्यो(ताभ्याम)न्यथा कल्पनम् अर्थापत्तिः । प्रमाणान्तरदृष्टार्थविषया स्मृतिर् अर्थशास्त्रम् । वैदि(वेदै)कसमधिगम्यार्थविषया तु धर्मशास्त्रम् । तथा च भविष्यत्पुराणम् ।

दृष्टार्था तु स्मृतिः काचिद् अदृष्टार्था तथा परा ।
दृष्टादृष्टार्थरूपान्या न्यायमूला तथा परा ॥
अनुवादस्मृतिस् त्व् अन्या शिष्टैर् दृष्टा तु पञ्चमी ।
सर्वा एता वेदमूला दृष्टार्थं परिहृत्य तु ॥

आसाम् उदाहरणान्य् अपि तत्रैव । यथा ।

षाड्गुण्यस्य् यथायोगं प्रयोगात् कार्यगौरवात् ।
सामादीनाम् उपायानां योगो व्याससमासतः ॥
अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् ।
दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर् गरुडाग्रज ॥

[६२७] संध्योपास्तिः सदा कार्या शुनो मांसं न भक्षयेत् ।

अदृष्टार्था स्मृतिः प्रोक्ता ऋषिभिर् ज्ञानकोविदैः ॥
पालाशं धारयेद् दण्डम् उभयार्थं विदुर् बुधाः ।
विरोधे तु विकल्पः स्याज् जपहोमश्रुतौ यथा ॥
श्रुतौ दृष्टं यथा कार्यं स्मृतौ न सदृशं यदि ।
अनूक्तवादिनी सा तु पारिव्राज्यं यथा गृहात् ॥

जपहोमश्रुतौ यथेति । सूर्योदयावधिसावित्रीजपानुदितहोमविषया स्मृतिः । अनु(नू)क्तवादिनी, अनूद्यवादिनी यथा — “पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति” इत्य् अनयोदितं “ब्राह्मणः प्रव्रजेद् गृहाद्” इति मनुस्मृतिर् वदति । तथा सति,

श्रुत्या सह विरोधे तु बाध्यते विषयं विना ।
व्यवस्थाया विरोधो ऽतः कार्यो ऽन्यत्र परीक्षकैः ॥
स्मृत्यर्थेन विरोधे तु अर्थशास्त्रस्य बाधनम् ।
परस्परविरोधे तु न्याययुक्तं प्रमाणवत् ॥
अदृष्टार्थे विकल्पस् तु व्यवस्थासंभवे सति ।
स्मृतिशास्त्रविकल्पस् तु आकाङ्क्षापूरणे सति ॥

अद्षृटार्थयोः स्मृत्योर् अन्योन्यनिरपेक्षत्वे सति विषयव्यवस्थापकन्यायाभावे च सत्य् अर्थयोर् विकल्पः । सापेक्षत्वे तु समुच्चयः । नैरपेक्ष्ये व्यवस्थापकन्यायसद्भावे व्यवस्थितविकल्पः । तस्मिन्न् असति त्व् अव्यव्स्थितविकल्पो ग्राह्यः । तत्र च विषयव्यवस्थापकस् तावत् सामान्यविशेषन्यायो वृद्धव्यवहारे प्रसिद्धः, यथा ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति । तेन न्यायेन स्मृतिविरोधः परिह्रियते । यथा,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।

इति साधारणो ब्राह्मणवधनिषेधः । तस्य क्वचिद् विशेषो ऽपवादः । यद् आह मनुर् एव ।

गुरुं वा बालवृद्धौ वा श्रोत्रियं वा बहुश्रुतम् ।
**आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ इति ।। [६२८]

एवं च सामान्यविशेषन्यायेन कासांचित् स्मृतीनां विरोधः परिहरणीयः कासांचित् तु कल्पनानर्थक्यप्रसङ्गादिना न्यायान्तरेणेति । मनुस्मृतितदन्यस्मृत्योर् तु मनुस्मृतिः प्रशस्ता । अत एव बृहस्पतिः ।

वेदार्थोपनिबन्धत्वात् प्राधान्यं तु मनुस्मृतौ ।
मन्वर्थविपरीता या स्मृतिः सा न प्रशस्यते ॥ इति ॥ २.२१ ॥

साध्यार्थे साधनान्य् आह

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ २.२२ ॥

प्रमीयते परिच्छिद्यते ऽनेनेति प्रमाणं लिखितादि । एषां मध्ये यद्य् एकम् अपि न स्यात् तदा वक्ष्यमाणानां घटादिदिव्यानां मध्ये केनचित् साध्यं साधनीयम् । बृहस्पतिः ।

द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैका नैकधा भिन्ना ऋषिभिस् तत्त्ववेदिभिः ॥
साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ॥

अनुमानं भुक्तिः । तया भोक्तुर् भोग्ये स्वाम्यम् अनुमीयते । तथा ।

घटाद्या धर्मजात्यन्ता दैवी नवविधा क्रिया ।

कात्यायनः ।

प्रमाणैर् हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्व् अपि विवादेषु सदा कुर्यान् नराधिपः ॥
पुर्वाभावे तु यत्नेन नान्यथैव कथंचन ॥

पूर्वं नाम मानुषं प्रमाणम्, तस्याभावे दिव्यम् ।

यद्य् एको मानुषीं कुर्याद् अन्यः कुर्यात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥

यथा प्रथमं वादि भ्रूते सुवर्णसहस्रं मे धारयते ऽयम् इति मानुषेण प्रमाणेन साधयामीति । उत्तरवादी तु ब्रूते, नाहं सुवर्णस्हस्रं धारय इति दिव्येन विभावयामीति ।

येद्य् एकदेशप्राप्तापि क्रिया विद्येत मानुषी ।
सा न्याय्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥

यथा सुवर्णशतं मयास्मै द्विकशतवृद्ध्या दत्तम् । पुनश् च [६२९] पञ्चकशतवृद्दिर् अङ्गीकृता । तत्र सुवर्णसहस्रांशे मानुषं प्रमाणं वृद्ध्यंशे तु दिव्यम् इति यद्य् अपि प्रमेयैकदेशम् अपि व्याप्नोति मानुषी क्रिया तथापि सैव ग्राह्या न तु संपूर्णप्रमेयव्यापिन्य् अपि दिव्या क्रिया । यत्र तु प्रमेयांशे मानुषी न संभवति तत्र दिव्यैव ग्राह्या । पितामहः ।

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर् लिखितेनाथ भुक्त्या वैनं प्रसाधयेत् ॥

कात्यायनः ।

वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ।
दत्तादत्ते तथादत्ते स्वामिना निर्णये सति ॥
विक्रीयादानसंबन्धे क्रीत्वा धनम् अयच्छति ।
द्यूते समाह्वये चैव विवादे समुपस्थिते ॥
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ।
पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ॥
तस्यां तु साधनं लेख्यं न दिव्यं न च साक्षिणः ।
द्वारमार्गक्रियाभोगजलवाहादिके तथा ॥
भुक्तिर् एव हि गुर्वी स्यान् न लेख्यं न च साक्षिणः ।
प्रक्रान्तसाहसे वादे पारुष्ये दण्डवाचिके ॥
बालोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥

व्यासः ।

रहःकृतं प्रकाशं च कार्यं द्विविधम् उच्यते ।
प्रकाशं साक्षिभिर् भाव्यम् दैविकेन रहःकृतम् ॥

बृहस्पतिः ।

वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ।
प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्व् अपि ॥
लिखिते साक्षिवादे च संदिग्धिर् जायते यदि ।
अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ॥
नृपद्रोहे साहसे च कल्पयेद् दैविकीं क्रियाम् ॥

मानुष्या अभाव एतत् । न च व्यर्थं वचनम् । मिथ्योत्तर्वादिनः क्रियाप्राप्त्यर्थत्वात् । न हि मिथ्योत्तरवादिनो दैविकी क्रिया प्राप्ता । नारदः ।

[६३०] अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।

न्यासापह्नवे चैव दिव्या संभवति क्रिया ॥

पितामहः ।

महाशापाभिशापेषु निक्षेपहरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥

तत्र हि साक्षिणाम् अनृताभिधानत्वं विधास्यति — “वर्णिनां हि वधो यत्र” इत्यादिना । अत एव कात्यायनः ।

समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ।
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ॥

गुणतः संख्यातश् च साक्षिणां समत्वे तद्विप्रतिपत्तौ च दिव्यं वेदितव्यम् । यथा वादिनः प्रतिवादिनो वा यत्र प्राणान्तिको दण्डस् तत्र सत्स्व् अपि साक्षिषु दिव्यम् एव । व्यासः ।

न मयैतत् कृतं लेख्यं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयम् ॥

कुर्याद् इति शेषः । कात्यायनः ।

यत्र स्यात् सोपधं लख्यं तद् राज्ञः श्रावितं यदि ।
दिव्येन शोधयेत् तत् तु राजा धर्मासनस्थितः ॥

नारदः ।

निर्णीते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ २.२२ ॥
सर्वेष्व् एव विवादेषु बलवत्य् उत्तरा क्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३ ॥

व्यवहर्तृभिर् एकां क्रियां कृत्वा तद्विरुद्धापरा क्रियते । तत्रोत्तरा क्रिया विवादेषु बलीयसी पूर्वस्या बाधिका भवति । यथा — देवदत्तेन पूर्वं पञ्चकशतवृद्ध्या स्वधनम् अधमर्णाय दत्त्वा पुनः कुतो ऽपि हेतोर् द्विकशतवृद्धिः क्रियते । यथा क्षेत्रादिकं साधिं गृहीत्वा धनं ददात्य् उत्तमर्णः । पश्चान् नायम् आधिर् मया गृह्यते । किं त्व् आधिम् अन्तरेणैवैकं तद् धनं भवान् धारयताम् इति । तत्र द्वितीयैव क्रिया प्रामाणिकी । आधिप्रतिग्रहक्रीतविषयविवादे तु पूर्वैव क्रियानुसरणीया नोत्तरा । यथा — क्षेत्रादिकम् आधिं गृहीवा विक्रीय दत्वा [६३१] वा पुनस् तस्यैव क्षेत्रस्य पुरुषान्तरं प्रत्य् अधमर्णेन दानं विक्रयो वा क्रियते । तदा पूर्वक्रिया सत्योत्तरा मिथ्या, पूर्वकृताभ्यां दानक्रियाभ्यां स्वामित्वनिवृत्तौ पुनर् अस्वामिना क्रियमाणौ दानविक्रयौ न सिध्यतः । आधिकरणेन तु यद्य् अपि स्वामिभावो न निवर्त्यते तथापि प्रतिबध्यते । ततश् च तस्य क्षेत्रस्याधित्वानिवृत्तौ पुरुषान्तरं प्रत्य् आधित्वं कर्तुं नैव शक्यते ॥ २.२३ ॥

भूम्यादिधनविषये स्वामित्वं प्रति भुक्तेः क्वचिद् विषय आगमसापेक्षायाः क्वचिच् च तन्निरपेक्षायाः प्रामाण्यं वक्ष्यति तस्या विशेषणं तावद् आह ।

पश्वतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४ ॥
आधिसीमोपनिक्षेपजडबालधनैर् विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ २.२५ ॥

आध्यादिव्यतिरिकाया भूमेः परेण प्रत्यर्थिना विंसतिवर्षाणि यावद् भुज्यमानाया अर्थिनः पश्यत इमां भूमिम् एष भुङ्क्त इति प्रत्यक्षम् उपलभमानस्याब्रुवतो ऽनाक्षिपतो हानिः स्वस्वामिसंबन्धाभावो भवति । एवं भूव्यतिरिक्तस्य धनस्य दश वर्षाणि भुज्यमानस्य हानिः । एवंविधा हि भुक्तिस् तूष्णींभूतस्य पश्यतः स्वामित्वे सति न घटते । किं तु भोक्तुर् एव स्वामित्वे सति भुज्यत इति भवति तत्र भुक्तिः प्रमाणम् । अधमर्णेनोत्तमर्णस्य विश्वासार्थं यावत् ते धनं ददानि तावद् इदं त्वय्य् आहितम् अस्त्व् इति आधीयमानं धनम् आधिः । सीमा प्रसिद्धा । निक्षेप एवोपनिक्षेपः, तम् आह नारदः ।

स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ इति ।

जडो मन्दबुद्धिः । आ षोडशाद् वर्षाद् बालः । तद् आह नारदः ।

गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आ षोडशाज् ज्ञेयः पौगण्डश् चापि शब्द्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितराव् ऋते ॥

बालधनं च रक्षकान्तराभावे राज्ञा रक्षणियम् इत्य् आह गौतमः- “रक्ष्यं बालधनम् आ व्यवहारप्राप्तेः” इति । [६३२] उपनिधिं वक्ष्यति । प्रसिद्धम् अन्यत् । जडग्रहणम् असामर्थ्यमात्रोपलक्षणार्थम् । अत्र च व्यासः ।

वर्षाणि विंशतिर् यस्य भूर् भुक्ताथ परैर् इह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥

नारदः ।

प्रत्यक्षपरिभोगात् तु स्वामिनो द्विदशाः समाः ।
आध्यादयो ऽपि जीयेरन् स्त्रीनरेन्द्रधनाद् ऋते ॥

आध्यादयो ऽपि जीयेरन् किं पुनर् अन्यत् । तस्माद् आध्यादिव्यतिरिक्तस्य यथोक्तया भुक्त्या स्वत्वसिद्धिः । एवं चाधिसीमोपनिक्षेपेत्यादेर् अविरोधः । तथा ।

उपेक्षां कुर्वतस् तस्य तूष्णीभूतस्य तिष्ठतः ।
काले ऽतिपन्ने पूर्वोक्तो व्यवहारो न सिध्यति ॥

तस्योपेक्षकस्य व्यवहारो व्यवहारफलं स्वामित्वं न सिध्यतीत्य् अर्थः । व्यासः ।

उपेक्षिता यथा धेनुर् विना पालेन नश्यति ।
पश्यतो ऽन्यैस् तथा भुक्ता भूमिः कालेन हीयते ॥

बृहस्पतिः ।

रिक्थिभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान् न स तल् लब्धुम् अर्हति ॥
पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।
सतापि लेख्येन भुवं न पुनस् ताम् अवाप्नुयात् ॥

क्रयप्रतिग्रहादिलिखितेनापि तां भूमिं नासाव् अवाप्नुयात् । एतच् च व्यवहारस्थितिम् आश्रित्योच्यते । न भूमिगतिम् । अत एव मनुः ।

अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥

तथा च यत् परमार्थतः परकीयम् एव व्यवहारेणैवार्जितं तत् प्रत्यवायभयाद् एव यथास्थानं गमयितव्यम् । यत् तु नारदेनोक्तम्,

अनागमं च यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
**चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥। [६३३]

[इति, तत्] बहुबालादिधनविषयम् । पूर्वक(ज)भूमिभोक्तृपुरुषविषयं वा । अत एव वक्ष्यति “आगमस् तु कृतो येन” इत्यादि ॥ २.२५ ॥

आध्याद्यपहर्तुर् दण्डम् आह

आध्यादीनां निहन्तारं दापयेद् धनिने धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ २.२६ ॥

पूर्वश्लोकनिर्दिष्टानाम् आधिप्रभृतीनाम् अपहन्(र्?)तारं यद् अपहृतम् आध्यादिकं तत् तत्स्वामिने दापयेत् । तत्समं च दण्डं राज्ञे यथाशक्ति ततो ऽत्यधिकम् ऊनं वा यावतास्य दमो भवति तदर्थत्वाद् दण्डस्य । तद् आह गौतमः- “दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” इति । मनुः ।

धनेनापि यथा स्तेनान् निग्रहीतुं न शक्नुयात् ।
तदैष सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥

धिग्दण्डवाग्दण्डादिचतुष्टयम् । तत्र वधदण्डो न ब्राह्मणस्येत्य् आह ।

दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥

कात्यायनः ।

धनदानासहं ब(बु)द्ध्वा स्वामिनः कर्म कारयेत् ।
अशक्तो बन्धनागारं प्रवेश्यो ब्राह्मणाद् ऋते ॥

गौतमः- “न शारीरो ब्राह्मणस्य दण्डः कर्मनियोगविख्यापनविवासनाङ्ककरणान्य् अवृत्तौ” । अवृत्तौ दण्डदानासामर्थ्य इत्य् अर्थः । एतच् चोत्तमसाहसदण्डप्राप्तिविषये द्रष्टव्यम् । यद् आह नारदः ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्डस् तूत्तमसाहसः ॥
अविशेषेण वर्णानाम् एष दण्डविधिः स्मृतः ।
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ॥
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ।

[६३४] गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ॥

स्तेये तु स्वपदं कार्यं ब्रह्महत्य(ण्य)शिरः(राः) पुमान् ॥

आपस्तम्बः- “चक्षुर्निरोधो ब्राह्मणस्य” । अस्यार्थः — ब्राह्मणस्य विवासनसमये वाससा चक्षुषी निरोध्ये इति ॥ २.२६ ॥

भुक्तः प्रमाणतयोक्ताया विषयविशेषे सहकार्यन्तरम् आह

आगमो ऽत्यधिको भोगाद् विना पूर्वक्रमागतात् ।
आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥

आगमः स्वामिभावप्रतिपादकः क्रयप्रतिग्रहादिको ऽर्थः सो ऽधिको ऽपरो द्वितीयो भोगात् । भोग्यम् अपेक्ष्य भोगस्य स्वामित्वपरिच्छेदं कुर्वत आगमः सहकारीत्य् अर्थः । न ह्य् आगमरहिताद् भोगाद् भोग्ये भोक्तुः स्वामित्वं शक्यं निश्चेतुम् । फलभोग्यादाव् अस्वामिनो ऽपि भोगदर्शनात् । ननु च पित्रादिभिस् त्रिभिर् यद् भुक्तं तद्विषयश् चतुर्थस्य पुरुषस्य भोगो विनैवागमं स्वामिभावं भोक्तुः साधयति । तत् कथम् आगमसापेक्षस्य प्रामाण्यम् इत्य् अत आह — विना पूर्वक्रमागताद् इति । पितृपितामहप्रपितामहाः पूर्वे तेषां क्रमाद् य आगतो भोगस् तस्माद् यः पृथक् ततो यो ऽन्यो भोगस् तस्यागमसापेक्षस्य प्रामाण्यम् । ननु चागमः साक्ष्यादिप्रमाणपरिच्छिन्नो भोगनिरपेक्ष एव स्वामित्वं साधयतीति किम् अत्र भोगेन कार्यम् इत्य् अत्राह — आगमे ऽपि बलम् इत्यादि । यद्विषया स्तोकापि भुक्तिर् न विद्यते, तद्विषयम् आगमाश्रितं बलं सामर्थ्यं प्रामाण्यलक्षणं नैवास्ति । अयम् अभिप्रायः — यद्य् अपि पूर्वम् अस्य क्रयः प्रतिग्रहो वात्र क्षेत्रादौ जात इति लिखितादिवशान् निश्चितं तथापीदानींतनं स्वामित्वं विना भुक्त्या न सिध्यति, मध्ये दानविक्रयादिसंभवात् । तस्माद् इदानींतनं स्वामित्वं साधयितुम् आगमेन वर्तमाना भुक्तिः सहकारितयो(या)पेक्षितव्या । अत्र नारदः ।

विद्यमाने ऽपि लिखिते जीवत्स्व् अपि साक्षिषु ।
विशेषतः स्थावराणां यत्र भुक्तं न तत् स्थिरम् ॥

तथा ।

आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
**अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ॥। [६३५]

विशुद्धेन प्रमाणपरिच्छिन्नेनागमेन सहितो भोगः प्रमाणतां यातीत्य् अर्थः । मनुः ।

संभोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न संभोग इति स्थितिः ॥

अत्रागमः स्वामित्वपरिच्छेद(दे) संभोगसहितः कारणं न तु केवलः संभोग इत्य् उक्तम् । व्यासः ।

आगमो दीर्घकालश् च च्छेदोपाधिविवर्जितः ।
प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग इष्यते ॥

आद्यपुरुषभोगविषयम् एतत् । आगमविशेषान् आह बृहस्पतिः ।

विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् ।
सपिण्डस्याप्रजस्यांशः स्थावरं सप्तधाप्यते ॥

तथा ।

संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः ।
स्थावरं सिद्धिम् आप्नोति भुक्त्वा हानिम् उपेक्षया ॥
प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् ।
तस्य तत्सिद्धिम् आप्नोति हानिं चोपेक्षया तथा ॥
अध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।
त्रिंशद्वर्षाण्य् अविच्छिन्ना तस्य तां न विचालयेत् ॥

अध्यासनं परिग्रहः ।

यद्य् एकशासने ग्रामक्षेत्रारामाश् च लेखिताः ।
एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥ २.२७ ॥

स्तोकभुक्तिर् एषा, न सर्वभुक्तिर् आगमापेक्षेत्य् आह

आगमस्तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ २.२८ ॥

येनागमः क्रयादिः कृतः सो ऽभियुक्तस् तम् आगमं लिखितादिप्रमानेनोद्धरेत् साधयेत् । तस्यागमकर्तुः सुतः पौत्रो वाभियुक्तो नागमम् उद्धरेत् । यतस् तयोर् भुक्तिर् एव गरीयसी गुरुतरा । आगमोद्धरणं विनैव प्रमाणत्वं तस्या गरीयस्वात्(स्त्वम्) । ननु चाधिबोगस्य स्वामित्वम् अन्तरेण दर्शनान् न [६३६] भोगस्यागमनिरपेक्षस्याप्रामाण्यं युज्यते संशयहेतुत्वात् । मैवम् । शास्त्रेषु खलूत्सर्गतो भुक्तेः स्वामिभावं प्रति प्रमाणता कीर्त्यते । अपवादतया पुनर् आध्यादिभुक्तिः । ततश् च यत्राधिभुक्तिर् इयम् इति साक्षिलिखितादिभिः सिध्यति तत्रैवापवादः । अन्यत्रौत्सर्गिकं स्वस्वामिभाव एव भुक्तेः प्रामाण्यम् इति आगमकर्तुः सुतस्यापि भुक्त्यैव स्वाम्यसिद्धिर् इहोच्यते । सा स्मार्तकालातिक्रमे सति द्रष्टव्या । स्मार्तश् च कालः पुरुषत्रयभुक्तिकालात्मकः । तथा च स्मृत्यन्तरम् ।

स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥ इति ।

पुरुषभोगकालस्य च परिमाणम् आह नारदः ।

वर्षाणि विंशतिर् भुक्ता स्वामिना व्याहृता सती ।
भुक्तिः सा पौरुषी भुक्तिर् द्विगुणा च द्विपौरुषी ॥
त्रिपौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः ॥

कात्यायनः ।

मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिर् एतैर् अविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ॥

ततश् च वर्षषष्टेः पूर्वं स्मार्तः कालः । ऊर्ध्वम् अस्मार्तः । अथ वा,

वर्षाणि पञ्चत्रिंशत् तु पौरुषो भोग उच्यते ।

इत्य् एतत् स्मरणानुसारेण पञ्चोत्तरं (?) वर्षशतं स्मार्तः कालः । ऊर्ध्वम् अस्मार्तः । अनयोश् च पक्षयोः स्मर्तृपुरुषसद्भावासद्भावकृता व्यवस्था । आहर्तुः स्मार्तकाले व्यतीते पर्यनुयोगे च सत्य् आगमः साध्यो भवत्य् एव । अत एवाविशेषेण बृहस्पतिर् आह ।

आहर्ता शोधयेद् भुक्तिम् आगमं वापि संसदि । इति ।

यत् पुनर् अनन्तरम् उक्तम्,

तत्पुत्रो भुक्तिम् एवैकां पौत्रादिषु न किंचन ।

इति, तद् आहर्तृपुत्रस्य स्मार्तकालान्तर्गतायां भुक्तौ पौत्रस्य च तदतिरिक्तकालायां वेदितव्यम् । यत् तु कात्यायनवचनम्,

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैका संतता या त्रिपौरुषी ॥

इति, चतुर्थस्य पुंसो भुक्तिः प्रमाणतयोपन्यसनीयेति गमयति, तत् तस्यापि स्मार्तकालानन्तःपातिभुक्तौ सत्यां वेदितव्यम् । यत् तु व्यासवचनम्,

[६३७] यद्विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।

न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

इति, तच् च नारदवचनम् ।

अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

इति, (?) यद्य् अपि वस्तुगत्या मूलपुरुषस्य नास्त्य् आगमस् तथापि तत्प्रभृतिपुरुषत्रयेण साधिकं वर्षशतं यावद् भुक्ता भूश् चतुर्था पुरुषाद् अन्येनापहर्तुम् अशक्या निरागमत्वनिश्चयाभावात् । अनागमत्वनिश्चयो हि भुक्तेर् बाधकं तदभावे च प्रमाणम् इति । यथोष्णजलज्ञानस्य व्यवहाराबाधाद् भ्रान्तित्वे ऽपि प्रामाण्यम् । यदा तु चतुर्थस्यापि भुक्तौ वर्तमानायां वर्षशतात्यये ऽपि प्रथमभुक्तेर् अनागमत्वनिश्चयो ऽस्ति तदा ततो ऽपहर्तव्यैव भुज्यमाना भूः । प्रथमा हि तत्र भुक्तिर् बाधकप्रत्यययोगाद् अप्रमाणम् अप्रमाणप्रभा(भ)वत्वाच् चोत्तरा अपि भुक्तयो ऽप्रमाणम् । एतद्विषयाण्य् एव,

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥

इति नारदादीनां वचनानि । अत्र च प्रथमभोक्तुर् एव दण्डो न तु तत्सुतादीनाम्, तेभ्यस् तु भूर् एव ग्राह्या । तथा च स्मृत्यन्तरम् ।

आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरन् ।
न तत्सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥ इति ।

बृहस्पतिः ।

भुक्तिस् त्रिपौरुषी सिध्येत् परेषां नात्र संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥
अस्वामिना तु यद् भुक्तं गृहक्षेत्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद् भोगेन हीयते ॥
वैवाह्यश्रोत्रियैर् भुक्तं राज्ञामात्यैस् तथैव च ।
सुदीर्धेणापि कालेन तेषां सिध्यति तन् न तु ॥

कात्यायनः ।

सनाभिभिर् बान्धवैश् च यद् भुक्तं स्वजनैस् तथा ।
भोगात् तत्र न सिद्धिः स्याद् भोगम् अन्यत्र कल्पयेत् ॥ २.२८ ॥

न तत्सुतस् तत्सुतो वेत्य् अस्यापवादम् आह

यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थि तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विना कृता ॥ २.२९ ॥

[६३८]

य आहर्तागमविषयेणाभियुक्तः स तु निर्णीते व्यवहारे परेतो मृतः स्यात् तदा तस्य रिक्थी धनग्राही पुत्रादिस् तम् अभियोगम् उद्धरेत् । व्यवहारं समापयेद् इत्य् अर्थः । यस्मात् तत्रोक्तविषय आगमरहिता भुक्तिर् न कारणम् अप्रमाणं स्वामिभावे । तस्मात् प्रमाणतो ऽभियोगोद्धारः कार्यः ॥ २.२९ ॥

व्यवहारद्रष्टॄणां प्रबलदुर्बलभावम् आह

नृपेणाधिकृताः पूगाः श्रेणयो ऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३० ॥

नृपेणाधिकृता राज्ञा व्यवहारदर्शने नियुक्ताः, पूगाः समूहाः, एकशिल्पोपजीविनः श्रेणयः, कुलानि कृषीवलाः । एषां पाठक्रमानुसारेण पूर्वं पूर्वम् उत्तरोत्तरापेक्षया गुरु नृणां व्यवहारदर्शने बलीयः । तेन कुलदृष्टे व्यवहारे कुलदृष्टत्वशङ्कायां श्रेण्या परीक्षणं युक्तम् । श्रेणिदृष्टे पूगैः पूगदृष्टे नृपाधिकृतैर् न तु विपरीतकृतम् । अत्र नारदः ।

कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्व्य् एषाम् उत्तरोत्तरम् ॥ २.३० ॥

व्यवहारनिवृत्तिकारणान्य् आह

बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांश् तथा ॥ २.३१ ॥

बलादिनिर्वृत्तान् स्त्र्यादिकृतांश् च व्यवहारान् राजा निवर्तयेत् । ततश् च व्यवहारांस् तान् एव पुनः प्रवर्तयेद् इति तात्पर्यार्थः । बलं हठः । उपाधिर् लोभद्वेषादिः । स्त्रीणां कर्तृत्वं द्रष्टृतयार्थिप्रत्यर्थितया वा । नक्तंकृता रात्रिकृताः । अन्तरागारकृता वेश्ममध्यकृताः । बहिर् ग्रामाद् बहिस् तत्र कृताः । शत्रुकृताः शत्रुदृष्टाः । नक्तानत्रागारबहिर्ग्रहणेन रहःकारणम् उपलक्ष्यते । नारदः ।

स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मनि रात्रिषु ।
व्यवहारः कृतो ऽप्य् एष पुनः कर्तव्यताम् इयात् ॥ २.३१ ॥

किं च

मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः ।
असंबद्धक्र्तश् चैव व्यवहारो न सिध्यति ॥ २.३२ ॥

[६३९]

मत्तादिकृतो व्यवहारो न सिध्यति व्यावर्तेत इत्य् अर्थः । मत्तो मद्यादिना । उन्मत्तो ग्रहादिना । आर्तो व्याध्यादिना । व्यसनी कितवादिः, पुत्रवियोगादिमान् वा । बालभीतौ प्रसिद्धौ । अर्थिना प्रत्यर्थिना वा यो व्यवहारकरणाय न प्रहितः सो ऽसंबद्धः । तथा च कात्यायनः ।

अधिकारो ऽभियुक्तस्य नेतरस्याप्य् असंगतेः ।
इतरो ऽप्य् अभियुक्तेन प्रहितो ऽधिकृतो मतः ॥

इतरो ऽप्य् असंबद्धो ऽप्य् अभियुक्तेनोत्तरवादिना प्रहितो ऽधिकृत उत्तरवादी कृतो मत उत्तरवादित्वेन संमतो मन्वादीनाम् ।

समर्थितो ऽर्थिना यो ऽन्यो ऽपरो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥

धर्माधिकारिणि प्राड्विवाके प्रतिपन्नः प्रतिवादित्वेन स्वयं वादिनाङ्गीकृतः ।

अप्रगन्भजडोन्मत्तवृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद् बन्धुर् नियुक्तो ऽन्यो ऽथ वा नरः ॥

कात्यायनः ।

ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे ।
अन्येष्व् असह्यवादेषु प्रतिवादी न दीयते ॥

वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी ।

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् ॥
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥

नारदः ।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥

कात्यायनः ।

दासाः कर्मकराः शिष्या नियुक्ता बान्धवास् तथा ।
वादिनो न च दण्ड्याः स्युर् यस् ततो ऽन्यः स दण्डभाक् ॥ २.३२ ॥

किं च ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ २.३३ ॥

[६४०]

यदि राष्ट्रे कस्यचिद् धनं प्रनष्टं नृपेण च स्वयं पुरुषान्तरद्वारेण वाधिगतं यस्य नष्टं स चेत् स्वरूपसंख्यादिभिर् लिङ्गैस् तद् विभावयति संवादयति तदा तस्मै नृपेण देयं न चेद् विभवयति तदा स्तेयप्रवृत्तत्वात् प्रनष्टद्रव्यसमेन धनेन दण्डनीयः ॥ २.३३ ॥

अस्वामिकनिधिसमधिगमविषयम् इदानीम् आह

राजा लब्ध्वा निधिं दद्याद् द्विजेभ्यो ऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ २.३४ ॥

निधिं हिरण्यादिकं क्षितेर् अन्तर्हितम् अप्रज्ञायमानस्वामिकं राजा लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् । द्वितीयम् अर्धं स्वयम् आददीतेत्य् अर्थसिद्धम् । यदि पुनर् विद्वान् वेदार्थज्ञो द्विजोत्तमो लभेत तदा स सर्वम् एवाददीत । यस्मात् सर्वस्य पृथिवीगतस्य स स्वामी । मनुः ।

यत्र पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्वार्धम् अर्धं कोशे निवेशयेत् ॥

पुराणम् इति वदन्न् अज्ञायमानस्वामिकत्वं दर्शयति ।

विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥

वसिष्ठः- “ब्राह्मणश् चेद् अधिगच्छति षट्सु कर्मसु वर्तमानः सर्वं हरेत्” ॥ २.३४ ॥

विद्वद्व्यतिरिक्तेन निधौ दृष्ट आह ।

इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च ॥ २.३५ ॥

इतरेणाविदुषा ब्राह्मणेन निधौ लब्धे प्राप्ते तस्य षष्ठम् अंशं राजा जनपदपालकः आहरेद् अधिगच्छेत् । तथा वसिष्ठेनोक्तम्- “अप्रज्ञायमानवित्तं यो ऽधिगच्छेद् राजा तद् धरेद् अधिगन्त्रे षष्ठम् अंशं प्रदाय” इति । गौतमः- “निध्यधिगमो राजधनम् । तद् ब्राह्मणस्याभिरूपस्याब्राह्मणो ऽप्य् आख्यातं षष्ठम् अंशं लभेतेत्य् एके” इति । **[६४१] **यः पुनर् अनिवेदितविज्ञातः । निवेदनम् अत्र निधिलाभकथनम् । तद् एव निवेदितम् । तद् अस्य न विद्यत इत्य् अनिवेदितः स चासाव् अनिवेदि(सौ विज्ञा)तश् चेत्य् अनिवेदितविज्ञातः । स तं निधिं दण्डं च दाप्यः । एतद् उक्तं भवति — निधिं लब्ध्वा यो राज्ञे न निवेदयति ततो निधिर् दण्डश् च राज्ञा ग्राह्य इति । यस् तु स्वनिधिम् एवोपलभेत तं प्रत्य् आह मनुः ।

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥
अनृतं तु वदन् दण्ड्यः राजा द्वादशम् एव वा ॥

गुणापेक्षया भाषाल्पत्वमहत्त्वे व्यवस्थापनीये ॥ २.३५ ॥

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद् धि समाप्नोति किल्बिषं तस्य यस्य तत् ॥ २.३६ ॥

[इत्य् असाधारणव्यवहारमातृकाप्रकरणम् ॥ २॥ ]

चौरेणापहृतं तत आदाय जानपदाय तधनस्वामिने राज्ञा दातव्यम् । यस्मात् सो ऽप्रयच्छन् दनस्वामिनः किल्बिषम् आप्नोति । मनुः ।

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरहृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥

गौतमः- “चौरहृतं विजित्य यथास्थानं गमयेत् कोशाद् वा दद्यात्” । व्यासः ।

प्रत्याहर्तुम् अशक्तस् तु धनं चौरहृतं यदि ।
स्वकोशात् तद् धि देयं स्याद् अशक्तेन महीक्षिता ॥ २.३६ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमद्परादित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

ऽसाधारणव्यवहारमातृकाप्रकरणम् ॥ २ ॥ ]