१३ राजधर्म-प्रकरणम्

अथ सटीकायाज्ञवल्क्यस्मृतौ

राजधर्मप्रकरणम् । (१२)

उक्ता वर्णधर्मा ब्रह्मचारिगृहस्थधर्माश् च । इदानीं राज्ञो गृहस्थस्यापि गुणवतो जनपदपरिपालनादीन् धर्मान् वक्तुं यैर् गुणैर् युक्तः प्रज्पालनयोग्यो भवति तांस् तावद् आह

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ॥ १.३०७ ॥
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः ।
अदीर्घसूत्री स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा ॥ १.३०८ ॥
धार्मिको ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ।
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ॥ १.३०९ ॥
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ।

[५७७]

महोत्साहत्वादिगुणवान् नृपो भवति । ब्राह्मणादीनां स्वकर्मस्थापनयोग्यो भवतीत्य् अर्थः । महोत्साहो महोद्यमः । महाविषयत्वम् अविहन्यमानत्वं चोत्साहस्य महत्त्वम् । स्थूललक्षो बहुप्रदः । यः प्रत्युपकारायोपकारिणं स्मरति स कृतज्ञः । वृद्धसेवको ज्ञानादिगुणवृद्धपुरुषोपासकः । विनीतो गुर्वादिषु नम्रः । दुर्दशाम् आपन्नो ऽपि न न्यायड् अपैति यः स सात्त्विकः । कुलीनः शुद्धवंशजः । सत्यवाक् सत्यप्रतिज्ञः । शुचिर् बाह्याभ्यन्तरशौचवान् । अदीर्घसूत्री प्रमिते ऽर्थे निराशङ्कः । स्मृतिमान् प्रशस्तस्मृतिः । अक्षुद्रो ऽनल्पहृदयः । यो ऽल्पापकारोपकाराभ्यां कोपप्रसादवान् सो ऽल्पहृदयः । अपरुषो ऽकठोरवाक् । धार्मिकः प्रसिद्धः । पुरुषार्थविक्षेपकं द्यूतादिकं व्यसनं तद्रहितो ऽव्यसनः । प्राज्ञशूरौ प्रसिद्धौ । रहस्यविद् अत्मज्ञो मन्त्रज्ञः पररन्ध्रज्ञो वा । स्वरन्ध्रगोप्ता यत्र राज्याङ्गवैकल्ये परः प्रविशति तद् रन्ध्रं तस्य गोप्ता रक्षकः । आन्वीक्षिक्यां दण्डनीत्यां वार्तायां त्रय्यां च विनीतः शिक्षितः । आन्वीक्षिकी वेदाद्यविरुद्धन्यायविद्या । दण्डनीतिर् अर्थशास्त्रम् । वार्ता कृष्यादिविद्या । ऋग्यजुःसामानि त्रयी । त्रयीग्रहणात् तत्परिकरभूतानि व्याकरणाद्यङ्गानि मीमांसापुराणधर्मशास्त्राणि गृह्यन्ते ॥ १.३०७, ३०८, ३०९ ॥

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिराञ् शुचीन् ॥ १.३१० ॥
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम् ।

स उक्तगुणो राजा मन्त्रिणः कार्याकार्यविदः । प्राज्ञान् ऊहापोहसमर्थान् । मौलान् पितृपारम्पर्यागतान् । स्थिरान् स्वामिहितेष्व् अचञ्चलान् । शुचीञ् शुद्धोपधान् । प्रकुर्वीत प्रयत्नाद् उपाददीत । अथ तैः सह राज्यं राजकर्म षाड्गुण्यं तदङ्गानि च स्वाम्यादीनि चिन्तयेत् । हेयोपादेयतया विचारयेद् इत्य् अर्थः । अथ षाड्गुण्यविदा पुनर् विप्रेण सह विचारयेत् । पुनश् च स्वयं तम् एवार्थं साधकबाधकप्रमाणवत्तया निश्चिनुयात् ॥ १.३१० ॥

पुरोहितं च कुर्वीत दैवज्ञम् उदितोदितम् ॥ १.३१११ ॥
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ।

दैवज्ञत्वादिगुणोपेतं ब्राह्मणं पुरोहितं कुर्वीत । दैवज्ञो ज्योतिःशास्त्रवित् । तेन हि शास्त्रेण प्राणिनां दैवं कर्मविपाको ज्ञायते । ये मन्त्रिणाम् उदिता उक्ताः [५७८] प्राज्ञादयो गुणास् ते यस्योदिता उद्भूताः स उदितोदितः । पुरोहितंप्रकुर्वीत वृण्वीत, वरेण हि पुरोहितत्वम् उत्पद्यते यथाध्वर्युत्वादिकम् ॥ १.३११ ॥

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव चर्त्विजः ॥ ३१२ ॥
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ।

श्रुतिस्मृतिविहितागिहोत्रादिकर्मणां क्रियानुष्ठानं तस्मात् प्रयोजनीभूताद् धेतोर् ब्रह्मादीन् ऋत्विजो वृणुयात्, वरणेन कुर्यात् । यथाधानेनावहनीयादीन् । तथा हविःसंस्थासोमसंस्थादीन् यज्ञान् भूरिदक्षिणान् प्राथमकल्पितकदक्षिणादानयुक्तान् कुर्यात् ॥ ३१२ ॥

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च ॥ १.३१३ ॥
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ।
अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदुषितम् ॥ १.३१४ ॥
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ।

भोगान् भोक्तव्यान् अन्नविशेषान् वसूनि द्रविणानि च गोभूहिरण्यादीनि विप्रेभ्यो राजा दद्यात् । अत्र प्रशंसा — आत्मोपकारकत्वेन निधितुल्यत्वान् निधिर् अयं राज्ञां यद् विप्रेषूपपादितं विप्रेभ्यो दत्तम् । लौकिको निधिर् उपभोगात् प्राक् चौरादिवशात् कदाचित् क्षीयते दत्तं न तु तथेति विशेषो ऽयम् इति वक्तुम् उक्तम् अक्षय इति । भूमौ निहितं सुवर्णादिकं निधिः । न केवलं निधेर् उत्कृष्टं दानम् अपि त्व् अग्निहोत्रादेर् अपि । न हि दाने कस्च्यचिद् धविषः स्कन्नं व्यथनं वा विद्यते येन विगुणं सद् अग्न्होत्रादिवद् अफलं स्यात् । प्रायश्चित्तैश् च प्रायश्चित्तनिमित्तैश् चान्यैर् दोषैर् अदूषितम् । अत आहवनीयाद्यग्निसंबन्धिनो हुताद् धोमाद् विप्रात्मन्य् अग्नौ हुतं दत्तं श्रेष्ठं प्रशस्ततरं भवति ॥ १.३१३, ३१४ ॥

एवं दीयमानं धनं यतो ऽत्यन्तोपकारकं भवत्य् अतस् तदर्जनादिकं यथा कार्यं तद् आह

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् ॥ १.३१५ ॥
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ।

अलब्धम् अप्राप्तं धर्मेणेहेत लिप्सेत । आत्मसात्कृतं यत्नेन तत् प्रणिधानेन पालयेद् रक्षेत् । पालितं च नीत्या शास्त्रोक्तेन प्रकारेण वर्धयेद् उपचयं गमयेत् । विवृद्धं च पात्रेषु विद्यातप्वृत्तसंपन्नेषु निक्षिपेद् दद्यात् ॥ १.३१५ ॥

[५७९]

दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं च कारयेत् ॥ १.३१६ ॥
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ।

भूमिं क्षेत्रारामग्रामादिकां विप्राय दत्वा निबन्धनं वा कृत्वा भद्राणां शास्त्रार्थकारिणाम् आगामिनां नृपतीनां परिज्ञानाय परिनिश्चयाय पार्थिवः पृथिवीपतिर् लिखितं लेख्यं वक्ष्यमाणप्रकारं कारयेत् । अस्मिन् ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिनैतद् धनम् अस्मै प्रत्यब्दं प्रतिमासं वा देयम् इत्य् एवमादिनियमो निबन्धः ॥ १.३१६ ॥

लेख्यविधिम् आह

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ॥ १.३१७ ॥
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ।
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ॥ १.३१८ ॥
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ।

पटे वा कार्पासादिमये ताम्रपट्टे वात्मनः पितृपितामहादीन् विद्याविक्रमधर्मादिगुणोपेतान् अभिलेख्यास्यायं पुत्रो ऽस्यायं पौत्र इत्य् एवं लेखयित्वात्मानं च महीपतिर् लेखयित्वा प्रतिगृह्यत इति प्रतिग्रहो भूमिर् निबन्धश् च तस्य छेदो ऽपहारः स उपवर्ण्यते प्रत्यवायजनकतया येन शास्त्रेण तद् दानच्छेदोपवर्णनं तच् च लेखयित्वा स्वहस्तेन मतं मे ऽमुकपुत्रस्य महीपतेर् इति स्वहस्तलिखितेन दानकालेन च वत्सरादिना संपन्नं शासनं शिष्यन्ते दानापहारान् निवर्त्यन्ते भाविनो भूपतिप्रभृतयो येन तच्छासनं स्वमुद्रया स्वकुलचिह्नेन गरुडादिना चिह्नितम् अङ्कितं चिरकालस्थापि कारयेत् । न हि तेन विना प्रतिग्रहीता तद्वंश्यो वा भूमिनिबन्धौ शक्नुयाद् उपभोक्तुम् । अत्र बृहस्पतिः ।

दत्वा भूम्यादिकं राजा ताम्रपट्टे ऽथ वा पटे ।
शासनं कारयेद् धर्म्यं स्थानवंश्यादिसंयुतम् ॥
अनाच्छेद्यम् अनाहार्यं सर्वभाव्यविवर्जितम् ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ॥

[५८०] दातुः पालयितुः स्वर्गं हर्तुर् नरकम् एव च ।

षष्टिं वर्षसहस्राणि दानच्छेदफलं लिखेत् ॥
स्वमुद्रावर्षमासार्धदिनाध्यक्षाक्षरान्वितम् ।
एवंविधं राजकृतं शासनं समुदाहृतम् ॥

व्यासः ।

राज्ञा तु स्वयम् आदिष्टः संधिविग्रहलेखकः ।
ताम्रपट्टे पटे वापि प्रलिखेद् राजशासनम् ॥
स्थानं वंशानुपूर्वी च देशं ग्रामम् उपागतम् ।
ब्राह्मणांस् तु तथैवान्यान् मान्यान् अधिकृतांल् लिखेत् ॥
कुटुम्बिनो ऽथ कायस्थदूतवैद्यमहत्तरान् ।
मेदचण्डालपर्यतान् सर्वान् संबोधय्न्न् इति ॥
मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।
दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ॥
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ।
अनाच्छेद्यम् अनाहार्यं सर्वभाव्यविवर्जितम् ॥
दातुः पालयितुः स्वर्गं हर्तुर् नरकम् एव च ।
षष्टिं वर्षसहस्राणि दानच्छेदफलं लिखेत् ॥
ज्ञातं मयेति लिखितं दात्रध्यकाक्षरैर् युतम् ।
अब्दमासतदर्धाहाराजमुद्राङ्कितं तथा ॥
अनेन विधिना लेख्यं राजशासनकं लिखेत् ॥ १.३१७, ३१८ ॥

कं देशविशेषम् अधिवसित्वैतत् कार्यम् इत्य् अपेक्ष्यते ऽत आह ।

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् ॥ १.३१९ ॥
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ।

रम्यो मनोहरः । पशव्यः पशुभ्यो हितः । आजीव्यः समन्ताद् उपजीव्यौषधिवनस्पतितृणकाष्ठादिमान् । जाङ्गलः स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश् च । एवंविधं देशं नृपतिर् आवसेत् । तत्र च दुर्गाणि गिरिदुर्गप्रभृतीनि प्रजाधनयोर् आत्मनश् च रक्षार्थं कुर्वीत ॥ १.३१९ ॥

तत्र तत्र च निष्णातान् अध्यक्षान् कुशलाञ् शुचीन् ॥ १.३२० ॥
प्रकुर्याद् आयकर्मान्तव्ययकर्मसु चोद्यतान् ।

[५८१]

तत्र तत्र धर्मार्थकामप्रयोजनेषु कर्मसु निष्णातान् प्रवीणान् धर्मशास्त्राभिज्ञान् कर्मकुशलाञ् शुचीन् अर्थेषु चोद्यतान् उद्यमिनो धनागमान्तःपुरव्ययकर्मस्व् अध्यक्षान् अधिकृतपुरुषनियन्तॄन् प्रयत्नेन कुर्यात् । योग्यान् अध्यक्षान् कुर्याद् इति तात्पर्यार्थः । योग्यता चोक्ता ।

प्राज्ञत्वम् उपधाशुद्धिर् अप्रमादो ऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश् च योग्यता ॥

मनुः ।

तेषाम् अर्थ नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकरकर्मान्ते भीरून् अन्तर्वेश्मनि ॥

विष्णुः- “आकरलक्षणशुल्कतरनागवनेष्व् आप्तान् नियुञ्जीत । धर्मिष्ठान् धर्मकार्येषु निपुणान् अर्थकार्येषु शूरान् सङ्ग्रामकर्मसु । उग्रान् उग्रेषु षण्डान् स्त्रीषु” । मनुः ।

अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
ते ऽस्य सर्वाण्य् अवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥

कार्याणि सुकृतदुष्कृतकर्माणि ॥ १.३२० ॥

नातः परतरो धर्मो नृपाणां यद् रणार्जितम् ॥ १.३२१ ॥
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ।

यद् रणाप्तधनप्रदानं विप्रेभ्यः प्रजाभ्यश् च यद् अभयप्रदानं नास्माद् अधिको ऽन्यो नृपाणां धर्मो ऽस्ति । एतद् उपायश् च शत्रुविजय इति तत्सिद्धये च रणं कुर्याद् इति तात्पर्यार्थः ॥ १.३२१ ॥

ननु पाक्षिकानर्थशङ्कया प्रेक्षावतां रणे प्रवृत्तिर् अनुपपन्नेति विधिर् अयं न घटत इत्य् अत्राह ।

य आहवेषु युध्यन्ते भूम्यर्थम् अपराङ्मुखा ॥ १.३२२ ॥
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ।

ये क्षत्रियाः स्वकीयां भूमिं रक्षितुं परकीयां च जेतुम् अकूटैर् आयुधैर् युध्यन्ते न च शत्रून् प्रति पराङ्मुखा भवन्ति ते शत्रुभिर् हता योगिवत् स्वर्गं यान्ति स्वर्गं भुक्त्वा मुच्यन्त इत्य् अर्थः । आहवाः सङ्ग्रामाः । कूटानि विषदिघानीति तदन्यान्य् अकूटानि । अकूटैर् विषरहितैर् इत्य् अर्थः । एवं च सति नियमेनायम् असौ वा लोको जितो भवतीति नास्त्य् अनर्थशङ्का निवर्तिका ॥ १.३२२ ॥

[५८२]

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् ॥ १.३२३ ॥
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ।

निजराजसैनिकेषु शत्रुभयात् पलायनपरेषु भग्नेषु ये न निवर्तन्ते किं तु शत्रुं प्रत्यभिमुखा यान्ति तेषां पदानि क्रतुभिर् यज्ञैस् तुल्यानि पदे पदे यज्ञफलं लभन्त इत्य् अर्थः । पलायनपराणां तु शत्रुहतानां धर्मं स्वामी गृह्णाति ॥ १.३२३ ॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ॥ १.३२४ ॥
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ।

तवाहम् अस्मीति वदन्तं क्लीबं भीतं निर्हेतिं निरायुधं परसंगतम् अन्येन युध्यमानं निवृत्तं पलायमानं युद्धप्रेक्षणकादींश् च हन्यात् ॥ १.३२४ ॥

किं च

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् ॥ १.३२५ ॥
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ।

आत्मनः प्रजानां च रक्षां विधायोद्यमम् अवलम्ब्याधिकृतैः क्रियमाणाव् आयव्ययौ स्वयं पश्येत् । स्वयं ग्रहणम् आदरार्थम् । तदनन्तरम् अन्येषाम् ऋणादानादीन् व्यवहारान् दृष्ट्वा स्नात्वा कामतो भुञ्जीत । स्नानग्रहणं सकलमाध्याह्निकोपलक्षणम् । कामत इति सत्यां बुभुक्षायाम् इत्य् अर्थः ॥ १.३२५ ॥

हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत् ततः ॥ १.३२६ ॥
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ।

व्यापृतैः करादिदानाधिकृतैर् आनीतं हिरण्यादिधनं भाण्डागारे धननिधानशालायां क्षिपेत् । ततश् चाराञ् शत्रुप्रभृतिचेष्टितज्ञानाय गूढप्रहितान् आगतांस् तद्वाक्यश्रवणाय पश्येत् । ततो मन्त्रिभिः संगतः कार्यजातं निश्चित्य तत्सिद्धये दूतान् प्रेषयेत् ॥ १.३२६ ॥

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः ॥ १.३२७ ॥
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ।

[५८३]

भुक्त्वा यथेच्छम् अङ्गनाभिः सह क्रीडेत् । कार्यवशान् मन्त्रिसमागतो वा भवेत् । ततो हस्त्यश्वादिबलानि दृष्ट्वा सेनान्या चमूपतिना सह बलविषयम् अर्थं चिन्तयेत् ॥ १.३२७ ॥

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् ॥ १.३२८ ॥
गीतनृत्तैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ।

सायंसंध्याम् उपास्य रहस्यं चारवाक्यं श्रुत्वा गीतनृत्तैः कियन्तम् अपि कालं नीत्वा वेदं पठेत् ॥ १.३२८ ॥

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च ॥ १.३२९ ॥
शास्त्राणि चिन्तयेद् बुद्ध्वा सर्वकर्तव्यतास् तथा ।

तूर्यघोषेण वीणावेणुमृदङ्गादिनादेन स्वापार्थं विशेत् । तूर्यघोषेणैव प्रतिबुध्येत । ब्राह्मे मुहूर्ते बुद्ध्वा शास्त्राणि श्रुतिस्मृतिवचांसि तदर्थावगमोपायांश् च निगमनिरुक्तादीन् सर्वाणि कार्याणि चिन्तयेत् ॥ १.३२९ ॥

प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरम् ॥ १.३३० ॥
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ।
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गाः काञ्चनं महीम् ॥ १.३३१ ॥
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ।

संध्याम् उपास्य रहसि स्थित्वा वणिग्वैद्यपरिव्राजकबौद्धदिगम्बरादिवेशधारिणो निगूढान् परचेष्टावेदिनश् चारान् स्वेषु स्वकीयेषु सामन्तादिषु चान्येषु चामित्रादिषु राजसु सादरं यथा भवति तथा प्रेषयेत् । तत ऋत्विगादिभिर् आयुरारोग्यविजयैश्वर्यादिविषयाभिर् आशीर्भिर् अभिनन्दितो ज्योतिर्विदो वैद्यांश् चागतान् दृष्ट्वा तदधीनं च कार्यं तैः सह विचार्य गाः काञ्चनं महीं नैवेशिकानि च श्रोत्रियेभ्यो दद्यात् । विवाहोपकरणं गृहोपकरणं वा नैवेशिकम् । श्रोत्रियाणाम् इति षष्ठी चतुर्थ्यर्थे ॥ १.३३०, ३३१ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु ॥ १.३३२ ॥
स्याद् राजा भृत्यवर्गे च प्रजासु च यथा पिता ।

ब्राह्मणान् स्निग्धाञ् शत्रून् प्रति यथासंख्यं क्षमाम् आर्जवं क्रोधं च कुर्यात् । भृत्यान् प्रजाश् च पितृवत् पालयेत् ॥ १.३३२ ॥

[५८४]

प्रजापालनफलम् आह

पुण्यषड्भागम् आदत्ते न्यायेन परिपालयन् ॥ १.३३३ ॥
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ।

राज्ञा न्यायेन शास्त्रोक्तप्रकारेण पाल्यमानाः प्रजा यत् पुण्यं कुर्वन्ति तत् षष्ठांशसंमितं राजा पुण्यं लभते सर्वेभ्यो ऽपि दानेभ्यः प्रजानां परिपालनम् अभयदानात्मकम् अधिकं यस्मात् तस्माद् उपपन्नः पुण्यषड्भागलाभः । एवं प्रजापालनं च धनप्राप्तौ हेतुर् यथा ब्राह्मणस्य प्रतिग्रहादिः ॥ १.३३३ ॥

किं च

चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ॥ ३३४ ॥
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ।

चाटादिभ्यो दुःखकारिभ्यः प्रजा रक्षेत् । पूर्वश्लोकैः स्वयं न पीडयेद् इत्य् अर्थाद् उक्तम् । अत्र तु यथा परो न पीडयेत् तथा कुर्याद् इत्य् उच्यते । चाटः पिशुनः । तस्करः प्रसिद्धः । दुर्वृत्तः परदारहारकादिः । महासाहसिको मनुष्यमारणबन्दिग्रहादिकारी । आदिशब्देन कूटमानकूटसुवर्णादिकारिणो लक्ष्यन्ते । कायस्थाः कराधिकृताः ॥ १.३३४ ॥

प्रजानाम् रक्षणे दोषगौरवम् आह ।

अरक्ष्यमाणाः कुर्वन्ति यत् किंचित् किल्बिषं प्रजाः ॥ १.३३५ ॥
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ।

अरक्ष्यमाणा नृपेणापाल्यमाना अधर्माद् अनिवार्यमाणाः प्रजाश् चौर्यपारदार्यादिकं यत् पापं कुर्वन्ति तस्मात् पापान् नृपतेर् अर्धं भवति । नृपतिर् अर्धं गृह्णातीत्य् अर्थः । यस्माद् असौ तासां पालनार्थं करान् आदत्ते । अत्रापि पापार्धसंमितं पापं राज्ञो भवतीति मन्तव्यम् । न ह्य् अन्यकृतम् अदृष्टम् अन्यस्य भवति ॥ १.३३५ ॥

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ॥ १.३३६ ॥
साधून् संमानयेद् राजा विपरीतांस् तु घातयेत् ।
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ॥ १.३३७ ॥
सदानमानसत्काराञ् श्रोत्रियान् वासयेत् सदा ।

[५८५]

ये राष्ट्रे करादानाय प्रजापालनाय चाधिकृता नियुक्तास् तेषां विचेष्टितं विविधं व्यापारजातं चारवचनेभ्यो ऽवधार्य साधून् यथोक्तकारिणो दानादिना संमानयेत् । विपरीतान् असाधून् घातयेद् यथादोषं दण्डयेत् । उत्कोचजीवनशीलान् द्रव्यहीनान् कृत्वा देशान् निर्वासयेत् । कार्यार्थं कार्यिनो धनादानम् उत्कोचः । श्रोत्रियान् दानमानसत्कारयुक्तान् कृत्वा सर्वदा वासयेत् । मानः पूजासत्कारः साधुत्वख्यापको व्यापारः ॥ १.३३६, ३३७ ॥

अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिरक्षति ॥ १.३३८ ॥
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ।

अन्यायेन प्रतिषिद्धमार्गेण स्वराष्ट्राद् धनम् आदाय यो राजा कोशं धनसंचयैर् वर्धयति सो ऽचिराद् व्यपेतलक्ष्मीकः सबान्धवो विनश्यति ॥ १.३३८ ॥

प्रजापीडनसंतापात् समुद्भूतो हुताशनः ॥ १.३३९ ॥
राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ।

प्रजानां पीडनाद् अन्यायेन धनादानाद् यः संतापो दुःखातिशयस् तस्माद् धुताशन इव दुःखहेतुर् अधर्मराशिः समुद्भूतो राज्ञः श्रीप्रभृतीन्य् अदग्ध्वा प्रध्वंसम् अनीत्वा न निवर्तते न विरमति ॥ १.३३९ ॥

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने ॥ १.३४० ॥
तम् एव कृच्छ्रम् आप्नोति परराष्ट्रं वशं नयन् ।

निगदव्याख्यातम् एतत् ॥ १.३४० ॥

परराष्ट्रविषये विशेषम् आह ।

किं तु यस्मिन् य आचारो व्यवहारः कुलस्थितिः ॥ १.३४१ ॥
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ।

यस्मिन् परराष्ट्रे य आचारो होलाकादिर् यश् च व्यवहारो नाणकादिनिबन्धनो या च कुलस्थितिर् एतावद् धनं राज्ञे ऽनेन कुलेन देयम् इत्य् एवमाइरूपा स राष्ट्रो वशम् उपागतस् तेनैवाचारादिना युक्तः परिपालनीयः ॥ १.३४१ ॥

मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम् ॥ १.३४२ ॥
कुर्याद् यथास्य न विदुः कर्मणाम् आ फलोदयात् ।

[५८६]

कर्मणां मन्त्रतो ऽनुष्ठेयतया निश्चितानाम् आ मन्त्रफलोदयात् प्राक्तनकर्मानुष्ठानात् परे यथा मन्त्रं न विदुस् तथा तं सुरक्षितं कुर्यात् । सुरक्षितमन्त्रमूलत्वाद् राज्यस्य ॥ १.३४२ ॥

अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः ॥ १.३४३ ॥
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ।

अनन्तरैकान्तरद्व्यन्तरा राजानो यथाक्रमम् अरिर् मित्रम् उदासीनश् चतसृषु दिक्षु विज्ञेयाः । एतद् द्वादशराजकं मण्डलं वक्ष्यमाणस्वरूपैः सामादिभिर् उपायैः साधयितुं चिन्तनीयम् । तत्र हीनो दण्डेन समः साम्नेषदधिको दानेन ततो ऽप्य् अधिको भेदेन साध्याः । अथ वा शत्रुं दण्डेन । मित्रं साम्ना । उदासीनं दानेन । सर्वे ऽपि भेदेन साध्याः ॥ १.३४३ ॥

उपायाः साम दानं च भेदो दण्डस् तथैव च ॥ १.३४४ ॥
सम्यक् प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ।

उक्तानाम् अरिप्रभृतीनां वशीकारोपायाः सामादयश् चत्वारो वेदितव्याः । ते सम्यग् यथावत् प्रयुक्ताः सिध्येयुः कार्यसिद्धिसमर्थाः स्युर् इत्य् अर्थः । एषां दण्डो गत्यन्तराभावे गतिः । उपायान्तराभावे दण्डो ऽभ्युपाय इत्य् अर्थः । दानं प्रसिद्धम् । भेदः स्वामिभृत्यानां विमतीकरणम् । दण्डो वित्तस्य शरीरस्य वा पीडनम् ॥ १.३४४ ॥

संधिं च विग्रहं यानम् आसनं संश्रयं तथा ॥ १.३४५ ॥
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ।

संधिप्रभृतीन् यथान्यायं यथाविषयं षड्गुणान् परिकल्पयेत् प्रयुञ्जीत । संधिर् नावाभ्याम् अन्योन्यम् अपकर्तव्यम् इति व्यवस्थापरिग्रहः, विग्रहो वैरम्, यानं यात्रा, आसनम् उपेक्षणम्, संश्रयः परपीडितस्य प्रबलराजान्तराश्रयणम्, द्वैधीभावः स्वबलस्य द्विधाकरणम् ॥ १.३४५ ॥

यात्राकालम् आह

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ॥ १.३४६ ॥
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ।

[५८७]

यदा परस्य शत्रो राष्ट्रं सस्यैर् अन्यैश् च हिरण्यादिगुणैर् उपेतं स्याच् छत्रुश् च वाहनादिहीनः स्वयं च हृष्टगजाश्वादिर् हृष्टपुरुषश् च तदा परराष्ट्रं व्रजेत् ॥ १.३४६ ॥

न च यात्राया अनियतफलत्वेन पुरुषेण प्रवर्तितव्यम् इत्य् अत्र हेतुम् आह ।

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता ॥ १.३४७ ॥
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदैहिकम् ।

दैवे पुरुषकारे च सति कर्मणः कर्मफलस्य सिद्धिर् व्यवस्थिता नियता सत्य् अपि पुरुषकारे दैवाभावे न फलं सिध्यति । न च प्राक् प्रवृत्तेर् दैवाभावः शक्यः परिच्छेत्तुम् । अतो ऽर्थसंशयाद् यात्रादौ प्रवृत्तिर् उपपद्यत इत्य् अभिप्रायः । तत्र दैवं नाम पूर्वदेहप्रभवं पौरुषं पुरुषस्य व्यापारः प्रयत्नाख्यो ऽपूर्वपर्यन्तः । तत्र पौर्वदैहिकम् इति बाहुल्याभिप्रायम् । कारीर्यादीनाम् अनुष्ठाने फलोपभोगे च देहैक्यात् ॥ १.३४७ ॥

एवं तर्हि पुरुषकारापेक्षणीयं दैवम् एवास्तु फलसाधकं किं पुरुषकारेणेत्य् अत आह ।

केचिद् दैवाद् धठात् केचित् केचित् पुरुषकारतः ॥ १.३४८ ॥
सिध्यन्त्य् अर्था मनुष्याणां तेषां योनिस् तु पौरुषम् ।

वृष्टिमहापातविद्युत्पातादयो मनुष्यादीनां प्राणिनाम् उपकारका अपकारका वा दैवाद् भवन्ति । हठात् परकीयपुरुषकारात् केचित् । यथानिच्छन्तम् अपि सुतं माता पयः पाययति पिताध्यापयति व्याघ्रः सर्पो वा देहिनो व्यापादयति । केचित् पुनर् अर्थाः स्वकीयाद् एव यत्नात् सिध्यन्ति । यथाग्निहोत्रादयो हिंसास्तेयादयश् च । तेषां सर्वेषां पौरुषं प्रयत्नो योनिः कारणम् । केषुचिद् अन्वयव्यतिरेकाभ्याम् एव प्रयत्नस्य कारणत्वम् अवगम्यते । येषां तु विद्युत्पातादिकारणतया प्रयत्नो न प्रमाणान्तराद् अवगम्यते तेषां वेदाद् एव तदवगतिः । कारीर्यादिप्रयत्नो वृष्टिहेतुतया वचनसिद्ध एव । विद्युत्पातादयस् तु दुःखहेतुत्वेनाधर्मप्रयत्नजन्यतया सामान्यतः शास्त्राद् एवावगम्यन्ते । तस्माद् यात्रादौ यतितव्यम् एव ॥ १.३४८ ॥

[५८८]

इदानीं दैवपुरुषकारयोर् अन्योन्यसापेक्षताम् आह ।

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् ॥ १.३४९ ॥
एवं पुरुषकारेण विना दैवं न सिध्यति ।

यथा रथगतिकारणत्वेन प्रमितम् अपि रथादिचक्रम् एकम् एकाकि चक्रान्तरविधुरं रथं न गमयति एवं सुखदुःखानुभावात्मककार्यजननतया प्रमितम् अपि दैवं न पुरुषकारेण सहकारिणा विना कार्यपर्यन्तेन रूपेण सिध्यति । विद्युन्निपाताद्य् अपि साधयतो दैवस्य देशविशेषे पुरुषस्यावस्थानापादकं पौरुषं भवत्य् एव सहकारि । तस्मात् फलार्थिना न केवलं दैवपरेण भवितव्यम् ॥ १.३४९ ॥

सामादीनाम् उपायानां परस्परविरुद्धानेकफलोदयप्रसङ्गे यद् ग्राह्यं तद् आह ।

हिरण्यभूमिलाभेषु मित्रलब्धिर् वरा यतः ॥ १.३५० ॥
अतो यतेत तत्प्राप्तौ रक्षेत् सत्यं समाहितः ।

सामादीन् उपायान् प्रत्य् उपेयतयावस्थितानां हिरण्यभूमिमित्रलाभानां मध्ये मित्रलब्धिर् वरा श्रेष्ठा, अतो मित्रप्राप्तिविषयो यत्नः कार्यः । मैत्रीकरणकाले कृतस्य सत्यस्यारक्षणे मित्रम् अप्य् अमित्रं भवेत् । अतः सत्यरक्षणे समाधिर् विधेयः । एतच् च सामादिसाध्याद् धिरण्यभूमिलाभाद् अधिकलाभहेतोर् मित्रस्य प्राप्तौ वेदितव्यम् । अन्यदा तु हिरण्यलाभ एव बलवान् ॥ १.३५० ॥

राज्याङ्गान्य् आह

स्वाम्यमात्यौ जनो(ना) दुर्गः कोशो दण्डस् तथैव च ॥ १.३५१ ॥
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ।

राज्ञः कर्म जनपदपालनं राज्यं तत् सप्ताङ्गम् । सप्तास्याङ्गानि भवन्ति । कानि तानीत्य् अपेक्षिते स्वामीत्यादिना मित्राणीत्यन्तेन तद्विशेषो निर्दिष्टः । कुतस् तेषाम् अङ्गत्वम् इत्य् आकाङ्क्षित उक्तम् एताः प्रकृतय इति । यतः कार्यम् उत्पद्यते ऽवतिष्ठते नियमेन भवति सा प्रकृतिः । यथा हिरण्यं कुण्डलस्य । राज्यं च विना स्वाम्यादिभिर् नोत्पद्यत उत्पन्नम् अपि न तैर् विना चिरकालम् अनुवर्तते । ततो भवन्ति स्वाम्यादयो राज्याङ्गानि । स्वामी महोत्साहत्वादिगुणयुक्तः पुरुषविशेषः । [५८९] अमात्यामन्त्रिप्रभृतयः, जनाः पालनीयाः प्रजाः, दुर्गं प्रसिद्धम्, संचितं वसु, दण्डश् चमूः, मित्राण्य् उपकारका राजानः ॥ १.३५१ ॥

प्राप्तराज्येन यत् कार्यं तद् आह ।

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ॥ १.३५२ ॥
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ।

तद् राज्यं कार्यतयावाप्य राज्याधिकारं लब्ध्वेति यावत् । राजा दण्डं धनशरीरपीडनविषयं दुर्वृत्तेषु शास्त्रातिक्रमकारिषु निपातयेत् प्रयुञ्जीत । न च दण्डं प्रयुञ्जानस्य राज्ञः प्रत्यवायः शङ्कनीयः । यतो भगवता ब्रह्मणा विधिना धर्म एव दण्डात्मना निर्मितो विहितः । राजानं प्रति विहितत्वाद् दण्डो नाधर्मायेत्य् अर्थः ॥ १.३५२ ॥

स नेतुं न्यायतः शक्यो ऽलुब्धेन कृतबुद्धिना ॥ १.३५३ ॥
सत्यसंधेन शुचिना सुसहायेन धीमता ।

अलुब्धेन न्यायधनव्ययकारिणा कृतबुद्धिना वृद्धसेवाविद्यागमाभ्यां लब्धप्रज्ञेन सत्यसंधेन सत्यसंकल्पेन शुचिना शुद्धोपधेन बाह्याभ्यन्त्रशौचवता च सुसहायेन शास्त्रोक्तगुणगणयुक्तमन्त्रिप्रभृतिसहायवता धीमताधिगतार्थानुचिन्तनवता स दण्डो न्यायतो यथाशास्त्रं नेतुं प्रणेतुं शक्यो भवति न पुनर् अन्येन ॥ १.३५३ ॥

सम्यग् दण्डं प्रणयतो ऽभ्युदयो ऽन्यथा प्रत्यवाय इत्य् आह ।

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ॥ १.३५८ ॥
जगद् आनन्दयेत् सर्वम् अन्यथा तु प्रकोपयेत् ।

शास्त्रानतिक्रमेण प्रयुक्तो दण्डो देवादिसहितं जगद् आनन्दयेत् । ततश् च स्वस्य सुखयोगः । असम्यक्प्रणयने तु तद् एव प्रकोपयेत् । ततश् चात्मनो दुःखयोगः ॥ १.३५४ ॥

अपरम् अपि फलम् आह ।

अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् ॥ १.३५५ ॥
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ।

[५९०]

दण्डस्यासम्यक्प्रणयनं प्रागनुष्ठितधर्मवशाद् उपार्जितस्य स्वर्गस्य कीर्तेर् अस्य च लोकस्य विनाशकं भवति । सम्यक्प्रण्यनं तु धर्मान्तरार्जितं स्वर्गं कीर्तिं जयं च विघ्ननिवारणद्वारेणावहति । तस्मात् सम्यग् एव दण्डः प्रणेयः ॥ १.३५५ ॥

दण्ड्यम् आह

अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा ॥ १.३५६ ॥
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ।

स्वकीयवर्णाश्रमादिधर्मम् अकुर्वन् दण्ड्यः । न तस्य संबन्धिविशेषाद् गुरुत्वाद् वा दण्डनीयत्वनिवृत्तिः । अर्घ्यः पूज्यः । प्रसिद्धम् अन्यत् । यत् तु स्मृत्यन्तरम्- “अदण्ड्यौ मातापितरौ । स्नातकपुरोहितपरिव्राजकवानप्रस्थश्रुतशीलशौचाचारवन्तस् ते हि धर्माधिकारिणः” इति, तत् स्वल्पापराधविषयम् । न सर्वात्मना दण्डाभावाभिप्रायम् । अत एव दक्षः ।

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपादेनाङ्कयित्वा तं राजा शीघ्रं विवासयेत् ॥ १.३५६ ॥

न केवलं दण्डनीयान् दण्डयतो राज्ञः प्रत्यवायाभावः किं त्व् अभ्युदयविशेषो ऽपि भवतीत्य् आह

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ॥ १.३५७ ॥
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ।

धिग्दण्डादिभिर् दण्डनीयान् दण्डयता वधार्हंश् च घातयता सम्यग् आप्ता लब्धा वरा दक्षिणा यैस् तैः क्रुतुभिर् इष्टं स्यात् । न चैतावता दण्डस्य काम्यत्वम् आशङ्कनीयम् । यतश् च तदप्रणयने प्रायश्चित्तम् आह वसिष्ठः- “दण्ड्योत्सर्गे राजैकरात्रम् उअपवसेत् त्रिरात्रं पुरोहितः कृच्छ्रम् अदण्ड्यदण्डने पुरोहितस् त्रिरात्रं राजा” इति । तथा ।

एनो राजानम् ऋच्छत्य् उत्सृजन्तं वै सकिल्बिषम् ।
तं चेद् घातयते राजा घ्नन् धर्मेण न दुष्यति ॥ १.३५७ ॥
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ॥ १.३५८ ॥
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ।

[५९१]

एवं दण्ड्यदण्डनस्य क्रतुसमानफलत्वं संचिन्त्य सम्यक् परिभाव्य दण्ड्यादण्ड्यविवेकाय वक्ष्यमाणलक्षणैः सभ्यैः परिवृतो नृपतिर् व्यवहारान् विवादान् पृथक्कार्यान्तरासंकरेण प्रत्यहं पश्येत् परीक्षेत ॥ १.३५८ ॥

कुलानि जातीः श्रेणीश् च गणाञ् जनपदान् अपि ॥ १.३५९ ॥
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ।

कुलानि कुटुम्बादीनि, जातीर् ब्राह्मणाद्याः, श्रेणीः सुवर्णकाराद्याः, गणान् मठब्राह्मणादीञ् जनपदान् राष्ट्राणि, स्वधर्माद् अपेतानि विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । पूर्वत्रैकैकस्य दण्डो विहितो ऽत्र तु बहूनाम् इत्य् अपुनर् उक्ता ॥ १.३५९ ॥

दण्डोपयोगि कृष्णलादिनिरूपणम् आह

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ॥ १.३६० ॥
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ।

गवाक्षप्रविष्टादित्यकिरणेषु यत् सुसूक्ष्मं वैशेषिकोक्तनीत्या द्व्यणुकत्रयारब्धं दृश्यते रजस् तत् त्रसरेणुर् इति मन्वादिभिः स्मृतम् । ते ऽष्टौ त्रसरेणवो लिक्षैका, तास् तिस्रो राजसर्षप उच्यते ॥ १.३६० ॥

गौरस् तु ते त्रयः षट् ते यवो मध्यस् त्रयस् तु ते ॥ १.३६१ ॥
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥

ते राजसर्षपास् त्रय एको गौरसर्षपः । ते च षट्संख्याका एको मध्यमो यवः, त्रयो यवा एकः कृष्णलः, एवं कृष्णलाः पञ्च माषः, षोडश माषा एकः सुवर्णः ॥ १.३६१ ॥

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ॥ १.३६२ ॥

उक्ताः सुवराश् चत्वारः पञ्च वापि पलं प्रकीर्तितम् । देशानुसारेण पलव्यवस्था कर्तव्या ॥ १.३६२ ॥

कनकपरिमाणम् उक्तम् अधुना रजतपरिमाणम् आह

द्वे कृष्णले रौप्यमाषो धरणं षोडशैव ते ।
शतमानं तु दशभिर् धरणैः पलम् एव तु ॥ १.३६३ ॥

[५९२]

निष्कः सुवर्णाश् चत्वारः

कृष्णलद्वयपरिमितो रौप्यस्य माषो भवति । ते षोडश माषा रौप्यस्य धरणम् । दशभिर् धरणैः शतमानसंज्ञकं रौप्यस्य परिमाणम्, तद् एव च पलम् । चत्वारः सुवर्णा रौप्यस्य निष्कः ॥ १.३६३ ॥

ताम्रस्य परिमाणम् आह

कार्षिकस् ताम्रिकः पणः ।

सुवर्णस्य पलस्य चतुर्थांशः कर्षस् तेन संमितः कार्षिकः स ताम्रिकः पणो भवति । ताम्रस्यायं ताम्रिकः ॥

साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः ॥ १.३६४ ॥
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ।

अशीत्यधिकसहस्रसंख्याकाः पणा उत्तमसाहसाख्यो दण्डः । चत्वारिंशदधिकाः पञ्चशतसंख्याकपाणात्मको मध्यमसाहसाख्यो दण्डः । सप्तत्यधिकशतद्वयसंख्याकपणात्मको ऽधमसाहसाख्यो दण्डः, स एव शास्त्रान्तरे प्रथमसाहसाख्य इत्य् उच्यते । यत् तु मनुनोक्तम्,

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥

इति, तद् अल्पापराधविषयम् ॥ १.३६४ ॥

दिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा ॥ १.३६५ ॥
योज्या व्यस्ताः समस्ता वाप्य् अपराधवशाद् इमे ।

धिग्दण्डो धिक् त्वां कापुरुषम् इत्यादि । वाग्दण्डः सर्वस्वं ते हरामि त्वां देशान् निर्वासयामीत्यादि परुषभाषणम् । धनदण्डः कृष्णलापहरणादिसर्वहरणान्तः । वधदण्डः शरीरताडनम्, प्राणच्छेदो वा । एते दण्डा अपराधानुसारेण व्यस्ता एकशः समस्ता द्वौ त्रयश् चत्वारो वा प्रयोज्याः ॥ १.३६५ ॥

ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६६ ॥

इति राजधर्मप्रकरणम् ॥ १२ ॥

[५९३]

अपराधादि ज्ञात्वा दण्डं दण्ड्येषु पातयेत् प्रयुञ्जीत । अत्र च पूर्ववाक्यप्राप्तत्वाद् अपराधज्ञानम् अनूद्यते । देशादिज्ञानं तु विधीयते । क्वचिद् विदेशे स्वल्पेनैव शीतेनातपेन वा स्वल्पकालीनेन भोजननिवारणेनाधिका पीडा भवति । क्वचित् तु महतापि न तावती । तथा काले शरदादौ । तथा दण्डनीयबलं विदित्वा ताडनादिदण्डो विधेयः । तथा वयःकर्मवित्तानि । अन्यथा तत्स्वरूपनाशो ऽग्निहोत्रादिकर्मलोपो वित्ताप्राप्तिश् च स्यात् । देशादि विदित्वा तु दण्डप्रणयने योगक्षेमाव् उपपद्येते इति । एतत् सर्वं क्षत्रियस्य राज्यं कुर्वतः प्रविहितम् । यदा पुनर् अक्षत्रियः क्षत्रियकार्यं कुर्यात् तदानेनाप्य् एतत् सर्वम् अनुष्ठेयम्, “तत्कार्यापत्त्या तद्धर्मलाभः” इति न्यायात्, करादानप्रयुक्तत्वाच् च प्रजापालनस्य । सर्वो हि धनं प्रयच्छन्न् आत्मसमवायि प्रयोजनम् उद्दिशति । न च करदानस्य स्वगुप्तेर् अन्यत् प्रयोजनम् अस्ति । तस्मात् करम् आददानेन प्रजापालनं विधेयम् इति सिद्धम् ॥ १.३६६ ॥

इति श्रीविध्याधरवंशप्रभवश्रीशिलाहारनरेन्द्रजीमूतवाहनान्वयप्रसूत-

श्रीमदप्रादित्यदेवविरचिते याज्ञवल्कीयधर्मशास्त्रनिबन्धे ऽपरार्के

राजनीतिप्रकरणं समाप्तम् ॥ १२ ॥

समाप्तश् चायम् आचाराध्यायः प्रथमः ॥