०१ साधारण-व्यवहार-मातृका-प्रकरणम्

[तत्र साधारणव्यवहारमातृकाप्रकरणम् । (१) ]

[५९५]

अथ प्रथमे ऽध्याये वर्णानां नानाविधा धर्मा उक्ताः । तत्र च राजधर्मेषु वक्ष्यमाणं व्यवहारदर्शनोपदेशम् आश्रित्य,

व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ।

इत्य् अत्र धर्मो विहित इदानीं तम् एव व्यवहारदर्शनोपदेशं सकलाङ्गकलापोपेतं कर्तुम् अध्यायान्तरम् आरभते । तत्र प्रथम एवाध्याये व्यवहारस्य विधिः । अत्र तु तदङ्गानाम् इति न वाच्यम् । अङ्गभूतस्त्वेनात्रैव व्यवहारविधिनिश्चयात् । तद् उक्तम् “भूयस्त्वेनोभयश्रुति” इति ॥

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१ ॥

व्यवहारान् वादिप्रतिवादिनोर् भाषोत्तरक्रियात्मकान् विवादान् नृपो जनपदपरिपालको विद्वद्भिर् व्यवहारशास्त्रार्थज्ञैर् विप्रैः सहितो लिखितसाक्ष्यादिप्रमाणपुरःसरतया क्रोधलोभादिविचारकदोषगणम् अपहाय पश्येत् परीक्षेत । यद्य् अपि धर्मशास्त्रानुसारितयैव क्रोधादिवर्जनं प्राप्तम्, तथापि प्राधान्येन क्रोधादिवर्जनस्य पृथगुपादानम् । न हि क्रोधादिमान् धर्मं शक्नोति व्यवस्थापयितुम् । अतो धर्मशास्त्रोक्तलिखितसाक्ष्यादिप्रमाणगण इव क्रोधादिविरहो नृपवर्ती धर्मव्यवस्थितौ प्रधानं साधनम् । क्रोधो जिघांसा तया च द्वेष उपलक्ष्यते । उत्कोचादिरूपेण परवित्तलिप्सा लोभः । अज्ञानप्रमादाव् अप्य् अत्र वर्जनीयतया द्रष्टव्यौ । यद्य् अपि सभ्यसभापतिव्यापारो ऽपि व्यवहारशब्देनोच्यते,

चतुष्पाद् व्यवहारो ऽयं विवादेषूपदिश्यते ।

इत्य् अत्र भाषोत्तरप्रमाणनिर्णयात्मकाश् चत्वारो व्यवहारपादा वक्ष्यन्ते । तत्र निर्णयपादः सभ्यसभापतिव्यवहार इति प्रसिद्धम् । तथापि नृपं प्रति द्रष्टव्यतया वादिप्रतिवादिव्यापार एव शक्यो विधातुं नृपव्यापारस् तु न द्रष्टव्यः किं तु कार्यः । तस्माद् अत्र व्यवहारशब्देन वादिप्रतिवादिव्यापार एव [५९६] वक्तव्यः । अथ वा निर्णयपादो ऽपि सभ्यकर्तृको भवति नृपस्य परीक्षकतया दृश्य इति पादचतुष्टयाभिप्रायेणापि व्यवहारपदव्याख्यानं नायुक्तम् । व्यवहारस्वरूपनिरूपणाय कात्यायन आह ।

प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलो ऽत्र वादो व्यवहारः स उच्यते ॥

अस्यार्थः — धर्मम् आख्यातीति धर्माख्यः । न्यायविस्तारो न्यायप्रपञ्चः । तस्मिन् विच्छिन्ने प्रतिवादिता विलोपिते ततश् च लिखितसाक्ष्यादिप्रमाणोपन्यासरूपप्रयत्नसाध्ये सति यो वादिनोर् वादः स व्यवहार इति । अत एव यमः ।

राजा मन्त्रिसहायस् तु द्वयोर् विवदमानयोः ।
सम्यक् कार्याण्य् अवेक्षेत रागद्वेषविवर्जितः ॥ इति ।

व्यवहारान् इति बहुवचनं विषयभेदेनाष्टादशधा बिन्नस्य व्यवहारस्य संग्रहार्थम् । अत एव मनुर् व्यवहारविषयम् अष्टादशधाह ।

तेषाम् अद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मविभागश् च द्यूतम् आह्वानम् एव च ।
पादान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
**धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्ये विनिर्णयम् ॥ [५९७]

पदं स्थानं विषय इति यावत् । एषाम् ऋणादानादिनाम् अवान्तरभेदविवक्षयाष्टोत्तरं शतं भवतीत्य् आह नारदः ।

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥

तथा व्यवहारस्य प्रकारान्तराण्य् अपि स एवाह ।

स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव च ।
चतुर्हितश् चतुर्व्यापी चतुष्कारीति कीर्यते ॥
अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च ।
त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥ इति ।

स्वयम् एव चैतान् प्रकारान् व्याचष्टे ।

धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥

इत्थम् एतद् एव कथम् इत्य् अत्राह ।

तत्र सभ्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥

सभ्यैकप्रमाणत्वाद् धर्मः सभ्ये स्थित इत्य् उच्यते । व्यवहारश् च साक्ष्यधीनो निर्णय इति व्यवहारः साक्षिषु स्थित इत्य् उच्यते । चरित्रं देशकालकुलधर्मः, तत् पुस्तकरणे [लिखितकरणे स्थितम् । लिखिताः खलु देशादिधर्माः प्रमाणम् । दुष्टनिग्रहः शासनम्] । तद् राजाज्ञाधीनत्वात् तस्यां स्थितम् इत्य् उच्यते । एषां च धर्मादीनां परं बलीयः । तद् यथा — वर्णिषु कृतापराधेषु वधरूपे दण्डधर्मे सत्यात् साक्षिवचनात् प्राप्ते साक्षिभिः “वर्णानां हि वधो यत्र” इतिवचनानुसाराद् अनृते ऽभिहिते व्यवहारेण वधरूपो दण्डधर्मो निवर्तते । व्यवहारो ऽपि चरित्रेण बाध्यते यथा — साक्षिभिः साधिते ऽप्य् आभीरस्त्रियाः पुरुषान्तरोपभोगे तद्दण्डे च व्यवहारतः प्राप्ते ऽपि राजकुलाधिगतलिखितान् निवर्तते । एवं हि तत्र लिहितम् — आभीरस्त्रीणां व्यभिचारे ऽपि सति दण्डो न ग्राह्य इति । चरित्रम् अपि राजशासनेन बाध्यते । यथा — ब्राह्मणादिगृहे राजपुरुषेण न प्रवेष्टव्यम् इति देशधर्मो लिखितो ऽपि ब्राह्मणादिगृहे व्यवस्थिते ऽपि चौरादी राजाज्ञया तद्गृहं प्रविश्य राजपुरुषेण नीयते । अधुना चतुःसाधन्त्वादि व्याचष्टे —

[५९८] सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते ।

चतुर्णाम् आश्रमाणां च रक्षणात् स चतुर्हितः ॥
कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च ।
व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥

धर्माधर्मफलेन कर्तृप्रभृतीन् पादशो व्याप्नोति सम्यगसम्यग्द्रष्टृतया । तद् उक्तम् ।

पादो गच्छति कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
धर्मस्यार्थस्य यशसो लोकपङ्क्तेस् तथैव च ।
चतुर्णां करणाद् एषां चतुष्कारी प्रकीर्तितः ॥

लोकपङ्क्तिर् लोकानुरागः ।

राजा स्वपुरुषः सभ्यः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गः समुदाहृतः ॥

गणकस्य विवादविषयीभूतधनसंख्याने लेखकस्य भाषोल्लेखने ऽग्न्यादीनां च शपथे ऽस्त्य् उपयोग इति व्यवहाराङ्गता ।

कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥
द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढाभिदर्शनात् ॥

असताम् साधूनां व्यवहारकर्तृत्वसंभवाद् भवति शङ्का संदेहः । होढाभिदर्शनं लोप्त्रादेर् लिङ्गस्य दर्शनं प्रत्यक्षदर्शनं वा । एवं च ऋणादानादौ प्रमाणपूर्वकः संशयपूर्वकश् चाभियोगः संभवतीति भवति द्व्यभियोगत्वम् । अभियोग आक्षेपः ।

पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः ।
पूर्वस् तु भाषया पक्षः प्रतिपक्षं तदुत्तरम् ॥

द्वारं कार्यारम्भप्रवृत्तिः ।

भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः ।
**भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ [५९९]

मूलश्लोके व्यवहारान् नृपः पश्येद् इति ऋषिणा परीक्षापरपर्यायो व्यवहारो व्यवहारपदेनोच्यते । तथा च नारदः ।

किं तु राज्ञा विशेषेण स्वधर्मम् अभिरक्षता ।
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥
असभ्याः सभ्यसंकाशाः सभ्याश् चासभ्यसंनिभाः ।
दृश्यन्ते विविधा भावास् तस्माद् युक्तं विचारणम् ॥

ब्राह्मणानां यद्य् अपि व्यवहारदर्शनकर्तृत्वं प्रतिपाद्यते तथापि तेषां नाधिकाराः किं तु राज्ञाम् एव तद्गामिफलस्मरणात् । तथा च नारदः ।

एवं पश्यन् स्वयं राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तं शक्रस्यैति सलोकताम् ॥

तस्माद् ऋत्विजां यथा यागे कर्तृत्वम् एवं ब्राह्मणानां व्यवहारदर्शने धर्मशास्त्रानुसारेणेत्य् उक्तम् । तदकरणे प्रत्यवायम् आह कात्यायनः ।

अस्वर्ग्या लोकनाशाय परानीकभयावहा ।
आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥
तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टेन तन् नयेत् ॥

बृहस्पतिः ।

केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीने विचारे धर्महानिः प्रजायते ॥
चौरो ऽचौरः साध्व् असाधु जायते व्यवहारतः ।
युक्तिः विना विचारेण माण्डव्यश् चौरतां गतः ॥

राजेत्य् अनुवृत्तौ गौतमः- “तस्य व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्य् उपवेदः पुराणम्” । व्यवह्रियते निर्णीयते येन वेदादिना प्रमाणेन स व्यवहारः । तथा- “न्यायाधिगमे तर्को ऽभ्युपेयः । तेनात्यूह्य यथास्थानं गमयेत् । विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् । तथेहास्य निःश्रेयसं भवति” इति । विचारकाणाम् अन्योन्यविप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः सम्यगधिगतचतुर्दशविद्यास्थानेभ्यो न्यायं प्रत्यवहृत्याधिगम्य व्यवहारं निष्ठां समाप्तिं गमयेत् । तथेहास्य राज्ञो निःश्रेयसं शास्त्रोक्तं फलं भवति । उक्तं च नारदेन फलम् ।

धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
संभवन्ति गुणाः सप्त सप्त वह्नेर् इवारिषः ॥

[६००] धर्मश् चार्थश् च कीर्थिश् च लोकपङ्क्तिर् उपग्रहः ।

प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥ इति ।

उपग्रहः सहायलाभः । अत्र मनुः ।

व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥

मन्त्रज्ञा अर्थशास्त्रज्ञाः । तेन धर्मशास्त्राविरुद्धम् अर्थशास्त्रं व्यवहारं पश्यतानुसरणीयम् । तद् आह नारदः ।

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥

सभाम् आह बृहस्पतिः ।

प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥
प्रतिष्ठिता पुरे ग्रामे चलानाम् अप्रतिष्ठिता ।
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥
नृपो ऽधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥
दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ॥
स्मृतिर् विनिर्णयं ब्रूते जयदानं दमं तथा ।
शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ॥
गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ।
प्रत्यर्थिसभ्यानयनं साक्षिणं च स्वपूरुषः ॥
कुर्याद् अलग्नकौ रक्षेद् अर्थिप्रथ्यर्थिनौ सदा ।
एतद् दशाङ्गं करणं यस्याम् अध्यास्य पार्थिवः ॥
न्यायान् पश्येत् कृतमतिः सा सभाध्वरसंमिता ।
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ॥
**यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥ [६०१]

कार्यानुसारेण सभ्याल्पमहत्त्वं ग्राह्यम् । आलग्नकौ प्रतिभुवौ । व्यवहारकालम् आह कात्यायनः ।

आद्याद् अह्नो ऽष्टभागाद् यद् ऊर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥

व्यवहारद्रष्टारः सभ्या राज्ञा कार्याः । न हि तेषाम् अस्त्य् अधिकारो यद् बलात् स्वत एव प्रवर्तेरन् ॥ २.१ ॥

ततश् च यद्गुणकास् ते कार्यास् तान् आह

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्र च ये समाः ॥ २.२ ॥

श्रुतं वेदवाक्यार्थज्ञानोपयोगि मीमांसाया वेदाङ्गानां च कल्पनिरुक्तव्याकरणानाम् आचार्याद् अर्थज्ञानम् । अध्ययनं प्रसिद्धम् । ताभ्यां संपन्ना उपेताः । धर्मज्ञा धर्मशास्त्रज्ञाः । धर्मशास्त्राण्य् आह पितामहः ।

वेदाः साङ्गास् तु चत्वारो मीमांसा स्मृतयस् तथा ।
एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम् ॥

सत्यवदनशीला मित्रामित्रयोः रागद्वेषाभावेन समोपदेशकर्तारो राज्ञा सभासदः कार्या मानदानाभ्याम् आपाद्याः । सभायां सीदन्तीति सभासदः । एते बहुशास्त्रज्ञा ब्राह्मणास् तदलाभे तादृशाः क्षत्रियास् तदलाभे तादृशा एव वैश्याः । तद् आह कात्यायनः ।

अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः ।
सर्वशास्त्रप्रवीणाश् च सभ्याः कार्या द्विजोत्तमाः ॥
एकं शास्त्रम् अधीते यो न विद्यात् कर्यनिश्चयम् ।
तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥
यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥
अतो ऽन्यैर् यत् कृतं कर्यम् अन्यायेन कृतं तु तत् ।
नियुक्तैर् अपि विज्ञेयं दैवाद् यद्य् अपि शास्त्रतः ॥

मनुः ।

जातिमात्रोपजीवी वा वरं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् तु शूद्रः कथंचन ॥
यस्य राज्ञस् तु कुरुते शूद्रो धर्मविवेचनम् ।
**तस्य सीदति तद् राष्ट्रं पङ्क्ते गौर् इव पश्यतः ॥ [६०२]

व्यासः ।

द्विजान् विहाय य पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥

बृहस्पतिः ।

देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥

मनुः ।

स्मृतिशास्त्रे त्व् अविज्ञाते दुर्ज्ञाते वाविवेकतः ।
धर्मकार्ये महान् दोषः सभायां वदतः सदा ॥
शब्दाभिजनतत्त्वज्ञो गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥
आकारके(णे) रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् ।
सभ्याधीनः सत्यवादी कर्तव्यस् तु स्वपूरुषः ॥ २.२ ॥

प्राड्विवाकविधिम् आह ।

अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३ ॥

व्यवहारदर्शनाद् यद् अन्यद् गुरुतरं कार्यं तदधीनतया व्यवहारान् अपश्यता राज्ञा सर्वधर्मवेत्ता ब्राह्मणः पूर्वोक्तैर् ब्राह्मणैः सह व्यवहारदर्शने नियोक्तव्यः । स्वयं च प्राड्विवाकसंज्ञकब्राह्मणो राजन्यो ऽपि व्यवहारान् पश्यति नियोक्तव्य एव । यद् आह नारदः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद् व्यवहारान् अनुक्रमात् ॥

राजा चेद् व्यवहारान् पश्यति प्राड्विवाको ऽनुमन्ता, अन्यदा तु व्यवहारद्रष्टा । अत एव वृद्धबृहस्पतिः ।

राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सत्यशास्त्रमते स्थितः ॥
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाकस् ततः स्मृतः ॥
व्यवहाराश्रितं प्रश्नं पृच्छति प्राड् इति श्रुतिः ।
विवदेत् तत्र यस् तस्मिन् प्राड्विवाकस् तु स स्मृतः ॥

नारदः ।

यथा शल्यं भिषक् कायाद् उद्धरेद् यन्त्रयुक्तितः ।
**प्राड्विवाकस् तथा शल्यम् युद्धरेद् व्यवहारतः ॥ [६०३]

गौतमः- “सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनम्” ॥ २.३ ॥

किं च

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकरिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ २.४ ॥

उक्ताः सभ्यास् ते यदि रागादिवशात् स्मृतिशास्त्रविरुद्धं विवादे ऽपि निर्णयं कुर्वन्ति तदा विवादाद् विवादविषयीभूताद् धनाद् द्विगुणं दण्डं प्रत्येकं दण्डनीयाः । अत्रादिशब्देन सदाचारन्यायापेतस्य ग्रहणम् । रागादिग्रहणं चेह दण्डनीयत्वनिमित्तस्य स्मृत्यपेतादिकारित्वस्य न विशेषणं वाक्यभेदप्रसङ्गात् । यथोभयत्वं हविरांतेः (रादेः) । ततश् च प्रदर्शनार्थत्वे मोहादिहेतुकस्यापि स्मृतिविरुद्धकारित्वस्य दण्डविशेषनिमित्तता भवति । अत एव भृशदण्डनिमित्तेन लोभादिना तुल्यम् अज्ञानम् आह नारदः ।

रागाद् अज्ञानतो वापि लोभाद् वा यो ऽन्यथा वदेत् ।
सभ्यो ऽसभ्यः स विज्ञेयस् तं पापं विनयेद् भृशम् ॥ इति ।

एतच् च दण्डविधानं धनविषयविवादे । वादान्तरे तु पारुष्यादिविषये दण्डान्तरं वेदितव्यम् । अत एवाह विष्णुः- “कूटसाक्षिणां सर्वस्वापहारः । उत्कोचजीविनां सभ्यानां च” । अत्राप्य् उत्कोचग्रहणं प्रदर्शनार्थम्। । अत एव वृद्धबृहस्पतिः ।

अन्यायवाचिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकश् चैव निर्वाश्याः सर्व एव ते ॥

यत् तु,

लोभात् सहस्रं दण्ड्यः स्यान् मोहात् पूर्वं तु साहसम् ।

इत्यादिलोभमोहयोर् अतुल्यदण्डनिमित्तत्ववचनं तत् साक्षिविषयं न सभ्यविषयम् । अत एव कात्यायनः सम्यग्ज्ञानरहितस्य सभ्यस्य द्विगुणं दण्डम् आह ।

कार्यस्य निर्णयं सम्यग् ज्ञात्वा सभ्यस् ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥

तथा रागापरपर्यायेण स्नेहेन लोभेन च सभ्यदण्डं प्रत्य् अज्ञानस्य तुल्यं निमित्तत्वम् आह ।

स्नेहाद् अज्ञानतो वापि मोहाद् वा लोभतो ऽपि वा ।
अत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यस् तु स स्मृतः ॥

[६०४] सभ्यदोषात् तु यन् नष्टं देयं सभ्येन तत् तदा ।

कार्यं तु कार्यिणाम् एवं निश्चितं न विचारयेत् ॥

तथा ।

अनिर्णीते तु यद्य् अर्थे संभाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्यश् चैव न संशयः ॥

नारदः ।

नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ।
नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥
नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुम् अर्हति ।
दैवीं वाचं स वदति यः शास्त्रम् उपजीवति ॥

बृहस्पतिः ।

नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुम् अर्हति ।
यत् तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ॥

यथा ।

लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिश्चयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥

नृपानुवृत्तौ कात्यायनः ।

अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षंआणाः सनृपा नरकं यान्त्य् अधोमुखाः ॥
अन्यायतो यियासन्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥

मनुः ।

राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यदि निन्द्यते ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥

कात्यायनः ।

न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति च संशयः ॥
यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥

प्रेक्षमाणानाम् इत्य् अनादरे षष्ठी । व्यासः ।

नासौ सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यम् अस्ति न तत् सत्यं यच् छलेनानुविद्धम् ॥
ये तु सभ्याः सभां प्राप्य तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं च न ब्रूयुः सर्वे ते ऽनृतवादिनः ॥ २.४ ॥

[६०५]

वयवाहदर्शननिमित्तम् आह

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ २.५ ॥

स्मृतिशास्त्रशिष्टाचाररहितेन मार्गेणोपायेन परैर् आक्षिप्तः सन् राज्ञे यद्य् आवेदयति अहम् अनेन विधिनान्यायेन परिभूतो ऽस्मीति यत् तन् निवेदनं व्यवहारपदम् । पदं स्थानं निमित्तम् इति यावत् । परैर् इति बहुवचनम् उपलक्षणार्थम् । तेनैकेन द्वाभ्यां बहुभिश् चाक्षिप्तो लक्ष्यते । आवेदनस्य व्यवहारदर्शने निमित्तत्वेन प्रतिपादनाद् आवेदनाद् ऋते व्यवहारदर्शनं राज्ञा न कार्यम् । तथा च मनुः ।

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेतार्थं कथंचन ॥

कार्यं न ग्रसेत नापलापयेत् । अत्र कात्यायनः ।

केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभां गतः ।

केन पुरुषेण कस्मिन् कार्ये कदा कस्माद् धेतोः परिभूतो ऽसीति सभां गतः सभ्य आवेदयितारं पृच्छेत् ।

सशस्त्रो ऽनुत्तरीयश् च मुक्तकेशः सहासनः ।
वामहस्तेन वा स्रग्वी वदन् दण्डम् अवाप्नुयात् ॥

अयम् अर्थः — स पृष्टः सन् यदि सशस्त्र उत्तरीयवस्त्रहीनो मुक्तकेश आसनोपविष्टो वामहस्तेन किंचिच् चालयञ् शिरसा स्रजं वा धार्यन्न् उत्तरं वदति तदा दण्ड्य इति । तथा ।

काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥
मुद्रां च निक्षिपेत् तस्मिन् पुरुषं वा समादिशेत् ॥

तथा ।

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचमानाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥

बृहस्पतिः ।

यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।
**तम् एवानाययेद् राजा मुद्रया पुरुषेण वा ॥ [६०६]

तथा ।

अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिवृपकार्योत्सवाकुलान् ॥
धर्मोद्यतान् अभ्युदये पराधीनशठाकृतीन् ।
मत्तोन्मत्तप्रमत्तांश् च भृत्यान् नाह्वाययेन् नृपः ॥

अकल्पो व्याधितः । विषमं दुर्गं निगडादि वा । क्रियाकुलो नित्यनैमित्तिककर्मकरणव्यग्रः । कार्यातिपाती यस्य तत् कालम् आगच्छतो गुरुतरकार्यविनाशः । व्यसनम् इष्टवियोगादि । उत्सवः कौमुद्यादिः सर्वजनीनः । विवाहादिर् वा प्रातिस्विकः । यदि चिरकालानुवर्त्यनागमनकारणं तदाहूतः सन् व्यवहारनिर्धारणाय पुरुषान्तरं प्रस्थापयेत् । अत एवाह ।

न च भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥

तथा ।

हीनपक्षा च युवतिः कुलजाता प्रसूतिका ।
सर्ववर्णोत्तमा कन्या ता ज्ञातिप्रभुकाः स्मृताः ॥

अत एवासां ज्ञातय एवाह्वातव्या इत्य् अर्थः । आह्वातव्या आह ।

तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् अर्हति ॥

राजा कर्तुम् इति शेषः । एतच् चोपलक्षणम् । तेन गोपशौण्डिकादिस्त्रीणाम् अपि परिग्रहः । तासाम् अपि व्यवहारप्रणेतृत्वात् । वनस्थादिव्यतिरेकेण यत्र न सिद्धिस् तत्र तान् अप्य् आह्वाययेत् । तद् उक्तम् ।

ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वाययेद् राजा गुरुकार्येषु गोपयन् ॥

तथा ।

आसेधयोग्य आसेधम् उत्क्रामन् दण्डम् अर्हति ।
आसेधयंस् तु नासेध्यं राज्ञा शास्य इति स्थितिः ॥

आहूतस्यागच्छत आह्वात्रासेधयोग्यस्यासेधो भोजनादिकार्यान्तरनिषेधः कार्यः । अनासेध्यान् आह नारदः ।

नदीसंतारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥

[६०७] निवेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।

अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यकाले कृषीवलाः ।
शिल्पिनश् चापि तत्काले आयुधीयाश् च विग्रहे ॥
अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या नैतान् आह्वाययेन् नृपः ॥
देशं कालं च विज्ञाय कार्याणां च बलाबलम् ।
अकल्पादीन् अपि शनैर् यानैर् आनाययेन् नृपः ॥

यानैः शिबिकादिभिः । नारदः ।

वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थं यावद् आह्वानदर्शनम् ॥

आहूयते ऽनेनेति व्युत्पत्त्या राजपुरुष आह्वानः । आसेधे चातुर्विद्यम् आह ।

स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं व्यतिक्रमेत् ॥

स्थानासेधो यथा — नात्र गृहादौ स्थातव्यम् इति । कालासेधस् त्व् अद्य त्वया न भोक्तव्यम् इत्यादि । प्रवासान् निषेधो यात्रानिवारणम् । कर्मणो निषेधः कृष्यादिवारणम् ।

आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथा कुर्वन्न् आसेद्धा दण्डभाग् भवेत् ॥

विनेयो दण्ड्यः । अन्यथा कुर्वन्न् अनासेध्यम् आसेधयन्न् इत्य् अर्थः । कात्यायनः ।

आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥
हीने कर्मणि पञ्चाशन् मध्यमेन शतावरम् ।
गुरुकार्येषु दण्ड्यः स्यान् नित्यं पञ्चशतावरम् ॥

ताम्रिकपणाभिप्रायैषा संख्या ।

दूताय साधिते कार्ये नेता भक्तं प्रदापयेत् ।
देशः कालो वयः शक्तिर् अपेक्ष्या भोजने तथा ॥
आकारकस्य सर्वत्र त्व् इति धर्मविदो विदुः ।
प्रतिभूश् च ग्रहीतव्यः प्राड्विवाकेन कार्यिणः ॥

[६०८] प्रत्यर्थिनि समायाते समुपस्थापनक्षमः ।

अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादितः ॥
स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥ २.५ ॥

व्यवहारान् पश्यता प्रथमं यत् कार्यं तद् आह

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना ।
समामासतदर्धानर्नामजात्यादिचिह्नितम् ॥ २.६ ॥

अर्थिनाग्रवादिना धर्माधिकारे येन येन प्रकारेण कार्यम् आवेदितं तत् तेनैव प्रकारेण वर्षादिचिह्नितं प्रत्यर्थिनः पुरतो राज्ञा लेखयितव्यम् । तत्रावेदनप्रकारो यथा — मदीयं सुवर्णम् एतावद् अमुकवत्सरे ऽमुकमासे ऽमुकपक्षे ऽमुकतिथाव् अमुकेनामुकजातीयेनाधमर्णेन गृहीतम् इति । अथ वा विवादास्पदधनस्य नामजात्यादिचिह्नितम् । आदिशब्देन खण्डत्वमुण्डत्वसंख्यापरिमाणादि गृह्यते । अन्यथा संख्यादिरहितद्रव्यविषयविवादस्यानादेयता स्यात् । अत्र कात्यायनः ।

निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
वेलां प्रदेयं विषयं स्थानं जात्याकृती वयः ॥
साध्यं प्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥
क्रमात् पितॄणां नामानि पीडाम् आहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥

येषां मध्ये यानि साधकबाधकप्रमाणोपन्यासोपयोगीनि यत्र भवन्ति तत्र तान्य् एव लेख्यानि । न सर्वाणि प्रयोजनाभावात् । तत्र समामासादीनां वृद्धिविवाहादेः पूर्वोत्तरकालविवादे चास्त्य् उपयोगः । चौर्यादिविवादे नामजात्यादेः । एवम् अन्येष्व् अप्य् ऊहनीयम् ।

देशः कालस् तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञाधिवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥

देशो जनपदः । तेन विशेषणीयं विवादास्पदं स्थावरम् । एवम् उत्तरत्रापि । [६०९] क्रयविक्रयप्रतिग्रहादिकालो ऽत्र कालः । स्थानं ग्रामादिसंनिवेशो वृत्तत्वदीर्घत्वादिः । जातिर् व्रीह्यादिजन्म, तयोपलक्षणीयं क्षेत्रादीत्य् अर्थः । अथ वा दायकादेर् जातिर् ब्राह्मणादिः । संज्ञा नाम, चिह्नं वा वृक्षादि । अधिवासः समीपवर्तिक्षेत्रस्वामिवर्गः । प्रमाणं परिमाणं निवर्तनादि । आघटनादि वा । प्रसिद्धम् अन्यत् । एवम् उक्तरूपा भाषा लेखनीया विचारकैर् उपादेया न विपरीता । तद् उक्तम् ।

देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥

अनादेयस् त्याज्यः परीक्षकैः । अयम् अभिप्रायः — निर्णयप्रयोजनवान् विचारः प्रेक्षावताम् उपादेयः । ऋणादानादिव्यवहारश् च धनप्राप्तिप्रयोजनः । न चोक्तविशेषेण रहितं धनं पराजितेनापि प्रतिवादिना शक्यं दातुम् इतरेण च ग्रहीतुम् ।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥

अप्रसिद्धौ यथा — मदीयं शशविषाणम् अनेनापहृतम् इति । निराबाधो निरुपद्रवो यथा — अस्मत्प्रदीपप्रभयायं स्वगृहे व्यवहरति । निरर्थो निरभिधेयो यथा — कचततपेति । निष्प्रयोजनो यथा — अस्मद्गृहसंनिधौ श्लाघ्यमानः (?) पठतीति । असाध्यो ऽशक्यसाधनो यथा — देवदत्तेनाहम् अक्षिनिकोचेनोपहसित इति । न ह्य् अयं पक्षः साक्षिविषयः, अल्पकालत्वात् । नापि दिव्यविषयो ऽल्पत्वात् । प्रमाणान्तरं तु नैव संभवति । पुरराष्ट्रराजकार्यविरुद्धो विरुद्धः । एवंविधं पक्षं वादी वर्जयेन् नोपन्यसेत् । उपन्यस्तम् अपि राजा नोपाददीत । कात्यायनः ।

पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ॥

पुरराष्ट्रविरुद्धः पुरराष्ट्राचारविरुद्धः । राज्ञा विवर्जितो निषिद्धो नास्मद्राष्ट्रे रूपकैर् व्यवहर्तव्यम् इत्यादि । ऋणादीनां व्यवहारपदानाम् एकेषां यत्र पक्षे संकरः सो ऽनेकपदसंकीर्णः, यथा— मदीयं सुवर्णम् अनेन गृहीतम् एतद्धस्ते मया द्रम्मसहस्रं निक्षिप्तम् । अस्वामिनानेन गौर् विक्रीता भासप्लवान् दण्डेन च ताडितवान् इति ।

बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् ।
**कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ [६१०]

यत् कार्यम् एकम् ऋणादानादिकं बहूनाम् अर्थानां प्रतिज्ञया विना न सिध्यति तद् ग्राह्यं तेन संकीर्णविषयत्वाभावाद् उपादेयम् एव । यथा — वाराणस्याम् अनेन मदीयं सुवर्णशतम् ऋणरूपेण गृहीतम् । पुनर् वर्षान्तरे वस्त्राण्य् एतावन्ति गृहीतानि । अतो ऽपि कालान्तरे स्थानान्तरेष्व् अजा गावो धान्यं च गृहीतम् इति । अथ वायम् अर्थः — ऋणादाननिक्षेपास्वामिविक्र्यादिव्यवहारविषया अनेकाः प्रतिज्ञा एकस्मिन् धनप्राप्तिरूपे कार्ये भवन्ति । तद् अपि कार्यं कामं राजोपाददीत । यद् प्रतिज्ञासु प्रत्येकं भेदेन प्रमाणोपन्यासं करोति । नारदः ।

एकस्य बहुभिः सार्धं स्त्रीभिः प्रेष्यकरैस् तथा ।
अनादेयो भवेद् वादो धर्मविद्भिः प्रकीर्तितः ॥
गुरोः शिष्यैः पितुः पुत्रैर् दम्पत्योः स्वामिभृत्ययोः ।
एतेषु समवेतेषु व्यवहारो न विद्यते ॥

बहुभिः सहैकस्य प्रत्येकं युगपद् व्यवहारो नादेयः । क्रमेण तु बहुभिर् अपि सह समुदितैर् वादेय एव । स्त्रीभिर् गोपशौण्डिकादिस्त्रीव्यतिरिक्ताभिर् एवं प्रेष्यकरैर् दासादिभिर् व्यवहारो नादेयः । किं तु तत्स्वामिभिः सहैव कार्यः । यथाशास्त्रं गुरुणा दण्डितेषु शिष्येषु तैः सह गुरोर् विवादो दण्डपारुष्ये नादेयः । एवं पुत्रादीनां पित्रादिभिः । तद् उक्तं मनुना ।

भार्या पुत्रश् च दासश् च शिष्यो भ्राता सहोदरः ।
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कदाचन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥

किल्बिषं दण्डनिमितम् । तथा च दम्पत्योः सादारणधन्त्वान् मध्यके धने विवादो नादेयः । “तथा विवादं कुर्वीत सा भर्त्रा हीयते अप्” इति शङ्कया विवादो नादेयः । बृहस्पतिः ।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥
मृषायुक्तिक्रियाहीनम् असाध्याद्यर्थम् आकुलम् ।
पूर्वं पक्षं लेखयतो वादहानिः प्रजायते ॥

प्रतिज्ञादोषो यथा — प्रत्यक्षादिप्रमाणविरोधो यथानुष्णो ऽग्निः । लोकविरोधो यथाशशी चन्द्रः । स्ववचनवोरोधो यथा — माता मे वन्ध्या । पिता मे [६११] बालब्रह्मचारीत्यादयः । मृषा मिथ्या । कात्यायनः ।

अधिकांश् छातयेद् अर्थान् हीनांश् च प्रतिपूरयेत् ।
भूमौ निवेशयेत् तावद् यावद् अर्थो ऽभिवर्णितः ॥

तथा ।

पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽभिलेखयेत् ।
पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ॥

स्वभावो भयाद्युपाधिरहितत्वम् । नारदः ।

भाषाया उत्तरं यावत् प्रत्यर्थी न निवेदयेत् ।
अर्थी तु लेखयेत् तावद् यावद् वस्तु विविक्षितम् ॥

बृहस्पतिः ।

अभियोक्ताप्रगल्भत्वाद् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कालशक्त्यनुरूपतः ॥

अभियोक्ताग्रवादी । यत्रोभयोर् अर्थित्वं प्रत्यर्थिवं च साध्यभेदाद् भवति तत्र को ऽग्रवादीत्य् अपेक्षिते बृहस्पतिर् आह ।

अहंपूर्विकया याताव् अर्थिप्रथर्थ्नौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेष्य च ॥

यत्रानेकानि वादिप्रतिवादियुग्मानि युगपद् उपस्थितानि स्युस् तत्र व्यवहारदर्शने क्रमनियमम् आह मनुः ।

अर्थानर्थाव् उभौ बुद्ध्या धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥

कात्यायनः ।

तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् उक्ते सदस्य् आस्तु प्राड्विवाकस् त्व् अतः परम् ॥

भाषोत्तरक्रियानिर्णया एवाभियोक्त्रादिविषयविशिष्टा तत्रोक्ताः । नारदः ।

यस्य वात्यधिका पीडा कार्यं वात्यधिकं भवेत् ।
तस्याग्रवादो दातव्यो न यः पूर्वं निवेदयेत् ॥

बृहस्पतिः ।

चतुर्विधः पूर्वपक्षः प्रतिपक्षस् तथैव च ।
चतुर्धा निर्णयः प्रोक्तः कश्चिद् अष्टविधः स्मृतः ॥
शङ्काभियोगस् तथ्यं च लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा ।
वृत्ते वादे पुनर् न्यायः पक्षो ज्ञेयश् चतुर्विधः ॥ २.६ ॥

[६१२]

श्रुतार्थस्योत्तरं लेख्यं पूर्ववादकसंनिधौ ।

श्रुतो भाषाया अर्थो येन प्रतिवादिना तदीयम् उत्तरं पूर्ववादिसंनिधौ लेख्यम् । अत्र बृहस्पतिः ।

विनिश्चिते पूर्वपक्षे ग्राहाग्राह्यविशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेद् उत्तरं ततः ॥

नारदः ।

यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥
पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥

पक्षस्य व्यापकं यत् पक्षं निराकारकतया व्याप्नोति । सारं दृढम् । असंदिग्धम् असंकीर्णम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यम् अध्याहारव्यवहितयोजनाव्यवधारणकल्पनाविपरिणामरहितम् । उत्तरभेदान् आह ।

मिथ्यासंप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा ।
प्राङ्न्यायविधिसिद्ध्या वा उत्तरं प्राक् चतुर्विधम् ॥

कात्यायनः ।

श्रुत्वा भाषार्थम् अन्यस् तु यदा तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज् ज्ञेयम् उत्तरम् ॥

मिथ्योत्तरं चतुर्विधं यद् आह स एव ।

मिथ्यैतन् नाभिजानामि तदा मे ऽभूद् असंनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधः ॥

मिथ्योत्तरस्य मिथ्यैतद् इत्य् एकः प्रकारः । नाभिजानामीति द्वितीयः । तस्मिन् काले तस्मिन् देशे च न मे संनिधिर् इति तृतीयः । तस्मिन् काले ऽहं त्व् अजात इति चतुर्थः । नाभिजानामि न स्मरामीत्य् अर्थः । संप्रतिपत्त्युत्तरस्वरूपम् (?) आह ।

साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ।

पूर्ववादिप्रतिज्ञा सत्येत्य् उत्तरं संप्रतिपत्तिः । संप्रतिपत्ताव् उत्तरान्त एव व्यवहारः । अत एव तत्र व्यवहारस्य द्विपात्त्वम् आह बृहस्पतिः ।

मिथ्योत्तरे चतुष्पात् स प्रत्यवस्कन्दने तथा ।
**व्यवहारस् तु विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥ इति । [६१३]

भाषा, उत्तरम्, प्रमाणम्, निर्णयः, इति व्यवहारस्य चत्वारः पादाः । संप्रतिपत्तौ तु भाषोत्तरात्मकौ द्वाव् एव पादौ । प्रत्यवस्कन्दलक्षणम् आह नारदः ।

अर्थिना लिखितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥

प्राङ्न्ययोत्तरलक्षणम् आह स एव ।

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
स विनेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥

आचारो व्यवहारः । अवसन्नो जितः । मिथ्योत्तरादीनां परस्परविविक्तत्वे सत्य् उत्तरत्वं न तु मिश्राणाम् । तद् आह कात्यायनः ।

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे स्यात् संकरात् तद् अनुत्तरम् ॥

अनुत्तरत्वे हेतुम् आह ।

न चैकस्मिन् विवादे च क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥

क्रिया साक्ष्यादिकं प्रमाणम्, तन् मिथ्योत्तरे पूर्ववादिनः । प्रत्यवस्कन्दे चोत्तरवादिनः । तत्र यदि मिथ्यावस्कन्दयोः संकीर्णयोः सम्यगुत्तरत्वं स्यात् तदा द्वयोर् वादिनोः प्रमाणं प्राप्नोति । तच् च विरुद्धम्, तथा यदि मिथ्योत्तरं तदा पूर्ववादिन एव् प्रमाणं न तूत्तर्वादिनः । तच् चैतद् एकस्मिन् व्यवहारे विरुद्धम् । भवतु वा द्वयोः प्रमाणम् अविरुद्धं तथापि द्वयोर् अर्थसिद्धिर् विरुध्यते । तथा हि — पूर्ववादिना स्वसाध्यो ऽर्थो ममानेन सुवर्णशतं देयम् इत्यादि लिखितादिना साध्यते । परेणापि न देयम् इति, तत्रोभयोर् नार्थसिद्धिर् अन्योन्यविरोधात् । किं च प्रत्यवस्कन्दोत्तरप्राङ्न्यायोत्तरयोः संकीर्णयोः सम्यगुत्तरते प्रमाणद्वयम् एकत्र वादिनि प्राप्नोति । तथा हि — प्रत्यवस्कन्दवादित्वादित्वाद् गृहीतस्य दत्तत्वादौ कारणे कापि क्रिया कार्या । प्राङ्न्यायोत्तरत्वे तु जितपत्रादिका क्रिया । न च क्रियाद्वयस्य प्रामाण्यं प्रमेयभेदात् । एकया हि क्रियया साध्यसिद्धौ व्यर्थापरा । तस्माद् संकीर्णम् एव सम्यगुत्तरम् । व्यासः ।

मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥
मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ।
यत् प्रभूतार्थ्विषयं यत्र वा स्यात् क्रियाफलम् ॥

[६१४] उत्तरं तत्र तज् ज्ञेयम् असंकीर्णम् अतो ऽन्यथा ॥

अस्यार्थः — एकत्रोत्तरावसरे मिथ्योत्तरं कारणं चोत्तरवादी ब्रूते । यथा मदीया गौर् अस्मिन् काले ऽनेनापहृता सास्य गौर् विद्यते गृह इति पूर्ववादिनोक्ते ऽन्यो ब्रूते — मिथ्यैतत् किं त्व् अस्मद्गृहजातैवेति । तथा चौरो ऽयं यतो देवदत्तस्य गौर् विनष्टा सास्य गृहे वर्तत इति पर्यनुयुक्तो ब्रूते — सत्यं देवदत्तस्य गौर् अस्मद्गृहे वर्तते, किं तु नाहं चौरो यतो ऽस्मद्गोधनेन सार्धम् अस्मद्गृहम् आगतेति । अत्र प्रत्यवस्कन्दांश एवोत्तरत्वेन ग्राह्यः । यद् वा यस्मिन्न् अर्थे साधिते द्वितीयो ऽर्थात् सिध्यति तत् प्रभूतविषयम् उत्तरं ग्राह्यम् । यत्र वांशे प्रमाणफलं हानम् उपादानं वा संभवति स ग्राह्यः । अतः प्रकारात् प्रकारान्तरम् असंकीर्णम् एव वाच्यं न तु संकीर्णम् इति । अत एव कात्यायनः ।

प्रपद्य कारणं पूर्वम् अन्यद् गुरुतरं यदि ।
प्रतिवाक्यगतं ब्रूयात् साध्यते तद् धि नेतरत् ॥

बृहस्पतिः ।

प्रत्यर्थविधिर् आख्यातः संगतार्थप्रपादने ।
चतुर्विधस्याप्य् अधुना यत् तद् ग्राह्यं तद् उच्यते ॥
प्रस्तुताद् अन्यन् मध्यस्थं न्यूनाधिकम् असगतम् (?) ।
अवाच्यसारं संदिग्धं प्रतिपक्षं न लक्षयेत् ॥

कात्यायनः ।

संदिग्धम् अन्यत् प्रकृताद् अत्यल्पम् अतिभूरि वा ।
पक्षैकदेशे व्याप्य् अन्यत् तथा नैवोत्तरं भवेत् ॥
यद् व्यस्तपदम् अव्यापि निगूढार्थम् अनाकुलम् ।
व्याख्यागमम् असारं च नोत्तरं स्वार्थसिद्धये ॥

तत्र संदिग्धं यथा — सुवर्णशतं मे धारयते ऽयम् इत्य् अनुयुक्तो ब्रूते सुवर्णशतं पणशतं वेति । प्रकृताद् अन्यद् यथा — सुवर्णशतं धरयसे त्वं मदीयम् इत्य् उक्तो नाहं त्वां ताडयामीति वदति । अत्यल्पं यथा — शताभियोगे सत्यं दश धारयामीति । अथ वा चकारादिना निपातेनानेकविवक्षितार्थप्रतिपादनम्, अतिभूरि, स्वल्पे ऽर्थे वक्तव्ये महावाक्यम् असंग्राह्यार्थम् । पक्षैकदेशव्यापि पूर्वपक्षैकदेशे निराकारकं यथा — गोहिरण्याद्यनेकद्रव्यानुयोगे कृते न हिरण्यं धारये ऽहम् इति व्यस्तपदं व्यवहितान्वयम् । अव्यापि देशविशेषेण कालविशेषेण वा विशिष्टं [६१५] पूर्वपक्षं निराकरोति न स्वरूपेण, यथा — चैत्रमास्य् उज्जयिन्यां सुवर्णशतं मदीयम् अनेन गृहीतम् इत्य् अभियुक्तो ब्रूते न मयोज्जयिन्यां चैत्रे गृहीतम् इति । नैवम् आचष्टे न मया गृहीतम् इति । निगूढार्थम् अप्रसिद्धार्थपदम् । यथा — अर्जुनीशब्देन गोर् अभिधानम् । काश्यपीशब्देन वा भूमेः । आकुलं पूर्वापरविरुद्धम् । व्याख्यागम्यम् असमर्थसमासाध्याहारविपरिणामादिवशाद् गमकम् । असारम् अदृढं यत्रोक्त एव नैतत् संभवतीति सर्वेषां बुद्धिर् जायते । बृहस्पतिः ।

पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं तु यः ।
प्रत्यक्षी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥
प्रियपूर्वं वचः साम भेदस् तु भयदर्शनम् ।
अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥
उभयैश् चोद्यमाने ऽपि न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दण्डम् अर्हति ॥

उभयैर् उपायैर् मृदुभिः खरैश् च । तथा ।

उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिवृद्धबालाश् च विज्ञेयास् तु निरुत्तराः ॥

कात्यायनः ।

यथार्थम् उत्तरं दद्याद् अयच्छन्तं च दापयेत् ।
सामभेदादिभिर् मार्गैर् यावत् सो ऽर्थः समुत्थितः ॥
मोहाद् वा यदि वा शाठ्याद् यन् नोक्क्तं पूर्ववादिना ।
उत्तरान्तर्गतं चापि तद्ग्राह्यम् उभयोर् अपि ॥

अयम् अर्थः — यद् वा यद् अपि संमोहादिवशात् पूर्ववादिना नोक्तम् । उत्तरान्तर्गतं चाप्य् उत्तरे कथ्यमाने ऽपि प्रोच्यमानं ग्राह्यम् उत्तरवादिनः । क्रियापाद उत्तरम् । उत्तरसमाप्तौ तु कात्यायन आह ।

उभयोर् लिखिते वाच्ये प्रारब्धे कार्यनिर्णये ।
अनुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् स हीयते ॥
ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ २.७ ॥
तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ।
चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः ॥ २.८ ॥

[६१६]

तत उत्तरलेखनाद् उत्तरकालम् अर्थी पूर्ववादी प्रतिज्ञातस्यार्थस्य साधनं प्रमाणं सद्यस् तत्कालम् एव लेखयेत् । तस्य साधनस्य सिद्धौ सिद्धिं जयलक्षणां प्राप्नोति । अतो ऽन्यथा साधनस्यासिद्धौ विपरीतं पराजयम् आप्नोतीत्य् अर्थः । तथा च नारदः ।

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तधानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥

प्रतिज्ञाम् उत्तीर्णो भवेद् इत्य् अर्थः । अयम् अस्माभिश् चतुष्पाच् चतुर्भागो व्यवहारो व्यापारः सर्वविवादेषूक्तः । तत्र “प्रत्यर्थिनो ऽग्रतो लेख्यम्” इत्य् अनेन व्यवहारस्य प्रथमपाद उक्तः । “श्रुतार्थस्योत्तरं लेख्यम्” इत्य् अनेन द्वितीयः । “ततो ऽर्थी लेखयेत् सद्यः” इत्य् अनेन तृतीयः । “तत्सिद्धौ सिद्धिम्” इति चतुर्थः । अत्र च सिद्धिशब्देन सभ्यानाम् अर्थिप्रत्यर्थिविषयजयपराजयावधारणोपायभूतं प्रमाणम् अस्येदं शास्त्रतः प्राप्नोतीति विचारकाणां परामर्शः प्रत्याकलितादिशब्दवाच्य उच्यते, सिद्धिफलत्वात् । अत एवाह कात्यायनः ।

पूर्वपक्षश् चोत्तरं च प्रत्यकलितम् एव च ।
क्रियापादश् च तेनायं चतुष्पात् समुदाहृतः ॥

अत एव बृहस्पतिः ।

पूर्वपक्षः स्मृतः पादो द्वितीयस् तूत्तरस् तथा ।
क्रियापादस् तथा वाच्यश् चतुर्थो निर्णयस् तथा ॥

अत्र च निर्णयफलको न्यायपरामर्शो निर्णयशब्देन लक्ष्यते । ततो ऽर्थी लेखयेत् सद्य इति मिथ्योत्तरविषयम् । उत्तरान्तरे तु प्रत्यर्थीन (?) एव प्रमाणम् । तद् आह हारीतः ।

प्राङ्न्याये कारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥

क्रियात्र साधनम् । तद् आह कात्यायनः ।

कार्यं हि साद्यम् इत्य् उक्तं साधनं तु क्रियोच्यते ।
द्विभेदा सा पुनर् ज्ञेया दैविकी मानुषी तथा ॥
मनिषी लेख्यसाक्ष्यादिर् वधादिर् दैविकी मताह् ॥

प्राक्न्यायोत्तरे मनुष्य् एव जयपत्रादिका क्रियेत्य् आह व्यासः ।

प्राक्न्याये जयपत्रेण प्राड्विवाकादिभिस् तथा ।
**सत्यं वादी समाप्नोति यद् यत् तेन निवेदितम् ॥ [६१७]

प्राड्विवाकादयः पूर्वं न्यायद्रष्टार उक्ताः ॥ २.८ ॥

[इति श्रीविद्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमद्परआदित्यदेवविरचिते याज्ञवल्क्यधर्मास्त्रनिबन्धे ऽपरार्के

साधारणव्यवहारमातृकाप्रकरणम् ॥ १ ॥ ]